२० प्रतिष्ठा-विधानम्

अथ प्रतिष्ठाविधानं नाम विंशः पटलः

नारदः

विश्वास-प्रस्तुतिः

साधकानां हितार्थाय बिम्बं यदुदितं त्वया ।
तदहं ज्ञातुमिच्छामि कथं तत्क्रियते विभो ॥ १ ॥

मूलम्

क्व तस्यापि विधानेन स्थापनं कथयस्व मे ।
यस्य सम्पूजनान्नाथ लिङ्गान्येतानि चाप्नुयात् ॥ २ ॥

{{१९९}}

श्रीभगवान् –

अथ पटे बिम्बविधानम्

विश्वास-प्रस्तुतिः

पटे बिम्बविधानं तु साम्प्रतं शृणु नारद ।
सर्वसिद्धिकरं रम्यं निर्दोषं नातिविस्तरम् ॥ ३ ॥

पटमानादि

विश्वास-प्रस्तुतिः

द्विहस्तं चतुरस्त्रं तु हस्तमात्रं तु वा पटम् ।
कार्पासमथ वा क्षौमं नवं शुक्लमनाहतम् ॥ ४ ॥

पटस्य चित्रकरस्य च संस्कारः

विश्वास-प्रस्तुतिः

प्रक्षाल्य बहुशोऽस्त्रेण चित्रज्ञं स्नाप्य वै द्विज ।
दाहोत्पादनयुक्त्याऽथ सपटं संस्मरेच्च तं ॥ ५ ॥

आसनपदम्

संसूत्र्य कमलं तत्र अष्टपत्रं सकर्णिकम् ।

गृहार्चामानम्

कर्णिकामध्यसंस्थं तु प्रोच्छायं द्वादशाङ्गुलम् ॥ ६ ॥

त्रिविंशत्यङ्गुलान्तं च बिम्बं लिख्य सुलक्षणम् ।

लक्ष्म्यादिपरिवारोपेतस्य ग्राह्यता

लक्ष्म्यादिपरिवाराढ्यं लोकेशास्त्रसमावृतम् ॥ ७ ॥

सङ्गृह्याद्यजनार्थं तु

गृहादन्यत्र मानाधिक्यम्

			तत्प्रमाणं द्विजोर्ध्वतः ।  

मानं कुर्याद्गृहाद्बाह्ये स्थाने प्रासादपूर्वके ॥ ८ ॥

गृहार्चासु लेख्यचित्रबिम्बस्य हस्ताधिकमानत्वेऽप्यदोषता

विश्वास-प्रस्तुतिः

हस्ताधिकेऽपि च कृते चित्रबिम्बे गृहस्थिते ।
न दोषः साधकानां तु दारुमृच्छैलजैर्विना ॥ ९ ॥

अथ बिम्बस्यावयवमानविधानम्

विश्वास-प्रस्तुतिः

बिम्बमानं तु नवधा प्रोच्छ्रयात्संविभज्य च ।
भागं भागं तु तं भूयो भजेद्द्वादशधा मुने ॥ १० ॥

तदङ्गुलं तु बिम्बस्य तेनाङ्गावयवास्ततः ।
दर्शनीयाश्च गुरुणा शिल्पिकस्य समासतः ॥ ११ ॥

{{२००}}

विश्वास-प्रस्तुतिः

चिबुकाच्च ललाटान्तं स्याद्वक्त्रं द्वादशाङ्गुलम् ।
ललाटादूर्ध्वतो विप्र त्र्यङ्गुलेनोन्नतं शिरः ॥ १२ ॥

द्वादशाङ्गुलविस्तीर्णं त्रिगुणं परिणाहतः ।
विस्तारद्व्यङ्गुलौ कर्णौ तन्मानद्विगुणोच्छ्रितम् ॥ १३ ॥

कनिष्ठाग्रसमं विद्धि रन्ध्रं श्रोत्रस्य चान्तरात् ।
कर्णभागावधोर्ध्वस्थमानेनार्धाङ्गुलौ स्मृतौ ॥ १४ ॥

कर्णछिद्रात्तु वै बाह्ये कर्णमध्येऽङ्गुलोऽवटम् ।
त्र्यङ्गुलं कर्णपाशाभ्यां व्यासो वा स्यादथेच्छया ॥ १५ ॥

भ्रूलता शशिलेखाय(खेव ?)आयामाच्चतुरङ्गुला ।
अर्धाङ्गुलेन विस्तीर्णा मध्ये स्थूलाऽग्रतः कृशा ॥ १६ ॥

भ्रूसन्धिरङ्गुलसमो नासा तु चतुरङ्गुला ।
द्व्यङ्गुलाच्चाग्रतः कार्या तिलपुष्पाकृतिर्यथा ॥ १७ ॥

नेत्राभ्यामन्तरं विद्धि द्व्यङ्गुलं नेत्रभूस्तथा ।
दैर्घ्येण द्व्यङ्गुलं नेत्रं तदायामेन चाङ्गुलम् ॥ १८ ॥

त्र्यंशेन तारकं मध्ये ज्योतिस्तत्त्र्यं शसम्मितम् ।
घ्राणाधश्चाङ्गुलेनैव पादहीनेन कल्पयेत् ॥ १९ ॥

गोजिकां(?)मुनिशार्दूल एकांशेन ततोऽधरः ।
उत्तराख्यो ह्यधस्थं तु प्रमाणेनाङ्गुलः स्मृतः ॥ २० ॥

द्व्य्यङ्गुलं चिबुकं विप्र उच्छ्रायेण प्रकीर्तितम् ।
विस्तारद्व्यङ्गुलं विद्धि सृक्किणी चतुरङ्गुले ॥ २१ ॥

ईषद्विहस्तमाने च कर्णपाल्योः परस्परम् ।
कपोलमूर्ध्वे शशिवत्तन्मध्ये चतुरङ्गुलौ ॥ २२ ॥

मुखगण्डौ समौ कुर्यात्सुसम्पूर्णौ मनोहरौ ।
कर्णोच्छायस्त्र्यङ्गुलस्याद्विस्तारात्तच्च नारद ॥ २३ ॥

अष्टाङ्गुलञ्च परिधेस्त्रिगुणं परिकीर्तितम् ।
कण्ठादधः स्थितं वक्षो यावत्स्पन्दावधिं द्विज ॥ २४ ॥

उन्नतत्वेन विहितं सदैव द्वादशाङ्गुलम् ।
द्विगुणं चैव विस्ताराद्व्यङ्गुलं स्तनमण्डलम् ॥ २५ ॥

एतयोश्चूचुके कुर्यादष्टमांशं स्वकाङ्गुलात् ।
परस्परं च स्तनयोरन्तरं द्वादशाङ्गुलम् ॥ २६ ॥

{{२०१}}

विश्वास-प्रस्तुतिः

अष्टाङ्गुलौ स्मृतौ चांसौ विस्तरेण महामते ।
प्रोन्नतत्वेन वै कुर्यात्स्कन्धमूर्ध्वं षडङ्गुलम् ॥ २६ ॥

उच्छ्रायेण तु नाभ्यन्तं स्पन्दाद्वै द्वादशाङ्गुलम् ।
परिधिं नाभिदेशस्य चत्वार्ॐऽशास्तु पञ्च वै ॥ २७ ॥

अङ्गुलं नाभिरन्ध्रं तु क्रमान्निम्नं द्विरङ्गुलम् ।
कुर्यात्प्रदक्षिणावर्तं नाभिमेढ्रान्तरं मुने ॥ २८ ॥

उच्छ्रायेण तु सम्पाद्यं सुसमं द्वादशाङ्गुलम् ।
नाभ्यावधेस्तदुदरं सम्पाद्यं चतुरङ्गुलम् ॥ २९ ॥

शेषं तत्कटिभूभागं विस्तारेणोदरं मुने ।
द्विसप्ताङ्गुलमानं स्यात्परिधेस्त्रिगुणं हितत् ॥ ३० ॥

त्रिषट्काङ्गुलविस्तीर्णं कटिमानं विधीयते ।
चतुः पञ्चाशदङ्गुल्यः परिधिस्तु कटेः स्मृतः ॥ ३१ ॥

षट्त्रिंशाङ्गुलमानेन परिधिस्तु कटेः स्मृतः (?) ।
कुर्यात्प्रजननं विप्र उच्छ्रायेण षडङ्गुलम् ॥ ३२ ॥

द्व्यङ्गुलेन तु विस्तीर्णं वृषणौ चतुरङ्गुलौ ।
त्रिचतुर्मुष्क(?)सम्पूर्णौ ऊरुदण्डौ ततो द्विज ॥ ३३ ॥

उच्छ्रायेण प्रकर्तव्यौ चतुर्विंशाङ्गुलौ समौ ।
प्रथुमूलौ क्रमात्क्षामौ संलग्नौ गजपाणिवत् ॥ ३४ ॥

विस्तारेणाथ वा कुर्यादूरुमूलं नवाङ्गुलम् ।
षट्त्रिंशाङ्गुलमानं स्यादूरुमध्ये तु वष्टनम् ॥ ३५ ॥

ऊरुभ्यामवसाने तु वेष्टितञ्चैकविंशतिः ।
त्र्यङ्गुलं मुनिशार्दूल परितो जानुमण्डलम् ॥ ३६ ॥

विस्तारेणोन्नतश्वापि जानुभ्यामथ मे शृणु ।
द्विद्वादशेनाङ्गुलानां जङ्घोच्छ्राय इहोच्यते ॥ ३७ ॥

षडङ्गुलेन विस्तीर्णं जङ्घामूलं प्रकीर्तितम् ।
जङ्घामध्ये तयोर्नाहो ॥ ३८ ॥

जङ्घावसाने विस्तारे ज्ञेयः पञ्चाङ्गुलो मुने ।
तमेव त्रिगुणीकृत्य तस्यैव परिधिर्भवेत् ॥ ३९ ॥

गुल्फादधस्त्र्यङ्गुलं स्यात्पदोच्छ्रायस्तु नारद ।
{{२०२}}

तत्पार्ष्णिपृष्ठतो यावदङ्गुलाग्रं द्विजोत्तम ॥ ४० ॥

विश्वास-प्रस्तुतिः

भवेत्पादस्तु दैर्घ्येण अङ्गुलानां द्विसप्तकम् ।
षडङ्गुलेन विततः कूर्मपृष्ठोन्नतः क्रमात् ॥ ४१ ॥

चतुरङ्गुलदैर्घ्येण अङ्गुष्ठं द्व्यङ्गुलं ततः ।
त्रिगुणं वेष्टनं तस्य दैर्घ्यात्तत्पादतोऽधिका ॥ ४२ ॥

पादप्रदेशिनी कार्या तत्समीपस्थिताङ्गुलिः ।
अङ्गुष्ठस्य समा कार्या तत्पादोना त्वनामिका ॥ ४३ ॥

अनामिकायाः पादेन हीना पादकनीयसी ।
त्र्यंशेन विद्धि सर्वासां पर्वमानं तु नारद ॥ ४४ ॥

पर्वार्धेन नखाः कार्या अर्धेन्दुसदृशाः शुभाः ।
षट्त्रिंशदङ्गुलं मानं पृष्ठमंसावधि स्मृतम् ॥ ४५ ॥

गोमुखं वा क्रमान्निम्नं यावद्विंशाङ्गुलं भवेत् ।
मध्यप्रदेशाद्विततः पृष्ठवंशोन्नतः क्रमात् ॥ ४६ ॥

सुश्लक्ष्णश्चाविभक्तश्च विभक्तश्च यथा मुने ।
सम्मीलनं मीनयुक्तं कक्षा पञ्चाङ्गुला स्मृता ॥ ४७ ॥

सुवर्त्तुलौ स्फिजौ कार्यौ विस्तारात्षोडशाङ्गुलौ ।
सुविभक्ते च पीने च करिकुम्भोपमे शुभे ॥ ४८ ॥

