अथाभिषेकाख्यानं नामाष्टादशः पटलः
श्रीभगवान्
अभिषेकेऽधिकारः
विश्वास-प्रस्तुतिः
अथाभिषेचयेच्छिष्यं सर्वलक्षणसंयुतम् ।
सुशान्तं स्पष्टमनसं संयतं देवपूजकम् ॥ १ ॥
मूलम्

गुरुभक्तं जिताक्षं च पूर्वोक्तसमयस्थितम् ।
एवंविधस्य सततं कर्तव्यमभिषेचनम् ॥ २ ॥

{{१८९}}
[अभिषेक्तुराचार्यस्य ब्राह्मणजातीयस्य
सर्वेषामभिषेकविधानेऽधिकारः]
विश्वास-प्रस्तुतिः
आचार्यस्सर्ववर्णानामाश्रमाणां तथैव च ।
तथा सामयिकादीनां त्रयाणां च विशेषतः ॥ ३ ॥

प्रभुत्वेनाभिषेक्तव्यमधिकारार्थमेव च ।
तेनापि सर्वजन्तूनां कार्यो नित्यमनुग्रहः ॥ ४ ॥

परितुष्टेन सततं दातव्यमभिषेचनम् ।
ब्राह्मणः पञ्चकालज्ञः कुर्यात्सर्वेष्वनुग्रहम् ॥ ५ ॥

[ब्राह्मणाद्यभावे क्षत्रियादीनां स्वस्वावरवर्णानां
शिष्याणामनुग्रहाभिषेककरणेऽधिकारः]
विश्वास-प्रस्तुतिः
तदभावाद्द्विजश्रेष्ठ शान्तात्मा भगवन्मयः ।
भावितात्मा च सर्वज्ञः शास्त्रज्ञः सत्क्रियापरः ॥ ६ ॥

सिद्धित्रयसमायुक्त आचार्यत्वेऽभिषेचितः ।
क्षत्रविट्शूद्रजातीनां क्षत्रियोनुग्रहक्षमः ॥ ७ ॥

क्षत्रियस्यापि च गुरोरभावादीदृशो यदि ।
वैश्यःस्यात्तेन वै कार्यो द्वयोर्नित्यमनुग्रहः ॥ ८ ॥

सु(स ?)जातीयेन शूद्रेण तादृशेन महाधिया ।
अनुग्रहाभिषेकौ च कार्यौ शूद्रस्य सर्वदा ॥ ९ ॥

उत्तमवर्णस्याविदुष उपायेन सम्बोधप्रापणम्
विश्वास-प्रस्तुतिः
उपायेन भयाल्लोभात्सर्वैर्मूर्खो द्विजोत्तमः ।
सन्मार्गे विनियोक्तव्यः शास्त्रेण क्रियया तथा ॥ १० ॥

यावत्सम्बोधमाप्नोति स्वात्मना शुभलक्षणम् ।
[प्राप्तसम्बोधस्य तस्य विनाऽनुग्रहबुद्ध्या
सकलक्रियाधानपूर्वकं कालेन कृतकृत्यतापादनम्]
पूर्वोक्तेन विधानेन इष्ट्वा यागेन चाच्युतम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
विधिनाऽग्नौ च सन्तर्प्य स्नापयित्वा द्विजोत्तम ।
विनाऽनुग्रहबुध्या वै तस्य कार्या क्रियाऽखिला ॥ १२ ॥

मन्त्रेणार्चापयेद्विष्णुमर्थितो ह्युपवेशितम् ।
कृतकृत्यो यदा स स्यात्क्रमात्कालान्तरेण च ॥ १३ ॥

आचारेण तथा नीत्या शास्त्रेण कृपया तथा ।
[सजतीयस्यापि गुरोरलाभेन स्वस्य स्वेनैवानुग्रहाभिषेकयोः
कर्तव्यता]
तथा शास्त्रोक्तविधिना स्वयमिष्ट्वा जगद्गुरुम् ॥ १४ ॥
{{१९०}}
विश्वास-प्रस्तुतिः
हुत्वा शास्त्रोक्तविधिना अर्चयित्वाऽच्युतं प्रभुम् ।
अनुग्रहाभिषेकौ च स्वयमात्मनि कल्पयेत् ॥ १५ ॥

स्वजातीयगुरोर्विप्र अभावादिदमाचरेत् ।
अनुकल्पं द्विजाद्यैश्च आत्मसंस्कारसिद्धये ॥ १६ ॥

