२१ पवित्र-विधानम्

अथ पवित्रविधानं नाम एकविंशः पटलः

नारदः –

अनुष्ठानलोपे निष्कृतिप्रकारप्रश्नः

विश्वास-प्रस्तुतिः

नियमस्थस्य भगवन्साधकस्याभियोगिनः ।
मोहाद्वा देशभङ्गाच्च ज्वरादिव्याधिपीडितात् ॥ १ ॥

मूलम्

अनुष्ठानमसम्पन्नं कदाचित्कर्मदोषतः ।
किं कार्यं तेन वै नाथ किं वा तस्य भवेद्वद ॥ २ ॥

श्रीभगवान् –

पवित्रारोपणस्य निष्कृतित्वविधानम्

विश्वास-प्रस्तुतिः

क्रियया जपहोमेन कृतेन ——————— ।
क्रियाजपार्चनादीनां लुप्तानां साधकस्य च ॥ ३ ॥

{{२३०}}

पवित्रारोपणाद्विप्र ऋते नान्या भवेद्गतिः ।

नारदः –

पवित्रारोपणविधानप्रकारप्रश्नः

पवित्रारोपणं विष्णोः श्रोतुमिच्छामि तत्त्वतः ॥ ४ ॥

येनाहं कृतकृत्यः स्यां क्रियासक्तः सदैव हि ।

श्रीभगवान् –

पवित्रारोपणकालविधानम्

कर्कटस्थे द्विजादित्ये सिह्मकन्यातुलास्थिते ॥ ५ ॥

विश्वास-प्रस्तुतिः

द्वादश्यां शुक्लपक्षे तु राकायां यत्र रोचते ।
जपहोमक्रियालोपशान्तये विधिपूर्वकम् ॥ ६ ॥

यागं पवित्रकोद्देशे कृत्वा पूर्वोदितश्च(तं च ?)यः ।

सूत्रादिद्रव्याणामधिवासकालविधानम्

दशम्यामधिवासं तु द्रव्याणां विधिपूर्वकम् ॥ ७ ॥

कुर्याच्चैव ससूत्राणां

सूत्राणां कौशेयत्वादिविकल्पः

			तत्सूत्रं विद्धि पट्टजम् ।  

कार्पासमथ वा क्षौमं श्लक्ष्णं दृढकृत्रिमम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

तस्य शुद्धिं पुरा कृत्वा दहनाप्यायनेन च ।
पञ्चभूतात्मकं ध्यात्वा व्यापकत्वेन तत्पुनः ॥ ९ ॥

अथ सूत्रैः पवित्रनिर्माणविधानम्

विश्वास-प्रस्तुतिः

पुरा तत्त्रिगुणं कृत्वा ततः कुर्याच्चतुर्गुणम् ।
समतां सर्वभावानां द्विजोत्पादयते यतः ॥ १० ॥

अतो न विषमैः कुर्यात्तन्तुभिः सूत्रमेव तत् ।
तेन सूत्रेण विप्रेन्द्र पवित्राण्यारभेत्ततः ॥ ११ ॥

मण्डले प्रतिमन्त्रं समर्पणीयपवित्रसङ्ख्या

विश्वास-प्रस्तुतिः

मूलमन्त्रादिसर्वस्य मन्त्रचक्रस्य नारद ।
त्राणि त्रीण्यथवा द्वे द्वे एकैकं सत्यसम्भवे ॥ १२ ॥

पवित्रकं तु प्रत्येकमनुकल्पेषु नारद ।

{{२३१}}

[तेषां पवित्राणां व्यासमानग्रन्धिसख्यादिविधानम्]

व्यासादर्धसमैः (?) कुर्याद्धाराकारं च तन्तुभिः ॥ १३ ॥

विश्वास-प्रस्तुतिः

शतेनाष्टोत्तरेणाद्यं द्विगुणेन द्वितीयकम् ।
त्रिगुणेन तृतीयं तु व्यासमेवं तु तन्नयेत् ॥ १४ ॥

षट्त्रिंशद्ग्रन्धिकं चाद्यं द्वितीयं द्विगुणं स्मृतम् ।
तृतीयं त्रिगुणं विप्र

प्रवित्रगन्धीनां रञ्जनादिविधानम्

				ग्रन्धिं वै कुङ्कुमेन तु ॥ १५ ॥  
विश्वास-प्रस्तुतिः

रञ्जयेच्चन्दनाद्येन यथा शोभानुरूपतः ।
ग्रन्धियुक्तेन तुल्येन मृदुना सुसितेन तु ॥ १६ ॥

पूरयेद्ग्रन्धयोर्मध्ये शङ्खाकारं यथा भवेत् ।
मण्डले मन्त्रमूर्त्तीनां पूजनार्थं तु नारद ॥ १७ ॥

व्यासमानं तु कथितं पवित्राणां च सर्वदा ।

[बिम्बस्य शिरःप्रभृत्यवयवभेदेन
पवित्राणामाकृतिभेदमानभेदविधानम्]

प्रतिष्ठितस्य बिम्बस्य परादौ(?) धातुजस्य वा ॥ १८ ॥

विश्वास-प्रस्तुतिः

मालाकृतिं च शिरसि यथेच्छग्रन्धिपूरकैः ।
द्वितीयमंसयोर्यावल्लम्बितं जानुमण्डले ॥ १९ ॥

मूर्ध्नः पादावधिर्यावन्त्रितीयमतिविस्तृतम् ।

पीठपवित्रप्रमाणविधानम्

पृथक्पीठस्य वै कुर्यात्स्वप्रमाणेन शोभनम् ॥ २० ॥

प्रतिसराणां व्यासानियमः

विश्वास-प्रस्तुतिः

बिम्बप्रतिसराणां च व्यासश्चानियतः स्मृतः ।
सूत्रमानं च पूर्वोक्तं द्विगुणं सम्भवे सति ॥ २१ ॥

त्रिगुणं वा मुनिश्रेष्ठ आलभेत्पूरयेत्ततः ।
त्र्यङ्गुलान्तरिता देयास्सर्वेषां ग्रन्धयः समाः ॥ २२ ॥

सङ्ख्यानेन विना सम्यङ्मातुलुङ्गोपमाः शुभाः ।

कुम्भादिपवित्रनिर्माणप्रकारविधानम्

कुम्भोत्तमाभ्यामग्रे तु विद्यापीठस्य चैव हि ॥ २३ ॥

{{२३२}}

विश्वास-प्रस्तुतिः

स्रुक्स्रुवाभ्यां च घण्डायामक्षसूत्रे च नारद ।
अर्घ्यपात्रस्य चैककं सूत्रगर्भेर्यथेच्छया ॥ २४ ॥

गुर्वादीनां षण्णां यथाक्रमं पवित्रविधानप्रकारभेदः

विश्वास-प्रस्तुतिः

गुर्वादिसमयज्ञानां यतीनां भावितात्मनाम् ।
कुडुम्बिनां क्रमात्कुर्यात्तन्तुभिर्मुनिसत्तम ॥ २५ ॥