अधस्तात् स्कन्धशीर्षस्य बाहुः स्याद्द्वादशाङ्गुलः ।
अष्टादशाङ्गुलं विद्धि उपबाहुं द्विजोत्तम ॥ ४९ ॥

मणिबन्धप्रदेशस्तु तत्र त्र्यङ्गुल उच्यते ।
मध्यमाङ्गुलिपर्यन्तं मणिबन्धावसानतः ॥ ५० ॥

द्वादशाङ्गुलमानं तु स्कन्धं स्यात्परिवर्त्तुलम् ।
चतुरङ्गुलविस्तीर्णं परिधेस्त्रिगुणं स्मृतम् ॥ ५१ ॥

मूलतश्चोपबाहुर्वै पञ्चाङ्गुलमुदाहृतम् ।
त्रिगुणं च तथा नाहं तं क्रमाद्ध्रासयेन्मुने ॥ ५२ ॥

गोपुच्छसदृशाकृत्या तथा स्यात्र्यङ्गुलं मुने ।
मणिबन्धप्रदेशस्तु विस्तारेण च वेष्टनात् ॥ ५३ ॥

नवाङ्गुलप्रमाणेन पाणेर्मानमतः शृणु ।
मणेरङ्गुलिमूलान्तं विद्धि सप्ताङ्गुलं सदा ॥ ५४ ॥

पञ्चाङ्गुलप्रमाणेन तिर्यग्विस्तरमुच्यते ।
{{२०३}}

निम्नं करतलं कुर्याच्छुभरेखाविभूषितम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

तत्र मध्याङ्गुलिं विद्धि विप्र पञ्चाङ्गुलं तु वा ।
तस्या द्वे पार्श्वतोऽङ्गुल्यावूने त्वर्धाङ्गुलेन वै ॥ ५६ ॥

तत्पञ्चमांशहीनां च नित्यं कुर्यात्कनीयसीम् ।
सार्धत्र्यङ्गुलमङ्गुष्ठं द्विपर्व परिकीर्तितम् ॥ ५७ ॥

त्रिपर्वाङ्गुलयः शेषाः पर्वार्धेन नखाः स्मृताः ।
गोपुच्छसदृशः कार्या अङ्गुल्योऽङ्गुलमानतः ॥ ५८ ॥

पादहीना कनिष्ठा स्यात्सपादश्चाङ्गुलोङ्गुलाः (?) ।
स्वकप्रमाणविस्तारात्रिगुणं विद्धि वेष्टनम् ॥ ५९ ॥

कूर्मपृष्ठनखाः सर्वे अग्रतश्चार्धचन्द्रवत् ।
लिङ्गाकृतिं (?) मूलदेशान्मानमेषामनिश्चितम् ॥ ६० ॥

सलोमदन्तकेशानां मानं शोभाविकल्पितम् ।
केशैरलकजालं तु ललाटोपरि शोभितम् ॥ ६१ ॥

मूलम्

सलोमदन्तकेशानां मानं शोभाविकल्पितम् ।
केशैरलकजालं तु ललाटोपरि शोभितम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

ललाटोर्ध्वाङ्गुलच्छादि कुर्यात्रिवलिसंयुतम् ।
मनोहरा ह्यवयवाः सर्वे कार्याः सुलक्षणाः ॥ ६२ ॥

समानविषमा विप्र सक्तासक्ता विशेषतः ।
मानेनानेन वै कुर्यात् बिम्बं विप्र सुलक्षणम् ॥ ६३ ॥

शतमष्टोत्तरं पूर्णमङ्गुलानां स्वकाङ्गुलैः ।
उच्छ्रायेण द्विजश्रेष्ठ मूर्ध्नः पादतलावधि ॥ ६४ ॥

हारनूपुरकेयूरमेखलामौलिशोभितम् ।
पीनाङ्गमध्यदेशाच्च समानवलिशोभितम् ॥ ६५ ॥

शेषं ध्यानोदितं सर्वमुक्तानुक्तं प्रकल्पयेत् ।

अथ बिम्बद्रव्यविधानम्

कुर्यादनेन मानेन सौवर्णं वाथ राजतम् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

बिम्बमाराधनार्थं तु आरकूटमयं तु वा ।
शिलामृद्दारुजं वाऽथ यथा सम्भवतो मुने ॥ ६७ ॥

सिद्ध्यभिकाङ्क्षिणां गृहे शैलजादिप्रतिषेधः

विश्वास-प्रस्तुतिः

सम्भवे सति यः कुर्याच्छैलमृद्दारुजं गृहे ।
चिरेण सिद्धयस्तस्य प्रवर्तन्ते महामते ॥ ६८ ॥

{{२०४}}

विश्वास-प्रस्तुतिः

निर्विघ्नेन भवेन्मोक्षो ह्यतस्सिध्यभिकाङ्क्षिभिः ।
न कार्यं शैलजं गेहे दारुजं वाथ मृण्मयम् ॥ ६९ ॥

अथ पीठमानम्

बिम्बमानाद्यथा पीठं कुर्याद्देवस्य तच्छृणु ।

तत्र पीठद्वैविध्यम्

चतुरश्रं तु तद्विद्धि चरुरश्रायतं तथा ॥ ७० ॥

चतुरश्रपीठलक्षणम्

विश्वास-प्रस्तुतिः

बिम्बोच्छ्रायसमं पीठं परितश्चैव विस्तृतम् ।
तदर्धेनोच्छ्रितं कुर्यादेतत्सामान्यलक्षणम् ॥ ७१ ॥

चतुरश्रस्य पीठस्य कथितं च महामुने ।

चतुरश्रायतपीठलक्षणम्

चतुरश्रायतस्याथ प्रमाणमवधारय ॥ ७२ ॥

विश्वास-प्रस्तुतिः

बिम्बार्धेन तु विस्तीर्णं तत्प्रमाणेन चोन्नतम् ।
समं देवस्य दैर्घ्येण चतुरश्रायतं तु तत् ॥ ७३ ॥

कुर्यात्तुङ्गालयस्थानां देवतानां सदैव हि ।

चलार्चायागृहार्चायाश्च पीठमानम्

चलानां वेश्मसंस्थानां बिम्बानां पीठमन्यथा ॥ ७४ ॥

विश्वास-प्रस्तुतिः

कुर्थात्स्कन्धसमं दैर्घ्यात् स्तनमानान्वितं तु वा ।
आपादाज्जानुपर्यन्तं विस्तारेणोच्छ्रयेण च ॥ ७५ ॥

ऊ(तदू ?)र्ध्वेनाथ वा कुर्यात् विस्तारं चापिचोन्नतिम् ।
उक्तोन्नतेर्वा विप्रेन्द्र स्यादर्धेन तु विस्तृतिः ॥ ७६ ॥

तच्चतुर्भागहीनं तु त्रिभागं चार्धमेव वा ।
तुङ्गत्वं विहितं पीठे चलबिम्बस्य सर्वदा ॥ ७७ ॥

धातुद्रव्यस्य चाभावात्स्थिराणामेवमेवहि ।

अथोपपीठलक्षणम्

कृत्वा तु तदधः कुर्यादुपपीठं प्रमाणतः ॥ ७८ ॥

विश्वास-प्रस्तुतिः

त्रिभागेनाथ पीठस्य प्रणालं मध्यतो भवेत् ।
तन्मानेन तु तद्दिर्घं स्वमानादग्रतः पुनः ॥ ७९ ॥

त्र्यंशमानेन विस्तीर्णं तस्यापि त्र्यंशमन्तरात् ।
खातव्यमग्रतो मूलात्तत्कुर्यान्मकराननम् ॥ ८० ॥

{{२०५}}

विश्वास-प्रस्तुतिः

वराहकूर्मवक्त्रं वा सुश्लक्ष्णमथ केवलम् ।
उच्छ्रायं नवधा युञ्ज्याच्चतुरश्रं तु मण्डलम् ॥ ८१ ॥

भागद्वयेन भूस्पर्शं कुर्याज्जान्वङ्घ्रिसञ्ज्ञितम् ।
घण्टा(टा ?)कारं तदूर्ध्वे तु वृत्तं भागद्वयोन्नतम् ॥ ८२ ॥

वृत्तोपरि ततः कुर्यात्कण्ठभागद्वयोच्छ्रितम् ।
तं च भागेन परितः सम्प्रवेशयेत् ॥ ८३ ॥

अर्धभागेन निष्क्रान्तामेकांशेन तदूर्ध्वतः ।
कुर्याद्वै मेखलां विप्र भागेनार्धेन कुम्भवत् ॥ ८४ ॥

सार्धेनोपरि भागेन चतुरश्रां तु मेखलाम् ।
जलाधारः स विज्ञेयो द्विगुणञ्चोर्ध्वविस्तृतम्(तः ?) ॥ ८५ ॥

तल्यंशेन तुलापीठं निम्नखातेन खातयेत् ।
तदूर्ध्वे कमलं कुर्यान्नातिनिम्नं च नोन्नतम् ॥ ८६ ॥

देवतास्तत्र कर्तव्या दलस्थाः पूर्वचोदिताः ।
तासां वा पूजनार्थं तु केवलं विततच्छ्रदम् ॥ ८७ ॥

पीठोच्छ्रायात्तु पादेन तदूर्ध्वे कमलोच्छितम् ।
सम्भवे सति वै भिन्ना(न्न ?)मभिन्नां(न्नं ?) सत्यसम्भवे ॥ ८८ ॥

बिम्बपीठयोः सजातीयविजातीयद्रव्यत्वविकल्पः

विश्वास-प्रस्तुतिः

सजातीयं हि यत्पीठं बिम्बस्य मुनिसत्तम ।
तदनन्तफलं विद्धि क्षेमारोग्यसुभिक्षदम् ॥ ८९ ॥

बिम्बेन सह यत्पीठं भिन्नं तच्छोभनं भवेत् ।
मोक्षदं कीर्त्तिदं चापि दद्यात्परिमितं फलम् ॥ ९० ॥

राजनं(तं ?) हेमबिम्बस्य पीठं भवति शोभनम् ।
ताम्रजं राजतस्योक्तमीरितं तस्य शैलजम् ॥ ९१ ॥

शैलजं शैलजस्योक्तं दारुजस्यापि दारुजम् ।
मृण्मयस्य च दारुक्तं शैलजं दारुजस्य च ॥ ९२ ॥

अथ प्रासादोपपीठः

विश्वास-प्रस्तुतिः

चातुर्भागेन वै गर्भाद्भित्तिमानं विधीयते ।
गर्भमानात्सभित्तीकात्प्रासादस्य तु नारद ॥ ९३ ॥

पादहीनं पुरा पीठं वृत्तं वा चतुरश्रकम् ।
अर्घन्यूनं तु वै कुर्यात्सङ्क्षिप्तं वा सुसम्मितम् ॥ ९४ ॥

{{२०६}}

विश्वास-प्रस्तुतिः

सोपानपदवीयुक्तं चतुर्दिक्षु तथा मुने ।
एवमेव समं पीठं सम्पाद्यादौ विचिन्त्य वा ॥ ९५ ॥

अथ प्रासादलक्षणम्

प्रासादं च तथा कुर्यात्तस्य लक्षणमुच्यते ।

तत्र प्रासादपीठः

देवमानात्पुरा विप्र पीठमानाद्विचिन्तयेत् ॥ ९६ ॥

विश्वास-प्रस्तुतिः

पीठं दैर्घ्येण वै कुर्यात्प्रासादस्य समन्ततः ।
गर्भद्विगुणविस्तीर्णं गर्भागारं त(य?)यथाविधम् ॥ ९७ ॥

सिद्धविद्याधराकीर्णं देवद्विजनृपान्वितम् ।
उद्यानभूधराम्भोधिसम्भवैः परिभूषितम् ॥ ९८ ॥