सति गुरौ स्वेनैव कर्तव्यतायाः प्रतिषेधः
विश्वास-प्रस्तुतिः
गुरौ वर्णोत्तमे विप्त विद्यमाने श्रुतेऽपि वा ।
स्वदेशतोऽपि वाऽन्यत्त्र नेदं कार्यं शुभार्थिना ॥ १७ ॥

स्वदेशतोऽपि यः कुर्याद्यत्र यत्र विपर्ययम् ।
तस्येह पुत्रनाशः स्यात्तस्माच्छास्त्रोक्तमाचरेत् ॥ १८ ॥

उत्तमवर्णस्य दीक्षादिविधानेऽवरवर्णस्यानधिकारः
विश्वास-प्रस्तुतिः
क्षत्रविट्शूद्रजातीयः प्रातिलोम्यान्न दीक्षयेत् ।
त्रितत्वविद्द्विजातीयो दीक्षयेदनुलोमतः ॥ १९ ॥

समयज्ञाभिषेकविधानप्रकारः
विश्वास-प्रस्तुतिः
मूलमन्त्रोपजप्तेन तद्व्याप्तिविभवं विना ।
समयज्ञस्य सम्पाद्यं गुरुणाचाभिषेचनम् ॥ २० ॥

पुत्रकस्याभिषेकविधानप्रकारः
विश्वास-प्रस्तुतिः
मन्त्रोच्चारणमात्रेण ध्यानसंवित्तिवर्जितम् ।
ध्यात्वाऽथ तत्त्वनिश्रेणीं नवधा बीजसंस्थिताम् ॥ २१ ॥

एकोनाधिष्ठितां सर्वां मूलेन सकलात्मना ।
तां तु सम्पूज्य संस्मृत्य सृष्टिधर्मक्रमेण तु ॥ २२ ॥

मनसा तु मुनिश्रेष्ठ पुष्पैर्वा विविधैः शुभैः ।
ततोऽभिषेको दातव्यस्तत्त्वाख्यः पुत्रकस्य च ॥ २३ ॥

साधकाभिषेकप्रकारः
विश्वास-प्रस्तुतिः
साधकस्यापि वक्ष्यामि अभिषेकविधिं क्रमात् ।
ध्यात्वाऽथ तत्त्वनिश्रेणीं संहारं सृष्टियोगतः ॥ २४ ॥

नवधा त्रिविधेनैव भिन्नां सूक्ष्मादिना त्वथ ।
मन्त्रश्रेणीं च नवधा क्रमान्न्यस्य पुरोदिताम् ॥ २५ ॥

तत्रैव सृष्टिं योगेन सकलं निष्कलं द्विधा ।
पूजयित्वा विधानेन कलशेषु पृथक् पृथक् ॥ २६ ॥

{{१९१}}
विश्वास-प्रस्तुतिः
प्राग्वत्संस्मृत्य संस्मृत्य साधकत्वेन पुत्रकम् ।
तत्त्वाभिषेचनं दद्याच्छुभं सिद्धिकरं महत् ॥ २७ ॥

तत्वमन्त्रावधिर्यावत्साधकस्याभिषेचनम् ।
आचार्याभिषेचनम्
दत्वैवं मन्त्रसिद्धस्य गुरुत्वेन ततो द्विज ॥ २८ ॥
विश्वास-प्रस्तुतिः
तस्यैव यादृशं दद्यादभिषेकं हितं शृणु ।
ईश्वरादचलान्ताच्च साधिभूताधिदैवताम् ॥ २९ ॥

तत्त्वमालां स्मरेत्सर्वां सृष्टिन्यायेन वै पुरा ।
तत्र विन्यस्य विततां मन्त्रश्रेणीं पुरोदिताम् ॥ ३० ॥

त्रिविधेन प्रकारेण सप्तार्णाद्यावदङ्कुशम् ।
प्रपूज्य विधिना पश्चात्संहाराख्यक्रमेण तु ॥ ३१ ॥

परिजप्यं द्विजश्रेष्ठ यावद्वाणी निवर्तते ।
स्वभावस्थो गुरुः साक्षात्परेणानेकभेदिना ॥ ३२ ॥

ततोऽभिषेको दातव्यो मनसा विभवेन च ।
परतत्वावधिं ध्यात्वा देशिकञ्चाभिषेचयेत् ॥ ३३ ॥

समयज्ञादीनां चतुर्णामभिषेके भावनीयः पर्वभेदः
विश्वास-प्रस्तुतिः
सेनापतिक्रमेणैव समयज्ञस्य सर्वदा ।
महामन्त्रित्वविधिना पुत्रकस्याभिषेचनम् ॥ ३४ ॥