चतुर्विंशतिभिश्चैव सूत्रैः षोडशभिस्तथा ।
ततो द्वादशभिर्ब्रह्मन्नष्टभिस्तदनन्तरम् ॥ २६ ॥

षड्भिस्त्रिभिस्ततो देया ग्रन्धयः सूत्रसङ्ख्यया ।
रञ्जयेत्पूर्वविधिना न कुर्याद्गर्भपूरणम् ॥ २७ ॥

पवित्राधिवासाख्यकर्मविधानम्

(तत्र पवित्रासादन प्रकारः)

विश्वास-प्रस्तुतिः

संस्थाप्य वै दले भाण्डे पलाशपुटकेऽथवा ।
आच्छाद्य वाससा पश्चात्सुसितेनाहतेन तु ॥ २८ ॥

मध्ये तु यागद्रव्याणां तद्भाण्डं विनिवेश्य च ।

नित्यार्चनपूर्वकविशेषयजनविधानम्

स्नात्वा तु पूर्वविधिना कुर्यान्नित्यार्चनं हरेः ॥ २९ ॥

विश्वास-प्रस्तुतिः

ततो विशेषयजनं दीक्षाख्येन क्रमेण तु ।
द्वारयागादिकं कृत्वा सर्वं कलशपूर्वकम् ॥ ३० ॥

संविधानं मुनिश्रेष्ठ हवनेन समन्वितम् ।
एवं हि पूजनं कृत्वा मन्त्रसन्तर्पणं पुरा ॥ ३१ ॥

मुद्राबन्धजपान्तं च दद्यात्पूर्णाहुतिं ततः ।
पुरा यस्मिन्दिने विप्र अतिते वत्सरे कृतः ॥ ३२ ॥

पवित्रकोपसंहारस्तद्दिनादादितः स्मरेत् ।
अर्घ्यपुष्पादिबलिभिः पूजयेत्सर्वमध्वरम् ॥ ३३ ॥

समाचम्य स्मरेत्सर्वं मन्त्रबृन्दं क्रमेण तु ।
पुरा प्रतिष्ठितं बिम्बं स्वयमन्य(कृ)तन्तु वा ॥ ३४ ॥

निर्गत्य स्नापयेद्भक्त्या पूर्वोक्तविधिना ततः ।
{{२३३}}

पूजयित्वा विशेषेण दत्वाऽर्घ्यं पुनरेव च ॥ ३५ ॥

विश्वास-प्रस्तुतिः

संस्मृत्य मूलमन्त्रं तु जपमुद्रासमन्वितम् ।
स्मरेत्कृताकृतं सर्वं पूर्ववद्वासरीयकम् ॥ ३६ ॥

कृत्वा प्रदक्षिणं यायाद्भूयो यागनिकेतनम् ।

चतुःस्थानार्चनविधानम्

स्थलस्थस्य च वै तत्र मन्त्रमूर्तेर्निवेद्य च ॥ ३७ ॥

विश्वास-प्रस्तुतिः

ताम्बूलदन्तकाष्ठं च पञ्चगव्यपुरस्सरम् ।
अग्रतो देवदेवस्य सिह्ममूर्त्तौ तु दक्षिणे ॥ ३८ ॥

प्रदीपं च तथा धूपं दर्पणं हेमसूत्रकम् ।
पश्चिमे कापिले मूर्त्तौ हेमपात्रं तु नारद ॥ ३९ ॥

निवेद्य हविषा पूर्णं वाराहे चोत्तरे ततः ।
माल्यान्यथौषधीस्तोयं क्षीरं माक्षिकमेव च ॥ ४० ॥

फलानि शालिबीजानि त्वन्येषां दन्तधावनम् ।
ताम्बूलेन समायुक्तं ततः प्रतिसरं मुने ॥ ४१ ॥

निवेद्य पात्रतः कृत्वा कुम्भेऽग्नावेवमेव हि ।
बाह्यतः प्रतिमायां च सर्वं प्रतिसरान्तकम् ॥ ४२ ॥

आमन्त्रणम्

विश्वास-प्रस्तुतिः

ततो निमन्त्रयेन्मन्त्रमिष्टं येन क्रमेण तु ।
आमन्त्रितोऽसि देवेश कृतो यागो यथाविधि ॥ ४३ ॥

तमाहरस्व भगवन्सर्वकर्मप्रपूरणम् ।
एवं संश्रावयित्वा तु मनुभेदस्थितं विभुम् ॥ ४४ ॥

सूत्रेण यागसदनवेष्टनम्

विश्वास-प्रस्तुतिः

सर्वं सितेन सूत्रेण त्रिरावृत्तेन चान्तरा ।
सेषुणा यागसदनं वेष्टयेत्तदनन्तरम् ॥ ४५ ॥

पिधाय पात्रैः सुदृढैः पवित्राणि पृथक् पृथक् ।

पूर्वोक्तप्रकारेण प्रासादवेष्टनम्

तथैव वेष्टयेद्विप्र प्रासादं बाह्यतस्ततः ॥ ४६ ॥

भूतबलिः

सम्यग्भूतबलिं दद्यादस्त्रमन्त्रेण नारद ।

पञ्चगव्यप्राशनादिविधानम्

पञ्चगव्यं पुरा पीत्वा भुक्त्वा चान्नं चरुस्थितम् ॥ ४७ ॥

{{२३४}}

विश्वास-प्रस्तुतिः

सञ्चर्व्य दन्तकाष्ठं तु ताम्बूलं वा यथेच्छया ।
आचम्य न्यासपूर्वन्तु सकलीकृत्य विग्रहम् ॥ ४८ ॥

स्थलस्थमुद्धरेन्मन्त्रं कलशे न्यस्य वाऽत्मनि ।

रात्रौ जागरणस्य मण्डलकर्मणः समापनस्य च विधान

रात्रौ जागरणं कुर्यान्मण्डलं च समापयेत् ॥ ४९ ॥

रात्रिक्षये ततः स्नायाद्विभवेनाच्युतं यजेत् ।

[पवित्रारोपणप्रकारविधानम् – तत्र नित्यार्चनपूर्वक
चतुस्स्थानार्चनम्]

नित्यकर्म पुरा कृत्वा कुम्भस्थं तु यजेत्क्रमात् ॥ ५० ॥

विश्वास-प्रस्तुतिः

मण्डलस्थं ततः पश्चादग्निस्थं तदनन्तरम् ।
स्नानपूर्वं तु बिम्बस्थं प्रासादाभ्यन्तरे द्विज ॥ ५१ ॥

