अथ शिष्यभेदाख्यानं नाम सप्तदशः पटलः
नारदः
विश्वास-प्रस्तुतिः
साधकाचार्यसमयिपुत्रकाणां यथार्थतः ।
ज्ञातुमिच्छामि भगवन् त्वत्तो लक्षणमुत्तमम् ॥ १ ॥
मूलम्

समयज्ञश्च किं कुर्यात्पुत्रकः किं समाचरेत् ।
साधकः कथमास्ते वै किमाचार्यः करोति च ॥ २ ॥

श्रीभगवान्-
समयिलक्षणम्
विश्वास-प्रस्तुतिः
यस्य मन्त्रे पराभक्तिर्ब्रह्मचारी जितेन्द्रियः ।
सत्यवाक्चतुरो धीरो ह्री श्रद्धाबुद्धिमांश्च यः ॥ ३ ॥

दृढव्रतः शुचिश्वैव गुर्वाराधनतत्परः ।
समाचरेच्छुभं नित्यं प्रसन्नात्मा प्रियंवदः ॥ ४ ॥

प्राप्तानुज्ञस्सवित्तोऽपि यागेन गुरुणाऽर्चयेत् ।
पश्येत्तथाऽन्यतो गत्वा यागं वै यत्र यत्र च ॥ ५ ॥

पूजितं तर्पितं विष्णोः शास्त्रं च शृणुयात्सदा ।
पालयेत्समयान्सर्वान्मन्त्रस्मरणपूर्वकान् ॥ ६ ॥

शङ्खचक्रगदापद्ममूर्तिमुद्रासमन्वितः ।
द्वादश्यादिषु कालेषु पूजयेद्धवनं विना ॥ ७ ॥

पठनं श्रवणं कुर्यात्सततं चार्चनं विना ।
शास्त्रार्थं विधिवद्ज्ञात्वा नयाचारसमन्वितः ॥ ८ ॥

पालयन्गुरुगेहाच्च व्यवहारं सदुत्थितम् ।
एवं लक्षणसम्पूर्णो गुरुमभ्यर्थयेत्पुनः ॥ ९ ॥

{{१८५}}
विश्वास-प्रस्तुतिः
प्रत्यहं पूजनार्थं यस्समयज्ञस्स नारद ।
ज्ञात्वा तं गुरुणा सम्यगुक्तचिह्नैस्तु सामयैः ॥ १० ॥

पूरणीयाऽस्य चाकाङ्क्षा यदर्थमुपरोध(धि ?)तः ।
तापनं गुरुवेश्मार्थं व्यवहारं सहेत सः ॥ ११ ॥

पुत्रकलक्षणनिरूपणम्
विश्वास-प्रस्तुतिः
निर्वर्त्य मण्डलं सम्यक्तदीयेन धनेन च ।
रजोभिः पत्रपुष्पाद्यैरभावा(र्विभवात् ?)त्प्रापणस्य च ॥ १२ ॥

समयज्ञं ततः शिष्यं (पुत्रं ?) क्रमेणारचयेद्गुरुः ।
ततःप्रभृति कालाच्च पूजां विष्णोः समाचरेत् ॥ १३ ॥

प्राणात्ययेऽपि विप्रेन्द्र रक्षेल्लोपं(पात् ?)प्रयत्नतः ।
नचास्य विहितो होमो धर्मार्थं पूजनं विना ॥ १४ ॥

नित्यपूजाभियुक्तो यः पूर्वोक्तगुणभूषितः ।
समुपैति तमुत्कर्षं श्रवणाच्छास्त्रचिन्तनात् ॥ १५ ॥

ददात्युत्कलिकां तस्य हृदयस्थो जनार्दनः ।
साधनोपरि मन्त्रस्य प्रार्थयेत गुरुं ततः ॥ १६ ॥

साधकलक्षणनिरूपणम्
विश्वास-प्रस्तुतिः
शुश्रूषा परमा भक्त्या सङ्क्रमो गुरुणा ततः ।
क्रमोत्कृष्टगुणैर्युक्त एकरूपस्समाहितः ॥ १७ ॥

नियुक्तादच्युतश्रद्धी शास्त्रार्थकृतघीर्महान् ।
यजेद्यागेन वै भूयो मन्त्रं चाभीष्टसिद्धये ॥ १८ ॥

अभिषिक्तोऽभ्यनुज्ञातो धैर्योत्साहसमन्वितः ।
एकान्तं निर्जनं यायान्नारायणनिकेतनम् ॥ १९ ॥

दूरतो बान्धवानां च दुर्जनानां विशेषतः ।
क्षेत्रमायतनं चैव निर्द्वन्द्वं चाथ पर्वतम् ॥ २० ॥

