अथ मन्त्रसिद्धिचिन्हाख्यानं नामैकोनविंशः पटलः
विश्वास-प्रस्तुतिः
अभिषिक्तो ह्यनुज्ञातः कृतजापः प्रसन्नधीः ।
मन्त्रस्याराधनं कुर्याद्विधिनाऽनेन नारद ॥ १ ॥
मूलम्

एकान्ते स्वगृहे वाऽथ पूर्वोक्तध्याननिर्मितम् ।
बिम्बं सुलक्षणं कृत्वा पटस्थं धातुजं तु वा ॥ २ ॥

सर्वावयवसम्पूर्णं तालं तालाधिकं तु वा ।
विधिना तं प्रतिष्ठाप्य तत्र मन्त्रं यजेत्सदा ॥ ३ ॥

सर्वकामविभूत्यर्थं मोक्षार्थं मुनिसत्तम ।
द्वादशाब्दानि विधिवन्नियमस्थोऽर्चयेत्सदा ॥ ४ ॥

हृद्यैः पुष्पैस्तथा गन्धैः सौभाग्यारोग्यवर्धनैः ।
जपहोमैश्च विविधैर्भूत्वा मन्त्राकृतिः स्वयम् ॥ ५ ॥

शुक्लाम्बरधरः स्रग्वी सितगन्धानुलेपनः ।
पीतयज्ञोपवीती च कटकाङ्गदभूषितः ॥ ६ ॥
मूलम्
शुक्लाम्बरधरः स्रग्वी सितगन्धानुलेपनः ।
पीतयज्ञोपवीती च कटकाङ्गदभूषितः ॥ ६ ॥
विश्वास-प्रस्तुतिः
ताम्बूलशुद्धवदनो मुखवास्यैः सुवासितः ।
विचित्रतिलकोपेतः सुनिर्मलशिरोरुहः ॥ ७ ॥
मूलम्
ताम्बूलशुद्धवदनो मुखवास्यैः सुवासितः ।
विचित्रतिलकोपेतः सुनिर्मलशिरोरुहः ॥ ७ ॥
विश्वास-प्रस्तुतिः
माल्यैर्मनोहरैर्गन्धैरशेषैरधिवासितः ।
कुङ्कुमालिप्तचरणस्तथाकृतकरद्वयः ॥ ८ ॥
मूलम्
माल्यैर्मनोहरैर्गन्धैरशेषैरधिवासितः ।
कुङ्कुमालिप्तचरणस्तथाकृतकरद्वयः ॥ ८ ॥
विश्वास-प्रस्तुतिः
मूर्तिमुद्राचतुष्केण उपतिष्ठेद्विभूषितः ।
पवित्रभृद्धविष्याशी, समाराध्यश्व मन्त्रराट् ॥ ९ ॥

अभावात्साधनस्यापि केशश्मश्रुविलुण्ठितः ।
यथासम्भववस्त्री च मलयूकादिवर्जितः ॥ १० ॥

सुविनीतसुहृद्युक्तो मन्त्रमाराध्य भक्तितः ।
पूजया जपहोमेन मन्त्रराडथ सिध्यति ॥ ११ ॥

तेन सिद्धेन वै कुर्यात्कर्माणि विविधान्यपि ।
यान्यात्मनोऽभीप्सितानि लोकानामीप्सितानि च ॥ १२ ॥

नारदः
कैर्लिङ्गैर्लक्ष्यते नाथ सुसिद्धश्चैव मन्त्रराट् ।
भगवान्
मन्त्रसिद्धौ प्रवृत्तस्य साधकस्य वत्सरत्रयं विघ्नप्राप्तिः
साधकस्याक्षतार्थस्य नित्याभ्यासरतस्य च ॥ १३ ॥
{{१९७}}
विश्वास-प्रस्तुतिः
समाराधनकामस्य (सक्तस्य) प्रथमं वत्सरत्रयम् ।
जायन्ते बहुशो विघ्ना नियमस्थस्य नारद ॥ १४ ॥

नोद्वेगं साधको याति कर्मणा मनसा यदि ।
[विघ्नैरनुपहतचित्तस्य तस्य चतुर्थादिवत्सरेषु
बहुशिष्योपसेव्यतादिलक्षणशुमप्राप्तिः]
तृतीयाद्वत्सरादूर्ध्वं शुभं तस्य प्रजायते ॥ १५ ॥
विश्वास-प्रस्तुतिः
सेव्यते बहुभिः शिष्यैरहर्निशमतन्द्रितैः ।
साधकाश्चोपसेवन्ते किङ्करत्वेन भक्तितः ॥ १६ ॥

