१६ दीक्षा-विधानम्

अथ दीक्षाविधानं नाम षोडशः पटलः

नारदः -

विश्वास-प्रस्तुतिः

श्रोतुमिच्छामि भगवन्दीक्षालक्षणमुत्तमम् ।
समयिनः पुत्रकस्य साधकाचार्ययोस्तथा ॥ १ ॥

मूलम्

नैष्ठिकानां तथा स्त्रीणां शिशूनां भावितात्मनाम् ।
विस्तरेण समाख्याहि यदि सानुग्रहोऽसि मे ॥ २ ॥

श्रीभगवान् –

विश्वास-प्रस्तुतिः

शृणु दीक्षां प्रवक्ष्यामि शिष्याणां भावितात्मनाम् ।
देवाग्निगुरुपूजासु अधिकारो यथा(या ?)भवेत् ॥ ३ ॥

सिद्धये मुक्तये चैव तां वक्ष्यामि त्रिधा यथा ।

आढ्यानाढ्यभेदेन दीक्षाप्रकारे भेदः

महामण्डलयागेन वित्ताढ्यानां तु कारयेत् ॥ ४ ॥

{{१५५}}

विश्वास-प्रस्तुतिः

वित्तयोगविमुक्तस्य स्वल्पवित्तस्य देहिनः ।
संसारभयभीतस्य विष्णुभक्तस्य तत्त्वतः ॥ ५ ॥

अग्नौ चाज्यान्वितैर्बीजैः सतिलैः केवलैस्तथा ।
द्रव्यहीनस्य वै कुर्याद्वाचैवानुग्रहं गुरुः ॥ ६ ॥

उपसन्नस्यावश्यं दीक्षयितव्यता

विश्वास-प्रस्तुतिः

यः समः सर्वभूतेषु विरागी वीतमत्सरः ।
जितेन्द्रियः शुचिर्दक्षः समग्रावयवान्वितः ॥ ७ ॥

कर्मणा मनसा वाचा भीतेष्वभयदः सदा ।
सम्बुद्धिपदसम्प्राप्तस्तत्रापि भगवन्मयः ॥ ८ ॥

पञ्चकालरतश्चैव पञ्चरात्रार्थवित्तथा ।
विष्णुतत्त्वं परिज्ञाय एकं चानेकभेदगम् ॥ ९ ॥

दीक्षयेन्मेदिनीं सर्वां किं पुनश्चोपसर्पितान् ।

एकस्यैवाच्युतस्यानेकरूपेण स्थितत्वनिर्देशः

निराश्रयमसङ्कल्पं स्वरूपादच्युतं स्थिरम् ॥ १० ॥

विश्वास-प्रस्तुतिः

ग्राह्यग्राहकधर्मैश्च निर्मुक्तमचलं ध्रुवम् ।
एव(क ?)मेव फले पञ्च(?)वक्ष्ये ते नैकधा स्थितम् ॥ ११ ॥

व्याप्तव्यापकभेदेन यथावन्मुनिसत्तम ।

[परसूक्ष्मस्थूलात्मना त्रिधा स्थितेषु तत्त्वेषु अच्युतस्य त्रेधा व्याप्य
स्थितिः]

स्थूलं सूक्ष्मं परं चान्यद्व्याप्य तत्त्वत्रयं स्थितम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

प्रधानपुरुषेशाख्यं तथाऽन्यच्छ्रोत्रपूर्वकम् ।
व्याप्याच्युतः स्थितस्साक्षात् त्रिधा वै बुद्धिपश्चिमम् ॥ १३ ॥

त्रिविधं विष्णुतत्त्वं तु एकं ज्ञात्वाऽप्यनेकधा ।
एकैकेन तु भेदेन कुर्यात्सर्वेष्वनुग्रहम् ॥ १४ ॥

यथानुरूपं क्रमशः समयज्ञादिषु द्विज ।

मन्त्रमूर्तेर्भगवतस्त्रेधाऽवस्थानम्

पिण्डात्मा भगवानेक उपाङ्गाढ्यश्च स द्विधा ॥ १५ ॥

त्रिविधे मन्त्रराशौ तु त्रिधा चैव व्यवस्थितः ।

स्थूलसूक्ष्मपरात्मना मन्त्रराशेस्त्रैविध्यम्

मणेराकृष्टिमन्त्रान्तो मान्त्रः प्राग्राशिरुच्यते ॥ १६ ॥

{{१५६}}

विश्वास-प्रस्तुतिः

लक्ष्म्याद्यो भूधरान्तश्च द्वितीयः सूक्ष्मसञ्ज्ञितः ।
सप्तामूर्मू(र्णान्मू ?)र्तिमन्त्रान्तस्तृतीयस्तु परः स्मृतः ॥ १७ ॥

तत्त्व (मन्त्र ?) ग्रामं समुच्चित्य स्थितः सङ्क्षेपकर्मणि ।

[स्थूलसूक्ष्मपरात्मना त्रेधाऽवस्थितस्य मन्त्रराशेः
स्थूलाद्येकैकराशौ प्रत्येकं स्थूलादित्रिकरूपेणावस्थितिः]

त्रित्रिकावस्थरूपेण त्रयं कृत्वा त्रिधा स्वयम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

राशीनां भगवान्विष्णुर्लोकानुग्रहकृत्स्थितः ।
अङ्कुशाद्वैनतेयान्तं स्थूलात्स्थूलमिदं त्रिकम् ॥ १९ ॥

गदामन्त्राच्च शङ्खान्तं स्थूलमध्यं च नारद ।
पङ्कजात्कौस्तुभान्तं च स्थूलपारं भवेत्त्रिकम् ॥ २० ॥

वराहात्सिंह्ममन्त्रान्तं सूक्ष्म स्थूलं त्रिकं स्मृतम् ।
अस्त्राद्धृदयपर्यन्तं सूक्ष्ममध्यो भवेत्प्रभुः ॥ २१ ॥

मायाशक्तेस्तु लक्ष्म्यन्तं भवेत्सूक्ष्मं परं तु तत् ।
समूलो मूर्तिमन्त्रो यः सर्वस्सप्तदशाक्षरः ॥ २२ ॥

परस्थूलमिदं विद्धि सप्तमं सर्वसिद्धिदम् ।
अनिरुद्धात्तु सत्यान्तं सर्वं तत्परमध्यमम् ॥ २३ ॥

परात्परं मन्त्रपदं नवमं भोगमोक्षदम् ।
विद्धि सप्ताक्षरं पिण्डं मन्त्रग्रामस्य नायकम् ॥ २४ ॥

उत्तरोत्तरता चैव सर्वेषां वर्तते क्रमात् ।
सामर्थ्येन तु वीर्येण ज्ञानेन विविधेन च ॥ २५ ॥

भवच्छेदे च दीक्षायां विविधासु च सिद्धिषु ।

[मन्त्रसङ्घस्य तत्त्वसङ्घे
सङ्क्षेपमध्यविस्तारात्मकदीक्षात्रैविध्यानुगुणं
त्रेधाऽवस्थाननिरूपणम्]

क्रमेण गन्धतन्मात्रात्प्रभुतत्त्वावधिं द्विज ॥ २६ ॥

विश्वास-प्रस्तुतिः

मन्त्रसङ्घः परत्वेन किञ्चित्सङ्कोचरूपधृत् ।
स्थूलसूक्ष्मादि नवधा मध्ये विस्तारकर्मणि ॥ २७ ॥

भयोऽनुक्रमयोगेन पञ्चविंशतिधा मुने ।
एकः स एव मन्त्रात्मा भिन्नोऽपि बहुभेदतः ॥ २८ ॥

{{१५७}}

[अधिभूताधिदैवाध्यात्मभेदेन त्रेधा विभिन्नस्य प्रत्येकं
पञ्चविंशतिधाऽवस्थितिनिरूपणम्]

विश्वास-प्रस्तुतिः

अध्यात्मत्वाधिदैवत्वाधिभूतत्वव्यवस्थया ।
स्थितस्त्वीश्वरतत्त्वाच्च यावत्तत्त्वं धराभिधम् ॥ २९ ॥

ईश्वरोऽथ प्रधानं च बुद्धिश्चाहङ्कृतिर्मनः ।
पञ्चेन्द्रियाणि श्रोत्राद्याः पञ्च वागादयस्तथा ॥ ३० ॥

पञ्च शब्दादयश्चान्ये पञ्च भूतानि खादयः ।
अधिभूतगणश्चायमधिदैवगणं शृणु ॥ ३१ ॥

मकाराद्यानि बीजानि कावसानानि वै क्रमात् ।
ईश्वरादिषु तत्त्वेषु कथितास्साधिदैवताः ॥ ३२ ॥

मन्त्राश्चाध्यात्मरूपा ये क्रमशः शृणु नारद ।
सप्ताक्षरः परो मन्त्रो ह्यध्यात्मं चैश्वरं स्मृतम् ॥ ३३ ॥

सत्यादिपञ्चकं विद्धि प्रकृते परमव्ययम् ।
मूलमूर्तिसमेतं च बुद्धेरध्यात्ममुच्यते ॥ ३४ ॥

लक्ष्मीमन्त्रमहङ्कारे मनसः कीर्तिसञ्ज्ञितम् ।
श्रोत्रेन्द्रिये जयाख्यं तु मायाख्यं च त्वगिन्द्रिये ॥ ३५ ॥

हृच्चक्षुरिन्द्रिये विद्धि जिह्वाग्रे तु शिरः स्मृतम् ।
शिखा घ्राणेन्द्रिये विद्धि वाक्तत्वे कवचं स्मृतम् ॥ ३६ ॥

पाणितत्त्वे भवेन्नेत्रमस्त्रं पादाभिधस्य च ।
पाय्वाख्यस्य च तत्त्वस्य सिह्ममन्त्रं परं स्मृतम् ॥ ३७ ॥

कापिलं विद्ध्युपस्थस्य शब्दे वाराह उच्यते ।
स्पर्शे त्वध्यात्मरूपं च मन्त्रं कौस्तुभसञ्ज्ञितम् ॥ ३८ ॥

रूपाख्यस्य तु मालाख्यं पद्मं विद्धि रसस्य च ।
शङ्खमन्त्रस्तु गन्धस्य चक्रं नभसि नारद ॥ ३९ ॥

गदामन्त्रः स्मृतो वायोरग्नेर्गारुड उच्यते ।
अप्तत्त्वस्य तु पाशाख्यो भूमेरङ्कुशसञ्ज्ञितः ॥ ४० ॥

वैतत्येनोदिता मन्त्राः सतत्त्वा वितते क्रमे ।
दीक्षाकर्मणि सङ्क्षिप्ते मध्यमे विततेऽथ च ॥ ४१ ॥

यावन्न त्रितयं ज्ञातं तावद्दीक्षा न जायते ।
एवमेष जगन्नाथो मन्त्रात्मा परमेश्वरः ॥ ४२ ॥

{{१५८}}

विश्वास-प्रस्तुतिः

पञ्चविंशतितत्त्वेषु तत्त्वबीजेषु चैव हि ।
स्थितो ह्यधिष्ठातृत्वेन परत्वेन महामते ॥ ४३ ॥

ऊर्ध्वे सप्ताक्षरं विप्र स्थिता नारायणी स्थितिः ।
या ह्येव कथिता पूर्वं त्रिधा सैव तु नान्यथा ॥ ४४ ॥

[तथाभूतस्य मन्त्रात्मनः परमेश्वरस्य विशेषतस्त्र्यक्षरे मन्त्रे
सान्निध्यनिरूपणम्]