युवराजविधानेन दातव्यः साधकस्य च ।
राजोपचारविधिना अभिषेको गुरोः स्मृतः ॥ ३५ ॥

आचार्याभिषेकप्रयोगः
विश्वास-प्रस्तुतिः
दीक्षामण्डलवेद्यां तु सितेन रजसा गुरुम् ।
स्वस्तिकं मण्डलं कृत्वा तन्मध्ये मण्डलं शुभम् ॥ ३६ ॥

द्विहस्तं शाश्वतं पद्मं यज्ञवृक्षोद्भवं तु वा ।
सुकृतं चाऽथ सुश्लक्ष्णं सर्वत्राष्टाङ्गुलोच्छ्रितम् ॥ ३७ ॥

मृगचर्म तु तत्पृष्ठे सितं वस्त्रं तदूर्ध्वतः ।
वितानेनोर्ध्वताच्छेन (?) सपुष्पेण सितेन च ॥ ३८ ॥

पूर्णपात्रान्वितं तत्र दिक्षु पूर्णघटादिकम् ।
दद्याद्दीपाष्टकं तत्र लाजादीन् परितः क्षिपेत् ॥ ३९ ॥

{{१९२}}
विश्वास-प्रस्तुतिः
संस्थाप्य पीठनिकटे भ्रमद्दक्षिणतः क्रमात् ।
चन्दनं सितमर्घ्यं च दूर्वा जातिफलानि च ॥ ४० ॥

ताम्बूलव्यञ्जनं दण्डं विचित्रे चाप्युपानहौ ।
शङ्खचक्रगदापद्मशुभमुद्राचतुष्टयम् ॥ ४१ ॥

वाससी उपवीतं च कौशेयं च पवित्रकम् ।
घटिकां करणीं सूत्रमर्घ्यपात्रं कमण्डलुम् ॥ ४२ ॥

गैरिकं मुखवासांसि सितमृद्गोमयं तथा ।
कृष्णसाररुरोश्चर्म दन्तधावनमेव च ॥ ४३ ॥
मूलम्
गैरिकं मुखवासांसि सितमृद्गोमयं तथा ।
कृष्णसाररुरोश्चर्म दन्तधावनमेव च ॥ ४३ ॥
विश्वास-प्रस्तुतिः
ततः सर्वाधिकारार्थं संहितापुस्तकादि च ।
ईशदिङ्मण्डलस्याथ स्थलीं कृत्वा तथाविधाम् ॥ ४४ ॥

शोभितां च वितानाद्यैस्तत्र मन्त्रेश्वरस्ततः ।
आदौ तु कलशे पूज्यस्ततो मण्डलमध्यगः ॥ ४५ ॥

वह्निमध्ये ततः पूज्यः शिष्यदेहे पुनः पुनः ।
आत्मस्थं च पुरा देवं सम्पूज्य तदनन्तरम् ॥ ४६ ॥

आनीय कलशान्दिव्यान् पूर्वलक्षणलक्षितान् ।
सर्वरत्नैश्च सम्पूर्णान्कदलीफलशोभितान् ॥ ४७ ॥

तीर्थोदकेन सम्पूर्णान् प्रागुक्तरचनान्वितान् ।
प्रदक्षिणेन विन्यस्य प्रागादौ मण्डलाद्बहिः ॥ ४८ ॥

स्वतत्त्वसङ्ख्ययाऽचार्ये
आचार्याभिषेकात् साधकाद्यभिषेके कलशसङ्ख्यायां भेदः
साधके पुत्रकेऽथ च ।
एकं वै समयज्ञस्य द्रवे कर्म(व्यमेकं)विनिक्षिपेत् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
एवंविधांस्तु(स्त्रीन्)कलशान्सत्याद्यैश्च प्रतिष्ठितान् ।
पुरा कृत्वा विधानेन प्रागुक्तेन क्रमेण तु ॥ ५० ॥

मन्त्रैः सञ्जप्य सम्पूज्य सञ्चित्य च यथाक्रमम् ।
प्रागादिष्वथ सर्वेषु गन्धपुष्पादिभिः क्रमात् ॥ ५१ ॥

पूर्वोदितेन विधिना इष्ट्वा मन्त्रोश्वरं विभुम् ।
प्रजापयेत्ततः शिष्यं स्वात्मीयेन क्रमेण तु ॥ ५२ ॥