सोदकं च फलाकीर्णं रम्यमासन्नगह्वरम् ।
वनञ्चोपवनं वाऽथ प्रसिद्धं सिद्धसेवितम् ॥ २१ ॥

वितृष्णो बन्धुवर्गाच्च संविसृज्य पुरान्वितम् ।
स्वाध्यायशौचसन्तोषसम्पूर्णे स्वगृहेऽथवा ॥ २२ ॥

सधायेदीप्सितं मन्त्रं भावशुद्धिसमन्वितः ।
{{१८६}}
यथा सुखेनासनेन आसने व्याप्तिभाविते ॥ २३ ॥
विश्वास-प्रस्तुतिः
प्रसन्नास्यः कृतन्यासो लक्षं लक्ष्यस्थितो जपेत् ।
क्षेत्रीकृतो भवेन्मन्त्रो यत्र तत्र स्थितस्य च ॥ २४ ॥

निर्वर्तनेन जिह्वाग्रात्परित्यक्तोऽपि वै जपेत् ।
समाराधनसिध्यर्थं मन्त्रस्यार्घ्यकृतो मुने ॥ २५ ॥

दद्याद्धृदयमन्त्रेण ततः प्रभृति नारद ।
चरुभुग्वा फलाहारो भिक्षाशी वा पयोभुजः ॥ २६ ॥

शाकमूलं तथा कन्दमश्नीयाद्द्वर्तते यथा ।
शुद्धान्तसर्पिषश्शालीन् प्रत्यक्षलवणोज्झितान् ॥ २७ ॥

हृष्टस्स्तुष्टः प्रसन्नात्मा कालोक्तजपमारभेत् ।
इदमाचरमाणस्तु प्रत्यहं मुनिसत्तम ॥ २८ ॥

निशाक्षये तु शयनात्स्मृत्वा नारायणं विभुम् ।
उत्थाय दक्षिणांसेन वामपादं न्यसेद्भुवि ॥ २९ ॥

पदे पदे स्मरंश्चास्त्रं दूरं यायाद्द्विजालयात् ।
कृत्वा मलच्युतिं तत्र वाससा कं विवेष्ट्य च ॥ ३० ॥

दिङ्नभो न निरीक्षेत ततो यायाज्जलाशयम् ।
शौचं कृत्वा यथापूर्वं विधिनाऽचमनं ततः ॥ ३१ ॥

दन्तकाष्ठं तु वै भुक्त्वा स्नायात्तदनु नारद ।
सामान्यविधिनाऽस्त्रेण गायत्रीं वैष्णवीं जपेत् ॥ ३२ ॥

सकृत्त्रिःपञ्चवारान्वा सप्त वाऽथ स्वशक्तितः ।
ततः स्वमाश्रमं गत्वा मन्त्रं पुष्पैश्च पूजयेत् ॥ ३३ ॥

केवलं शास्त्रपीठस्थं स्वदेहस्थं तु वा मुने ।
सम्पूज्य च जपं कुर्याद्यावद्वै प्रहरद्वयम् ॥ ३४ ॥

तदूर्ध्वे पूर्ववत्स्नात्वा विशेषेण विधानवत् ।
न्यासावसानं निखिलं सर्वं कुर्यात्पुरोदितम् ॥ ३५ ॥

पूजाग्निहोत्रपर्यन्तं ततस्तु जपमारभेत् ।
यावद्दिनावसानं तु भूयः स्नायाद्द्विजोत्तम ॥ ३६ ॥

उपास्य विधिवत्सन्ध्यां देवं सम्पूजयेत्ततः ।
विसर्ज्य भोजनं कुर्यात्सततं तारकोदये ॥ ३७ ॥

{{१८७}}
विश्वास-प्रस्तुतिः
भुक्त्वा शयीत शयने मृदुस्निग्धे च भूतले ।
अर्धरात्रे समुत्थाय पादशेषेऽथ वा द्विज ॥ ३८ ॥

आचम्य देवं संस्मृत्य शीघ्रं सम्पूज्य पूर्ववत् ।
जपं कुर्याद्यथाशक्ति अर्चयेच्च विभोस्ततः ॥ ३९ ॥

येन संरक्षितो विप्र भवेद्वै नापहीयते ।
सिद्धैरदृश्यभूतैस्तु मन्त्रिसिध्यभिकाङ्क्षिभिः ॥ ४० ॥

समर्प्य चैवं शयने श्रमं वै सन्त्यजेत्पुनः ।
अनेन विधिना यो वै मन्त्राराधनतत्परः ॥ ४१ ॥