विश्वास-प्रस्तुतिः

स्थितीस्सर्वाश्च संहृत्य विशेषेण व्यवस्थितः ।
परं(र ?)सूक्ष्मयुतं(त ?)स्थूलरूपेण त्र्यक्षरे सदा ॥ ४५ ॥

मन्त्रे ह्यनुग्रहार्थस्तु भविता भावितात्मनाम् ।

[वक्ष्यमाणदीक्षाङ्गभूतत्वत्त्वशोधने त्र्यक्षरस्य मन्त्रस्य
विनियोगभेदः]

त्रिरुच्चारेण वै कुर्याद्दीक्षां वा तेन नारद ॥ ४६ ॥

विश्वास-प्रस्तुतिः

ईशप्रधानतन्मात्रसन्धाने शोधने सति ।
द्विरुच्चारेण वा कुर्यादीशप्रकृतियोगतः ॥ ४७ ॥

प्रकृतिर्द्व्यक्षरो(रे ?)शोध्या प्रणवेनेश्वरस्तथा ।

सप्ताक्षरमन्त्रेणेश्वरतत्त्वसंशोधनप्रकारः सोपपत्तिकः

सप्तार्णेनेश्वरं वाथ एकोच्चारेण शोधयेत् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

मन्त्रा यतोऽखिलास्तस्मिन्पिण्डे तत्त्वानि चेश्वरे ।
इत्येवं विष्णुतत्त्वं तु व्यापकत्वेन संस्थितम् ॥ ४९ ॥

ज्ञात्वा सम्यक्ततो दीक्षां मन्त्रैः कुर्याद्द्विजाखिलैः ।
यतः परेण विभुना सर्वे मन्त्रा अधिष्ठिताः ॥ ५० ॥

शिष्यलक्षणपरीक्षणपूर्वकं शिष्याणां दीक्षितव्यता

विश्वास-प्रस्तुतिः

परीक्ष्य तन्नियुक्तांस्तु ब्रह्मचर्यस्थितान् शुचीन् ।
दक्षान् जितेन्द्रियान्धीरान्गुरुदेवाग्नितत्परान् ॥ ५१ ॥

वर्णाश्रमगुणोपेतान्विनीतान् श्रद्धयाऽन्वितान् ।
शिष्यांश्च भगवद्भक्तान् संसारानलखेदितान् ॥ ५२ ॥

दीक्षयेद्विधिना मन्त्री मन्त्रदीक्षादितः क्रमात् ।
संस्थिताऽनेकभेदेन यथा तद्गदतः शृणु ॥ ५३ ॥

सामान्यदीक्षायास्त्रैविध्यम्

विश्वास-प्रस्तुतिः

सर्वेषां केवलैर्मन्त्रैर्मान्त्री सामान्यलक्षणा ।
तत्त्वैर्बीजैस्तथा मन्त्रैर्ध्यानेन हवनेन च ॥ ५४ ॥

{{१५९}}

विश्वास-प्रस्तुतिः

सामान्या हि(त्रि ?)विधा चान्या सर्वेषा भावितात्मनाम् ।
सङ्क्षिप्ता मध्यमा सा च तृतीया चातिविस्तरा ॥ ५५ ॥

सङ्क्षिप्तादित्रयस्य फलभेदः

विश्वास-प्रस्तुतिः

क(अ ?)ल्पकालं च सङ्क्षिप्ता भोगं यच्छति सङ्कटम् ।
मध्यमा मध्यमं भोगं तथा कालं प्रयच्छति ॥ ५६ ॥

अनन्तभोगफलदा भवेद्भोगाभिलाषिणाम् ।
प्रभावाद्धोमपूजाभ्यां विस्तीर्णा कालमक्षयम् ॥ ५७ ॥

समत्वमपवर्गे तु भवेद्दीक्षात्रयस्य च ।

विशेषदीक्षायाः पञ्चविधत्वम्

विशेषाख्या च या दीक्षा पञ्चधा सा व्यवस्थिता ॥ ५८ ॥

पञ्चविधासु विशेषदीक्षासु प्रत्येकमधिकारिभेदनिरूपणम्

विश्वास-प्रस्तुतिः

प्रथमा समयज्ञानां बलानां विष्णुचेतसाम् ।
भक्तानां कन्यकानां च द्वितीया पुत्रकेषु च ॥ ५९ ॥

तृतीया मोक्षमार्गस्था साधकानां तु वै सदा ।
चतुर्थी मुनिशार्दूल ब्रह्मसायुज्यदायिका ॥ ६० ॥

देशिकानां तु कर्तव्या अङ्गनानां तु पञ्चमी ।

[सङ्क्षिप्तमध्यमविस्तृतभेदभिन्नासु सामान्यदीक्षासु
क्रमात्तत्वसंयोजनप्रकारभेदः]

एतासां क्रमशो वक्ष्ये समत्वं तत्त्वसङ्ग्रहम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

येन विज्ञातमात्रेण दीक्षा सम्यक्प्रवर्तते ।
संहारक्रमयोगेन मन्त्रराशित्रयं च यत् ॥ ६२ ॥

प्रागुक्तं योजनीयं तत्तृतीये(त्रितयं ?) बीजसंयुते(तम् ?) ।
तन्मात्रके प्रधाने च ईश्वराख्ये च शुद्धये ॥ ६३ ॥

राशित्रयस्य यो भेदः कथितो नवधा पुरा ।
अङ्कुशात्सप्तवर्णान्तं तन्मात्रेषु च पञ्चसु ॥ ६४ ॥

अहङ्कारे तथा बुद्धौ प्रकृतौ चेश्वरे च वै ।
तया संहृतियुक्त्या वै गन्धमात्रादितः क्रमात् ॥ ६५ ॥

विस्तीर्णायां तृतीयायां यदध्यात्मादिनोदितम् ।
क्रमः स एव बोद्धव्यः सृष्टिसंहारयोगतः ॥ ६६ ॥

सामान्यत्रितयस्येदं दीक्षायोगस्य लक्षणम् ।

[अथ विशेषदीक्षापञ्चकभेदे प्रत्येकं
मन्त्रैस्तत्त्वसंयोजनप्रकारभेदः]

पञ्चकस्याधुना विद्धि विशेषाख्यस्य नारद ॥ ६७ ॥

{{१६०}}

विश्वास-प्रस्तुतिः

त्र्यक्षरं पदभेदेन मूर्तिमन्त्रसमन्वितम् ।
सङ्क्षिप्ते तत्त्वजाले तु योजनीयं क्रमेण तु ॥ ६८ ॥

तन्मात्राणां च ह्रीं स्वाहा पञ्चानां तु सकृन्न्यसेत् ।
विश्वात्मने पदं यच्च द्वितीयं तदहङ्कृतौ ॥ ६९ ॥

नारायणाय बुद्धौ तु तृतीयं योजने(येत् ?)स्मरन् ।
नमः प्रधानतत्वे तु त्र्यक्षरं चेश्वरे ततः ॥ ७० ॥

विशेषपञ्चकस्यैषा प्रथमा परिकीर्तिता ।
द्वितीयं शृणु विप्रेन्द्र सर्वसिद्धिप्रदा हि या ॥ ७१ ॥

गन्धतन्मात्रपूर्वाणि हृदयाद्यैरनुक्रमात् ।
अहङ्कारं तु नेत्रेण (?) बुद्धिं जीवेन शोधयेत् ॥ ७२ ॥

प्रधानं मध्यमेनैव देवीनां हृदयेन तु ।
ईश्वरं प्रणवेनैव कुर्यात्तत्रैव योजनम् ॥ ७३ ॥

पुत्रकाणां स्मृता दीक्षा विधिनाऽनेन नारद ।
साधकानां तु वक्ष्यामि तत्त्वशुद्धौ क्रमेण तु ॥ ७४ ॥

संशोध्य गन्धतन्मात्रं वक्त्रमन्त्रत्रयेण तु ।
रसाख्यमङ्गषट्केन रूपमात्रं च शक्तिभिः ॥ ७५ ॥

समस्तमूलमन्त्रेण शोधयेत्स्पर्शसञ्ज्ञितम् ।
संशोध्य शब्दतन्मात्रमनिरुद्धेन नारद ॥ ७६ ॥

प्रद्युम्नेन त्वहङ्कारं बुद्धिं सङ्कर्षणेन च ।
प्रधानं वासुदेवेन ततः सत्येन चेश्वरम् ॥ ७७ ॥

शोधयेत्साधकस्यैवं तत्त्वं सद्वैष्णवस्य च ।
दीक्षार्थं तत्त्वसंशुद्धौ गुरोर्मन्त्रानथो शृणु ॥ ७८ ॥

दशभिस्सास्त्रमन्त्रैस्तु गन्धमात्रं तु संहरेत् ।
लोकेशाद्यै रसाख्यं तु रूपाख्यं कौस्तुभादिकैः ॥ ७९ ॥

स्पर्शसञ्ज्ञं त्रिभिर्वक्त्रैर्हृदाद्यैः शब्दसञ्ज्ञितम् ।
लक्ष्म्याद्यैरप्यहङ्कारं बुद्धिं मूलेन शोधयेत् ॥ ८० ॥

प्रधानमथ सत्याद्यैः पञ्चभिः परिशोध्य च ।
सप्ताक्षरेण मन्त्रेण शोधयेदीश्वरं ततः ॥ ८१ ॥

क्रम एष हि दीक्षायामाचार्याणामुदाहृतः ।
स्त्रीणां तु भोगसिद्ध्यर्थं शृणु दीक्षाक्रमं मम ॥ ८२ ॥

{{१६१}}

विश्वास-प्रस्तुतिः

पुरुषं प्रथमे तत्त्वे योजयेद्गन्धसञ्ज्ञिते ।
रसतन्मात्रसञ्ज्ञेऽथ सत्त्यं चैव द्वितीयके ॥ ८३ ॥

अच्युतं च तृतीये तु वासुदेवं चतुर्थके ।
सकलेन तु रूपेण एतदादौ चतुष्टयम् ॥ ८४ ॥

मूलम्

अच्युतं च तृतीये तु वासुदेवं चतुर्थके ।
सकलेन तु रूपेण एतदादौ चतुष्टयम् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

योजनीयं च मन्त्राणां चतुस्तन्मात्रशुद्धये ।
पञ्चमेचानिरुद्धं तु षष्ठे योज्यः पुनः प्रभुः ॥ ८५ ॥

प्रद्युम्नस्तु विशालाक्षस्ततः सङ्कर्षणः परे ।
निष्कलस्सप्तमे योज्यो देव्यो योज्यास्तथाऽष्टमे ॥ ८६ ॥

नवमे तु महातत्त्वे ध्यायेन्नारायणं प्रभुम् ।
त्र्यक्षरेण तु मन्त्रेण त्रिदैवत्यं जगद्गुरुम् ॥ ८७ ॥

एवं तत्त्वसमूहस्थं ज्ञात्वा मन्त्रगणं पुरा ।
प्रारभेत ततो दीक्षां सुशुभे दिवसे गुरुः ॥ ८८ ॥

दीक्षायां प्रशस्तास्तिथयः

विश्वास-प्रस्तुतिः

यद्यप्युक्ता मया विप्र तिथयः पूजने पुरा ।
तथाऽपि द्वादशी श्रेष्ठा दीक्षायां पूजने हरेः ॥ ८९ ॥

सर्वं दशम्यामाहृत्य यागोपकरणं तु वै ।

स्नानादिनियमपूर्वकं यागशालाप्रवेशः

प्राग्वत्स्नात्वा समाचम्य कृतन्यासस्स्मरेद्धरिम् ॥ ९० ॥

पुष्पार्घ्यतोयहस्तश्च संविशेद्यागमन्दिरम् ।

[नृसिंह्यमन्त्रादिभिरभिमन्त्रितानां सिद्धार्थकानां
यागशालायां परितः प्रक्षेपः]