गजाश्वनृपसिह्माद्यैर्मृगयूथैश्च शोभितम् ।
तस्मिन्पीठोपरि शुभं प्रासादं परिकल्पयेत् ॥ ९९ ॥

प्रासादे भेदाः

विश्वास-प्रस्तुतिः

चतुरश्रं चतुर्द्वारं वृत्तमष्टाश्रमेव वा ।
एकद्वारं विचित्रं वा यथाभिमतदिग्गतम् ॥ १०० ॥

प्रागुक्तात्क्षेत्रमानाद्वै तत्सार्धं च(द्वि ?) गुणोन्नतम् ।

प्रासादपीठरचनाविधानम्

कृत्वा प्रासादपादार्धमंशकं भित्तिसम्मितम् ॥ १०१ ॥

दत्वा तस्मिंस्ततः कुर्यात्पीठोक्ता(क्तां ?)रचना(नां ?)मुने ।

प्रासादजङ्घा

गर्भोक्तोन्नतिमानेन जङ्घामुद्धृत्य यत्नतः ॥ १०२ ॥

विश्वास-प्रस्तुतिः

स्तम्भाष्टकसमोपेतां प्रागुक्तरचनान्विताम् ।
नानापत्रलताकीर्णां पुष्पस्तवकभूषिताम् ॥ १०३ ॥

जङ्घोर्ध्वरचना

विश्वास-प्रस्तुतिः

ततः शिष्टं तु शिखरं संविभज्य त्रिपञ्चधा ।
जङ्घोर्ध्वरचना कार्या एकांशेन महामते ॥ १०४ ॥

सद्गृहाणि विमानानि देवतायतनानि च ।
नानारूपाणि वै तत्र चतुर्दिक्षु प्रकल्पयेत् ॥ १०५ ॥

अथ भूमिकापञ्चकविधानम्

भागत्रिदशकेनाथ कुर्याद्वै भूमिकागणम् ।
{{२०७}}

सङ्कोचमुन्नतिं तासां रचनामवधारय ॥ १०६ ॥

विश्वास-प्रस्तुतिः

एकीकृत्य पुरा सर्वभूमिकाभागसञ्चयम् ।
भु(भ ?)ञ्जन्नवतिभिर्भागैस्समैरेकाधिकैर्मुने ॥ १०७ ॥

त्रयोदशभिरङ्गैस्तु कपोतोपरि भूमिका ।
एकापायेन तन्मानादूर्ध्वान्तं ह्रासयेत्क्रमात् ॥ १०८ ॥

भूमिर्वै मुनिशार्दूल यावदूर्ध्वं तु भूमिका ।
भवत्येकेन चांशेन अनेन विधिना भवेत् ॥ १०९ ॥

उच्छ्रायह्रासौ भूमीनां पार्श्वसङ्कोच उच्यते ।
कपोतपालेरूर्ध्वात्तु परितः शिखरं भवेत् ॥ ११० ॥

सप्तविंशतिभिर्भागैरूर्ध्वसूत्रैस्समानतः ।
कपोतपालेरर्वाक्तु भूमावेकांशमादितः ॥ १११ ॥

परितश्शोधयित्वा वै एकं चोपरि भूमिषु ।
एकैकमंशं संशोध्य यावदूर्ध्वं तु भूमिका ॥ ११२ ॥

पञ्चधा भूमिकाः कुर्यात्क्रमाद्वै विषमांशतः ।
एकस्मिन्मेखलास्तिस्रो भागे कार्याह्यधःस्थिते ॥ ११३ ॥

कपोतवद्द्वितीयेऽस्मिन्भागे तु रचना भवेत् ।
मेखलाद्वितयं कुर्यात्तृतीये च तदूर्ध्वतः ॥ ११४ ॥

चतुर्थं रचयेत्पश्चात्कम्बुभिः चक्रपङ्कजैः ।
एकैव मेखला कार्या ऊर्ध्वभागे तु पञ्चमे ॥ ११५ ॥

मेखलापत्रपुष्पाद्यै रचनीयाऽथ वा द्विज ।
सुश्लक्ष्णा केवला कार्या सुवृत्ता अश्रभूषिता ॥ ११६ ॥

एवं तु सर्वभूतानां कृत्वा तु रचनाः शुभाः ।
ऊर्ध्वस्था ऊर्ध्वभूमौ तु भागः पञ्चदशो हि यः ॥ ११७ ॥

अथामलसारकविधानम्

विश्वास-प्रस्तुतिः

तेनोष्णीषसमायुक्तं कुर्यादमलसारकम् ।
संविभज्य त्रिधा तद्वै उष्णीषं प्रथमेन वै ॥ ११८ ॥

भूमिकाग्राच्च निष्क्रान्तमीषच्छादनवद्द्विज ।
ऊर्ध्वात्तु भूमिकातुल्यः(ल्यं ?)सुलक्ष्णं रचनोज्झितम् ॥ ११९ ॥

तदूर्ध्वं नवभिर्भागैः सुसमैः संविभज्य च ।
{{२०८}}

भागेन मध्यतः कण्ठं विस्तीर्णं परिकल्पयेत् ॥ १२० ॥

विश्वास-प्रस्तुतिः

परितश्चार्धभागेन कण्ठं तु परिवर्त्तुलम् ।
कण्ठात्त्रितीयभागेन कुर्यात्तच्चापि चोन्नतम् ॥ १२१ ॥

तथाविधं तु कण्ठोर्ध्वे कार्यं दण्डासनं शुभम् ।
शुक्तिसम्पुटरूपैस्तु शृङ्गैरमलसारकम् (?) ॥ १२२ ॥

अमलसारकस्योर्ध्वमाणे चक्रविधानम्

विश्वास-प्रस्तुतिः

युक्तं कुर्याद्द्विजश्रेष्ठ चक्रं चाथ तदूर्ध्वतः ।
ध्वजदण्डसमोपेतं द्वादशारं तु धातुजम् ॥ १२३ ॥

एवं विधानि सूक्ष्माणि प्रासादानि च नारद ।
कुर्याद्वै भूमिकोणेषु द्विपञ्चाशत्कसङ्ख्यया ॥ १२४ ॥

अथ प्रासादद्वारविधानम्

विश्वास-प्रस्तुतिः

द्वारं द्वाराणि वा चास्य कुर्यान्मानयुतानि च ।
सपीठात्प्रतिमानाच्च(मामानात् ?)दशमांशेन चाधिकम् ॥ १२५ ॥

उच्छ्रितं कल्पयेद्द्वारं उच्छ्रायार्धेन विस्तृतम् ।
द्वारोच्ल्रायप्रमाणं तु विहीनेन तु कल्पयेत् ॥ १२६ ॥

द्वारशाखाद्वयं चैव तदूर्ध्वाध उदुम्बरौ ।
नवशाखान्वितं कुर्याच्छाखायुग्ममुदुम्बरे ॥ १२७ ॥

द्वाराग्रे मण्टपविधानम्

विश्वास-प्रस्तुतिः

द्वाराग्रे मण्टपश्चात्र कार्यो द्वारत्रयान्वितः ।
प्रासादक्षेत्रविस्तीर्णं चतुरश्रं समं ततः ॥ १२८ ॥

कपोतभूमिपर्यन्तमुन्नतस्तत्र मध्यतः ।
स्तम्भद्वादशकं दद्याद्भित्तिकाद्वादशान्वितम् ॥ १२९ ॥

प्रासादमानयुक्त्या तु भित्तयः स्युश्च नारद ।
एवं हि कौस्तुभं नाम कृत्वा प्रासादमुत्तमम् ॥ १३० ॥

तन्मध्ये सम्प्रतिष्ठाप्या मन्त्रमूर्तिः सनातना ।

प्रतिष्ठाकालः

शुक्लपक्षतिथौ श्रेष्ठे सुशुभे च महाग्रहे ॥ १३१ ॥

विश्वास-प्रस्तुतिः

स्वानुकूले च नक्षत्रे शुद्धलग्ने स्थिते(रे ?)तथा ।
आषाढकार्तिके चैत्रे यत्र यत्र स्थिते रवौ ॥ १३२ ॥

{{२०९}}

[अधिवासमण्डप विधानम्]

विश्वास-प्रस्तुतिः

प्राग्वा ह्युदग्वा प्रासादात्त्रिंशद्धस्तैर्द्विजायतम् ।
द्व्यधिकैर्मण्डपं कुर्यादन्य(?)द्वादशभिः करैः ॥ १३३ ॥

मण्डपमध्ये वेदिपञ्चककल्पनम्

विश्वास-प्रस्तुतिः

स्यात्तुर्यास्रायतं मध्ये वेदीनां तत्र पञ्चकम् ।
परितः पञ्चहस्तं च हस्ते हस्तेऽन्तरीकृतम् ॥ १३४ ॥

प्रदक्षिणगणोपेतं वितानाद्यैश्च भूषितम् ।

पञ्चानां वेदीनां विनियोगभेदः

वेद्यामुत्तरसंस्थायां कुर्यात्कुण्डं सलक्षणम् ॥ १३५ ॥

विश्वास-प्रस्तुतिः

होमोपकरणं सर्वं तत्रोपरि निवेश्य च ।
ततोऽपरायां वेद्यां तु नेत्र उन्मील्य नारद ॥ १३६ ॥

मण्डलं मध्यमायां तु वेद्यामप्येकपङ्कजम् ।
प्रस्तार्य चित्रं शयनं चतुर्थ्यां मुनिसत्तम ॥ १३७ ॥

स्नानकर्म ततः कुर्यात्पञ्चमाया तु दक्षिणे ।

प्रतिष्ठाविधानोपक्रमः

एवं कृत्वा समानीय पीठं ब्रह्मशिलान्वितम् ॥ १३८ ॥

विश्वास-प्रस्तुतिः

जपमानस्तु वाराहं मन्त्रमस्त्रं च देशिकः ।
भूमिष्ठे भद्रपीठे तु वेदिकायां निवेश्य च ॥ १३९ ॥

आचार्यान्साधकान्वाथ चतुरः परिकल्प्य च ।
वासुदेवादिभिर्मन्त्रैः कृतन्यासांस्तु पूजयेत् ॥ १४० ॥

वस्त्राद्यैः कर्मशालाश्च यायादस्त्रोदकेन तु ।
बिम्बमाकारशुध्यर्थं स्नापयित्वा समन्ततः ॥ १४१ ॥

उद्धृत्य मूर्तिपाद्यैस्तु शिल्पिभिर्वा रथस्थितम् ।
समानीय ततो यत्नाज्जपन्वै नारसिह्मकम् ॥ १४२ ॥

वस्त्रेणाच्छाद्य संस्थाप्य पिण्डिकोपरि साधकः ।
चक्राभिमन्त्रितान्मूर्ध्नि दद्यात्सिद्धार्थकांस्ततः ॥ १४३ ॥

कृत्वा स्नानं समाचम्य द्वारं सम्पूज्य पूर्ववत् ।
सम्प्रविश्य च दिग्बन्धं कुर्यात्सिद्धार्थकाक्षतैः ॥ १४४ ॥

{{२१०}}

विश्वास-प्रस्तुतिः

शिष्यस्य दीक्षाविधिना प्रागुक्तं च समापयेत् ।
बिम्बादिसर्वद्रव्याणामधिवासं यथास्थितम् ॥ १४५ ॥

स्वार्थतो वा परार्थेन साधकः सुसमाहितः ।
शिष्यवद्देवदेवस्य किं तु बिम्बं निवेदयेत् ॥ १४६ ॥

भगवन्भूतभव्येश त्वय्येवाराधनाय च ।
इदं बिम्बं करिष्यामि संस्तुत्य रजनिक्षये ॥ १४७ ॥