उच्यते मुनिशार्दूल विज्ञेयस्सतु साधकः ।
न तेन कुत्रचित्कार्ये शापानुग्रहकर्मणि ॥ ४२ ॥

न तेन मन्त्रो वक्तव्यो मुद्रा वा समयास्तु वा ।
स्वानुष्ठानेऽपि यत्कर्म सर्वं सर्वस्य गोपयेत् ॥ ४३ ॥

मन्त्रगुप्तिस्तु कर्तव्या सततं मन्त्रसिद्धये ।
ताद्व्याप्तिभावनोपेता ज्ञातव्या मन्त्रवादिना ॥ ४४ ॥

गुरुं प्रसाद्य देवं च शास्त्रं चालोक्य यत्नतः ।
तन्त्रज्ञो मन्त्रवद्धीरो द्वाभ्यां चैव द्विजोत्तमः ॥ ४५ ॥

अथाचार्यलक्षणम्
विश्वास-प्रस्तुतिः
मन्त्रसिद्धिस्तु वै तस्य विज्ञाता गुरुणा यदा ।
गुरुणा वै सोऽभिषिक्तः(षेच्यः ?)ततः शिष्यः प्रसादतः ॥ ४६ ॥

कृत्वा यागं चतुर्थं तु तद्वित्तेन तु पूर्ववत् ।
पूजयित्वा समाहूय साधकं लक्षणान्वितम् ॥ ४७ ॥

पूजा कार्या विधानेन लययागोदितेन वै ।
स बाह्याभ्यन्तरोक्तेन निश्शेषेण यथा पुरा ॥ ४८ ॥

अग्नौ तु पूर्ववद्दीक्षां निर्वाणाख्यां समापयेत् ।
ततोऽभिषिच्य विधिना स्वाधिकारं निवेदयेत् ॥ ४९ ॥

गृहीत्वा तेन कर्तव्यं गुरुत्वमितरेषु च ।
पूजाग्निहवनं चैव जपध्यानान्वितं सदा ॥ ५० ॥

भक्तानां संशयच्छेदं कुर्याच्छास्त्रं विना तु वै ।
अनुग्रहं च शापं च मन्त्रारम्भणमर्पणम् ॥ ५१ ॥

न लोभेन न रागेण न स्वार्थेन न नामतः ।
{{१८८}}
कुर्यादनुग्रहं जन्तोः कस्यचिद्वा शठस्य च ॥ ५२ ॥
विश्वास-प्रस्तुतिः
भीतस्य च विनीतस्य भक्तस्यार्त्तस्य कारयेत् ।
प्रायश्चित्तैः सदा शान्तिं कुर्यान्नीतिच्युतस्य च ॥ ५३ ॥

विभागो लिङ्गिनां चैव वेदनीयः सदैव हि ।
वैखानसादि सर्वेषां वैष्णवानां च नारद ॥ ५४ ॥

प्रसन्नश्चाभिषिञ्चेत भक्तं भव्यमनेकधा ।
मोक्षार्थमाधिपत्यार्थं दुःखोपशमनाय च ॥ ५५ ॥

कुण्डमण्डलपद्मादीन्सूत्रयेत्प्रतिमादिकान् ।
शिष्याणामुपकारार्थं दर्शयेत्शिल्पिनस्तथा ॥ ५६ ॥

कुर्यात्सम्यक्प्रतिष्ठानं देवदेवस्य वै विभोः ।
समदृष्ट्या तथाऽन्येषां देवानां स्थापनं द्विज ॥ ५७ ॥

अवैष्णवेषु मर्त्येषु भक्तेष्वन्यत्र सर्वदा ।
तच्छासनं गुरूणां च अभयात्प्रार्थितोऽपि तैः ॥ ५८ ॥

स्वकल्पोक्तविधानेन कुर्यात्सर्वेष्वनुग्रहम् ।
अभ्यर्थितस्तदा विप्र यजनं च पवित्रकम् ॥ ५९ ॥

स्वशिष्यपरशिष्याणां लोभनिर्मुक्त आचरेत् ।
अशास्त्रज्ञे(षु ?) चान्येषु गुरुभावस्थितेन च ॥ ६० ॥

चुम्बुकत्वं न कुर्याद्वै तर्केणागमतोऽपि वा ।
नातीव सङ्ग्रहं कुर्यान्मात्रावित्तस्य नारद ॥ ६१ ॥

नित्यमभ्यस्यति त्यागमनित्यं भावयेद्भवम् ।
एवं लक्षणसम्पन्नो यस्स आचार्य उच्यते ॥ ६२ ॥

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां शिष्यभेदाख्यानं नाम
सप्तदशः पटलः ॥ १७ ॥