नृसिंह्ममन्त्रेणास्त्रेण सचक्रेणाभिमन्त्र्य च ॥ ९१ ॥

सिद्धार्थकान्क्षिपेत्पश्चादूर्ध्वेऽधो दिग्विदुक्षु च ।

स्वमन्त्रेण गदास्थापनम्

प्राकाराकारदेहां च नानाज्वालासमावृताम् ॥ ९२ ॥

शक्तिरूपां गदां तत्र स्वमन्त्रेण तु विन्यसेत् ।

[सत्याद्यभिमन्त्रितेन पञ्चगव्येन त्र्यक्षरमन्त्रेण
सर्वद्रव्यप्रोक्षणम्]

पात्रे चाभिनवे कुर्यात्सम्मिश्रसलिलेन च ॥ ९३ ॥

विश्वास-प्रस्तुतिः

सत्यादिपञ्चकेनाथ पञ्चगव्यं तु मन्त्रयेत् ।
त्र्यक्षरेण तु मूलेन सर्वं सम्प्रोक्ष्य तेन वै ॥ ९४ ॥

{{१६२}}

कौशेयेन पवित्रेण ध्यायमानस्तमेव हि ।

कलशविधिः

अथादाय दृढं शुभ्रमेकरूपं च निर्व्रणम् ॥ ९५ ॥

विश्वास-प्रस्तुतिः

कलशं मृण्मयं रम्यं सौवर्णं चाथ राजतम् ।
रत्नहाटकसद्गन्धफलसर्वौषधीयुतम् ॥ ९६ ॥

मूलम्

कलशं मृण्मयं रम्यं सौवर्णं चाथ राजतम् ।
रत्नहाटकसद्गन्धफलसर्वौषधीयुतम् ॥ ९६ ॥

विश्वास-प्रस्तुतिः

शुभपादपशाखाढ्यं पट्टस्रक्कण्ठभूषणम् ।
गालितोदकसम्पूर्णं वारिधारान्वितं शुभम् ॥ ९७ ॥

चन्दनाद्युपलिप्तं च परितश्चार्घ्यचर्चितम् ।

यथाविधि मन्त्रस्य साङ्गस्य पूजनीयत्वविधानम्

मन्त्रपीठोपरि ब्रह्मन्साङ्गं सपरिवारकम् ॥ ९८ ॥

मन्त्रं पूर्वोक्तविधिना पूजयेच्च यथाविधि ।

वर्धन्या अभिमन्त्रणम्

सास्त्रेण चक्रमन्त्रेण मन्त्रयेदथ वर्धनीम् ॥ ९९ ॥

तत्र चक्रस्थितं चास्त्रं यजेन्नारायणात्मकम् ।

[वर्धनीस्थसलिलधारया भित्तिसंसेचनपूर्वकं कलशस्य
भ्रामणविधिः]

तया भित्तिगणं सर्वं संसिच्याच्छिन्नधारया ॥ १०० ॥

विश्वास-प्रस्तुतिः

प्रदक्षिणक्रमेणैवमीशकोणादितो द्विज ।
पृष्ठतः कलशो भ्राम्यस्स्तुल्यकालं तु वा पृथक् ॥ १०१ ॥

अथ भ्रामितस्य कलशस्य स्थापनविधिः

विश्वास-प्रस्तुतिः

शाल्यादिषु परिस्थाप्यः कलशो वर्धनीयुतः ।
ईशदिक्सम्मुखं चाथ पुष्पाद्यैः पूजयेत्पुनः ॥ १०२ ॥

स्थापितस्य कलशस्य पूजनम्

विश्वास-प्रस्तुतिः

अस्त्रेण वस्त्रयुग्मं तु अहतं चाभिमन्त्र्य वै ।
धूपादिवासितं कृत्वा तावुभौ परिवेष्ट्य च ॥ १०३ ॥

पूजां कृत्वाऽथ पुष्पाद्यैः

स्थण्डिलेऽग्नौ च हरेर्यजनविधानम्

				स्थण्डिलेऽथ यजेद्धरिम् ।  

पूर्वोक्तेन विधानेन ततोग्नेर्मध्यतो यजेत् ॥ १०४ ॥

{{१६३}}

सन्तर्प्य पूर्वविधिना चरुं वै साधयेत्ततः ।

अथ चरुसाधनप्रकारः

प्रक्षाल्य च पुराऽस्त्रेण गन्धैरालिप्य चान्तरात् ॥ १०५ ॥

विश्वास-प्रस्तुतिः

क्षीरेण हविरापूर्य हृन्मन्त्रेण तु नारद ।
लक्षयित्वा शृतं क्षीरं निक्षिपेत्तण्डुलांस्ततः ॥ १०६ ॥

शक्तिमन्त्रचतुष्केण चालयेत्सिह्ममूर्तिना ।
सिद्धमुत्तारयेत्कुण्डान्मन्त्रेण कपिलात्मना ॥ १०७ ॥

प्रक्षाल्यालिप्य च ततो मन्त्रेण क्रोडमूर्तिना ।
स्थगयेन्मूलमन्त्रेण

सिद्धस्य चरोश्चतुर्धा विभज्य विनियोगविधानम्

				चतुर्धा संविभज्य तत् ॥ १०८ ॥  
विश्वास-प्रस्तुतिः

स्थण्डिलाराधितस्यादौ भागमेकं निवेद्य च ।
मध्वाज्यसम्प्लुतं कृत्वा द्वितीयं कलशस्थिते ॥ १०९ ॥

तृतीयं भागमादाय तमग्निस्थे तु होमयेत् ।
परिवारे बलिं दद्यात्स्थलेशकलशावधौ (?) ॥ ११० ॥

स्थण्डिलादिस्थानत्रये देवस्य पुनः पूजनम्

विश्वास-प्रस्तुतिः

मुद्रां बध्वा ततो जप्त्वा पुष्पाद्यैः पूजयेत्पुनः ।
त्रिस्थानस्थं क्रमाद्देवं शिष्यानाहूय मण्डितान् ॥ १११ ॥

शिष्याणां प्रोक्षणम्

विश्वास-प्रस्तुतिः

सुस्नातान्धौतवस्त्रांश्च पवित्रीकृतविग्रहान् ।
द्वारदेशस्थितान्कृत्वा बहिर्वासान्तरे द्विज ॥ ११२ ॥

प्रोक्षयेदर्घ्यपात्रात्तु प्रागस्त्रेण तु नारद ।

अथ सर्वाङ्गसंस्पर्शः

सर्वाङ्गालभनं कुर्याच्छाखाजप्तैः पदैः क्रमात् ॥ ११३ ॥

अभिमन्त्रितस्यार्घ्यपुष्पस्य शिरसि प्रक्षेपः

दत्वाऽर्घ्यपुष्पं शिरसि शिरोमन्त्राभिमन्त्रितम् ।

शिष्याणां मन्त्रमयशरीरत्वापादनम्

दहनोत्पादनं कुर्यात्पूर्ववत्क्रमयोगतः ॥ ११४ ॥

{{१६४}}

ततस्तेषां विधानेन कुर्यान्मन्त्रमयीं तनुम् ।

गुरुणा शिष्ये कर्तव्यो भावनाविशेषः

यथाऽत्मनि पुरा देवे यथाऽग्नौ कलशे यथा ॥ ११५ ॥

विश्वास-प्रस्तुतिः

शिष्यस्य च तथा ध्यायेत्सकलान्निष्कलात्परम् ।
परं च त्र्यक्षरेणैव केवलेन तु नारद ॥ ११६ ॥

संस्कारस्सकलः प्रोक्तः शङ्खचक्रगदाधरः ।
निष्कलः शक्तिरूपस्तु मध्यमो मन्त्रनायकः ॥ ११७ ॥

परःशक्त्यवसानस्तु प्रणमात्मा (वात्मा ?) व्यवस्थितः ।
सकलाधिष्ठिता व्यक्ता प्रकृतिः स्पष्टरूपिणी ॥ ११८ ॥

निष्कलाधिष्ठितं ज्ञेयमव्यक्तं पुरुषीश्चितिम् । (?)
मन्त्ररूपेण देवेन सदसद्व्यक्तिरूपिणा ॥ ११९ ॥

परेणाधिष्ठितं सर्वं व्यक्ताव्यक्तं चिदात्मकम् ।

[स्वस्य शिष्यस्य चोक्तप्रकारेणैकीभावं भावयतो गुरोरेव
संसारविमोचकत्वोक्तिः]

एवं देवं स्वमात्मानं शिष्यं च पुरुषात्मकम् ॥ १२० ॥

विश्वास-प्रस्तुतिः

एकीभावेन यो वेत्ति न्यासकाले परस्य तु ।
दीक्षाधिवासने विप्र स संसाराद्विमोचकः ॥ १२१ ॥

मत्रमूर्तेर्भगवतः सन्निधौ विज्ञापनम्

विश्वास-प्रस्तुतिः

विज्ञाप्यश्चाथ भगवान्स्थलस्थो मन्त्रविग्रहः ।
सबन्धान्वैषयैः पाशैः विदेहं (विवशान् ?) पशुपक्षिवत् ॥ १२२ ॥

त्वदनुग्रहसामर्थ्यान्मोक्षयामि जगद्गुरो ।
विज्ञाप्यो भ्गवनेवं विनिवेद्य पशू(?)न्विभोः ॥ १२३ ॥

पुत्राः शिष्यास्तथा भृत्यास्तथै(वै ?)व परमेश्वर ।

अहतेन वाससा शिष्यस्य नेत्रबन्धनम्

वाससा ह्यहतेनाथ शुद्धेन सुसितेन च ॥ १२४ ॥

नेत्रमन्त्राभिजप्तेन नेत्रे शिष्यस्य बन्धयेत् ।

पिनद्धनेत्रस्य शिष्यस्य हस्तेन पुष्पाञ्जलिप्रक्षेपणम्

अमन्त्रं क्षेपयेच्चातो विष्णोः पुष्पाञ्जलिं स्थले ॥ १२५ ॥

पुष्पाञ्जलिपतनानुसारेण शिष्यस्य नामकरणम्

यत्र सा पतति ब्रह्मन्बुद्धिसङ्कल्पितेऽम्बुजे ।
{{१६५}}

नवधा विभजेत्प्राग्वत्तन्नामानं तमङ्कयेत् ॥ १२६ ॥

विष्णुशब्दान्वितेनैव पतिं(ति ?)सञ्ज्ञायुतेन च ।

अमन्त्रकं कलशपूजनम्

अमन्त्रमर्चयेत्पश्चात्कलशं सास्त्रवर्धनीम् ॥ १२७ ॥

मायासूत्रविधाननिरूपणम्

सुसितं सूत्रमादाय लाक्षालक्तकभावितम् ।

तत्र सूत्रमानम्

सम्मुखं चोत्थितं शिष्यं समपादशिरोन्नतम् ॥ १२८ ॥

विश्वास-प्रस्तुतिः

कृत्वाऽङ्गुष्ठद्वयस्याग्रात्समारभ्य द्विजोत्तम ।
यावच्छिखावसानं तु सूत्रमानं समाहरेत् ॥ १२९ ॥

तस्य सूत्रस्यैकगुणद्विगुणत्वाद्यन्यतमविधानम्

विश्वास-प्रस्तुतिः

कुर्यादेकगुणं तद्वै द्विगुणं त्रिगुणं तु वा ।
त्रित्रिस्थगुणितं वाथ पञ्चविंशतिधा तु वा ॥ १३० ॥