शिल्पिदोषविनाशार्थस्नपनविधानम्

विश्वास-प्रस्तुतिः

ततः स्नात्वा प्रभाते तु स्नापयेत्प्रतिमां मुने ।
प्रथमं कर्मशालोत्थ दोषविध्वंसनाय च ॥ १४८ ॥

पञ्चविंश(ति ?)त्तु कोष्ठानि कल्पयित्वा तु पूर्ववत् ।
नृसिह्ममन्त्रजप्तेन केवलेनोदकेन च ॥ १४९ ॥

ततः प्रागादितो न्यस्य साधकः कलशाष्टकम् ।
पूर्वं क्षीराम्बुना पूर्णमपरं शुद्धवारिणा ॥ १५० ॥

तृतीयं रत्नतोयेन होमतोयेन चापरम् ।
गन्धसम्मिश्रितं चान्यत्फलपुष्पोदकान्वितौ ॥ १५१ ॥

शालीबीजाम्भसा पूर्णमष्टमं परिकीर्त्तितम् ।
सत्याद्यैः पञ्चभिर्मन्त्रैस्त्रिभिः सिंहादिकैः क्रमात् ॥ १५२ ॥

एकैकं सप्तधाऽमन्त्र्य प्रागादौ कलशं द्विज ।
एकैकस्मिन्विनिक्षिप्य दर्भमृद्गोमयांस्तिलान् ॥ १५३ ॥

ततस्तेषां बहिर्न्यस्य तथादिक्कलशाष्टकम् ।
धात्रीफलोदकं पूर्वे पथ्यातोयं ततो परे ॥ १५४ ॥

गलूचिक्वाथमन्यस्मिन्विभीतकजलं परे ।
कुमारिक्वाधितं तोयं व्याघ्रीसलिलमेव च ॥ १५५ ॥

नागरोदकमन्यस्मिन्तथाऽन्यस्मिन्मधूदकम् ।
एतानि चक्रमन्त्रेण हृदाद्येनाभिमन्त्र्य च ॥ १५६ ॥

पूर्वोक्तैरथ गायत्र्या कलशैः स्नापयेत्क्रमात् ।
द्वितीयावरणस्थैस्तु उपचारा हृदा मुने ॥ १५७ ॥

केवलेनोदकेनाथ अस्त्रजप्तेन सेचयेत् ।
{{२११}}

शिल्पिदोषविनाशार्थं स्नानमेतदुदाहृतम् ॥ १५८ ॥

अधिवासस्नपनार्थकलशस्थापनाविधानम्

विश्वास-प्रस्तुतिः

विलिख्य तत्र चैशान्यां कमलं षोडशच्छदम् ।
कर्णिकोपरि संस्थाप्य कलशानां चतुष्ट्यम् ॥ १५९ ॥

पूर्वपत्रात्समारभ्य यावदीशानगोचरम् ।
षोडशान्यान्प्रतिष्ठाप्य तथैव कलशान्मुने ॥ १६० ॥

परिधाय ततो विप्र वाससी अधरोत्तरे ।

अथ नेत्रोन्मीलनविधानम्

द्वितीयवेद्यामूर्ध्वे तु शयनं परिकल्प्य च ॥ १६१ ॥

विश्वास-प्रस्तुतिः

तत्र पूर्वशिरस्कं च बिम्बं प्रस्वापयेद्द्विज ।
स्वयं शलाकां सौवर्णीं ग्रहीत्वाऽस्त्राभिमन्त्रिताम् ॥ १६२ ॥

उल्लिखेत्साधको नेत्रे नेत्रमन्त्रेण नारद ।
स्नातः शुद्धाम्बरधरस्त्वाचार्येणावलोकितः ॥ १६३ ॥

अस्त्रमन्त्रितशस्त्रेण शिल्पी प्रकटतां नयेत् ।
पीठिका तु यदग्रे स्याद्ब्रह्मपाषाणसंयुता ॥ १६४ ॥

भद्रपीठे समारोप्य तथा बिम्बं तु सुस्थिरे ।
आधारादिक्रमोपेते सदा लब्धे सुपूजिते ॥ १६५ ॥

निरीक्षेत ततो बिम्बं प्रदीप्तं ज्ञानचक्षुषा ।
ताडयेदस्त्रपुष्पेण कवचेनावकुण्ठ्य च ॥ १६६ ॥

नेत्रोन्मीलनाङ्गभूतलघुस्नपनम्

विश्वास-प्रस्तुतिः

हृदा वै पञ्चगव्येन ततश्चैव मृदम्बुना ।
सर्वौषध्युदकेनैव केवलेनाम्भसाऽथ वै ॥ १६७ ॥

सम्मृज्य वाससा चैव सुसितेनाहतेन च ।

कौतुकविसर्जनम्

कौतुकं मोचयेत्पश्चात् चक्रमन्त्रेण मन्त्रवित् ॥ १६८ ॥

विश्वास-प्रस्तुतिः

दत्वा शिरसि चार्घ्यं तु पुष्पोदकसमन्वितम् ।
संशोध्य धारणाभिस्तु ध्यात्वा तीक्ष्णांशुबिम्बवत् ॥ १६९ ॥

संहृत्य हृदि निक्षिप्य बहिस्थं स्नापयेत्ततः ।

अधिवासस्नपनविधानम्

पूजितैर्मन्त्रितैः शुद्धैः कलशैर्द्रव्यपूरितैः ॥ १७० ॥

{{२१२}}

विश्वास-प्रस्तुतिः

चन्दनार्घ्यफलोपेतैर्वृक्षपल्लवशोभितैः ।
दर्भच्छदधरैः पट्टस्रग्ग्न्धपरिभूषितैः ॥ १७१ ॥

हृद्यैः षोडशभिर्विप्र तत्रैवेशानदिक्स्थितैः ।

स्नपनकलशेषु पूरणीयद्रव्याणि

प्रथमं पञ्चगव्येन केवलेन तु पूरयेत् ॥ १७२ ॥

विश्वास-प्रस्तुतिः

गोमूत्रेण द्वितीयं तु तृतीयं गोमयाम्बुना ।
त्रेताग्निभूतिना विप्र च (तु ?)र्थं सोदकेन तु ॥ १७३ ॥

गजगोवृषभशृङ्गवल्मीकाख्य (कोत्थ ?) मृदा परम् ।
शालिक्षेत्रान्नदीमध्यात्पद्मषण्डाच्च पर्वतात् ॥ १७४ ॥

मृद्भिः षष्ठं तु कलशं पूरणीयं ततो द्विज ।
सप्तमं सर्षपाम्भोभिः सर्वौषधिभिरष्टमम् ॥ १७५ ॥

क्षीरेण नवमं विद्धि दध्ना दशममुच्यते ।
घृतेन चैकादशकं मधुना द्वादशं द्विज ॥ १७६ ॥

सर्वैस्त्रयोदशं बीजैः फलैस्सर्वैश्चतुर्दशम् ।
समस्तधान्यैरपरं सर्वगन्धैस्तु षोडशम् ॥ १७७ ॥

हृदाऽभिमन्त्रितं कृत्वा एकैकं कलशं पुरा ।
स्नपयेन्मूलमन्त्रेण एकैकेन ततः क्रमात् ॥ १७८ ॥

उदकान्तरितेनैव सार्घ्येण मुनिसत्तम ।
मसूरमाषगोधूमचूर्णैरथ विमृज्य च ॥ १७९ ॥

मूलम्

उदकान्तरितेनैव सार्घ्येण मुनिसत्तम ।
मसूरमाषगोधूमचूर्णैरथ विमृज्य च ॥ १७९ ॥

बिम्बे मन्त्रन्यासविधानम्

विश्वास-प्रस्तुतिः

प्रक्षाल्य चार्च्य शिरसा मूर्तिमन्त्रं न्यसेत्ततः ।
मूर्ध्नि वक्त्रेऽसयोः कर्णे हृदि नाभौ तु पृष्ठतः ॥ १८० ॥

कटिमूले तथोर्वोश्च जानौ गुल्फे च पादयोः ।
शेषं मन्त्रगणं प्राग्वद्धस्तन्यासं विना न्यसेत् ॥ १८१ ॥

सकलीकरणादि विधानम्

विश्वास-प्रस्तुतिः

सकलीकरणं कुर्यान्निष्कलीकरणं तथा ।
ततश्चोभयरूपात्मा(पत्वं ?) सर्वं पूर्वोक्तवद्द्विज ॥ १८२ ॥

कर्णिकास्थितैः कलशैः स्नपनम्

विश्वास-प्रस्तुतिः

सत्यादिमन्त्रैः संस्नाप्य कलशैः कर्णिकास्थितैः ।
पुष्पोदकेन प्रथमं गन्धस्वर्णोदकेन तु ॥ १८३ ॥

{{२१३}}

सर्वरत्नोदकेनाथ मार्जयेदथ वाससा ।

अथार्घ्यसमर्पणप्रभृतिविज्ञापनान्तमभ्यर्चनम्

मूलमन्त्राभिजप्तं तु दत्वाऽर्घ्यं मूर्ध्नि नारद ॥ १८४ ॥

विश्वास-प्रस्तुतिः

समालभ्य ततो बिम्बं चन्दनाद्यैर्विलेपनैः ।
वाससी परिधायाथ अलङ्कृत्य यथाविधि ॥ १८५ ॥

किरीटनूपुराद्यैश्च दिव्यैराभरणैर्मुने ।
सुपुष्पधूपदीपादिमधुपर्केण चार्चयेत् ॥ १८६ ॥

नैवेद्यैर्विविधैश्चाथ मात्राताम्बूलदर्पणैः ।
मुद्रां बध्वा प्रणम्याथ विज्ञाप्य परमेश्वरम् ॥ १८७ ॥

अथ बिम्बसहिते पीठे समस्ताध्वमयत्वध्यानम्

विश्वास-प्रस्तुतिः

विधिनाऽनेन सम्पूज्य पीठं ब्रह्मशिलान्वितम् ।
स्नापितं सह बिम्बेन यत्पुरा मुनिसत्तम ॥ १८८ ॥

समस्ताध्वमयीं ध्यायेत्पीठिकां विग्रहान्विताम् ।

पीठे आधारशक्त्यादिध्यानम्

आधारशक्तिभूतान्तं स्मरेद्ब्रह्मशिलान्वितम् ॥ १८९ ॥

पीठस्याच्छादनम्

शिलां सपिण्डिकां पश्चादाच्छाद्य शुभवाससा ।

अथ नीराजनम्

निवेद्याचमनं चार्घ्यं कुर्यान्निराजनं ततः ॥ १९० ॥

अथ रथयात्राविधानम्

विश्वास-प्रस्तुतिः

पुण्याहजयघोषेण वेदध्वनियुतेन च ।
शङ्खवादित्रनिर्घोषपटहैर्गीतिभिस्सह ॥ १९१ ॥

सुशुभैरतुलैर्विप्र समारोप्याचलं यथा(रथे?) ।
ततः प्रदक्षणीकृत्य ग्रामं प्रासादपूर्वकम् ॥ १९२ ॥

तं रथं रथमार्गेण राजवेश्म प्रवेशयेत् ।
भक्त्याऽर्घ्यपाद्ये दत्वादौ द्वाराग्रस्थस्य वै ततः ॥ १९३ ॥

अथ शयनाधिवासविधानम्

विश्वास-प्रस्तुतिः

श्वोभूतायां चतुर्थायां कुर्यात्स्वस्तिकमण्डलम् ।
रजसा वाऽठ कुसुमैः चतुर्वर्णैर्महोज्वलैः ॥ १९४ ॥

{{२१४}}

विश्वास-प्रस्तुतिः

तत्र दर्भस्तरं दत्वालाजादीन्मध्यतः क्षिपेत् ।
सखट्वालिप्तकां(?) न्यस्य सर्वोपकरणान्विताम् ॥ १९५ ॥