चरुणा च ततः पूज्यमाधारादिक्रमेण तु ।
{{१९३}}
वेदिमध्यगतं चैव अभिषेकासनं शुभम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
मन्त्रपीठत्वमापन्नं लाजप्रकरशोभितम् ।
तस्योपरि स्थितं कृत्वा शिष्यं मन्त्रशरीरिणम् ॥ ५४ ॥

गत्वाऽथ मण्डलाग्रं तु विज्ञाप्यः परमेश्वरः ।
त्वच्छासनप्रपन्नानामधिकारं करोम्यहम् ॥ ५५ ॥

शिष्यमात्मसमं भक्तमहं यास्यामि ते लयम् ।
लब्धानुज्ञस्ततो विप्र पूर्वदिक्संस्थितश्च यः ॥ ५६ ॥

कलशं पूजयित्वा तं स्वमन्त्रेण स्वमुद्रया ।
सहस्रपरिजप्तेन सम्यगष्टाधिकेन च ॥ ५७ ॥

शतजप्तेन दशभिः सकृत्गुर्वादितः क्रमात् ।
ध्वात्वा चामृतसम्पूर्णं मन्त्रं रत्नोज्ज्वलं प्रभुम् ॥ ५८ ॥

तस्य मूर्ध्नि शुभं दत्वा कलशं मन्त्रपूजितम् ।
ततः क्रमेण कलशैः सकलैरभिषेचयेत् ॥ ५९ ॥

पठद्भिर्माङ्गलीयानि ऋक्सामानि यजूंषि च ।
मङ्गलैर्दीयमानैस्तु तन्त्रीवाद्यसमन्वितैः ॥ ६० ॥

शङ्खशब्दैः सपटहैर्जयशब्दसमन्वितैः ।
अनेन विधिना कुर्यादाचार्यस्याभिषेचनम् ॥ ६१ ॥

मन्त्रोपकरणं सर्वं तस्य सम्प्रतिपाद्य च ।
हस्तद्वयं च वक्तव्यं प्रणम्या(त्या ?)संस्थितस्य च ॥ ६२ ॥

सहस्रकिरणाभं तु सूर्यबीजेन चाच्युतम् ।
स्मरेद्दक्षिणहस्तस्थं पद्मे चानन्तपल्लवे ॥ ६३ ॥

कलाद्वादशसंयुक्ते अकाराद्यैरदारुणैः (?) ।
द्रव्यशुद्धिविदाहार्थं द्रव्योत्पत्तौ ततः स्मरेत् ॥ ६४ ॥

सितं सहस्रपत्राढ्यं कलाषोडशकेसरम् ।
सोमबीजेन तन्मध्ये स्मरेन्नारायणं प्रभुम् ॥ ६५ ॥

स्रवन्तममृतं दिव्यं द्रव्योत्पादनकर्मणि ।
भौतं तान्मात्रिकं मान्त्रं विग्रहं चास्य दर्शयेत् ॥ ६६ ॥

विज्ञानपदवीं सर्वां स्वानुभूतामनेकशः ।
स्थानलक्षक्रमेणैव वक्तव्या विविधाश्च वै ॥ ६७ ॥

{{१९४}}
विश्वास-प्रस्तुतिः
व्याख्याताः पुस्तके याश्च विज्ञानगतयः शुभाः ।
तच्चित्तं हि क्रमात्तासामनुसन्धाय वै गुरुः ॥ ६८ ॥

आचार्यसमयान् पश्चादूर्ध्वस्थाञ्छ्रावयेच्छुभान् ।
आचार्यपदासाधारणा विशेषसमयाः
संसारभयभीतानां भक्तानां परमेश्वरे ॥ ६९ ॥
विश्वास-प्रस्तुतिः
शास्त्रक्रमेण विधिवदिदं शास्त्रं प्रकाशयेत् ।
गच्छंस्तिष्टन्स्वपन् जाग्रद्भगवन्तं स्मरेत्सदा ॥ ७० ॥

पुण्डरीकस्य मध्यस्थं द्रव्यैर्दानसमुद्भवैः ।
मान्त्रभावाद्यजेद्विष्णुं देशे तस्करसङ्कटे ॥ ७१ ॥

नाभिमानाच्च वै बाह्या क्रिया त्याज्या कदाचन ।
चातुर्मास्यं च नियममवतिष्ठेदवश्यतः ॥ ७२ ॥

उपभुक्तं परेणैव विशेषाद्दीक्षितेन तु ।
छत्रोपानहवस्त्राद्यं नोपयुञ्जीत जातु वै ॥ ७३ ॥