निवेदयन्ति सर्वस्वं साधकस्य महात्मनः ।
सप्तमादारभ्य राजाद्युपसेव्यता
सप्तमाद्वत्सरादूर्ध्वं राजानश्व महीभृतः ॥ १७ ॥
विश्वास-प्रस्तुतिः
प्रार्थयन्त्युपरोधेन गर्विताश्चाभिमानतः ।
प्रसादः क्रियतां नाथ ममोद्धारणकारणम् ॥ १८ ॥

प्रज्वलन्तं प्रपश्यन्ति तेजसा विभवेन च ।
अतस्ते मुनिशार्दूल निष्ठुरं वक्तुमक्षमम् ॥ १९ ॥

दशमादारभ्य नानाश्चर्यदर्शनम्
विश्वास-प्रस्तुतिः
नवमाद्वत्सरादूर्ध्वं स्वयं पश्यति मन्त्रवित् ।
नानाश्चर्याणि हृदये हासानन्दमयानि तु ॥ २० ॥

सदाऽह्लादप्रदान्याशु प्रत्यक्षेण बहिस्तथा ।
जड आस्ते क्षणं विप्र क्षणमास्ते प्रहर्षितः ॥ २१ ॥

क्षणं दुन्दुभिनिर्घोषं शृणुयादन्तरिक्षतः ।
क्षणं च मधुरं वाद्यं नानारीतिसमन्वितम् ॥ २२ ॥

क्षणमाजिघ्रते गन्धान् कर्पूरमृगनाभिजान् ।
क्षणमुत्पतमानं च पश्यत्यात्मानमात्मना ॥ २३ ॥

चन्द्रार्ककिरणाकीर्णं क्षणमालोकयेन्नभः ।
गवाश्वगजनादांश्व शृणुयाच्च क्षणं द्विज ॥ २४ ॥

निर्झरस्याम्बुसङ्क्षोभं क्षणमाकर्णयेन्महत् ।
विद्युज्ज्वालाकुलं पश्येत् क्षणं क्षितितलं द्विज ॥ २५ ॥

तोयपूर्णं क्षणं पश्येत्समग्रं क्षितिमण्डलम् ।
ऋग्युजुस्सामघोषांश्च आकर्णयति च क्षणम् ॥ २६ ॥

तारकाकारिणश्चित्रान्योगिनो नभसि स्थितान् ।
{{१९८}}
पश्यत्युग्रान्भयार्तांश्च क्षणं मन्त्रव्रती मुने ॥ २७ ॥
विश्वास-प्रस्तुतिः
क्षणं किलकिलारावं सह वह्निरवं क्षणम् ।
क्षणं मेघोदयं पश्येत्क्षणं रात्रिं दिने सति ॥ २८ ॥

रात्र्यां च दिवसालोकं ससूर्यं क्षणमीक्षते ।
बलेन परिपूर्णस्तु तेजसा सूर्यवर्चसा ॥ २९ ॥

सूर्येन्दुसदृशः कान्त्या गमने पक्षिराडिव ।
स्वरेण युक्त उच्चेन गम्भीरेण महात्मना ॥ ३० ॥

स्वल्पाशनेन कृशता बहुना च न विद्यते ।
विण्मूत्रयोरथाल्पत्वं भवेन्निद्राजयो महान् ॥ ३१ ॥

जपध्यानरतो मौनी न खेदमभिगच्छति ।
विना भोजनपानाभ्यां पक्षमासाधिकं तु वै ॥ ३२ ॥

इत्येवमादिभिश्चिह्नैः स्वहृद्विस्मयकारकैः ।
प्रवर्तमानैर्बोद्धव्यः प्रसन्नो मम मन्त्रराट् ॥ ३३ ॥

मन्त्रसिद्धेरप्रकाश्यता
विश्वास-प्रस्तुतिः
मन्त्रप्रसादजनितं लिङ्गं न तु गुरोर्विना ।
प्रकाशनीयं विप्रेन्द्र कदाचित्सिद्धिमिच्छता ॥ ३४ ॥

प्रकाशयति यो मोहादौत्सुक्यान्मन्त्रजं सुखम् ।
करसंस्थाश्च वै तस्य सिद्धयो यान्ति दूरतः ॥ ३५ ॥

आविर्भवन्ति दुःखानि शोकाश्च विविधा अपि ।
तस्मात्सर्वप्रयत्नेन सिद्धिलिङ्गानि नारद ॥ ३६ ॥

गोपनीयानि यत्नेन य इच्छेद्भूतिमात्मनः ।
विश्वास-प्रस्तुतिः
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मन्त्रसिद्धिचिह्नाख्यं
नामैकोनविंशः पटलः ॥ १९ ॥