पीठन्यासक्रमेणाथ मूर्ध्नो देशेऽथ नारद ।
पूर्वलक्षणसंयुक्तं पूजितं कलशं न्यसेत् ॥ १९६ ॥

तस्मिन्निद्रां तथा रात्रिमनन्तं पूजयेच्छ्रियम् ।
ततः पीठस्थितं देवमवतार्य शनैः शनैः ॥ १९७ ॥

शय्यायामुपरि न्यस्य प्राक्शिरो हृदयेन तु ।
वर्मणाऽच्छादनपटं दत्वा धृपादिवासितम् ॥ १९८ ॥

मूलेन शयनस्थस्य कुर्यादाप्यायनं ततः ।
वैभवं देवताचक्रं व्यूहाख्यं तदनन्तरम् ॥ १९९ ॥

सूक्ष्मं चापि मुनिश्रेष्ठ पादयोर्हृदि मूर्धनि ।
प्रपूज्य पुष्पधूपार्व्यमुद्राभिः प्रणमेदथ ॥ २०० ॥

स्नपननेत्रोन्मीलनादितत्तत्क्रियाङ्गभूतहोमविधानम्

विश्वास-प्रस्तुतिः

गत्वा कुण्डसमीपं तु व्यापारेष्वखिलेषु च ।
होमं कुर्याद्यथाशक्ति तिलाज्यैः शतपूर्वकम् ॥ २०१ ॥

स्मृत्वैकैकं तु वै कर्म कर्ता मन्त्रोद्रितेन च ।
हृन्मन्त्रेण समूलेन दत्वा पूर्णाहुतिं ततः ॥ २०२ ॥

आप्रभाताच्च तत्कालं कर्मणां पूरणाय च ।

शान्त्युदकेन बिम्बशिरसि प्रोक्षणम्

ततः शान्त्युदकं मूर्ध्नि होमान्ते स्वात्मनो(?)द्विज ॥ २०३ ॥

दत्वाऽथ बिम्बशिरसि मूलेनाष्टकमेव तत् ।

कर्ममन्त्राणां जपो बलिदानं च

जपं च कर्ममन्त्राणां यथाशक्ति समाचरेत् ॥ २०४ ॥

भूतानां बलिदानं च कृत्वाऽस्त्रेण तु पूर्ववत् ।

चतुर्दिक्षु होमः

प्रासादस्य चतुर्दिक्षु कुण्डेषु सुशुभेषु च ॥ २०५ ॥

विश्वास-प्रस्तुतिः

मण्डपस्याथवा कुर्याद्धोमं प्रागादि मूर्तिपः ।
स्वैस्वैर्मन्त्रैः सहस्रं तु शतं वाऽष्टाधिकं मुने ॥ २०६ ॥

तैश्च शान्त्युदकं मूर्ध्नि बिम्बे वै दापयेद्गुरुः ।

{{२१५}}

[अथ ध्यानाधिवासनम्]

अथाधिवासनं कुर्याद्विधिदृष्टेन कर्मणा ॥ २०७ ॥

विश्वास-प्रस्तुतिः

ध्यानाख्यं निष्कलं शुद्धं येन सन्निहितः सदा ।
मन्त्रोह्यर्चागतो विप्र स्यात्पटस्थोऽथवा पुनः ॥ २०८ ॥

न चोपसंहृतो यावद्गुरुणा तत्त्ववेदिना ।
प्राक्सर्वमुपसंहृत्य संहारक्रमयोगतः ॥ २०९ ॥

स्वरूपे(ऽ)विकृते शुद्धे गुरुरास्ते च नारद ।
स्वहृद्रश्मिमये पद्भे स्थितिं कृत्वा पुराऽत्मनः ॥ २१० ॥

एवमेवाविनाशां च निरस्तावयवामथ ।
बोधिविज्ञानदेहं च बिम्बं सम्भाव्य वै तथा ॥ २११ ॥

द्वौ सुषुम्नात्मकौ मार्गौ प्रज्वलद्भास्वराकृती ।
हृत्पद्मगोलकापूर्वमेकैकं तौ व्यवस्थितौ ॥ २१२ ॥

मणिप्रभेवचोद्बुद्धौ (र्ध्वाधो ?) व्यापकत्वेन संस्थितौ ।
यथाऽत्मनि तथा देवे यथा देवे तथाऽत्मनि ॥ २१३ ॥

विभाव्य च ततो यायाद्दक्षिणेन पथा मुने ।
स्वदेहाद्धृदयं दे(दै?)वं वाममार्गेण संविशेत् ॥ २१४ ॥

यथात्मात्महृदये ह्यनुभूतो ह्यनूपमः ।
तदा तद्धृदयान्तस्थं स्मरेद्विज्ञानगोलकम् ॥ २१५ ॥

दृष्ट्वा स्वरश्मिखचितमानन्दापूरितं महत् ।
गमागमैकनिष्ठं तु शक्तौ ब्रह्मण्यथात्मनि ॥ २१६ ॥

देवदेहस्थितेनैव विज्ञानेन सहैकता ।
निष्पाद्या यावदस्पन्दकालमानं स्वदेहगम् ॥ २१७ ॥

पदं यदात्मना विप्र केवलेनानुभूयते ।
स्पन्दप्रवर्तितेनाथ कालेनैकात्मना द्विधा ॥ २१८ ॥

कृत्वाऽत्मनि तथा देवे निष्क्रामेदथ साधकः ।
देवदक्षिणमार्गेण विशेद्वामेन चात्मनः ॥ २१९ ॥

हृदयं भासुराकारं जन्मा(ज्ञाना ?)मृतपरिप्लुतम् ।
योगोऽयं मुनिशार्दूल बिम्बस्य द्रव्यजस्य च (?) ॥ २२० ॥

आपादान्मूर्धपर्यन्तं नाडीबृन्दस्य व्यञ्जकम् (कः ?) ।

ईश्वरसन्धानम्

येन सर्वेशता विप्र बिम्बस्यास्य प्रजायते ॥ २२१ ॥

{{२१६}}

विश्वास-प्रस्तुतिः

तं योगमधुना वच्मि एकाग्रमवधारय ।
हृत्पुण्डरीकमध्यस्थः साधको वृत्तिवर्जितः ॥ २२२ ॥

स्वमन्त्रोच्चारयोगेन प्राग्वत्पदमनामयम् ।
यायादूर्ध्वं प्रवाहेण तावद्भूयः प्रवर्तते ॥ २२३ ॥

अनिच्छन्नव्यथोऽक्षुब्धः स्वेच्छया क्षोभमेति च ।
यथाऽसन्नतरो दीपो ह्यकम्पः कम्पमेति च ॥ २२४ ॥

कोशकारो यथा तन्तुं गृहीत्वा सम्प्रवर्तते ।
विज्ञानशक्तिमालम्ब्य एवं भूयो हृदम्बुजम् ॥ २२५ ॥

स्वकीयं माययाऽचार्यः पूर्ववत्संविशेत्ततः ।
देवस्य हृदयाम्भोजं विलोक्य सह तेन वै ॥ २२६ ॥

भावयित्वाऽथ विज्ञानं बोधशक्त्या ततो व्रजेत् ।
तद्द्वादशान्तमागत्य ज्ञेयाख्यं न च नान्तरम् ॥ २२७ ॥

तत्पदात्पूर्वयुक्त्याऽथ दैवं हृदयमाश्रयेत् ।
ततो वै देवहृदयात्प्रविश्य हृदयं स्वकम् ॥ २२८ ॥

सह मार्गेण हृदयादेत्य स्वं नेत्रगोलकम् ।
एवं देवेऽनुसन्धाय निरीक्ष्य च परस्परम् ॥ २२९ ॥

देवालोकेन चात्मानमनुसिद्धिं च संस्मरेत् ।
आत्मालोकेन देवेशं भिन्नं सर्वत्र भावयेत् ॥ २३० ॥

एतदीश्वरसन्धानं भिन्नमेकान्तलक्षणम् ।
सर्वैश्वर्यप्रदं विद्धि सर्वदा प्रतिमासु वै ॥ २३१ ॥

शब्दानुसन्धानम्

विश्वास-प्रस्तुतिः

अथशब्दानुसन्धानमनेकाद्भुतदर्शनम् ।
वक्ष्यामि चैव मन्त्रात्मा बिम्बेनैकाङ्गतां व्रजेत् ॥ २३२ ॥

निष्कम्पबोधसामान्यरूपो भूत्वा पुनःस्वयम् ।
ये शब्दजनिता भावाः सूक्ष्मैः(क्ष्माः ?)सूक्ष्मतराखिलाः ॥ २३३ ॥

सामान्याबोधशब्देन तान्पश्येदेकतां गतान् ।
सङ्कल्पपूर्वपूर्वोत्थशब्दमात्रेण वर्जितान् ॥ २३४ ॥

सचाभिमुखमायाति सङ्कल्पादुत्थितस्य च ।
शब्दरूपपदार्थस्य शब्दः स परमो द्विज ॥ २३५ ॥

{{२१७}}

विश्वास-प्रस्तुतिः

सङ्कल्पपदवीरूढः स्फुरत्यन्तस्थितः स्फुटम् ।
पदार्थोपरि यः शब्दो मध्यमं विद्धि तं मुने ॥ २३६ ॥

हृत्पद्मकर्णिकासंस्थः प्रयत्नपदवीषु च ।
विज्ञानकरणोत्थासु यश्चाभिव्यक्तिमेति च ॥ २३७ ॥

वाच्यवाचकरूपेण स शब्दः स्थूल उच्यते ।
अतिस्थूलपरत्वेन स च वाग्विषये पुनः ॥ २३८ ॥

दृश्यादृश्येषु भावेषु अभिव्यक्तिं प्रयाति च ।
ततः स्थूलतरः शब्दो व्यवहारेऽखिलः स्थितः ॥ २३९ ॥

तस्माच्छब्दमयो देह इति चेतसि वै पुरा ।
निष्कम्पं साधकैः कृत्वा बिम्बं भाव्य तदात्मकम् ॥ २४० ॥

शब्दसंहारयोगेन स्वपिण्डं बिम्बसंयुतम् ।
निष्कम्पबोधशब्दात्मा यो गुरुः सप्रपश्यति ॥ २४१ ॥

पूर्वोक्तक्रमयोगेन शब्दब्रह्मात्मना तु तम् ।
पश्येत्परिणतं विप्र क्रमाद्बिम्बात्मना तु वै ॥ २४२ ॥

तेन संस्थापितं बिम्बं भुक्तिमुक्तिफलप्रदम् ।
एवं शब्दानुसन्धानं कृत्वा बिम्बस्य नारद ॥ २४३ ॥

अथ मन्त्रसन्धानम्

विश्वास-प्रस्तुतिः

ततो वै मन्त्रसन्धानमारभेत प्रयत्नतः ।
अशब्दभेदं शब्दात्म नित्योदितमनाहतम् ॥ २४४ ॥

स्वहृत्पद्मस्थितं मन्त्रमुदितं नादसूत्रवत् ।
निस्सृतं मध्यमार्गेण बिम्बान्तः संविशन् स्मरेत् ॥ २४५ ॥

स्फुरत्तारकरूपं च मन्त्रैर्व्याप्तं तथाऽखिलैः ।
मन्त्रात्मानं जगन्नाथं बिम्बं तत्पद्ममध्यगम् ॥ २४६ ॥

संस्मरेत्सृष्टिसंहारौ कुर्वन्तं साधकोत्तमः ।
परः स एव बोद्धव्यः सुसूक्ष्मः स च निष्कलः ॥ २४७ ॥

सकलं निष्कलं चैव बोद्धव्यमुभयात्मकम् ।

भगवतो निद्रानुसन्धानप्रकारः

विज्ञानरजनीमध्ये ज्ञेयं निद्रारसान्वितम् ॥ २४८ ॥

{{२१८}}

[अथ प्रबोधप्रकारानुसन्धानम्]