प्रथमं कलशस्थस्य पवित्रारोपणप्रकारः

विश्वास-प्रस्तुतिः

प्रविश्य यागसदनं गत्वा कलशसन्निधिम् ।
पूजयित्वा समुद्घाट्य पात्रं प्रातिसरीयकम् ॥ ५२ ॥

अवलोक्य समादाय तस्मिन्ध्यायेद्द्विजाखिलम् ।
संवत्सरं तु यत्कर्म आप्रभातान्निशान्तकम् ॥ ५३ ॥

ध्यानोत्थं निष्कलं सम्यगपवर्गपदं तु यत् ।
संस्मृत्य निष्कलं मन्त्रं शुद्धोच्चारक्रमेण तु ॥ ५४ ॥

मन्त्रं सन्धाय तत्सूत्रं सूत्रे मन्त्रं तथैव च ।
एकीकृत्यात्मना सार्धं दद्याद्वै मन्त्रमूर्धनि ॥ ५५ ॥

समादाय परं सूत्रं तस्मिन्सकलनिष्कलम् ।
ज्ञानकर्मस्वरूपं तु कर्म ध्यायेच्च वत्सरम् ॥ ५६ ॥

स्मृत्वा चोभयरूपं तु मन्त्रं कलशपूजितम् ।
पूर्ववच्चानुसन्धानं कृत्वा दद्यात्पवित्रकम् ॥ ५७ ॥

ततः प्रतिसरं विप्र तृतीयं च समाहरेत् ।
बाह्यं सांवत्सरं कर्म सकलं चाखिलं स्मरेत् ॥ ५८ ॥

पूजयन्तं स्वमात्मानमाधाराच्च परावधिम् ।
लयभोगाधिकाराख्यक्रमेण सकलात्मना ॥ ५९ ॥

मूलम्

पूजयन्तं स्वमात्मानमाधाराच्च परावधिम् ।
लयभोगाधिकाराख्यक्रमेण सकलात्मना ॥ ५९ ॥

विश्वास-प्रस्तुतिः

सकलं मन्त्रनाथं तु लयभोगादिविग्रहम् ।
स्मृत्वा कृत्वा च सन्धानं दद्यात्प्रतिसरं ततः ॥ ६० ॥

{{२३५}}

विश्वास-प्रस्तुतिः

अर्घ्यैः पुष्पैस्तथा माल्यैः धूपान्तैश्च विलेपनैः ।
अन्तरान्तरयोगेन पूजां कुर्यात्त्रिधा तथा ॥ ६१ ॥

मूलमन्त्रस्य विप्रेन्द्र गायत्र्योपहृतात्मना ।
दत्वैवं कलशस्थस्य पुत्रा विप्र पवित्रकम् ॥ ६२ ॥

मण्डलस्थस्य पवित्रारोपणम्

विश्वास-प्रस्तुतिः

अनेन विधिना दद्यान्मण्डलस्थस्य वै पुरा ।
पवित्रकत्रयं शुभ्रं भोगस्थाने च नारद ॥ ६३ ॥

दद्यात्समस्तमन्त्राणां त्रीण्येकं वा यथेच्छया ।

अग्निस्थस्य ततो बिम्बस्थस्य च पवित्रारोपणम्

पूजयित्वा ततोऽग्निस्थं विभुं बिम्बगतं ततः ॥ ६४ ॥

कलशोक्तप्रयोगेण भूषणैस्तु त्रिभिस्त्रिभिः ।

अग्निस्थस्य समर्पणे विशेषनिरुपणम्

अग्नौ निवेदयेद्विप्र भूषणं न तु होमयेत् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

यस्मात्सन्यासमूर्ध्वे तु विहितं भूषणस्य च ।
नाहर्तुं युज्यते दग्धुं दोषमाहरणं विना ॥ ६६ ॥

पवित्रकावधेरूर्ध्वं साधकानां तु नारद ।

महामन्त्रजपविधानम्

पश्चात्पद्मासनं बध्वा देवस्याभिमुखस्थितः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

सकृज्जपं महामन्त्रं सर्वकर्मप्रवर्धनम् ।
नाशनं सामयानां च दोषाणां स्मरणादपि ॥ ६८ ॥

अथ विज्ञापनम्

विश्वास-प्रस्तुतिः

ततः संश्रावयेद्देवं त्रिस्थानस्थं क्रमेण तु ।
कामतोऽकामतो वाऽपि न कृतं नियतार्चनम् ॥ ६९ ॥

केनचिद्विघ्नदोषेण मया यत्परमेश्वर ।
तेन मे मनसाऽतीव सन्तापो दहनात्मकः ॥ ७० ॥

यतः समयदोषेण बाधितोऽस्मि जनार्दन ।
त्वयोद्दिष्टं पुरा नाथ भक्तानां हितकाम्यया ॥ ७१ ॥

दोषविध्वंसकृच्छुद्धं पवित्रं तत्कृतं मया ।
प्रसीद मे कुरु त्राणं जहि कोपं हि लोपजम् ॥ ७२ ॥

{{२३६}}

विश्वास-प्रस्तुतिः

निमज्जतो भवाम्भोधौ समयप्रच्युतस्य च ।
नमो नमस्ते मन्त्रात्मन् प्रसीद परमेश्वर ॥ ७३ ॥

पाहि पाहि त्रिलोकेश केशवार्त्तिविनाशन ।
त्वत्प्रसादाच्च मे मास्तु दोषः समयसञ्ज्ञि(श्रि ?)तः ॥ ७४ ॥

अद्यास्तु कर्मसम्पत्तिर्नित्यनैमित्तिकी प्रभो ।
श्रुत्वैवमादरात्तस्य संसारार्तस्य मन्त्रराट् ॥ ७५ ॥

पूर्णभावं नयच्छ्रीघ्रं हन्ति दोषांश्च सामयान् ।

अथ गुरोः पूजनम्

एवं कृत्वा ततो भक्त्या पूजयेद्विष्णुवद्गुरुम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

दक्षिणाभिर्यथाशक्ति विविधैः पानभोजनैः ।
प्राप्ता नियन्त्रिताश्चान्ये भगवद्भाविनस्तु वै ॥ ७७ ॥

पवित्रोत्सवान्ते कृतस्य यत्यादिभ्यो दानस्य फलाधिक्यकथनम्

विश्वास-प्रस्तुतिः

पञ्च वैखानसान्ताश्च यतिपूर्वाश्च नारद ।
आप्तादिपञ्चभेदेन चत्वारो ब्राह्मणादयः ॥ ७८ ॥

पञ्च योगरताद्यास्तु शास्त्रसन्धारणान्तिमाः ।
असङ्ख्यं यतये दत्तं वैष्णवाय प्रकीर्तितम् ॥ ७९ ॥

विद्धि कोटिगुणञ्चैव दत्तमेकान्तिने तु यत् ।
तस्माद्दशशतांशोनं दत्तं यच्छिखिने तु वै ॥ ८० ॥