तस्य सूत्रस्य सर्वविकारप्रकृतिभूताव्यक्तत्वेनभावनम्

विश्वास-प्रस्तुतिः

अव्यक्तलिङ्गसूत्रं तु प्रागविद्याकलात्मकम् ।
नित्यं जडं व्यापकं च तस्मिन्विश्वं प्रतिष्ठितम् ॥ १३१ ॥

तत्राप्त(स्त ?)मयते भूयस्तस्माद्वै सम्प्रवर्तते ।
तत्रस्थां चिन्तयेत्सर्वामभिन्नां तत्त्ववर्धनीम् ॥ १३२ ॥

तत्रोद्भवास्तु ये विप्र पाशबन्धात्मका दृढाः ।
रागेण रञ्जिताश्चित्रा अविद्यासम्प्रदीपिताः ॥ १३३ ॥

विच्छिन्नाश्चैव कालेन नियता व्यापकास्तथा ।

[तस्य सूत्रस्यैकद्वित्र्याद्यन्यतमप्रकारेण तत्त्वसङ्ख्याक्रमेण
यथेच्छं ग्रन्थनम्]

तत्त्वसङ्ख्याक्रमेणैव ग्रथयेत्तद्विजेच्छया ॥ १३४ ॥

विश्वास-प्रस्तुतिः

एकधा वा द्विधा चैव त्रिधा वा नवधा मुने ।
सङ्क्षिप्तं विस्तरेणाथ ग्रथयेत्पञ्चपञ्चधा ॥ १३५ ॥

[भोगमोक्षार्थिनः शिष्यस्य तदन्तरायोन्मूलनार्थं
शिष्यशरीरतया भाविते सूत्रे तत्त्वसृष्टिक्रमेण
शिखाप्रभृतिचरणान्तावयवभावनापूर्वकं होमस्य
कर्तव्यताविधानम्]

तत्त्वसृष्टिक्रमेणैव शिखाग्राच्चरणावधि ।
{{१६६}}

भविष्यत्फलदेहेऽसौ (स्य ?) कृतकृत्यस्य कर्मणः ॥ १३६ ॥

विश्वास-प्रस्तुतिः

कल्पयित्वा तु होतव्यो मन्त्रैर्निमूलकारणम् ।
भोगमोक्षप्रसक्तस्य बाधन्ते न यथा पुनः ॥ १३७ ॥

कदाचिद्देहपादाद्यैः कर्माणि मुनिसत्तम ।
अनिच्छमानस्य बलाज्जन्तोः सम्प्रेयरन्ति च ॥ १३८ ॥

सेश्वरे प्राकृते देहे स हि कर्मास्पदो यतः ।
आश्रयस्य त्वभावेन कर्माण्युपशमन्ति च ॥ १३९ ॥

स्वयमेव यथा वह्नेर्ज्वालाद्या इन्धनं विना ।
भोगासक्तस्य वै जन्तोरन्ते मोक्षाभिकाङ्क्षिणः ॥ १४० ॥

संविधानमिदं कुर्यान्न निर्वाणाश्रितस्य च ।

[सूत्रं कुण्डसमीपं नीत्वा तस्मिन् सूत्रात्मके देहे तत्त्वानां
सङ्क्षेपविस्ताराभ्यां पूर्वोक्तैक
द्वित्र्यादिग्रन्थनप्रकारविकल्पानुगुणं स्मरणप्रकारः]

साधुपर्णपुटे सूत्रं कृत्वा तं मल्लकेऽथ वा ॥ १४१ ॥

विश्वास-प्रस्तुतिः

प्रयायात्कुण्डनिकटं सह शिष्येण वै गुरुः ।
निधाय कुण्डनिकटे देहे शैष्येऽथ सौत्रके ॥ १४२ ॥

तत्त्वसङ्घं स्मरेद्भिन्नं स्पष्टं सृष्टिक्रमेण तु ।
केवलं चेश्वरं वाथ तं प्रधानान्वितं तु वै ॥ १४३ ॥

ते द्वे तन्मात्रकं वर्गमेकं च बहुधात्मकम् ।
ईश्वरं प्रकृतिं मेधामहङ्कारादिकं गणम् ॥ १४४ ॥

नवधा वा मुनिश्रेष्ठ विस्तारेणाथ चिन्तयेत् ।
ईश्वराच्च प्रथिव्यन्तं यथा चानुक्रमेण वा ॥ १४५ ॥

ललाटादङ्घ्रिपर्यन्तं स्थानभेदेन नारद ।
व्यापकत्वेन वै तत्त्वं सर्वेषां च लयं गतम् ॥ १४६ ॥

तत्त्वगणस्य दीपालोकयोरिवापृथग्भावलक्षणमैक्यम्

विश्वास-प्रस्तुतिः

प्रदीपाच्च यथा गेहे बहवस्स्थानभेदकाः ।
दृश्यते(न्ते ?)च तदुद्भूत आलोकोन विभाव्यते ॥ १४७ ॥

व्यापकत्वात्पृथग्रपमेवं तत्त्वगणं मुने ।
अपृथक्च पृथग्भूतं सम्मिश्रं तु विभावयेत् ॥ १४८ ॥

यथावज्ज्ञानदृष्ट्या तु बुद्ध्या संशोध्य योजयेत् ।
एवमेवापृथग्विद्धि भेदमेकस्य तं प्रति ॥ १४९ ॥

{{१६७}}

दिक्संस्थितस्य यच्चैक्यं मिश्रीभूतत्वमेव हि ।

तत्रैकधाग्रन्थनपक्षे

एकोच्चारप्रयोगेण ईशं सर्वत्र भावयेत् ॥ १५० ॥

द्विधा ग्रन्थनपक्षे

विश्वास-प्रस्तुतिः

द्विरुच्चारप्रयोगेण ईश्वरं तु विभावयेत् ।
व्यक्तौ प्रधानतत्त्वं तु व्यापकं देहरूपधृत् ॥ १५१ ॥

त्रिधा ग्रन्थनपक्षे

विश्वास-प्रस्तुतिः

त्रिरुच्चारेण चामूर्ध्नो हृदयान्तं स्मरेद्विभुम् ।
हृदयान्नाभिपर्यन्तं प्रधानं परिभावयेत् ॥ १५२ ॥

आनाभेः पादपर्यन्तं स्मरेत्तन्मात्रकं गणम् ।

नवधा ग्रन्थनपक्षे

नवधा मुनिशार्दूल एवमेव क्रमं शृणु ॥ १५३ ॥

विश्वास-प्रस्तुतिः

आकर्णादीश्वरं मूर्ध्नि प्रधानं वक्षसोऽन्तरे ।
नाभौ बुद्धिमहङ्कारं कन्दमूलाश्रितं स्मरेत् ॥ १५४ ॥

ऊरुभ्यां शब्दतन्मात्रं स्पर्शाख्यं सन्धिदेशजम् ।
जङ्घाभ्यां रूपतन्मात्रं गुल्फयोरससञ्ज्ञितम् ॥ १५५ ॥

पादाभ्यां गन्धसञ्ज्ञं तु सबीजं ध्यानसंयुतम् ।
स्मरेद्देहे शिशोस्सूत्रे नवग्रन्थिसमायुते ॥ १५६ ॥

ध्यायेद्ध्याता धरान्तं वा दीक्षाकाले ह्युपस्थिते ।

अथ तत्त्वानां होमः

ललाटे चेश्वरं साक्षाच्चिद्रूपं सर्वतो मुखम् ॥ १५७ ॥

विश्वास-प्रस्तुतिः

समग्रैश्वर्यसम्पूर्णं स्वबीजेन महामते ।
तद्वदेव हि शिष्यस्य ध्वात्वा तदनु होमयेत् ॥ १५८ ॥

स्वबीजेन शतं साष्टं तदर्द्धं त्र्यंशमेव वा ।
तत्पादमथ पादार्धं ज्ञात्वाव्यक्तबलं तु वै ॥ १५९ ॥

हुत्वाऽथ हविषाऽपूर्य स्रवं तेन हुने (?)च्छिशुम् ।
मूर्ध्नि पूर्णोपमं कुण्डे स्वाहान्तं तु विनिक्षिपेत् ॥ १६० ॥

सूत्रग(ग्र ?)न्धावथोर्ध्वस्थे तत्तत्वं भावयेत्तथा ।
एवमीश्वरसम्पातं होमं कृत्वा समासतः ॥ १६१ ॥

{{१६८}}

विश्वास-प्रस्तुतिः

प्रधानं च भुवोर्मध्ये स्वमन्त्रेण तु भावयेत् ।
सिन्दूरपुञ्जसङ्काशं होमयेत्तद्वदेव हि ॥ १६२ ॥

सितेन्दुरश्मिवर्णाभां तालुमध्ये धियं स्मरेत् ।
कुसुम्भरससङ्काशं खद्योतमिव खेचरम् ॥ १६३ ॥

तालुमूले त्वहङ्कारं तालुकर्णान्तरे ततः ।
राजोपलद्युति मुषंषः (माकृतेः ?) कदम्बकुसुमोपमम् ॥ १६४ ॥

मनसश्चानुसन्धानं कुर्यात्सन्तर्प्य पूर्ववत् ।
कर्णाद्धृत्पद्मपर्यन्तं स्मरेत्पञ्चपदे समे ॥ १६५ ॥

श्रोत्रादीनथ वै पञ्च प्रस्फुरत्तारकोज्वलान् ।
स्वैः स्वैर्बीजैश्च पूर्वोक्तैर्ध्यात्वा सन्तर्प्य पूर्ववत् ॥ १६६ ॥

तत्स्थाना - - - - - - - - - - - - - - - - - - ।
स्पन्द (पद्म) स्थानाच्च नाभ्यन्तं प्राग्वत्पञ्चपदान्तरे ।
वागादीन्वै स्थितान् पञ्च बीजैः स्वैः पूर्ववत्स्मरेत् ॥ १६७ ॥

अनुक्रमेण चैकैकमुच्चार्य जुहुयान्न्यसेत् ।
आनाभेर्वस्तिशीर्षान्तं सुसमे पदपञ्चके ॥ १६८ ॥

शब्दतन्मात्रपूर्वाणि गन्धमात्रावसानतः ।
स्वैःस्वैर्गुणैश्च युक्तानि भास्वज्ज्योतिःप्रभाणि तु ॥ १६९ ॥

ऊरुमूले तथा मध्ये बुद्धिदेशे (?)ततस्त्वधः ।
दण्डे मर्मावसाने तु (?)सर्वस्मिंश्चरणे क्रमात् ॥ १७० ॥

खवाय्य्वग्न्युदकक्ष्मान्तं चिन्तयेद्भूतपञ्चकम् ।
नि(नी ?)रूपाञ्जनवर्णं तु संस्मरेद्व्योमगोलकम् ॥ १७१ ॥

वायव्यं नीलपीतञ्च तैजसं मधुपिङ्गलम् ।
मुक्ताफलनिभं चाप्यं रत्नपीतं तु पार्थिवम् ॥ १७२ ॥

सध्यानद्रष्टा चोङ्कारं बीजं तदनु वै नमः ।
तत्रैव काले होमार्थं बीजं प्रणवपूर्वकम् ॥ १७३ ॥

तत्तत्सज्ञं ततः स्वाहा सम्पाते त्वीदृशो विधिः ।

सम्पातहोमः ?