विश्वास-प्रस्तुतिः

तत्त्वग्रामप्रभातेऽथ सम्भोगदिवसोदये ।
प्रबुद्धं संस्मरेद्देवमवतीर्णं परात्पदात् ॥ २४९ ॥

बिम्बस्य पीठेन सहैकीकृतत्वभावनम्

विश्वास-प्रस्तुतिः

सर्वाध्वभोगभूपीठं तेनाक्रान्तं च भावयेत् ।
स्थितिराधारशक्तिर्वै विभोर्मन्त्रात्मकस्य च ॥ २५० ॥

तस्माद्ब्रह्मशिलापीठं बिम्बमेकीकृतं स्मरेत् ।

अथ मन्त्रन्यासपूर्वकमभ्यर्चनम्

ध्यानाधिवासयोगेन पूजयेत्तदनन्तरम् ॥ २५१ ॥

विश्वास-प्रस्तुतिः

मन्त्रन्यासं पुरा कृत्वा त्रिधा पूर्वक्रमेण तु ।
हस्तन्यासं विना विप्र लययुक्ततयाऽखिलम् ॥ २५२ ॥

पाद्येनार्घ्येण पुष्पेण धूपेन च विलेपनैः ।
मधुपर्केण चान्नेन भक्ष्यैरुच्चावचैस्तथा ॥ २५३ ॥

पवित्रैः पानकै हृद्यैस्तै रसालादिभिः फलैः ।
मधुराम्बुरसैः सर्वैर्मूर्तैर्भोगैरनेकशः ॥ २५४ ॥

समस्तधातुभिर्बीजैर्वाद्यैर्गेयैस्तथाऽखिलैः ।
वसनच्छत्रवस्त्रैस्तु दर्पणाञ्जनवाहनैः ॥ २५५ ॥

उपानट्पादुकाभ्यां च चामरैः पादपीठकैः ।
प्रतिग्रहेण ताम्बूलैर्वासोभिर्ध्वजभूषणैः ॥ २५६ ॥

उद्यानवेश्मप्रासादरचनारचितैः शुभैः ।
शयनैरासनैः सर्वैः गृहोपकरणैस्तथा ॥ २५७ ॥

पताकाभिर्वितानैश्च शस्त्रैश्शास्त्रैस्तथाऽखिलैः ।
मात्रागोभिस्तथा ग्रामैः पशुभिः पक्षिभिस्तथा ॥ २५८ ॥

अन्तर्मानैरनन्तैश्च सम्पूर्णैरप्यकृत्रिमैः ।
वध्वा कामदुधां मुद्रां स्वमन्त्राभोगरूपिणीम् ॥ २५९ ॥

भोगमन्त्रेण चैकैकं गायत्त्र्या विनिवेद्य च ।
ततो जितन्ते स्तोतव्यो दत्वा धूपं मुहुर्मुहुः ॥ २६० ॥

[पूर्वादिषु चतुर्षु दिक्षु पश्चिमाद्यभिमुखमवस्थितैर्ब्राह्मणैः
क्रमादृगादिमन्त्रपठनम्]

पूर्वे प्रत्यङ्मुखं कृत्वा आसनस्थं द्विजोत्तमम् ।
{{२१९}}

पुष्पमाल्यैस्तथोष्णीषैर्भूषणैस्त्वङ्गुलीयकैः ॥ २६१ ॥

विश्वास-प्रस्तुतिः

ऋङ्मन्त्रान्पाठयेत्पूर्वं वीक्ष्यमाणमुदग्दिशम् ।
यजुर्बृन्दं वैष्णवं यत्पाठयेद्देशिकस्तु तत् ॥ २६२ ॥

गायेत्सामानि शुद्धानि सामज्ञः पश्चिमस्थितः ।
भक्तश्चोदक्स्थितो ब्रूयाद्दक्षिणस्थो(णास्यो ?)ह्यथर्वणम् ॥ २६३ ॥

स्वशाखोक्तांस्तथा मन्त्रान् ज्ञातलिङ्गानशेषतः ।
एकैकं शिष्यवर्गेण वृतो याज्यक्रमेण तु ॥ २६४ ॥

[आप्ताद्यनुयायिभिः सह ईशादिविदिक्षु स्थितैः यत्यादिभिः
एकायनीयशाखामन्त्रपठनम्]

विश्वास-प्रस्तुतिः

भगवद्भाविनो ये च यतयः पाञ्चरात्रिकाः ।
चतुर्भिराप्तैर्विप्राद्यैर्युक्तांस्त्वीशदिशि न्यसेत् ॥ २६५ ॥

एकान्तिनस्तथाऽप्तैश्च(ऽनाप्तैः ?)युक्तानाग्नेयदिग्गतान् ।
निवेश्य विप्र नैऋत्यां भक्तान्वैखानसैः(सान् ?)सह ॥ २६६ ॥

चतुर्भिरञ्जलीकैस्तु ततो वायव्यगोचरे ।
सारम्भिणस्सात्वतांश्च तत्काले भगवन्मयान् ॥ २६७ ॥

चत्वारोऽथ चतुर्दिक्षु योज्याश्च शिखिनो मुने ।
तेषां चैवानुयायित्वाच्चत्वारस्तु प्रवर्तिनः ॥ २६८ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तम ।
एकायनीयशाखोत्थान्मन्त्रान्परमपावनान् ॥ २६९ ॥

पाठयेच्च यतीनाप्तान् पूर्वान्वै पाञ्चरात्रिकान् ।
स्वानुष्ठानैः स्वकान्मन्त्रान्जपतः संशितव्रतान् ॥ २७० ॥

प्रागादिषु चतुर्षु दिक्षु गुर्वादीनां स्थितिः

विश्वास-प्रस्तुतिः

प्रागादौ चोन्तरान्तं च चत्वारो गुरुपूर्वकाः ।
बहवः समयज्ञान्ताः द्वावेको वा स्वशक्तितः ॥ २७१ ॥

कृतन्यासास्तथा ध्यानमुद्रालङ्कृतपाणयः ।
स्ववाससि स्वकां मुद्रां छन्नां कुर्युः परस्परम् ॥ २७२ ॥

गीतनृत्तपराश्चान्ये अग्रतः स्तोत्रपाठकाः ।
वन्दिबृन्दयुता बाह्ये तथा दुन्दुभिवादिनः ॥ २७३ ॥

प्रतिकर्म ततः कुर्याद्धोमं शक्त्या तु साधकः ।

{{२२०}}

[ब्रह्मशिलापीठयोस्तत्त्वसंशोधनादि]

दीक्षाविधिक्रमेणैवं सकलां तत्त्वपद्धतिम् ॥ २७४ ॥

विश्वास-प्रस्तुतिः

संशोध्य परभावस्थ आचार्यः सुसमाहितः ।
आधारशक्तिमन्त्रेण जुहुयाद्ब्रह्मसञ्ज्ञिताम् ॥ २७५ ॥

सन्तर्प्य पीठिकां शक्त्याधारमन्त्रेण नारद ।
लयात्मरूपी भगवानाज्येन बहुना ततः ॥ २७६ ॥

शान्त्युदकप्रोक्षणम्

विश्वास-प्रस्तुतिः

दद्याच्छान्त्युदकं मूर्ध्नि क्रमेणैव तु त्रिष्वपि ।
मूलमन्त्रेण विधिवद्धृदयाद्रेचितेन तु ॥ २७७ ॥

भगवन्तं कृते त्त्वेवं बिम्बस्थं श्रावयेद्गुरुः ।
मनसा सुविशुद्धेन इमं मन्त्रमुपस्थितम् ॥ २७८ ॥

सान्निध्यप्रार्थनम्

विश्वास-प्रस्तुतिः

त्वया सन्निहितेनात्र भवितव्यमथोक्षज ।
मत्पूर्वाणां हि भक्तानां सिद्धिहेतोर्निरञ्जन ॥ २७९ ॥

ततः स भगवान्मन्त्रप्रबुद्धः कमलेक्षणः ।

उत्थापनसम्मुखीकरणादि

बिम्बमुत्थाप्य तु ध्येय आचार्येण तु सम्मुखम् ॥ २८० ॥

कृत्वा तु पादपतनमष्टाङ्गेन तु साधकः ।

लयभोगविधानेन यजनम्

अत्यौत्सुक्याच्च यागस्थमवतार्य यजेत्ततः ॥ २८१ ॥

लयभोगात्मना सम्यक् पूर्वोक्तविधिना ततः ।

वह्निस्थस्य पूजनम्

तथा क्रमेण वह्निस्थं पूजयित्वा प्रतर्प्य च ॥ २८२ ॥

शान्तिहोमविधानम्

विश्वास-प्रस्तुतिः

चतुर्द्रव्यमयं होमं ततः साधक आचरेत् ।
तत्त्वानां च समस्तानां विभवस्याखिलस्य च ॥ २८३ ॥

व्यूहस्य सूक्ष्मसञ्ज्ञस्य मन्त्रस्यानेकरूपिणः ।
मन्त्रातिरिक्तशक्तेस्तु शक्तीशस्यायुतस्य च ॥ २८४ ॥

एकसन्धानकरणं विन्यस्यापि(स्तानां ?) ततो मुने ।
{{२२१}}

संहारस्थितियोगेन यथा तदवधारय ॥ २८५ ॥

विश्वास-प्रस्तुतिः

बिम्बात्मनो विभोः स्पृष्ट्वा घृतेन चरणद्वयम् ।
तद्धृतं होमयेद्विप्र शतसङ्ख्याष्टसंयुतम् ॥ २८६ ॥

अन्ते निक्षिप्य पादाभ्यां दर्भकूर्चेन चोपरि ।
तथैव दध्ना होमं च स्पृष्ट्वा नाभिं समाचरेत् ॥ २८७ ॥

क्षीरहोमं ततः कुर्याद्धृद्देशे स्पर्शने सति ।
अथोत्तमाङ्गं संस्पृश्य होमयेत्केवलं मधु ॥ २८८ ॥

एकीकृत्याथ वै सर्वं समभागेन नारद ।
सर्वगात्राणि संस्पृश्य होमयेत्तदनन्तरम् ॥ २८९ ॥

अनिरुद्धादिसत्यान्तैर्मन्त्रैः पादादि होमयेत् ।
दत्वा घृतेन वै पश्चात्पूर्णां मूलेन नारद ॥ २९० ॥

[शान्तिहोमान्ते मध्वादिचतुर्द्रव्यैर्भोजनविधानं दक्षिणादानं
च]

विश्वास-प्रस्तुतिः

भोजयेन्मूर्त्तिमन्त्रेण मध्वाज्यघृतपायसैः ।
दक्षिणां च यथाशक्ति दद्याद्धेमादिकं ततः ॥ २९१ ॥

अथ लग्नकालप्रतीक्षायां कालापनोदनक्रमः

विश्वास-प्रस्तुतिः

प्रतीक्षेल्लग्नकालं तु यावन्नायाति स द्विज ।
तावद्विनोदैर्होमैश्च हासैः पाठैश्च सङ्क्षिपेत् ॥ २९२ ॥

अथ प्रतिष्ठासमये सन्निहिते प्रथमं कर्तव्यः प्रार्थनाप्रकारः

विश्वास-प्रस्तुतिः

प्राप्ते लग्नोदये विप्र सन्निरोध्य जगत्प्रभुम् ।
क्षणं क्षमस्व भगवन्सर्वज्ञ करुणास्पद ॥ २९३ ॥

निवेशयामि ते यावत्प्रासादे ब्रह्मपीठिकाम् ।

शयनस्थस्य भगवतो निद्रायमाणत्वेन स्मरणम्

स्मरेन्निद्रायमाणं तु शयनस्थं जगद्गुरुम् ॥ २९४ ॥

प्रासादप्रवेशविघ्नप्रशमनादिविधानम्

विश्वास-प्रस्तुतिः

ततो मूर्तिधरैः सार्धं प्रासादं संव्रजेद्गुरुः ।
हन्याच्चक्रेण तत्रस्थान् विघ्नान्सास्त्रेण नारद ॥ २९५ ॥