सात्वताय शतांशोनं दशांशोनं तु नारद ।
विद्धि वैखानसे दत्तं दानं प्रतिसरावधौ ॥ ८१ ॥

चतुर्विधे द्विजाप्ते तु एवमेवमुदाहृतम् ।
आकोटेर्दानह्रासस्तु अनाप्तानामतः शृणु ॥ ८२ ॥

अनाप्ते लक्षगुणितं ब्राह्मणे परिकीर्तितम् ।
एवमेव तु दत्तं च बुहुशो बहुभोजनन् ॥ ८३ ॥

यो निरस्यति विप्रेन्द्र साधको वाऽप्यसाधकः ।
तस्याशु भवते सिद्धिरिह लोके परत्र च (?) ॥ ८४ ॥

इत्येतत्साधकानां च क्रियासम्पूरणं मया ।
कथितं मुनिशार्दूल तत्सहस्रशतांशतः ॥ ८५ ॥

शतांशोनं तदंशेन दत्तमेव नृपादितः ।
{{२३७}}

लक्षार्धत्रिगुणं दानं ततस्तामेति नारद ॥ ८६ ॥

विश्वास-प्रस्तुतिः

अञ्जलीयकविप्राय यद्दत्तं विधिपूर्वकम् ।
सहस्रांशशतांशेन ——————ह्रसेच्च तत् ॥ ८७ ॥

नृपादिशूद्रपर्यन्तं वक्ष्ये त्वारम्भिणामतः ।
लक्षपादगुणं दानं विप्रायारम्भिणे मतम् ॥ ८८ ॥

सहस्रांशाद्दशांशोनं विद्धि क्षत्रादिपूर्वकम् ।
अथायुतगुणं दानं ब्राह्मणे सम्प्रवर्तिनि ॥ ८९ ॥

नृपे सहस्रगुणितं वाऽपि तच्छतसञ्ज्ञकम् ।
अतो दशगुणं विद्धि योगज्ञादिष्वतः शृणु ॥ ९० ॥

कोटिकोटिगुणं दानं भगवद्योगवेदिनि ।
विप्रे वेदविदां श्रेष्ठे तत्सहस्रांशवर्जितम् ॥ ९१ ॥

क्षत्रिये वैश्यजातौ तु शतांशोनं तदेव तु ।
दशांशहीनं तच्छूद्रे भगवद्योगसेविनि ॥ ९२ ॥

कोटिलक्षगुणं चैव जपनिष्ठे द्विजोत्तमे ।
सहस्रांशशतांशोनं दशांशोनं नृपादिषु ॥ ९३ ॥

कोटिसाहस्रगुणितं ब्राह्मणे विष्णुतापसे ।
प्राग्वदूनं सहस्रादेस्तत्क्षत्रादिषु नारद ॥ ९४ ॥

नारायणागमज्ञे तु दानं द्विजवरे तु यत् ।
दत्तं काले पवित्रे तु कोटीशतगुणं स्मृतम् ॥ ९५ ॥

राजन्यवैश्यशूद्राणां पूर्ववत्कल्पयेच्च तत् ।
धत्ता(धृता ?)गमानां यो विप्रो वैष्णवानां च भक्तितः ॥ ९६ ॥

कोटीदशगुणं दानं तद्दत्तं भवतीति च ।
क्षत्रादिष्वेव विहितं तत्सहस्रादितो भवेत् ॥ ९७ ॥

वैष्णवमात्रस्य पूज्यता

विश्वास-प्रस्तुतिः

यः कश्चिद्वैष्णवस्तस्मिन्काले तत्रावतिष्ठते ।
स पूजनीयो विप्रेन्द्र यथाशक्ति च भक्तितः ॥ ९८ ॥

स्वभाववैष्णवो जन्तुरास्तां तावन्महामुने ।

वैष्णवलिङ्गधारिमात्रस्य पूज्यता

गृहीत्वा वैष्णवं लिङ्गं भक्तो यः कश्चिदागतः ॥ ९९ ॥

अर्थ्यहं वैष्णवो देहि ब्रूते ह्येवमभीक्ष्णशः ।
{{२३८}}

सोऽपि यत्नाद्यथाशक्ति पूज्योऽज्ञातोऽपि नारद ॥ १०० ॥

[आरोपितानां पवित्राणां यावदपनयनकालं तथैव मण्डलादौ
संस्थाप्यता]

विश्वास-प्रस्तुतिः

एकरात्रं त्रिरात्रं वा सप्तरात्रं तु वा द्विज ।
पवित्रकं स्थापनीयं मण्डलेऽर्चागतं तथा ॥ १०१ ॥

अथवाऽर्च्चागतं विप्र तद्वत्संस्थाप्य भूषणम् ।
यावदेकादशी शुक्ला सम्प्राप्ता कार्तिकस्य तु ॥ १०२ ॥

पुष्पमात्रस्य प्रत्यहमपनीयता

विश्वास-प्रस्तुतिः

पुष्पपूजापनयनं कृत्वा वै प्रत्यहं पुनः ।
पवित्रकं योजनीयं सम्प्राप्ते कालवासरे ॥ १०३ ॥

पवित्रविसर्जनप्रकारविधानम्

विश्वास-प्रस्तुतिः

अपनीय गुरोर्भक्त्या निवेद्य ब्राह्मणस्य वा ।
पञ्चकालप्रसक्तस्य तदभावात्तु नारद ॥ १०४ ॥

षट्कर्मसम्प्रसक्तस्य विष्णुभक्तस्य तत्त्वतः ।
विशेषयागं होमान्तं कृत्वाऽचार्यप्रपूजनम् ॥ १०५ ॥

वैष्णवाः पूर्ववत्पूज्या दद्यादाच्छादनं ततः ।
तेषां चैव यथाशक्ति अभावादथ नारद ॥ १०६ ॥

युग्ममेकं तु वा वस्त्रमेकस्यावश्यमेव हि ।
उपवीतानि चान्येषां सोत्तरीयाणि योजयेत् ॥ १०७ ॥

यतीनां सन्निधौ प्रार्थना

विश्वास-प्रस्तुतिः

प्रार्थना च ततः कार्या यतीनां संयतात्मनाम् ।
युष्मत्प्रसादसामर्थ्यान्ममास्तु परिपूर्णता ॥ १०८ ॥

क्रियाङ्गानां च सर्वेषां मा मेऽस्तु समयच्युतिः ।

अथ यत्यादीनां प्रतिवचनम्

एवमस्त्विति वक्तव्यं सर्वैस्तालसमन्वितम् ॥ १०९ ॥

विश्वास-प्रस्तुतिः

सांवत्सरः क(त ?)दाऽकृत्यदोषः समयपूर्वकः ।
नाशमायाति वै क्षिप्रं पवित्रारोहणान्मुने ॥ ११० ॥