तुर्यातीतपदावस्थो गुरुः कुर्यादनुग्रहम् ॥ १७४ ॥

एकोच्चारेण शिष्यस्य क्रियामप्यपरित्यजन् ।
{{१६९}}

द्विरुच्चारेण तुर्यस्थः सुषुप्तावस्थगस्त्रिभिः ॥ १७५ ॥

विश्वास-प्रस्तुतिः

नवभिस्स्वप्नभूमिष्ठो जाग्रत्स्थानोऽखिलैर्जुहेत् ।
एकधा वा द्धिधा त्रेधा पञ्चधा पञ्चपञ्चधा ॥ १७६ ॥

हुत्वा सम्पातहोमार्थं सर्वद्वन्द्वोपशान्तये ।
कुर्यात्पूर्णाहुतिं चैव होमान्ते बीजसन्ततम् ॥ १७७ ॥

समूलमन्त्रं संस्मृत्य वौषडन्तं महामुने ।
यः पुमान् जीवसञ्ज्ञस्तु तस्यैता भोगभूमयः ॥ १७८ ॥

ऊर्ध्वाधोभ्यामविश्रान्तस्तावत्कुर्याद्गमागमम् ।
यावन्न गुरुणा सम्यङ्मन्त्रमूर्त्तौ नियोजितः ॥ १७९ ॥

तत्स्थितो भगवच्छक्तिकिरणैश्चामलीकृतः ।
निर्मलो मलसोपानपदवीं न व्रजेत्पुनः ॥ १८० ॥

एवं सम्पातहोमं तु सम्पाद्य च पुरा मुने ।
विधाय तत्त्वसूत्रं तु पात्रेणैवापरेण तु ॥ १८१ ॥

संवेष्ट्य सितसूत्रेण गत्वाऽथ विनिवेद्य च ।

रजोघटिकाकर्तर्याद्युपकरणद्रव्याणामासादनादिसंस्कारः

कुम्भाग्रे वायुकोणे वा रजांसि घटिकां तथा ॥ १८२ ॥

विश्वास-प्रस्तुतिः

कर्त्तरीं शालिपूर्णां तु सूत्रं किरणसञ्ज्ञितम् ।
सौवर्णीं राजतीं चैव शलाकां ताम्रजामथ ॥ १८३ ॥

धूपदीपादिकं सर्वं मूलमन्त्रेण नारद ।
सम्पूज्याथ परामृश्य निरीक्ष्याच्छाद्य वाससा ॥ १८४ ॥

बलिहरणम्

विश्वास-प्रस्तुतिः

ततश्शिष्यसमायुक्तो द्वाराद्बाह्यं व्रजेद्गुरुः ।
भूतानि दूरतोऽस्त्रेण प्रेर्य चैव बलिं क्षिपेत् ॥ १८५ ॥

तोयतण्डुलसिद्धार्थदधिजालसमन्वितम् ।

परिखालेखनम्

शङ्कुनाऽस्त्राभिजप्तेन परितः परिखां लिखेत् ॥ १८६ ॥

समाचम्योपविश्याथ प्राङ्मुखो वाप्युदङ्मुखः ।

पञ्चगव्यप्रदानम्

अनुक्रमेण शिष्याणां वर्णतो व्यवहारतः ॥ १८७ ॥

{{१७०}}

पञ्चगव्यमथो दद्याद्दुर्भुक्तानां विशुद्धये ।

चरुशेषभक्षणम्

आचम्य चरुशेषं तु अश्नीयाच्छिष्यसंयुतः ॥ १८८ ॥

अथ दन्तकाष्ठचर्वणतत्प्रक्षेपणविधानम्

भुत्त्काऽस्त्रेणाभिमन्त्र्याथ दन्तकाष्ठं तु भक्षयेत् ।

अधिकारिभेदेन दन्तकाष्ठपरिमाणभेदः

नवाष्टसप्तषट्पञ्चाङ्गुलैर्ब्राह्मणपूर्वकम् ॥ १८९ ॥

विश्वास-प्रस्तुतिः

दद्यात्स्त्रीबालपर्यन्तं गुरोर्वै द्वादशाङ्गुलम् ।
एकापायेन चैतस्मात् समयज्ञावसानतः ॥ १९० ॥

भक्षयित्वा विनिक्षिप्य तौ (सं ?)क्षाल्य प्रयतस्ततः ।
स्पष्टं कृत्वा खवक्त्रं तु अग्रपातं विलोक्य च ॥ १९१ ॥

शुभाशुभपरिज्ञानम्

विश्वास-प्रस्तुतिः

उदक्पश्चिम ऐशानप्राङ्मुखं पतितं तु वा ।
शुभं शेषासु विप्रेन्द्र दिक्षु चाशुभमादिशेत् ॥ १९२ ॥

स दोषाश्चाशुभे पाते निर्दोषाश्च शुभे स्मृताः ।

अशुभशान्त्यर्थो होमः

तत्राशुभोपशान्त्यर्थं प्रभाते जुहुयाद्गुरुः ॥ १९३ ॥

विश्वास-प्रस्तुतिः

शतं सहस्रं साष्टं वा यथाशक्त्यथवा द्विज ।
मध्वाज्यक्षीरसम्मिश्रान् सफलांश्च तिलानथ ॥ १९४ ॥

अस्त्रसम्पुटितेनैव नाम्ना स्वाहान्वितेन तु ।
दोषं जहि जहीत्येव पदं नामावसानगम् ॥ १९५ ॥

अथ शयनविधिः

विश्वास-प्रस्तुतिः

आचम्य पाणिपादं तु प्रक्षाल्य शिशुना सह ।
सर्वं प्रदक्षणीकृत्य त्रिस्थानस्थक्रमेण तु ॥ १९६ ॥

प्राग्दक्षिणशिरो वाऽथ शयनं कल्पयेद्गुरुः ।
दर्भांस्तत्रास्त्रमन्त्रेण क्षिपेत्सिद्धार्थकांस्तथा ॥ १९७ ॥

भगवन्तं स्मरंस्तत्र नारायणमजं विभुम् ।
उपोष्य रजनीमेकां नियमस्थां तु कारयेत् ॥ १९८ ॥

{{१७१}}

शतमावर्तयेन्मन्त्रमर्धं पादं तु शक्तितः ।

स्वप्नाधिपतिमन्त्रः

ॐकारः प्राक्ततः प्राणो लोकेशोपरि संस्थितः ॥ १९९ ॥

विश्वास-प्रस्तुतिः

तदूर्ध्वे व्यापकं चान्द्रं ह्रीङ्कारस्तदनन्तरम् ।
स्वप्नाधिपतये दद्यात्पदं चाथ षडक्षरम् ॥ २०० ॥

रजनीश्वराय शब्दं वै विष्णवे त्र्यक्षरं ततः ।
स्वाहा समन्वितो विंशत्यक्षरः स्वप्नमन्त्रराट् ॥ २०१ ॥

अर्धरात्रे शयनादुत्थाय गुरुणा विधेयो विशेषः

विश्वास-प्रस्तुतिः

ततोऽर्धरात्रसमये उत्थाय शयनाद्गुरुः ।
प्रक्षालिताङ्घ्रिपाणिश्च आचम्य न्यासमाचरेत् ॥ २०२ ॥

स्थलस्थं धूपयित्वाऽग्निमुत्थाप्यैकीकृतं स्मरेत् ।
कुम्भस्थे मन्त्रमूर्तौ तु प्राग्वत्कुर्याच्च मण्डलम् ॥ २०३ ॥

शोभयेच्च तथा विप्र दद्यादस्त्राभिमन्त्रितम् ।
शराष्टकं बहिर्दिक्षु सफलं पुष्पमण्डितम् ॥ २०४ ॥

शराश्रितं त्रिधा छिन्नं सूत्रं वै पञ्चरङ्गकम् ।
वस्त्रैः कृत्वा परिच्छन्नं यथान्यो नावलोकयेत् ॥ २०५ ॥

कृतो वा क्रियमाणो वा यस्मान्नापूजितो मुने ।
दर्शनीयो रजःपातः कस्यचित्सिद्धिमिच्छता ॥ २०६ ॥

प्रभाते शिष्याणामुद्बोधनम्

प्रभाते बोधयेच्छिष्यान् स्वप्नं पृच्छेच्छुभाशुभम् ।

शुभाशुभस्वप्नभेदनिरूपणम्

गुरुदेवद्विजाःकन्या गोगजाश्चाश्वकेसरी ॥ २०७ ॥

विश्वास-प्रस्तुतिः

दर्पणं शङ्खभेर्यौ च तन्त्रीवाद्यं च रोद(शोभ ?)नम् ।
ताम्बूलभक्षणं चैव तथा दध्यभिवन्दनम् ॥ २०८ ॥

सिद्धान्नमाममांसं च मद्यस्त्रीमदिरासवम् ।
छत्रं यानं सितं वस्त्रं तथाऽन्यत् श्वेतचन्दनम् ॥ २०९ ॥

माल्यं मुक्ताफलैर्हारो भूयःपूर्णोदितश्शशी ।
प्रचण्डकिरणः खस्थो निम्नगाऽथ महोदधिः ॥ २१० ॥

प्रफुल्लपादपश्शाली कुङ्कुमं रोचना मधु ।
{{१७२}}

लाजाः सिद्धार्थका बीजं नवभाण्डं च पायसम् ॥ २११ ॥

विश्वास-प्रस्तुतिः

तपस्यन्वै तथाऽचार्यो गायन्ती च वराङ्गना ।
मनःप्रीतिकराश्चान्ये लोके शंसापदङ्गता ॥ २१२ ॥

सर्वे स्वप्नाश्शुभा विद्धि सिद्धिमोक्षफलप्रदाः ।
अतोऽन्ये विपरीताश्च मनसः खेददाश्च ये ॥ २१३ ॥

गर्हिता लोकविद्विष्टास्स्वप्नास्ते ह्यशुभावहाः ।

अशुभस्वप्नदोषपरिहाराय होमविधानम्

पृष्ट्वा समाचरेद्धोमं दन्तकाष्ठोदितं मुने ॥ २१४ ॥

केवलेनाथवाऽज्येन सिंहमन्त्रेण शान्तये ।

न्यूनातिरिक्तप्रायश्चित्तार्थं होमस्य विधानम्

सशिष्योऽथ गुरुस्स्नात्वा पूर्ववत्सम्प्रविश्य च ॥ २१५ ॥

ऊनातिरिक्तशान्त्यर्थं सर्वमन्त्रैश्च होमयेत् ।

पूर्वोक्तप्रकारेण मण्डलपूजनादि

मण्डलं पूजयेत्पश्चात् पूर्वोक्तविधिना मुने ॥ २१६ ॥

सर्वं होमावसानं तु कृत्वा शिष्यान् प्रवेशयेत् ।

आबद्धनेत्राणां शिष्याणां हस्ततः पुष्पाञ्जलिप्रक्षेपणम्

क्रमात् पुष्पाञ्जलिं कृत्वा बद्धनेत्रांश्च पूर्ववत् ॥ २१७ ॥

क्षेपयेच्च हिरण्याढ्यं मणिमुक्ताफलान्वितम् ।

उद्घाटितनेत्रैः शिष्यैः गुरुनमस्कारादेः कर्तव्यता

उद्घाट्य नयने पश्चादखिलं सम्प्रदर्शयेत् ॥ २१८ ॥

विश्वास-प्रस्तुतिः

गुरोर्वै पादपतनं कृत्वाऽष्टाङ्गेन भक्तितः ।
प्रदक्षिणद्वयं कुर्यान्मण्डले नतमस्तकः ॥ २१९ ॥

व्रजेदग्नेस्समीपं तु उपविश्य ततो गुरुः ।

अथ गुरुणा कर्तव्यहोमविशेषविधानम् तत्र मन्त्रतृप्तिहोमः

विन्यस्य वह्नेर्गेहे तु मन्त्रमण्डलमुत्तमम् ॥ २२० ॥

विश्वास-प्रस्तुतिः

स्वाहान्तान् होमयेद्भूयो मन्त्रान्विधिपुरस्सरान् ।
देवीरङ्गानि सत्यास्त्रं ? तिलैराज्येन शक्तितः ॥ २२१ ॥