प्रक्षाल्य च तमस्त्रेण स्मरेद्ब्रह्मशिलां ततः ।

ब्रह्मशिलास्थापनविधानम्

किञ्चित्पीठतलन्यूनां समां श्लक्ष्णां दृढां द्विज ॥ २९६ ॥

{{२२२}}

विश्वास-प्रस्तुतिः

कृत्वा नवपदां पूर्वं पद्मं तस्यां पदे पदे ।
विलिख्य रेखया सम्यक् खनेत्सर्वेषु कर्णिकाम् ॥ २९७ ॥

सप्तधा तु ततः कुर्यात्प्रासादं सुसमैः पदैः ।
द्वारात्पश्चिमभित्यन्तमेकद्वारेण नारद ॥ २९८ ॥

द्वारदेशात्समारभ्य त्यक्त्वा भागचतुष्टयम् ।
द्वाभ्यां पदाभ्यां मध्ये तु न्यसेद्ब्रह्मशिलां मुने ॥ २९९ ॥

द्वारान्मध्यं न सन्त्याज्यं देवस्थापनकर्मणि ।
चतुर्द्वारे तु भवने मध्येऽथ विनिवेश्य च ॥ ३०० ॥

त्रिधा कृते चतुर्दिक्षु तत्र ब्रह्मशिलां दृढाम् ।
ब्रह्मशीलाक्षेपादौ सति गर्भे लभेर्चनम्(?) ॥ ३०१ ॥

ततो ब्रह्मशिलामानं बाहुव्यायामयोः खनेत् ।
तत्पूर्वं सूत्रमार्गेण सञ्चाल्योत्तरदिङ्नयेत् ॥ ३०२ ॥

श्वभ्रं तत्रापि मध्ये तु शुभं कुर्यात्षडङ्गुलम् ।
तस्मिंस्तु रत्नसम्पूर्ण हेमजं वाऽथ ताम्रजम् ॥ ३०३ ॥

चतुरङ्गुलमात्रं तु कलशं कम्बुरूपिणम् ।
हृन्मन्त्रेण तु सम्मन्त्र्य गायत्र्या च निवेश्य च ॥ ३०४ ॥

सपिधानं तु तत्कृत्वा सुधालेपं तथोपरि ।
दत्वा ब्रह्मशिलां न्यस्येत्प्राङ्मन्त्रपरिभाविताम् ॥ ३०४ ॥

व्यापकत्वं समालम्ब्य स्वयमेव तदा गुरुः ।
तां शिलां व्यापिकां ध्यायेदाधाराधेयविग्रहाम् ॥ ३०५ ॥

तत्र सर्वोर्ध्वगं न्यासं मूलमन्त्रेण भावयेत् ।
एवं तत्सन्निधिं कृत्वा पश्चात्तत्रोपरि द्विज ॥ ३०६ ॥

रत्नादिन्यासः

विश्वास-प्रस्तुतिः

न्यासं रत्नादिकं कुर्याद्यथा तदवधारय ।
हैममग्निं तथाऽनन्तं राजतं हेमजां धराम् ॥ ३०७ ॥

अष्टलोहमयं पद्मं मध्ये ब्रह्मशिलोपरि ।
प्राच्यादौ पद्मगर्भेषु क्रमादीशानगोचरम् ॥ ३०८ ॥

वज्रं च सूर्यकान्तं च इन्द्रनीलं तथैव च ।
महानीलं मुनिश्रेष्ठ मुक्ताफलमतः परम् ॥ ३०९ ॥

पुष्यरागमतश्चैव पद्मरागमतः परम् ।
{{२२३}}

ऐशान्ये न्यस्य वैडूर्यं मध्यतः स्फटिकं न्यसेत् ॥ ३१० ॥

विश्वास-प्रस्तुतिः

प्रागादौ रजतं ताम्रं त्रपु वङ्गमतीरुतम् ।
लोहं तथायसं कांस्यं मध्ये हेम निवेश्य च ॥ ३११ ॥

तालं मनश्शिलां चापि रजनीं कुष्ठमेव च ।
स्त्रोतोऽञ्जनं तु दरदं सौराष्ट्रं हेमगैरिकम् ॥ ३१२ ॥

मध्ये तु राजपाषाणं पारदं चाथ सर्वतः ।
गोधूमांश्च यवान्वन्यान्मुद्गमाषांस्तथैव च ॥ ३१३ ॥

चणकान्मुनिशार्दूल कुलुत्थं च मसूरकम् ।
क्रमादष्टसु विन्यस्य मध्ये सिद्धार्थकांस्तिलान् ॥ ३१४ ॥

ह्रीबेरं रजनीं मांसीं सहदेवीं वचां ततः ।
विष्णुक्रान्तां वलां मोटां श्यामाकं शङ्खपुष्पकम् ॥ ३१५ ॥

प्रागादौ मध्यपर्यन्तं विन्यसेन्मूलसन्ततिम् ।
अभावात्सर्ववस्तूनां हेमं सर्वत्र विन्यसेत् ॥ ३१६ ॥

तदभावात्तु तारं तु न्यसेन्मुक्ताफलानि च ।
घृतेन पयसा वाथ प्रापितेन पुरैव तु ॥ ३१७ ॥

प्रदद्याल्लेपनं विप्र सर्वगर्तेषु चैव हि ।
अहतं सुसितं पश्चात्तत्रोपरि दुकूलकम् ॥ ३१८ ॥

ब्रह्मशिलोपरि पीठन्यासविधानम्

विश्वास-प्रस्तुतिः

ततः श्लक्ष्णं सुधालेपं दत्वा पीठं तु विन्यसेत् ।
सन्धाय पूर्ववत्तच्च शिलया सह नारद ॥ ३१९ ॥

पीठश्वभ्रेऽथ विन्यस्य सौवर्णं गरुडं मम(मुने) ।
क्षीरं दधि घृतं लाजं मधुपुष्पफलानि च ॥ ३२० ॥

सर्वगन्धानि विप्रेन्द्र सर्वौषधियुतानि च ।
भावयेत्पूर्ववत्पीठे धर्माद्यैरखिलैर्युतम् ॥ ३२१ ॥

चिदासनमयीं व्याप्तिं पुनस्तत्रोपरि न्यसेत् ।
हृदाऽथ विष्णुगायत्त्र्या एकैकमभिमन्त्र्य च ॥ ३२२ ॥

विन्यस्य कुर्याद्धवनं यस्मिन्यस्मिंस्तु कर्मणि ।
पीठन्यासविधिं यावत्ततः पूर्णाहुतिं जुहेत् ॥ ३२३ ॥

अथ प्रबोधनम्

प्राप्ते लग्नोदये विप्र शयनस्थं प्रबोधयेत् ।
{{२२४}}

मन्त्रात्मन् रूपमात्मीयमाग्नेयमुपसंहर ॥ ३२४ ॥

विश्वास-प्रस्तुतिः

समाश्रयस्व सौम्यत्वं स्थित्यर्थं परमेश्वर ।
नमस्तेऽस्तु हृषीकेश उत्तिष्ठ परमेश्वर ॥ ३२५ ॥

मदनुग्रहहेत्वर्थं पीठभूमिं समाक्रम ।

देवस्य प्रासादे प्रवेशनम्

उद्धृत्य मूर्त्तिपैः सम्यक् पृष्ठे वा साधकोऽग्रतः ॥ ३२६ ॥

विश्वास-प्रस्तुतिः

यायात्प्रक्षिपमाणस्तु सार्ध्यार्थं(?)रत्नकं बहु ।
प्रदक्षिणं ततः कुर्यात्प्रासादस्य च नारद ॥ ३२७ ॥

शनैः प्रवेशयेद्देवं यथोर्ध्वं तु न संस्पृशेत् ।
पार्श्वद्वयं तु द्वारीयं

अथ पीठे देवस्य स्थापनम्

			पीठमध्येऽथ विन्यसेत् ॥ ३२८ ॥  
विश्वास-प्रस्तुतिः

हृदा सम्पुटयोगेन मूलमन्त्रेण नारद ।
तत्र तं चाग्रतः स्थाप्य तत्पार्श्वे पृष्ठतोऽपि च ॥ ३२९ ॥

वज्रलेपेन गायत्र्या पीठस्यैकात्म्यतां नयेत् ।
तारकं पूर्वमुच्चार्य गुरुः प्रणतमस्तकः ॥ ३३० ॥

विज्ञापनम्

विश्वास-प्रस्तुतिः

आराधितोऽसि भगवन्साधकानां हिताय च ।
त्वयाऽप्यनुग्रहार्थं च वस्तव्यमिह सर्वदा ॥ ३३१ ॥

त्वं तिष्ठसि प्रभो यत्र तत्र सिद्धिर्न दूरतः ।
भवेद्वै साधकेन्द्राणामित्युक्तं च पुरा त्वया ॥ ३३२ ॥

तस्माध्रुवं सदा तुष्टस्सानुकम्पापरो महान् ।
सदा ह्यनुग्रहपरस्तिष्ठस्वाचन्द्रतारकम् ॥ ३३३ ॥

एवमुक्त्वा ततो दद्यादर्घ्यं शिरसि पादयोः ।

अथ तत्त्वसंस्थापनम्

तत्त्वसंस्थापनं कुर्यात्प्रकृतिस्थापनादनु ॥ ३३४ ॥

विश्वास-प्रस्तुतिः

विज्ञानानन्दकल्लोलज्ञेयभासां तथा रवैः ।
अनेकाह्लादजनितैराचारादिभिरा(राचाधाराच्छिरो ?)वधि ॥ ३३५ ॥

पश्येन्मन्त्रमयं बिम्बमनेकाद्भुतविग्रहम् ।
एवं सर्वसमुत्पत्तिस्थाने सङ्कल्पसिद्धिदम् ॥ ३३६ ॥

{{२२५}}

[बिम्बस्य मन्त्रमयवृक्षत्वेन भावनम्]

विश्वास-प्रस्तुतिः

बिम्बं मन्त्रमयं वृक्षं प्रतिष्ठाप्यामलात्मना ।
तद्विज्ञानमयीं शाखां प्रवरायाति चो(मायतो ?)न्नताम् ॥ ३३७ ॥

अनन्तगगनाक्रान्तां भावयेत्साधको द्विज ।
प्रभूतेन तु वै तस्मादनौपम्यामृतेन तु ॥ ३३८ ॥

मन्त्रबिम्बमयं वृक्षं सरसं भावयेत्सदा ।
यथा भौमेन तोयेन गगनोत्थेन नारद ॥ ३३९ ॥

मूलम्

मन्त्रबिम्बमयं वृक्षं सरसं भावयेत्सदा ।
यथा भौमेन तोयेन गगनोत्थेन नारद ॥ ३३९ ॥

मन्दारपुष्पविटपी तद्वदेव हि नान्यथा ।

[बिम्बपीठादिषु न्यस्तस्य मन्त्रचक्रस्य लयभोगादिविधानेन
पूजनविधानम्]

ततः सम्पूजयेत्तत्र लययागेन चाखिलम् ॥ ३४० ॥

विश्वास-प्रस्तुतिः

पीठस्थं भोगयागेन मन्त्रचक्रं यजेत्पुनः ।
पीठमूलं समाश्रित्य लोकेशान्सायुधान्यसेत् ॥ ३४१ ॥

पीठीयमन्त्रसङ्घं च विलोमेनाथ पूजयेत् ।
आधारशक्तिपर्यन्तं सृष्टिन्यासेन नारद ॥ ३४२ ॥