पवित्रशब्दनिर्वचनम्

विश्वास-प्रस्तुतिः

पाति यस्मात्सदोषं हि पतनात्परिरक्षति ।
विशेषेण द्विजां स्त्राति पूर्णं कर्म करोति च ॥ १११ ॥

{{२३९}}

विश्वास-प्रस्तुतिः

साधके च क्रियाहीने तस्मादुक्तो मया महान् ।
याग एष पवित्राख्य उक्तलक्षणलक्षितः ॥ ११२ ॥

पवित्रकर्मविधानानन्तरं पालनीया विशेषनियमाः

विश्वास-प्रस्तुतिः

कृते पवित्रके विप्र भक्तैर्मन्त्रक्रियापरैः ।
कश्चिद्विशेषनियमः पालनीयः प्रयत्नतः ॥ ११३ ॥

यावदेकादशी शुक्ला कार्तिकस्यातिपुण्यदा ।
भूयस्तदादि विप्रेन्द्र प्रयत्नाद्दिनपञ्चकम् ॥ ११४ ॥

कुर्याद्व्रतपरं किञ्चिद्दानपूजनपूर्वकम् ।
समस्तदोषशमनं समस्तसुखवर्धनम् ॥ ११५ ॥

मधुमांसमसत्यं च मैथुनं मृगयान्वितम् ।
तैलाभ्यङ्गं च मत्स्यं च बहुशो बहुभोजनम् ॥ ११६ ॥

मूलम्

मधुमांसमसत्यं च मैथुनं मृगयान्वितम् ।
तैलाभ्यङ्गं च मत्स्यं च बहुशो बहुभोजनम् ॥ ११६ ॥

विश्वास-प्रस्तुतिः

यो निरस्यति विप्रेन्द्र साधको वाऽप्यसाधकः ।
तथाऽस्य भवते सिद्धिरिह लोके परत्र च ॥ ११७ ॥

मूलम्

यो निरस्यति विप्रेन्द्र साधको वाऽप्यसाधकः ।
तथाऽस्य भवते सिद्धिरिह लोके परत्र च ॥ ११७ ॥

विश्वास-प्रस्तुतिः

इत्येतत्साधकानां च क्रियासम्पूरणं मया ।
कथितं मुनिशार्दूल पवित्रं पापनाशनम् ॥ ११८ ॥

मन्त्राराधनसक्तानामचिरात्सिद्धिदं महत् ।
मन्त्रतन्त्रविहीनानां भक्तानां भुवनत्रये ॥ ११९ ॥

पवित्रस्य फलं शश्वत्प्रददाति समापनात् ।

नारदः –

कोऽसौ मन्त्रो जगत्कर्त्तर्यो जप्तव्यः क्रियापरैः ॥ १२० ॥

पूजावसानकाले तु यथावत्कथयस्व मे ।

श्रीभगवान् –

पवित्रकर्मावसाने जप्तव्यतया पूर्वमुक्तो महामन्त्रः

ओङ्कारत्रितयं पूर्वं प्रथमं केवलस्ततः ॥ १२१ ॥

विश्वास-प्रस्तुतिः

पवित्र ऋतधामाऽथ परा प्रकृतिरेव च ।
ताललक्ष्मा तदन्ते तु बुद्धिरानन्दचिह्निता ॥ १२२ ॥

आकारेणाङ्कितं दद्याद्रेफं च तदनन्तरम् ।
केवलोऽथ यकारश्च शास्ता तद्वद्द्विजोत्तम ॥ १२३ ॥

त्वां प्रपन्नोऽस्मि तदनु रक्षरक्ष पदान्वितम् ।
ततो मकारमादाय व्योमेशानन्दभूषितम् ॥ १२४ ॥

{{२४०}}

विश्वास-प्रस्तुतिः

स(श?)र्ववज्रद्वयञ्चान्ते दमनो विक्रमीयुतः ।
नृसिह्मः सिद्धिदश्चान्तो यकारस्त्र्यश्रभूषितः ॥ १२५ ॥

हलायुधोऽप्यकारस्थो विसर्गेण विभूषितः ।
ततः सकारमादाय वरुणस्थस्ततोऽनलः ॥ १२६ ॥

मूलम्

हलायुधोऽप्यकारस्थो विसर्गेण विभूषितः ।
ततः सकारमादाय वरुणस्थस्ततोऽनलः ॥ १२६ ॥

विश्वास-प्रस्तुतिः

सकारश्च मकारश्च सुसूक्ष्मस्तदनन्तरम् ।
ॐयुक्तो विबुधाद्यस्तु वकारो विग्रहान्वितः ॥ १२७ ॥

गकारोऽथ यकारस्थ आकारेण विभूषितः ।
तृप्तिं च वरुणारूढमुद्धरेत्कालपावकम् ॥ १२८ ॥

सकारः केवलश्चाथ परा संवित्ततोऽनलः ।
गकारोऽथ सकारश्च पारूढश्चानलः स्मृतः ॥ १२९ ॥

एकारेणाङ्कितश्चैव शान्तोऽथ वरुणः स्थितः ।
रेफं च केवलं दद्यात्सर्वशक्तपदं ततः ॥ १३० ॥

सर्वाधारपदोपेतं सर्वान्तर्बहिरेव च ।
स्थितेवर्णद्वयं दद्यात्सर्ववर्णद्वयं ततः ॥ १३१ ॥

परां प्रकृतिमादाय रेफं च तदधो न्यसेत् ।
इष्टेनाप्यङ्कयेत्तच्च यकारं चोद्धरेत्ततः ॥ १३२ ॥

आकारेण समायुक्तमेकदंष्ट्रमथोद्धरेत् ।
गकारं तदधो दद्यादाकारं च ततो मुने ॥ १३३ ॥

इकारेणाङ्कितं दद्यान्नरं तदनु नारद ।
द्विधा मकारं तदनु पूरयेति पदं ततः ॥ १३४ ॥

सर्वाणि पदमादाय ङकारस्तदनन्तरम् ।
उत्तमं तदधो न्यस्याद्द्विधा नारायणं ततः ॥ १३५ ॥

आकारेणाङ्कयेत्पूर्वमिकारेण परं द्विज ।
द्विधा मकारस्तदनु प्रकाशय पदं द्विधा ॥ १३६ ॥

सर्वाणि करणानीति पदं कालं ततो द्विधा ।
स्वात्मलाभे पदं चाथ नियोजय पदं द्विधा ॥ १३७ ॥

भगवंस्त्र्यक्षरमिति त्र्यक्षरं भवहेति च ।
भूतात्मानमथादाय तदधस्थं गदाधरम् ॥ १३८ ॥

{{२४१}}

विश्वास-प्रस्तुतिः

गोपनेनाङ्कितं मूर्ध्नो रेफं वै योजयेत्ततः ।
वैराजोपरिसंस्थं च ॐकारेणाङ्कयेच्च तम् ॥ १३९ ॥