मन्त्राणां तर्पणं कृत्वा सर्वेषां मुनिसत्तम ।

मन्त्राधिकारहोमः

दीक्षारम्भनिमित्तार्थं दशभागव्यवस्थया ॥ २२२ ॥

{{१७३}}

विश्वास-प्रस्तुतिः

मन्त्रपूजाधिकारार्थं होमं कुर्यात्ततोऽपरम् ।
प्रतिमन्त्रस्य जुहुयात् पञ्चपञ्चाहुतिक्रमात् ॥ २२३ ॥

अधिकारो भवत्येवं जपेऽग्नौ च श्रुतेऽर्चने ।

अथ मलशोधनहोमः

दीक्षायां मलशुद्ध्यर्थं मूलमन्त्रस्य वै शतम् ॥ २२४ ॥

विश्वास-प्रस्तुतिः

अष्टाधिकं घृतेनैव तिलेनापि यथेच्छया ।
देवीनां पञ्चविंशेन त्वङ्गानां दशकेन तु ॥ २२५ ॥

सिंहादिष्वष्टकेनैव सप्तकेन ततो मुने ।
विहितं कौस्तुभादीनां षड्भिस्सत्यादिषूदितम् ॥ २२६ ॥

सप्ताक्षरस्य मन्त्रस्य विहितं पञ्चकेन वै ।
पूर्णाहुतिं घृतेनैव मूलमन्त्रेण पातयेत् ॥ २२७ ॥

तदा दीक्षा भवेच्छश्वन्मान्त्री सामान्यलक्षणा ।
विना स्वरूपज्ञानेन यया सन्तारयेद्गुरुः ॥ २२८ ॥

मन्त्रैस्तु सम्पुटीकुर्यात् किन्तु सञ्ज्ञा (ज्ञां ?)शिशोर्द्विज ।
इत्येतन्मन्त्रदीक्षायां केवलायां समासतः ॥ २२९ ॥

अथ दीक्षायां ज्ञातव्यविशेषविधानम्

विश्वास-प्रस्तुतिः

हवने लक्षणं प्रोक्तं सतत्त्वायामतश्शृणु ।
दीक्षाकाले तु गुरुणा ज्ञातव्या तत्त्वपद्धतिः ॥ २३० ॥

ज्ञेयानुष्ठानभावेन यथा तु सुकरो भवेत् ।
मन्त्रशुद्धिप्रभावाच्च शुद्धो भवति वै गुरुः ॥ २३१ ॥

गुरुशुद्धिप्रभावाच्च मन्त्रग्रामो भवेत्स्थिरः ।
प्रागुक्तेन विधानेन हवनादपि सन्धनात् ॥ २३२ ॥

दीक्षाकर्मणि विस्तीर्णे मध्यमे वाऽवाधारय ।

नवतत्त्वशोधनेन सर्वतत्त्वानां शुद्धता

गन्धतन्मात्रपूर्वैस्तु तन्मात्रैः शोधितैः क्रमात् ॥ २३३ ॥

विश्वास-प्रस्तुतिः

भवन्त्यमी विशुद्धास्तु पृथिव्याद्याः खपञ्चमाः ।
तेषामन्तर्गतौ ज्ञेयौ द्वौ वर्गाविन्द्रियात्मकौ ॥ २३४ ॥

कर्मेन्द्रियात्मक पूर्वं ततो बुद्धीन्द्रियात्मकः ।
एवं तन्मात्रशुद्ध्या वै विंशत्तत्वं विशोधितम् ॥ २३५ ॥

{{१७४}}

विश्वास-प्रस्तुतिः

अहङ्कारेण शुद्धेन मनश्शुद्धिरिहोच्यते ।
बुद्ध्या तु शुद्धया शुद्धाः प्रत्ययाः सविपर्ययाः ॥ २३६ ॥

प्रधानेन तु शुद्धेन व्यक्ताव्यक्तं तु शोधितम् ।
ईश्वरेण तु शुद्धेन शुद्धश्चित्पुरुषो भवेत् ॥ २३७ ॥

अशोध्यं परमं तत्त्वं यत्र केवलतां व्रजेत् ।
तत्रैव तु लयं कुर्यात्परब्रह्मस्वभावके ॥ २३८ ॥

ज्ञानदीक्षाक्रमेणैव तत्त्वशुद्धेरनन्तरम् ।
एवं वेदविदां श्रेष्ठः पुरा ज्ञात्वा समासतः ॥ २३९ ॥

मुमुक्षुशिष्याणां तत्त्वशोधने विशेषविधानम्

विश्वास-प्रस्तुतिः

मुमुक्षूणां च शिष्याणामध्वानं शोधयेत्क्रमात् ।
यादृक्तद्विस्तरेणैव श्रुणुष्वावहितो मम ॥ २४० ॥

[वह्वौ भाविते मन्त्रमयमूर्तिस्वरूपे
शिष्यतत्त्वानामुपसंहरणप्रकारः]

विश्वास-प्रस्तुतिः

वह्नौ तु व्योमवद्ध्यात्वा न्यस्तो मन्त्रगणो हि यः ।
सर्वव्यापकरूपेण तन्मध्ये तत्त्वपद्धतिम् ॥ २४१ ॥

समग्रां योजयेद्ध्यात्वा तत्त्वात्तत्वं क्रमेण तु ।

निरीक्षणप्रोक्षणादिलक्षणः शिष्यशरीरसंस्कारः

बद्धपद्मासनं शिष्यं कृत्वा चात्मसमीपगम् ॥ २४२ ॥

निरीक्ष्य पूर्ववत्प्रोक्ष्य मन्त्रहस्तेन संस्पृशेत् ।

अथ ततस्तत्वानां सृष्टिभावनम्

ईश्वराद्भूमिपर्यन्तां पुरा पूर्वां तु वै त्रिधा ॥ २४३ ॥

विश्वास-प्रस्तुतिः

सृष्टिं कुर्यात्स्वरूपस्थां तमेवमुपसंहरेत् ।
ततः शिष्यतनौ सम्यक्सृष्टिं स्पष्टां स्मरेत्क्रमात् ॥ २४४ ॥

येन शिष्यतनुस्थानां तत्त्वानां जडरूपिणाम् ।
सम्बोधमावहत्याशु दीक्षाकाले ह्युपस्थिते ॥ २४५ ॥

अथानुज्ञाग्रहणपूर्वकं पाशसूत्रस्य कुण्डसमीपे नयनम्

विश्वास-प्रस्तुतिः

ततः कुम्भस्थितं मन्त्रं गत्वा सम्प्रार्थ्य चेतसा ।
लब्धानुज्ञस्समादाय पाशसूत्रं पुटस्थितम् ॥ २४६ ॥

यायात्कुण्डसमीपं तु तमुद्घाट्य निधाय वै ।

मूलमन्त्रेण होमः

सहस्रेण शतेनाथ आहुतीनां तु तर्पयेत् ॥ २४७ ॥

{{१७५}}

विश्वास-प्रस्तुतिः

मूलेन भगवन्तं तु परमं सृष्टिकारणम् ।
पूर्णा दीक्षावसाने तु दातव्या मुनिसत्तम ॥ २४८ ॥

एकानेकप्रयोगाणां न तु कर्मणि कर्मणि ।

ताडनलक्षणं शिष्यशरीरशुद्धीकरणम्

एकचित्तस्थितिं कृत्वा शिष्यरूपं समाधिना ॥ २४९ ॥

विश्वास-प्रस्तुतिः

साम्प्रतं मूलमन्त्रेण मन्त्रजापोत्थितेन तु ।
प्रजप्य मूलमन्त्रेण पुष्पं तु बहुशस्ततः ॥ २५० ॥

हुं फट्कारान्तयुक्तेन हृदयं तस्य ताडयेत् ।
सम्बोधमावहेच्छीघ्रं पिण्डमध्यगतस्य च ॥ २५१ ॥

तत्त्वानां शोधनप्रकारः

विश्वास-प्रस्तुतिः

क्ष्मातत्त्वे जननं पूर्वं चैतन्यस्य प्रकाशता ।
सद्व्याप्तिभावना तस्मिन् स्वस्मिन्स्वस्मिन्स्थितस्य च ॥ २५२ ॥

मन्त्रसम्बोधसामर्थ्यात्तत्रैश्वर्यपदं पुनः ।
तद्भोगमपि चैश्वर्यात्तत्तृप्तिमथ भावयेत् ॥ २५३ ॥

जन्तोर्भोगसमाप्तिं तु भोगान्ते तु वियोजनम् ।
अथोद्धारस्तु कर्तव्यस्तत्त्वात्तत्त्वे ह्यनुक्रमात् ॥ २५४ ॥

एवं तु विविधं कर्म तत्त्वे तत्त्वे विचिन्तयेत् ।
प्रतितत्त्वं शतं हुत्त्वा आहुतीनां तु नारद ॥ २५५ ॥

मन्त्रयुक्तेन बीजेन सर्वतत्त्वानि होमयेत् ।
अध्यात्ममन्त्रमुच्चार्य अस्येति द्व्यक्षरं परम् ॥ २५६ ॥

तदन्ते शिष्यसञ्ज्ञां तु तत्त्वबीजमथोच्चरेत् ।
बीजान्ते तत्त्वसञ्ज्ञा च शोधयेति पदं ततः ॥ २५७ ॥

स्वाहां तदनु वै कुर्याश्छमं नयपदं ततः ।
नमस्कारसमायुक्तो मन्त्रोऽयं होमकर्मणि ॥ २५८ ॥

चिन्तयेत्तत्वरत्नं तु शिष्यान् (शैष्यं ?) संस्मृत्य पार्थिवम् ।
चैतन्यकरणेनापि निक्षिप्तं च स्रुचोऽग्रतः ॥ २५९ ॥

{{१७६}}

विश्वास-प्रस्तुतिः

विभवव्यूहसूक्ष्मात्मा तदेव परिभावयेत् ।
विकर्त्त्य पार्थिवग्रन्थिं सूत्रात्कुर्यात्स्रुचोऽग्रगम् ॥ २६० ॥

नियोज्य पूर्णया चाग्नावङ्कुशेन तु नारद ।
एवं संहारयोगेन परस्मिन्मन्त्रकारणे ॥ २६१ ॥

ज्वलद्रूपेऽग्निकुण्डस्थे क्ष्माख्यतत्वं शमं नयेत् ।
क्रमेणानेन विप्रेन्द्र अप्तत्त्वेऽपि प्रयुज्यते ॥ २६२ ॥

तद्द्वत्तदुपसंहृत्य पूर्णां पाशेन तस्य वै ।
तेजसो गरुडेनैव गदयाप्यथ मारुते ॥ २६३ ॥

ततस्त्वाकाशसन्धाने पूर्णां चक्रेन निक्षिपेत् ।
गन्धतन्मात्रशुद्ध्यर्थं शङ्खमन्त्रेण नारद ॥ २६४ ॥

पूर्णां वै पद्ममन्त्रेण रसतन्मात्रशुद्धये ।
रूपतन्मात्रशुद्ध्यर्थं मालामन्त्रेण निक्षिपेत् ॥ २६५ ॥

स्पर्शसञ्ज्ञस्य विप्रेन्द्र कौस्तुभाख्येन योजयेत् ।
शब्दतन्मात्रतत्त्वस्य वाराहेण समाचरेत् ॥ २६६ ॥

उपस्थतो वाङ्निष्ठानां पञ्चानां परियोजयेत् ।
कापिलेनाथ सिह्मेन अस्त्रनेत्रेण वर्मणा ॥ २६७ ॥