असम्पत्तावथापत्सु न दोषं क्षालिते सति ।
स्वगुरोर्दीक्षितानां च आचार्याणां सदैव हि ॥ ७४ ॥

उपभुक्तं न दोषः स्यात्स्वदत्तादाहृतात्तु वा ।
भगवद्भक्तिनिष्णातास्तच्चित्तास्तत्परायणाः ॥ ७५ ॥

कर्मणा मनसा वाचा सम्मान्याश्च सदैव हि ।
भर्तव्याश्चैव पूज्याश्च वाग्दानैर्मधुरैः सदा ॥ ७६ ॥

जातिधर्ममनुज्झित्वा तथा च स्वगुरोः क्रमम् ।
स्वशास्त्रविहितं चापि ज्ञानं शिक्षेदशिक्षितम् ॥ ७७ ॥

एकतः समयाः सर्वे नियमाश्चैव सर्वशः ।
एकतो भगवान्विष्णुर्गुरुस्तद्भाविनो नराः ॥ ७८ ॥

ज्ञात्वा जीर्णमसारं च इदं पुत्र कलेवरम् ।
स्वाधिकारं समारोप्य योग्यस्याटनमाचरेत् ॥ ७९ ॥

दण्डी कषायवासाश्च नमो नारायणाय वै ।
ब्रुवन्प्रणवपूर्वं च त्यक्त्वा सर्वपरिच्छदम् ॥ ८० ॥

क्षेत्रायतनतीर्थानामन्ते ब्रह्मणि योजयेत् ।
आत्मतत्वं शरीरं च अग्नौ वा खेचरादिषु ॥ ८१ ॥

तत्त्वसन्यासयोगेन येन स्याच्छान्तिराच्युति ।
{{१९५}}
[विष्णुहस्तप्रदानम्]
इत्युक्त्वा दक्षिणे हस्ते स्वयं सञ्चिन्त्य वै गुरुः ॥ ८२ ॥
विश्वास-प्रस्तुतिः
मन्त्रात्मानं परं विष्णुं परं सकलनिष्कलम् ।
सम्पूज्य गन्धपुष्पाद्यैर्दद्यात्तस्य च मस्तके ॥ ८३ ॥

शिष्येण गुरोः पादोदकप्राशनकर्तव्यता
विश्वास-प्रस्तुतिः
न्यस्यासनं ततः शिष्यः पादयोर्निक्षिपेच्छिरः ।
प्रक्षाल्य सलिलेनाथ गुरोश्चरणपङ्कजम् ॥ ८४ ॥

तेनात्मानं तु संसिच्य पिपेदञ्जलिना ततः ।
पूर्ववत्पूजयेद्भक्त्या आत्मनाऽथ धनेन च ॥ ८५ ॥

अनेन विधिना कुर्यादाचार्यस्याभिषेचनम् ।
साधकाभिषेकातिदेशः
एवमेव विधानेन साधकं चाभिषेचयेत् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
समालम्भनपूर्वं यद्दन्तधावनपश्चिमम् ।
तस्य सर्वोपकरणं दातव्यं नियमैर्विना ॥ ८७ ॥

पुत्रकस्याभिषेके देयविशेषः
पूजाधिकारशास्त्रं च पुत्रकस्य प्रदीयते ।
समयज्ञस्याभिषेके देयविशेषः
केवलं समयज्ञस्य प्रदद्याच्छास्त्रपुस्तकम् ॥ ८८ ॥
अभिषेकावसाने च आज्ञायां योगदर्शने (?) ।
अभिषेकस्य श्रेयःप्रभृत्यनेकफलसाधनता
श्रेयोऽर्थी विधिनाऽनेन यः स्नायाच्छ्रेय आप्नुयात् ॥ ८९ ॥
विश्वास-प्रस्तुतिः
जयार्थी वाऽथ भूपालो भाग्यार्थी वाऽथ दुर्भगः ।
पुत्रकामाऽथ वनिता पतिकामाऽथ कन्यका ॥ ९० ॥

चिरायुषोऽर्थी यः कश्चित्स्नायात्संवत्सरं प्रति ।
तस्यापमृत्युनाशश्च भवति ह्यचिरात्ततः ॥ ९१ ॥

यावदब्दानि कुरुते तावद्रोगविवर्जितः ।
वलीपलितनिर्मुक्तः सुभगः स्थिरयौवनः ॥ ९२ ॥

सर्वकामानवाप्नोति देहान्ते शाश्वतीं गतिम् ।
विश्वास-प्रस्तुतिः
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां अभिषेकाख्यानं
नामाष्टादशः पटलः ॥ १८ ॥