व्योमेशाढ्यो हकारश्च शङ्खश्चानन्दभूषितः ।
आदाय चञ्चलं विप्र ईश्वरं तदधो न्यसेत् ॥ १४० ॥

आनन्देनाङ्कितं कुर्याज्जिते पाणिपदं ततः ।
चतुरर्णं तु संयोज्य मकारं च ततो न्यसेत् ॥ १४१ ॥

व्योमेशाकारसम्भिन्नं सत्यं तदनु चोद्धरेत् ।
तदन्तेऽभयदं न्यस्य गकारं तदनन्तरम् ॥ १४२ ॥

व्योमेशभिन्नो वैकुण्ठो वाराहस्त्विनभूषितः ।
शार्ङ्गभृद्वरुणारूढो न्यस्यो व्योमेशचिह्नितः ॥ १४३ ॥

संस्कारोऽथ(?)यकारश्च लिप्तोऽस्मि त्र्यक्षरं पदम् ।
सकारोऽथ मकारश्च यकारस्तदनन्तरम् ॥ १४४ ॥

ततो धरेशमादाय ॐकारेण विभूषितम् ।
पकारश्च वकारश्च लक्षणं केवलास्त्वमी ॥ १४५ ॥

विश्वभावकमादाय कमलोपरिसंस्थितम् ।
शिरसाऽविग्रहाख्येन वर्णेन परिभूषितम् ॥ १४६ ॥

नकारं केवलं चाथ पदं निर्मलमित्यथ ।
मापादय पदं दद्यात्सकलेति पदं द्विज ॥ १४७ ॥

उद्दामस्थं गकारं तु लकारं केवलं ततः ।
आदिदेवान्वितः पन्था रामोपेतश्च माधवः ॥ १४८ ॥

पकारश्च तकारश्च यकारोऽविग्रहान्वितः ।
द्विधा जहि पदं देयं कालं त्र्यश्रेन चाङ्कितम् ॥ १४९ ॥

चतुर्गतिसमारूढं वैराजमथ योजयेत् ।
आनन्दाख्येन चाक्रान्तं न्यसेद्रेफमतो द्विज ॥ १५० ॥

वैराजोपरिसंस्थं तु सोमेशाख्यं स्थितं पुनः ।
पदं तु मानसं तेदं(दोषं?) दद्यात्पञ्चाक्षरं द्विज ॥ १५१ ॥

वाचिकांस्त्र्यक्षरं चातो दुरुक्तान् कायिकांस्ततः ।
षडक्षरं कुवृत्तीन्वै त्र्यक्षरं तदनु न्यसेत् ॥ १५२ ॥

{{२४२}}

विश्वास-प्रस्तुतिः

परमेश्वरशब्दं तु दद्यात्पञ्चाक्षरं मुने ।
ततः परममूर्तौ(र्ते?)च प्रसीद पदमेव च ॥ १५३ ॥

मे प्रपन्नस्य च पदं न्यसेत्पञ्चाक्षरं मुने ।
आदेशाच्छलविध्वंसी इकारेण विभूषितः ॥ १५४ ॥

रामोपेतं नरं दद्यान्माधवं तदधो न्यसेत् ।
भिन्धि संसारमिति च दद्यात्पञ्चाक्षरं मुने ॥ १५५ ॥

दकारं भुवनारूढं विसर्गेण समन्वितम् ।
विश्वभावनमादाय केवलं च तदन्तगम् ॥ १५६ ॥

मूलम्

दकारं भुवनारूढं विसर्गेण समन्वितम् ।
विश्वभावनमादाय केवलं च तदन्तगम् ॥ १५६ ॥

विश्वास-प्रस्तुतिः

उद्धरेद्द्विजशार्दूल शाश्वतं तदनन्तरम् ।
व्योमेशानन्तसम्भिन्नं वामनं प्रोद्धरेत्ततः ॥ १५७ ॥

पन्थानं माधवारूढं व्योमेशानन्तभूषितम् ।
ककारश्चैव रेफश्च द्वावेतौ भुवनोपरि ॥ १५८ ॥

एकारेणाङ्कितः कालो वैराजो रामभूषितः ।
सर्वेभ्योऽनुग्रहं चैव पदं सप्ताक्षरं ततः ॥ १५९ ॥

ज्ञानात्मनो पदं दद्यात्पुरुषोत्तमसंयुतम् ।
महातमः प्रविष्टस्य पदमष्टाक्षरं त्विदम् ॥ १६० ॥

—————मादाय जगद्योनिविभूषितम् ।
विज्ञानालोकशब्दं तु प्रदाने त्र्यक्षरं पदम् ॥ १६१ ॥

हकारञ्च मकारं च सर्वदेहमथोद्धरेत् ।
क्रमात् त्रयाणां योक्तव्या ना(रा?)मोद्दामोऽपि विक्रमी ॥ १६२ ॥

भकारश्च वकारश्च व्यापकः केवलास्त्वमी ।
रारूढः पद्मनाभस्य(श्च?)स्रग्धरो रामभूषितः ॥ १६३ ॥

हकारश्च तकारश्च पुण्डरीकश्च केवलः ।
वैराजस्थोऽथ कमलश्शङ्खस्त्र्यश्रेण चाङ्कितः ॥ १६४ ॥

परमात्माऽथ सूक्ष्मस्थः पुण्डरीकश्च केवलः ।
रामस्ततस्तकारस्थः सूक्ष्मस्थश्चामृतस्ततः ॥ १६५ ॥

कालश्चैकारसम्भिन्नस्समुद्धरपदं ततः ।
अजितस्तु पदं त्र्यर्णं मम जन्मपदं द्विज ॥ १६६ ॥

{{२४३}}

विश्वास-प्रस्तुतिः

केवलश्च ततो ह्रस्वो नकारस्त्रासनस्थितः ।
त्र्यैलोक्यैश्वर्यदोपेतो घातयेति पदं द्विधा ॥ १६७ ॥

ज्ञानैश्वर्य एदं दद्याल्लीलासक्तपदं त्वनु ।
पद्मनाभश्च रारूढः कमलो[ऋ]तथात्म(धाम?)गः ॥ १६८ ॥

इष्टोपेतस्तु कमलो वैराजं भुवनोर्ध्वगम् ।
केवलः पद्मनाभस्तु धन्वी चानङ्गभूषितः ॥ १६९ ॥

हकारश्च नकारश्च वकारो रामभूषितः ।
आह्लादस्थं ततो भानुं मदनेन समन्वितम् ॥ १७० ॥

त्र्यैलोक्यैश्वर्यदोपेतं परमात्मानमुद्धरेत् ।
स्रग्धरं वरुणारूढं त्र्यैलोक्यैश्वर्यदान्वितम् ॥ १७१ ॥