प्रतिष्ठादिवसे कर्तव्यं प्रतिष्ठानन्तरं स्नपनम्

पूजयित्वा ततो देवं स्नापयेत्

चतुःस्थानार्चनम्

			मण्डले पुनः ।  

प्रपूज्य पूर्वविधिना मण्डलानुक्रमेण तु ॥ ३४३ ॥

होमान्तं निखिलं कृत्वा दद्यात्पूर्णाहुतिं ततः ।

सुप्रतिष्ठितत्वाभिशंसनम्

स्वामीति च स्वनामान्तं रूढिशब्दं प्रकल्प्य च ॥ ३४४ ॥

विश्वास-प्रस्तुतिः

ताल(र ?)शब्दयुतं सर्वैरेवमस्त्विति चोच्चरन् ।
पुष्पाक्षताञ्जलिं पूर्णं क्षिपमाणाश्च नारद ॥ ३४५ ॥

सर्वे वदेयुस्तत्रस्था भगवान्सुप्रतिष्ठितः ।

स्तुतिजयोद्घोषः

ततः सर्वैस्स भगवान्स्तोतव्यो जगतः पतिः ॥ ३४६ ॥

जितन्तेनोच्चया वाचा ततो जयजयेति च ।
{{२२६}}

जीवभूतेन वै तेन विभुना मन्त्रमूर्त्तिना ॥ ३४७ ॥

प्रतिष्ठितेन विप्रेन्द्र विद्धि सर्वं प्रतिष्ठितम् ।

प्रदक्षिणप्रणामौ

आमूलाद्धजपर्यन्तं प्रासादे यः पुराकृतः ॥ ३४८ ॥

देवं प्रदक्षणीकृत्य अष्टाङ्गेन प्रणम्य च ।

बलिदानम्

ग्रहीत्वा चार्घ्यपात्रं तु यायाद्देवगृहाद्बहिः ॥ ३४९ ॥

विश्वास-प्रस्तुतिः

प्रभूतानां च भूतानां बलिदानं समापयेत् ।
गृह्णन्तु भगवद्भक्ता भूताः प्रासादबाह्यगाः ॥ ३५० ॥

बलिं मन्त्रपवित्राश्च(त्रं च ?) तेषामनुचराश्च ये ।
सोदकेन तु पात्रेण दत्वा देवं प्रणम्य च ॥ ३५१ ॥

न्यूनाधिकशान्त्यर्थपूर्णाहुतिः

विश्वास-प्रस्तुतिः

व्रजेद्यागगृहं पश्चात्पूर्णहोमं समाचरेत् ।
ऊनाधिकनिमित्तं च दद्यात्पूर्णाहुतिं ततः ॥ ३५२ ॥

अथ फलश्रुतिः

विश्वास-प्रस्तुतिः

आदेवालयभूभागाद्ध्वजान्ताच्चापि मण्डपात् ।
सर्वोपकरणोपेतात्परमाणुषु नारद ॥ ३५३ ॥

यावती जायते सङ्ख्या तावत्कर्ता समावसेत् ।
भोगभुग्विष्णुलोके च यात्यन्ते परमं पदम् ॥ ३५४ ॥

प्रतिष्ठाकर्मणि वृतानां पूजनम्

विश्वास-प्रस्तुतिः

ततः सम्पूज्य विधिवत्क्रमात्सर्वान्पुरोदितान् ।
गन्धार्घ्यपुष्पधूपेन माल्यैश्चैवानुलेपनैः ॥ ३५५ ॥

भोजनैर्विविधैश्शक्त्या दक्षिणाभिर्महामुने ।

अथ रात्रौ जागरणम्

रात्रौ जागरणं कुर्यान्नृत्तगीतैर्महोत्सवम् ॥ ३५६ ॥

प्रतिष्ठादिनाद्यावद्दिनचतुष्टयं होमस्य कर्तव्यता

विश्वास-प्रस्तुतिः

अव्युच्छिन्नोदितं होमं कुर्याद्दिनचतुष्टयम् ।
क्षणवारानुसारेण (?)बहिः कुण्डेषु चान्तरे ॥ ३५७ ॥

यथा दिनचतुष्कं तु धूमच्छेदो न तत्र वै ।

{{२२७}}

[प्रतिष्ठादिनाच्चतुर्थदिने स्नपनादिविधानम्]

चतुर्थेऽहनि सम्प्राप्ते संस्नाप्य परमेश्वरम् ॥ ३५८ ॥

विश्वास-प्रस्तुतिः

प्रपूज्य पूर्वविधिना होमं कुर्याच्च शक्तितः ।
समग्रमन्त्रजालस्य दत्वा पूर्णाहुतिं ततः ॥ ३५९ ॥

अथ विष्वक्सेनपूजनम्

विश्वास-प्रस्तुतिः

प्रागुक्तेन विधानेन प्रासादाभ्यन्तरे द्विज ।
ऐशान्यां चलपीठस्थं कुम्भे वा तोयपूरिते ॥ ३६० ॥

प्रपूज्य विष्वक्सेनं च पूजितव्याश्च मूर्तिपाः ।

शिष्टद्रव्यविनियोगप्रकारः

निर्वर्त्य सर्वसम्भारं स्वगुरोर्विनिवेद्य च ॥ ३६१ ॥

विश्वास-प्रस्तुतिः

स्वयं वा यः प्रतिष्ठानमाचार्यस्त्वाचरेद्द्विज ।
यत्नाद्विभजनीयं तन्मूर्त्तिपादिष्वनुक्रमात् ॥ ३६२ ॥

अवभृथः

विश्वास-प्रस्तुतिः

सिद्धिमुक्त्योरभीप्सार्थं स्नायादवभृथेन च ।
इत्येतत्साधकस्योक्तं मन्त्राराधनकाङ्क्षिणः ॥ ३६३ ॥

मन्त्रमूर्त्तिप्रतिष्ठानं यत्रस्थः सिद्धिमाप्नुयात् ।

चित्रप्रतिष्ठायां विशेषः

लेपभित्तिपटस्थानां स्नानाद्यं दर्पणे मुने ॥ ३६४ ॥

कुर्यान्निरवशेषं च पुष्पैः पूजां जलोज्झितैः ।

तत्र रत्नन्यासप्रतिषेधः

भित्तिगानां पटस्थानां बिम्बानां स्थापने द्विज ॥ ३६५ ॥

पीठब्रह्मशिलारत्नन्यासाख्यो न भवेद्विधिः ।

अन्यत्र धातुजादिषु तद्विधानम्

समानयोनिपीठानां धातुजानां तु नारद ॥ ३६६ ॥

विश्वास-प्रस्तुतिः

चलानां लघुदेहानां बिम्बानां तु समाचरेत् ।
शैलमृद्दारुजानां तु एवमेवहि नान्यथा ॥ ३६७ ॥

निस्सारे सति वै पीठे अन्तस्सारे स्मरेद्धिया ।

अथ जीर्णोद्धारविधानम् तत्र जीर्णबिम्बस्याभ्यर्चनप्रतिषेधः

पटे कुड्ये परिक्षीणे भग्ने बिम्बे प्रमादतः ॥ ३६८ ॥

{{२२८}}

विश्वास-प्रस्तुतिः

नार्चनं विहितं विप्र न सुशोभनमर्चनम् ।
तस्मात्कृत्वाऽर्चनं होमविशेषेण महामते ॥ ३६९ ॥

दानपूजा यतीनां च भगवत्तत्ववेदिनाम् ।
अवतारक्रमेणैव निखिलं हृदि चारभेत् ॥ ३७० ॥

आधारनिचयं न्यस्तं पूर्वोक्तविधिना मुने ।

धातुद्रव्योद्भवादन्यस्य भग्नबिम्बस्य जलाशये प्रक्षेपविधानम्

विष्वक्सेनस्य मन्त्रेण न्यासपूजामिव क्षिपेत् ॥ ३७१ ॥

विश्वास-प्रस्तुतिः

जलाशये ह्यगाधे च धातुद्रव्योद्भवं विना ।
यस्मात्त ———-बिम्बकर्मणि संस्कृतिम् ॥ ३७२ ॥

इत्येतदेकदेहानां बिम्बानां परिकीर्तितम् ।

पीठेन सहसन्धिङ्गभितेषु बिम्बेषु विशेषाः

अन्योन्यैकीकृतानां तु वज्रबन्धेन मे शृणु ॥ ३७३ ॥

तत्र किञ्चित्पीठभङ्गे निर्दोषत्वम्

किञ्चित्पीठविभङ्गे तु न दोष उपजायते ।

ईषदङ्गक्षते सन्धानम्

ईषदङ्गक्षते कुर्याद्बिम्बस्य स्वर्णघर्षणम् ॥ ३७४ ॥

पीठस्य भङ्गाधिक्ये तत्त्यागः

विश्वास-प्रस्तुतिः

बृहद्भङ्गे समुत्थाप्य पीठाद्बिम्बं तु तं क्षिपेत् ।
कृत्वा चाभिनवं पीठं तत्र संस्थापयेत्पुनः ॥ ३७५ ॥

बिम्बस्य भङ्गाधिक्ये तत्त्यागः

भग्ने बिम्बे शुभे पीठे सति बिम्बं नवं स्मृतम् ।

अविज्ञाते बीजन्यासे प्रणवेन विधानम्

बीजन्यासे ह्यविज्ञाते ब्रह्मतत्त्वं हि तद्गतम् ॥ ३७६ ॥

विश्वास-प्रस्तुतिः

तत्त्ववित्प्रोद्धरेद्यत्नात्प्रणवेनात्र कर्मणि ।
सर्वज्ञानानि तत्स्थाने मन्त्राश्च प्रणवे स्थिताः ॥ ३७७ ॥

वाच्यवाचकसम्बन्धस्ताभ्यां नान्यस्य वै यतः ।
अनेन विधिना विप्र कृतमायतनस्य यत् ॥ ३७८ ॥

तिष्ठत्यविषयं कालं नान्तर्धानं व्रजेत्पुनः ।

{{२२९}}

[देशभङ्गाद्युपद्रवे अवधानेन संरक्ष्यता]

देशभङ्गे तु मरणे दुर्भिक्षे चातिसङ्कटे ॥ ३७९ ॥

विश्वास-प्रस्तुतिः

अनावृष्टिभयात्स्थानं निरीक्ष्यं यदि तद्भवेत् ।
प्राधान्यात्सन्निधानस्य नाशुद्धिं विम्बमाप्नुयात् ॥ ३८० ॥

तस्करादिषु संस्पर्शात्तस्मिन्वेशाभिषेवणात् । (?)
यो यो मन्त्र(न्त्रि ?)वरो भक्तः साधकः कृतनिश्चयः ॥ ३८१ ॥

स सोऽत्र सिद्धिमचिरात्प्राप्नुयान्मानसेप्सिताम् ।

महोत्सवस्य कर्तव्यताविधानम्

सनक्षत्रं दिनं शुभ्रं सौम्यग्रहसमन्वितम् ॥ ३८२ ॥

विश्वास-प्रस्तुतिः

देशकर्त्तृनृपादीनामनुकूलं च मन्त्रिणः ।
समाश्रित्य नृपः कुर्यात्कर्त्ता धन्योऽपि वैष्णवः ॥ ३८३ ॥

महानिमित्तमुद्दिश्य त्रीन्वारान्वत्सरं प्रति ।
स्वदेशविहितेनैव विधिना च महोत्सवम् ॥ ३८४ ॥

कर्मबिम्बं विमानस्थं हित्वा चक्रादिकं तु वा ।
नृत्तगीतस्वनैर्गीतैर्वाद्यदानपुरस्सरम् ॥ ३८५ ॥

बलिकर्मसमोपेतं भ्रमणीयं सुशान्तये ।
सर्वग्रामादिवीधीनां कीर्तिपुण्यफलाप्तये ॥ ३८६ ॥

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां प्रतिष्ठाविधिर्नाम विंशः पटलः ॥ २० ॥