कार्यं सदैव विप्रेन्द्र इन्द्रियाणामतः शृणु ।
शिखया शिरसा चैव हृन्मन्त्रेणाथ मायया ॥ २६८ ॥

जयामन्त्रेण श्रोत्राख्य इन्द्रियान्तं लयक्रमात् ।
आरभ्य घ्राणसञ्ज्ञां च सततं पूर्णकर्मणि ॥ २६९ ॥

मनसः कीर्तिमन्त्रेण लक्ष्माख्येन त्वहङ्कृतेः ।
समग्रमूलमन्त्रेण बुद्धेः पूर्णाहुतिं क्षिपेत् ॥ २७० ॥

सत्यादिपञ्चकेनैव प्रकृतिं प्रलयन्नयेत् ।
पुरुषञ्चेश्वरस्थाने शमन्नयति सर्वदा ॥ २७१ ॥

गुरुः सप्ताक्षरेणैव पूर्णाहुत्या प्रसन्नधीः ।
ईश्वरात्तु परं तत्त्वं तत्त्वग्रामे न विद्यते ॥ २७२ ॥

पुमानीश्वरतत्वात्तु अधो यातः पदात्पदम् ।
येनेश्वरस्वरूपस्सन्ननिशं प्रतिभाति वै ॥ २७३ ॥

{{१७७}}

विश्वास-प्रस्तुतिः

तस्माद्दीक्षाक्रमेणैव तत्रोद्धृत्य पुनः क्षिपेत् ।
लयस्तत्रैव कर्तव्यो भोगार्थं च शिशोस्तदा ॥ २७४ ॥

गुरुणा कर्तव्यो भावनाविशेषः

विश्वास-प्रस्तुतिः

ईश्वराधारसञ्ज्ञस्तु स्वात्मवान्दीक्षितः शुचिः ।
ध्यायेन्निरक्षराकारं विश्वो विश्वात्मकस्त्वथ ॥ २७५ ॥

अनाधिनिधनं देवमच्युताच्युतविग्रहम् ।

भोगार्थपूर्णाहुतिप्रकारनिरूपणम्

ध्यात्वा नारायणं पश्चात्मूलमन्त्रं विलोमतः ॥ २७६ ॥

विश्वास-प्रस्तुतिः

परमामृतसङ्क्षुब्धरूपमोघं तु चामृतम् ।
मुञ्चमानमनौपम्यमप्रतर्क्यमतीन्द्रियम् ॥ २७७ ॥

शशिसूर्यप्रतीकाशं विसर्गेण तु बन्धभृत् ।
पूर्णाहुतिः प्रदातव्या वौषडन्तेन नारद ॥ २७८ ॥

एवं पूर्णाहुतिं दत्वा सम्भोगार्थमनन्तरम् ।

मोक्षार्थपूर्णाहुतिप्रकारनिरूपणम्

मोक्षार्थं पातयेदन्यां पूर्णां सम्पूर्णलक्षणाम् ॥ २७९ ॥

विश्वास-प्रस्तुतिः

संशुद्धसर्वतत्त्वं तु ईश्वरादूर्ध्ववर्तिनम् ।
अक्षरेण तु मन्त्रेण त्रिदैवत्यमिवाच्युतम् ॥ २८० ॥

ध्यात्वा तु सकलं शिष्यमात्मानं निष्कलं तथा ।
पूर्णार्थमुद्यतं चाज्यं ध्यायेत्सकलनिष्कलम् ॥ २८१ ॥

शिष्यदेहं तथा कर्मभिन्नं भावनया पुरा ।
ततः स्रुचोऽग्नो(ग्रे ?) सन्धाय द्वे एकीकरणेन तु ॥ २८२ ॥

निष्कलेन स्वरूपेण शिष्याज्ये तु यथा पुरा ।
कृत्वाऽचार्यस्वभावस्थं स्वचैतन्यं शनैः शनैः ॥ २८३ ॥

यावत्सुनिर्भरानन्दस्वानन्दपदमेति वै ।
ततः स्वानन्दविश्रान्ते महानन्दातुलास्पदे ॥ २८४ ॥

षडूर्मिषङ्गुणातीतं मन्त्रमुद्राक्रमोज्झितम् ।
स्वशक्तिवैभवं दिव्यं प्रतिभाव्याच्युतं गुरोः (रुः ?) ॥ २८५ ॥

ततो विज्ञानशब्दात्मपर्यन्तं रूपमुज्वलम् ।
अनुच्चार्य (ध्याय ?) समुच्चार्य मन्त्रं सप्ताक्षरं द्विज ॥ २८६ ॥

{{१७८}}

पूर्णाहुतिं तदन्तेन वौषडन्तेन होमयेत् ।

ब्रह्मसमापत्तिहोमप्रकारः

ततो ब्रह्मसमापत्तिस्थित्यर्थं होमयेद्गुरुः ॥ २८७ ॥

विश्वास-प्रस्तुतिः

प्रणवादिनमोन्तैस्तु दशभिष्तु महापदैः ।
अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् ॥ २८८ ॥

सूक्ष्मं सर्वगतं नित्यं ध्रुवमव्ययमीश्वरम् ।
भवेद्दशदशाहुत्या तद्वत्पूर्णाहुतिं पुनः ॥ २८९ ॥

शिष्यं चैव तथात्मानं परं ध्यात्वा परं पुनः ।
वौषडन्तं महापूर्णां तृतीयां पूर्ववत्क्षिपेत् ॥ २९० ॥

क्षीरं क्षीरं यथा विप्र नीरमेकत्र चिन्तयेत् ।
शिष्यं चैव तथाऽत्मानं विष्णुं सर्वगतं विभुम् ॥ २९१ ॥

निस्तरङ्गे मुनिश्रेष्ठ एकत्र समतां गतम् ।
तदा स्यान्मुक्तिदा दीक्षा वैष्णवी मोक्षदाऽर्थदा ॥ २९२ ॥

तत्त्वसंहारयोगेन अपुनर्भवता मुने ।

सृष्टिक्रमेण सम्पादितानां तत्त्वानां शिष्यदेहे योजनम्

अलुप्तानन्दविज्ञानब्रह्मशैलाग्रगो गुरुः ॥ २९३ ॥

विश्वास-प्रस्तुतिः

पातयेत्सृष्टिमार्गेण दिव्यमन्त्रमयं पुरम् ।
शिष्यः समाप्तहोमोऽयं कृतो विष्णुमयः पुरा ॥ २९४ ॥

विज्ञानवायुनाऽकृष्य निस्सृतं भावयेच्छनैः ।
वासुदेवोदधेर्मध्यादायान्तं च पदात्पदम् ॥ २९५ ॥

प्रवाहमौदकं यद्वत्सृष्टिमार्गे नियोज्य च ।
—— मन्त्रे परे सूक्ष्मे तथा परे ॥ २९६ ॥

शुद्धे त्वंशपदे चाद्ये तत्त्वानामुदयास्पदे ।
तत्त्वात्तत्वं समायाति (दाय ?) तदा चात्मनि योजयेत् ॥ २९७ ॥

संशुध्य शिष्यचैतन्यं भागार्थं ब्रह्मणो हरेत् ।
अनुग्रहार्थं भक्तानां शिष्यदेहे नियोजयेत् ॥ २९८ ॥

एवं समाप्य वै दीक्षां विष्णोस्सायुज्यदायिकाम् ।

वह्निमध्यस्थस्य मन्त्रमूर्तेर्भगवतोऽर्चनम्

भगवन्तं ततो विष्णुं व्यापकं वह्निमध्यगम् ॥ २९९ ॥

{{१७९}}

विश्वास-प्रस्तुतिः

मन्त्ररूपं परं ध्यातं साकारं संस्मरेत्पुनः ।
पूजयित्वाऽर्घ्यपुष्पाद्यैः समयान् श्रावयेद्गुरुः ॥ ३०० ॥

अथ समयोपदोशः

विश्वास-प्रस्तुतिः

स्वमन्त्रो नोपदेष्टव्यो न वक्तव्यश्च संसदि ।
गोपनीयं स्वशास्त्रं च रक्षणीयं शरीरवत् ॥ ३०१ ॥

यथा यथा यत्र तत्र न गृह्णीयाच्च केवलम् ।
अभक्त्या तु गुरोर्नाम गृह्णीयात्प्रयतात्मनः (ना ?) ॥ ३०२ ॥

प्रणवग्रथितो (तं ?) नाम विष्णुशब्दमनन्तरम् ।
पादशब्दसमेतं तु नतमूर्धा कृताञ्जलिः ॥ ३०३ ॥

न तमाज्ञापयेन्मोहात्तच्छायां तु न लङ्घयेत् ।
आसनं शयनं यानं तदीयं तु न चाक्रमेत् ॥ ३०४ ॥

गुर्वग्निमन्त्रशास्त्राणां भक्तिरव्यभिचारिणी ।
प्रभाते मन्त्रजापस्तु पूजनं सततं विभोः ॥ ३०५ ॥

प्रक्षीणदिनवेलायां जपेन्मन्त्रं स्वशक्तितः ।
द्वादश्यां सितकृष्णायां परिपीडं समाचरेत् ॥ ३०६ ॥

नक्तमास्ते त्वसामर्थ्याद्दानपूजापुरस्सरम् ।
वैष्णवानां पराभक्तिराचार्याणां विशेषतः ॥ ३०७ ॥

पूजनं च यथाशक्ति तानापन्नांश्च पालयेत् ।
मुद्राक्षसूत्रे संरक्ष्ये स्वमन्त्रं न प्रकाशयेत् ॥ ३०८ ॥

दूराच्च पादपतनं गुरोः पादाभिवन्दनम् ।
नोच्चासने हरेरग्रे उपवेश्यं कदाचन ॥ ३०९ ॥

न शङ्खपद्मचक्राङ्के आसनेऽपि च नारद ।
नानिवेद्य हरेः किञ्चिद्भोक्तव्यं वा गुरोस्तथा ॥ ३१० ॥

मन्त्रोपभुक्तिमर्घ्यं च तथा यन्मन्त्रसंस्कृतम् ।
प्राप्तमायतनाद्विष्णोः प्रयतः शिरसोद्वहेत् ॥ ३११ ॥

उदके निक्षिपेत्पश्चाद्भूमौ वै निपतेद्यदि ।
विशेषपूजनं कुर्यात्पक्षे मासेऽथ वत्सरे ॥ ३१२ ॥

द्वादश्यां वैष्णवैस्सार्द्धं तत्रैव शुभजागरम् ।
कार्यायतनयात्रा वै तत्र दानं च शक्तितः ॥ ३१३ ॥

{{१८०}}

विश्वास-प्रस्तुतिः

पठनं श्रवणं कुर्याच्छास्त्राध्ययनमाचरेत् ।
अतन्द्रितश्च सततं विना वै द्वादशीद्वयम् ॥ ३१४ ॥

प्रतिपत्पौर्णमास्यौ च साष्टमीं च चतुर्दशीम् ।
ग्रहोपरागसङ्क्रान्तिं विना चाथा(ना ?)गते गृहम् ॥ ३१५ ॥

गुरौ गुरुभ्रातरि वा यतिसङ्घे तु वैष्णवै ।
रथ्याचत्वरमार्गेषु सन्निधावप्यदीक्षिते ॥ ३१६ ॥

तथाप्यवैष्णवे मूर्खे पूजया च विना मुने ।
शास्त्रव्याख्या न कर्तव्या न श्रोतव्या शुभेप्सुना ॥ ३१७ ॥

तदारम्भे गुरोः पूजा मध्ये चैव विशेषतः ।
अन्ते विशेषयागं च क्रीडनं च महोत्सवम् ॥ ३१८ ॥