मम त्राता पदं योज्यं सकलेति पदं ततः ।
जकारश्च नकारश्च शरणेति पदं ततः ॥ १७२ ॥

मूलम्

मम त्राता पदं योज्यं सकलेति पदं ततः ।
जकारश्च नकारश्च शरणेति पदं ततः ॥ १७२ ॥

विश्वास-प्रस्तुतिः

शरणागतोऽक्षरं(?)दद्यात्पदं विप्र षडक्षरम् ।
त्र्यश्रान्वितं च वैराजं कुरुवीप्सापदं ततः ॥ १७३ ॥

दकारं केवलं शङ्खं गोपनेनाङ्कितं न्यसेत् ।
नकारं च द्विधा दद्यादन्त्यं वै गोपनाङ्कितम् ॥ १७४ ॥

देयो भुवनपालश्च सकारः शङ्खसंस्थितः ।
पन्था गोपनसम्भिन्नः केवलः सर्वरोधकः ॥ १७५ ॥

पुण्डरीकाक्षशब्दं तु परमं त्र्यक्षरं पदम् ।
पदं कराणि(कारुणि?)केत्युक्त्वा ततो भक्तजनेन(ति ?) च ॥ १७६ ॥

पदं वत्सलमादाय पिण्डभावनसंयुतम् ।
विश्वात्मा च ततः शब्दं विश्वेश्वरपदं ततः ॥ १७७ ॥

हृषीकेशपदं दद्यान्मोक्षलक्ष्मीपदं ततः ।
पद्मनाभश्च रेफस्थो दकारः केवलस्ततः ॥ १७८ ॥

भगवन्सर्वमन्त्रात्मन् पदमष्टाक्षरं शुभम् ।
नरस्त्र्यश्रेण सम्भिन्नस्सर्वमन्त्रपदं ततः ॥ १७९ ॥

केवलं पुण्डरीकं च रेफं वै विष्णुनाऽङ्कितम् ।
भूयस्तं विक्रमीयुक्तं त्र्यैलोक्यैश्वर्यदान्वितम् ॥ १८० ॥

{{२४४}}

विश्वास-प्रस्तुतिः

नमो नमःपदोपेतं पञ्चधाऽथ त्रिकं न्यसेत् ।
क्रमेण द्विजशार्दूल कूट(?)सूर्यामृताभिधाम् ॥ १८१ ॥

विसर्गेणाङ्कयेत्पूर्वं व्योमेशेन पदं ततः ।
तृतीयमौर्वसञ्ज्ञेन चतुर्थं छादनेन तु ॥ १८२ ॥

पञ्चमं योगधात्रा तु योज्यः षष्ठेन नारद ।
अविग्रहः सप्तमे तु देवदत्तं नियोजयेत् ॥ १८३ ॥

तारकं त्वष्टमे विप्र विष्टरं नवमे ततः ।
दशमे ऋतधामानमूर्जमेकादशं मुने ॥ १८४ ॥

मूलम्

तारकं त्वष्टमे विप्र विष्टरं नवमे ततः ।
दशमे ऋतधामानमूर्जमेकादशं मुने ॥ १८४ ॥

विश्वास-प्रस्तुतिः

द्वादशेऽभ्युदयं विद्धि न्यसेद्विष्णुं त्रयोदशे ।
रामं द्विसप्तमे विप्र विन्यसेत्तदनन्तरम् ॥ १८५ ॥

आनन्दं पञ्चदशमे बीजे तदनु नारद ।
प्रणवस्सनमस्कोऽन्ते तदन्ते प्रणवः पुनः ॥ १८६ ॥

भूयः प्रणवमादाय भगवत्पदमेव च ।
ममेति द्व्यक्षरं शब्दं विवेकपदमेव च ॥ १८७ ॥

पकारं केवलं दद्याद्दकारं गोपनाङ्कितम् ।
ताललक्ष्माणमन्ते तु अप्रमेयोज्झितं मुने ॥ १८८ ॥

समयोत्थानतः शब्दं दोषं ज्ञानाङ्कुशेन वै ।
पदं सप्ताक्षरं दद्यात्कमलं केवलं ततः ॥ १८९ ॥

विश्वरूपसमारूढं दण्डधारं न्यसेत्ततः ।
तदन्ते कमलं दद्याद्दण्डधारमथोद्धरेत् ॥ १९० ॥

वृषकर्मा च तदधः अकरालस्ततो द्विज ।
अखण्डविक्रमी देयस्तदधस्थः प्रतर्दनः ॥ १९१ ॥

शश्वच्छब्दस्ततो विप्र चन्द्रांशुश्छन्दपृष्ठतः ।
आनन्देनाङ्कितः कार्यो व्योमेशेनाङ्कितेन तु ॥ १९२ ॥

रामाङ्कं स्रग्धरं चाधो मापादय पदं ततः ।
कालत्र्यश्राङ्कितं दद्यान्नरं रामाङ्कितं ततः ॥ १९३ ॥

अनलं वरुणं चैव केवलं योजयेत्क्रमात् ।
पुण्डरीकोऽग्निरूपश्च वैकुण्ठस्तु तृतीयकः ॥ १९४ ॥

छन्दस्त्र्यश्राङ्कितो (तं?) योज्यश्च(ज्यञ्च?)न्द्रांशुं
प्रोद्धरेत्ततः ।
छन्दःपतिसमारूढमानन्देनाथ चाङ्कयेत् ॥ १९५ ॥

{{२४५}}

विश्वास-प्रस्तुतिः

गकारं केवलं दद्याद्वैकुण्ठं व्योमराड्युतम् ।
पूजयेति वदेद्वीप्सां सूर्यं तदनु चोद्धरेत् ॥ १९६ ॥

सामदाम(फाठ?)कमस्यान्ते दीप्तिमन्तमनन्तरम् ।
उत्फुल्लनयनश्चान्ते चतुर्णां योजयेत्क्रमात् ॥ १९७ ॥

त्र्यैलोक्यैश्वर्यदं मूर्ध्नि प्रज्ञाधारमथासने ।
ततो झषं समादाय ज्वालारूढं तु नारद ॥ १९८ ॥

व्योमेशेन समायुक्तं धर्मांशुं प्रोद्धरेत्ततः ।
तस्यासने तु लिङ्गात्मा योजनीयोऽवसानतः ॥ १९९ ॥

अप्रमेयोज्झितः स्रग्वी आधेयश्चाथ लाङ्गली ।
आसने भगवानस्य वैराजस्तस्य पूर्वकम् ॥ २०० ॥

द्विधाऽनलं समुद्धृत्य न्यस्यस्ताभ्यामथ क्रमात् ।
लाङ्गली विश्वरूपश्च व्यापी बाह्यात्तु मस्तके ॥ २०१ ॥

प्रथमस्यासने योज्यं नाम्ना वर्णं प्रसारणम् ।
दीर्घघोणं द्वितीयस्य योजयेत्तदनन्तरम् ॥ २०२ ॥