फलमूलं तथा पुष्पं गन्धोऽप्यन्नं नवं च यत् ।
तत्तदादौ गुरौ मन्त्रे विनिवेद्योपयोजयेत् ॥ ३१९ ॥

सामान्यसिद्धौ रक्षार्थं परेषां न कदाचन ।
प्रयुञ्जीत स्वमन्त्रं च आपत्स्वपि च नाचरेत् ॥ ३२० ॥

गारुडं भूतकर्माऽपि लोकस्यार्थेन नारद ।
कृपया परया कुर्यादनाथेष्वथ संसदि ॥ ३२१ ॥

सूर्यसोमान्तरस्थं च गवाश्वत्थाग्निमध्यगम् ।
भावयेद्भगवद्विष्णुं गुरुविप्रशरीरगम् ॥ ३२२ ॥

ज्ञेयो माता पिता विष्णुर्ज्ञेयो विष्णुः प्रियोऽतिथिः ।
ज्ञेयो विष्ण्वाश्रयी विष्णुरात्मा ज्ञेयोथ विष्णुवत् ॥ ३२३ ॥

यत्र तत्र परीवादो मात्सर्याच्छ्रूयते गुरोः ।
तत्र तत्र न वस्तव्यं प्रयायात्संस्मरेद्धरिम् ॥ ३२४ ॥

यैः कृता च गुरोर्निन्दा विभोः शास्त्रस्य नारद ।
तैर्नैव सह वस्तव्यं न वक्तव्यं कदाचन ॥ ३२५ ॥

कर्मणा मनसा वाचा न हिंस्यात्परदारकान् ।
प्रदक्षिणे प्रयाणे च प्रदाने च विशेषतः ॥ ३२६ ॥

प्रभाते च प्रवासे च स्वमन्त्रं बहुशः स्मरेत् ।
स्वप्ने वाऽक्षसमक्षं वा आश्चर्यमतिहर्षदम् ॥ ३२७ ॥

अकस्मादपि जायेत नाख्यातव्यं गुरोर्विना ।
इत्येतत्समयौघं तु विद्धि साधारणं द्विज ॥ ३२८ ॥

{{१८१}}

विश्वास-प्रस्तुतिः

ब्राह्मणादौ च वर्णानां समयीपुत्रकात्मनाम् ।
साधकानां गुरूणाञ्च येभ्यो मध्यात्सुखप्रदान् ॥ ३२९ ॥

अविरुद्धांस्तथाऽक्लिष्टांस्त्रीबालानां च नारद ।
स्त्रीणां विशेषतो दद्यात्पतिभक्तिसमन्वितान् ॥ ३३० ॥

पतिशून्या च या नारी तस्या आयतने हरेः ।
लेपनं शोधनं दद्यात्संयमं च मिताशिताम् ॥ ३३१ ॥

पालनात्समयानां च सिद्धिरुत्पद्यतेऽचिरात् ।
मन्त्रः साम्मुख्यमभ्येति समयज्ञस्य सर्वदा ॥ ३३२ ॥

सिद्धयः समयज्ञस्य सिद्धाः स्युर्मोक्षपश्चिमाः ।
इत्यग्नावग्रतो विप्र दत्वा समयसञ्चयम् ॥ ३३३ ॥

विष्णुहस्तप्रदानपूर्वकं शिष्यस्य मन्त्रहृद्यागाद्युपदेशः

विश्वास-प्रस्तुतिः

भूतिना तिलकं कृत्वा मण्डलाग्रं व्रजेद्गुरुः ।
सम्पूज्य तत्र मन्त्रेशं विधिवत्पूर्ववन्मुने ॥ ३३४ ॥

विष्णुहस्तं ततो दद्यान्मूर्ध्नि पृष्ठे हृदन्तरे ।
आलम्भे(भेत् ?)मुद्रया सर्वं मूर्ध्नः पादतलान्ततः ॥ ३३५ ॥

शिष्यमुच्चारयेन्मन्त्रं न्यासहृद्यागपूर्वकम् ।

कुम्भस्थदेवस्यार्चनम्

मन्त्रेण विविधैर्भोगैर्यथा चावसरोदितैः ॥ ३३६ ॥

कुम्भस्थमर्चयेद्भक्त्या देववन्मन्त्रभक्तितः ।

अथ गुरोः पूजनम्

गुरुमष्टाङ्गपातेन पूजयेत्तदनन्तरम् ॥ ३३७ ॥

विश्वास-प्रस्तुतिः

शिरः पादतले कृत्वा आनन्दाश्रुयुतो वदेत् ।
सपुत्रदारः सधनः प्रभो दासोऽस्म्यहं तव ॥ ३३८ ॥

भावोपेतं द्विज गुरोरात्मानं तु निवेदयेत् ।
ग्रामं वा रत्ननिचयं सुवर्णं वा कृताकृतम् ॥ ३३९ ॥

हस्त्यश्वरथपादातदासीदासगणैस्सह ।
यद्यद्यथोचितं वस्तु येन वा तुष्यते गुरुः ॥ ३४० ॥

समग्रेणापि दत्तेन भवेन्नानृणता गुरोः ।
भक्त्या विशुद्धया युक्तः पूजितस्य फलाम्बुना ॥ ३४१ ॥

{{१८२}}

अशाठ्येन तु विप्रेन्द्र भवत्यनृणवान्गुरोः ।

दीक्षान्ते वैष्णवानां भोजनादिना सन्तर्पणम्

आचार्यो दीक्षये(र्यस्तोषये ?)त्पश्चाद्वैष्णवान्पाञ्चरात्रिकान् ॥ ३४२ ॥

यथाथक्ति ह्यशाठ्येन भोजनेन धनेन च ।

रात्र्यतिवाहने विशेषनियमः

गीतकैर्मङ्गलैर्वाद्यैः स्तोत्रैः शास्त्रकथान्वितैः ॥ ३४३ ॥

क्षपयित्वा ततो रात्रिं त्रिरात्रं सप्त पञ्च वा ।

त्रिस्थानस्थस्य भगवतो विसर्जनं विश्वक्सेनपूजनं च

पूजया जपहोमेन दीक्षितः श्रद्धयाऽन्वितः ॥ ३४४ ॥

विश्वास-प्रस्तुतिः

प्रागुक्तेनैव विधिना त्रिस्थानस्थं हरिं क्रमात् ।
विसृज्य पूजयेत्पश्चाद्विश्वक्सेनं तु पूर्ववत् ॥ ३४५ ॥

अवभृथ सोमपानप्रकारनिरूपणम्

विश्वास-प्रस्तुतिः

कलशद्वितयं कुर्यात्प्रागुक्तविधिना शुभम् ।
मध्वाज्यक्षीरसम्पूर्णं यागमेकेन सेचयेत् ॥ ३४६ ॥

द्वितीयं मूलमन्त्रेण चन्द्रमध्यगतेन च ।
अभिमन्त्र्य च संस्थाप्य सोमपानार्थमादितः ॥ ३४७ ॥

मण्डलं प्लावितं येन कलशेन द्विजोत्तम ।
यानारूढो गृहीत्वा तं वामहस्ततले गुरुः ॥ ३४८ ॥

पृष्ठेऽस्य दक्षिणं दद्यादस्त्रराजं जपेन्मुने ।
शिष्यैः परिवृतो यायान्मङ्गलादिपुरस्सरैः ॥ ३४९ ॥

पटहैः शङ्खशब्दैश्च पूजां निक्षिप्य चोदके ।
प्राक्षाल्य पाणिपादं तु आचम्य न्यासमाचरेत् ॥ ३५० ॥

तमानीय च सम्पूर्णमम्भसा यत्र नारद ।
प्रक्षिप्तयागसंलग्नपुष्पार्घ्यादिकलम्भनम् ॥ ३५१ ॥

फलशाखान्तरस्थं च पुष्पस्रक्कण्ठधारिणम् ।
छादितं सितवस्त्रेण सर्वमन्त्राभिमन्त्रितम् ॥ ३५२ ॥

प्रविश्य यागभवनं मध्ये ह्युपविशेद्गुरुः ।
पीठन्यासप्रयोगेण प्रागुत्तरमुखस्ततः ॥ ३५३ ॥

{{१८३}}

विश्वास-प्रस्तुतिः

क्रमेण दीक्षितानां च धारया सेचयेच्छिरः ।
चक्रास्त्रसिंह्मैरच्छिद्रैः सिद्धये सिद्धिमिच्छताम् ॥ ३५४ ॥

दीक्षावसाने सर्वत्र विधिनाऽनेन यत्नतः ।
शिष्याणां कृपयाऽचार्यो दद्यादवभृथं शुभम् ॥ ३५५ ॥

यथाऽभिषेके तु मुने आचार्यस्साधकात्मनाम् ।
स्नानार्थं कलशं तद्वत्कुर्यादवभृथे सदा ॥ ३५६ ॥

कलशेन शुभेनैव सर्वतीर्थमयेन तु ।
स्नातः सम्पूजयेद्भूयो गुरुं च सपरिच्छदम् ॥ ३५७ ॥

प्रसन्नः पूजितो दद्यात्सोमपानं ततः क्रमात् ।
पात्रेष्वस्त्राभिजप्तेषु चन्द्रबिम्बयुतेषु च ॥ ३५८ ॥

एकैकं तु ततः पात्रं मुद्रया चामृतेन तु ।
सम्पूर्यामृतमन्त्रेण सुधासन्दोहरूपिणा ॥ ३५९ ॥

अथ गुरुयागः

विश्वास-प्रस्तुतिः

ततोऽपरस्मिन्नहनि महता विभवेन तु ।
गुरुयागं मुने कुर्याच्छिष्यः सत्यपराक्रमः ॥ ३६० ॥

रजोभिर्मण्डलं कृत्वा चतुरश्रायतं शुभैः ।
तूलपूर्णं ततो दद्यादासनं फलकोपरि ॥ ३६१ ॥

तदाधारक्रमेणैव पुष्पाद्यैः पूजयेच्छिशुः ।
अभ्यज्योद्वर्त्त्य संस्थाप्य आलभ्याच्छाद्य शोभनैः ॥ ३६२ ॥

वस्त्रैःकटककेयूरैः पश्वादुपविशेति च ।
विज्ञाप्यो ह्यद्य भगवान्गुरुमूर्तिर्जनार्दनः ॥ ३६३ ॥

उपविष्टं तु पुष्पाद्यैर्मन्त्रेणानेन पूजयेत् ।
अज्ञानगहनालोकसूर्यसोमाग्निमूर्तये ॥ ३६४ ॥

दुःखत्रयाग्निसन्तापशान्तये गुरवे नमः ।
नैवेद्यमग्रतः कृत्वा पवित्रं विविधं बहु ॥ ३६५ ॥

बीजयन्नग्रतस्तिष्ठेत्किङ्कुर्वाणपरायणः ।
भुक्तं तृप्तमथाचान्तं प्रार्च्य संवाहयेत्ततः ॥ ३६६ ॥

शयनस्थं गुरुं विप्र स्वयं भुञ्जीत वै ततः ।
तदनुज्ञां गृहीत्वा तु शिरसा शान्तमानसः ॥ ३६७ ॥

{{१८४}}

[गुरुशिष्ययोर्दीक्षाविधानफलम्]

विश्वास-प्रस्तुतिः

एवं विधिविधानेन दीक्षां यः कुरुते गुरुः ।
यस्य हि क्रियते विप्र समोक्षमधिगच्छति ॥ ३६८ ॥

कुरु गुप्तमिदं सर्वमभक्तानां च सर्वदा ।
दर्शयस्व च भक्तानामास्तिकानां विशेषतः ॥ ३६९ ॥

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां दीक्षाविधानं नाम
षोडशः पटलः ॥ १६ ॥