अथानलं द्विजादाय तदधः सामफाठकम् ।
अशेषभुवनाधाररूढं कृत्वाऽस्य मूर्धनि ॥ २०३ ॥

ऐश्वर्यसंवृतं व्योम न्यसेदेकं द्विधा मुने ।
ततोऽनलं समादाय सूर्यं न्यस्येदधस्ततः ॥ २०४ ॥

अस्य चाधोऽनलं चोर्ध्वे व्योमचैरावणस्थितम् ।
ततस्तु रेफमादाय झषोपरि गतं मुने ॥ २०५ ॥

तदधोपरि तेजस्वी तदधो ह्यनलं पुनः ।
लोकेशोपरिसंस्थं तु अङ्कारश्चास्य मूर्धनि ॥ २०६ ॥

पट्कारद्वितयं चान्ते केवलो लाङ्गली ततः ।
रामाङ्कितो दण्डधरः स्रग्वी तेनैव चाङ्कितः ॥ २०७ ॥

महामन्त्रेति च पदं शब्देनेति पदं ततः ।
विघ्नोऽयमिति वै देयं समयेति पदं ततः ॥ २०८ ॥

दोषहृद्दन्त(वृन्दं न ?)दन्ते तु अविद्यानिचयं ततः ।
बधरीभूतमिति वै शीघ्रं कुरु कुरु द्विज ॥ २०९ ॥

ततः प्रणवमादाय सूर्यो योज्यस्ततो मुने ।
{{२४६}}

सूपर्णं च तदन्ते तु प्राणस्तदनु नारद ॥ २१० ॥

विश्वास-प्रस्तुतिः

कूटस्तदवसाने तु सर्वलोकेशसंस्थितः ।
व्योमेशभूषितश्चैव भगवन्मे पदं ततः ॥ २११ ॥

सम्पूर्णे च पदं दद्याद्दानवर्णयुतं ततः ।
कर्मणिशब्दमथ च सम्पादय पदं द्विधा ॥ २१२ ॥

तदन्ते कौस्तुभपदं ॐभगवन्पदं ततः ।
ततश्चामृतमूर्ते वै समस्तपदमेव हि ॥ २१३ ॥

पदं मन्त्रगणं चातो यकारः केवलस्ततः ।
नारायणः प्रधानस्थश्शान्तिदः केवलस्ततः ॥ २१४ ॥

नरोऽथ भुवनारूढो रारूढोऽथ गदाधरः ।
ओतदेहाङ्कितप्राणश्शङ्खस्थश्चाथ शान्तिदः ॥ २१५ ॥

व्योमेशयुक्तो वैराजः स्रग्धरः केवलस्ततः ।
ताललक्ष्मा तदन्ते तु तृप्तिं च तदधो न्यसेत् ॥ २१६ ॥

तस्याप्यधो वराहं तु पिण्डोऽयं गोपनाङ्कितः ।
नारायणोऽथ चैकाकी भूयस्स दमनोर्ध्वगः ॥ २१७ ॥

आदिदेवेन चाक्रान्तो मन्दरोऽथाङ्कुशस्थितः ।
औकारसंयुतः स्रग्वी त्र्यश्रयुक्तोऽथ दीप्तिमान् ॥ २१८ ॥

केवलश्च ततः पन्थास्सन्तर्पयपदं द्विधा ।
सोमोऽथ वरुणारूढो द्विधा देयश्च नारद ॥ २१९ ॥

व्यापी चान्द्री तथाऽनन्दो योज्यस्तदनु वै द्वयोः ।
वराहोऽथामृतस्थस्तु तदधः पुरुषेश्वरः ॥ २२० ॥

उद्दामो ह्यथ तस्याधो व्यापी चान्द्री च मूर्धनि ।
एतदेव पुनर्दद्याद्भुवनार्णेन वर्जितम् ॥ २२१ ॥

विष्णुनाऽलङ्कृतं किं तु सानन्दममृतं ततः ।
तदधश्चामृताधारं शङ्खं तस्याप्यधो न्यसेत् ॥ २२२ ॥

विश्वाप्यायकरानन्दं त्रैलोक्यैश्वर्यदान्वितम् ।
परमेश्वरसंयुक्तं न्यसेत्सोममथ द्विधा ॥ २२३ ॥

वरुणो भूधरोपेतस्त्वग्निरूपोऽथ केवलः ।
दण्डधारस्ततो देयः प्रणवेनाङ्कितो मुने ॥ २२४ ॥

{{२४७}}

विश्वास-प्रस्तुतिः

नमो नमस्ततः स्वाहा मन्त्रोऽयं त्रिदशार्चितः ।
शतानि पट् च वर्णानां वर्णा द्वादश च द्विज ॥ २२५ ॥

अर्धाक्षराणि वै पञ्च इत्येतत्कथितं मुने ।

अस्य महामन्त्रस्य प्रशंसा

मन्त्रोऽयं सूचितः प्राग्वै रक्षणीयः प्रयत्नतः ॥ २२६ ॥

विश्वास-प्रस्तुतिः

छिन्नानामपि भिन्नानां मन्त्राणां चारुरूपिणाम् ।
एषा(षां?) मन्त्रवरः श्रेष्ठस्सर्वेषामपि पूरयेत् ॥ २२७ ॥

तेजसाऽपि च वीर्येण सौम्यत्वेन सदैव वा ।
समस्तदोषशमनो विघ्नविध्वंसकृन्महान् ॥ २२८ ॥

मन्त्रोऽयं मुनिशार्दूल गोपनीयः प्रयत्नतः ।
सामान्यं साधकानां च सच्छासननिषेविणाम् ॥ २२९ ॥

अनेकवक्त्रनयनमनेकाङ्घ्रिकरान्वितम् ।
अनेकाद्भुतदातारमनेकाभरणभूषितम् ॥ २३० ॥

मूलम्

अनेकवक्त्रनयनमनेकाङ्घ्रिकरान्वितम् ।
अनेकाद्भुतदातारमनेकाभरणभूषितम् ॥ २३० ॥

विश्वास-प्रस्तुतिः

अनेकगन्धपुष्पाढ्यमनेकायुधधारिणम् ।
अनेकदीप्तनयनमनेकफलभूषितम् ॥ २३१ ॥

मूलम्

अनेकगन्धपुष्पाढ्यमनेकायुधधारिणम् ।
अनेकदीप्तनयनमनेकफलभूषितम् ॥ २३१ ॥

विश्वास-प्रस्तुतिः

अनेकमन्त्रकोटीभिस्संस्मरेत्सेवितं सदा ।
यस्तु नैमित्तिके यागे नित्ये वानन्यमानसः ॥ २३२ ॥

सोऽचिरात्प्राप्नुयात् सिद्धीर्नावसीदति कर्हिचित् ।

विश्वास-प्रस्तुतिः

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां पवित्रकविधानं
नामैकविंशः पटलः ॥ २१ ॥