१५ अग्नि-कार्य-विधानम्

अथाग्निकार्यविधानं नाम पञ्चदशः पटलः

श्रीभगवान्

विश्वास-प्रस्तुतिः

जपं कृत्वा यथाशक्ति जपान्ते पूजयेत्प्रभुम् ।
भक्तितश्चार्घ्यपुष्पाभ्यां ततो धूपानुलेपनैः ॥ १ ॥

मूलम्

पश्चात्सन्तर्पयेद्विप्र अग्निमध्यगतं प्रभुम् ।

{{१३३}}

कुण्ड-परिकल्पन-विधानारम्भः

देवादुत्तरदिग्भागे कुण्डं कुर्यात्सलक्षणम् ॥ २ ॥

विश्वास-प्रस्तुतिः

देवागारात्तु वाऽन्यत्र भूमिभागे सलक्षणे ।
धूमनिर्गमनोपेतमण्टपे सुसमे शुभे ॥ ३ ॥

तत्र कुर्यात्पुरा वेदिं चतुरश्रां समन्ततः ।
सर्वलक्षणसम्पन्नां कुर्यात्कुण्डं तदूर्ध्वतः ॥ ४ ॥

चतुरश्रं समं श्रेष्ठं वर्तुलं वा मनोरमम् ।
द्विग्विदिक्संस्थितं चैव काम्यानां कर्मणां हितम् ॥ ५ ॥

निष्कामो वा सकामो वा मध्यतस्सर्वदिक्षु च ।

कुण्डानां दिग्भेदेन फलभेदः

ईशानदिग्गते कुण्डे मन्त्रात्मा तपितो हरिः ॥ ६ ॥

विश्वास-प्रस्तुतिः

ददाति सिद्धिं भौलोकीं तत्सिद्धीप्सोर्महात्मनः ।
वियद्गतिपरः कुण्डे जुहुयात्पूर्वदिक्स्थिते ॥ ७ ॥

रिपूणां निग्रहार्थाय होममाग्नेयदिग्गते ।
होमं दक्षिणदिक्कुण्डे शान्त्यर्थी ह्याचरेत्सदा ॥ ८ ॥

उत्सादनार्थमन्येषां कुण्डे नैऋतदिग्गते ।
अपमृत्युजयार्थी च सर्वोपप्लवशान्तये ॥ ९ ॥

होमं वारुणदिक्कुण्डे मन्त्रस्सन्तर्पितो यदा ।
(हुत्वा वारुणदिक्कुण्डे मन्त्रं सन्तर्पयेत्सुधीः?)
यदा वायव्यदिक्कुण्डे मन्त्रस्सन्तर्पितस्तदा ॥ १० ॥

विविधानि निधानानि प्रयश्छ(च्छ)त्यचिरेण तु ।
आरोग्यं सम्पदं पुष्टिं प्रददाति च मन्त्रराट् ॥ ११ ॥

तर्पितस्सौम्यदिक्कुण्डे नात्र कार्या विचारणा ।

आहुति-सङ्ख्या-भेदेन कुण्डानां मान-भेदः

शतार्धसङ्ख्यहोमे च कुण्डं स्याद्द्वादशाङ्गुलम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

होमे साष्टशते चैवमुष्ट्यरत्निसमं भवेत् ।
होमे सार्धशते चैव सारत्निस्सकनिष्ठिका ॥ १३ ॥

हस्तं सहस्रहोमे तु अयुताख्ये द्विहस्तकम् ।
लक्षहोमे चतुर्हस्तं कोटिहोमेऽष्ट हस्तकम् ॥ १४ ॥

{{१३४}}

खातमानम्

विश्वास-प्रस्तुतिः

विस्तारार्धेन सर्वत्र खातस्तु परिशस्यते ।
स्वीयात्प्राङ्मेखलामानादायं खाते युगं पुरः ॥ १५ ॥

त्यक्त्वा तु मेखलाबन्धं ततश्चैव समारभेत् ।

कुण्डमानभेदेन मेखलानां मानभेदाः

प्रमाणं मेखलानां च यवद्वादशसम्मितम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

द्वादशाङ्गुलमानस्य कुण्डस्य परिकीर्तितम् ।
विस्तारतुल्यमुच्छ्रायो मेखलानां महामते ॥ १७ ॥

मेखलात्रितयं चैवमेकीकृत्य तु जायते ।
विस्तारस्तु ततोच्छ्रायस्सार्धं तु चतुरङ्गुलम् ॥ १८ ॥

रत्निमात्रस्य कुण्डस्य मेखला द्व्यङ्गुलाः स्मृताः ।
अङ्गुलं सकनिष्ठस्य कुण्डस्यार्धोत्तरं द्वयम् ॥ १९ ॥

त्र्यङ्गुला हस्तमात्रस्य कुण्डस्य समता स्मृता ।
द्विहस्तस्य द्विजश्रेष्ठ मेखलाश्चतुरङ्गुलाः ॥ २० ॥

चतुर्हस्तस्य कर्तव्यास्सर्वाश्चैव षडङ्गुलाः ।
अष्टाङ्गुलिश्च कुण्डस्य अष्टहस्तस्य कीर्तिताः ॥ २१ ॥

नाभिलक्षणम्

विश्वास-प्रस्तुतिः

दिङ्मध्येऽप्यथ कुण्डस्य नाभिं (?) कुर्याद्द्विजोत्तम ।
अश्वत्थपत्रसदृशीं मेखलोपरि संस्थिताम् ॥ २२ ॥

यदुक्तं प्राङ्मया मानं मेखलानां क्रमेण तु ।
एकीकृत्य तु तत्सर्वं मध्यात्सूत्रेण लाञ्छयेत् ॥ २३ ॥

अर्धमर्धेन्दुवद्बाह्यात्तत्र चातिशयेन च ।
मुखाद्यभ्यन्तरं यावत्क्रमेणानेन ह्रासयेत् ॥ २४ ॥

उभयोः पक्षयोर्विप्र गजोष्ठाकृतिवत्तथा ।
पृष्ठतो मेखलमानात्किञ्चित्कार्या द्विजोन्नता ॥ २५ ॥

एकमेखलमानाच्च त्र्यंशेनार्धेन वा मुने ।
क्रमेण ह्रासयेत्तावत्तावद्वै मेखलोच्छृतिः ॥ २६ ॥

ईषदुच्चा भवेत्सा वै मेखलोपरि संस्थिता ।
एकमेखलतुर्यांशमानं कुण्डान्तरे द्विज ॥ २७ ॥

{{१३५}}

विश्वास-प्रस्तुतिः

योन्येषु (?) निस्सृतं कुर्यात्तमेवाधोगतं तु वै ।
आक्रम्य मेखलाभूमिं यावत्खातं तु संस्पृशेत् ॥ २८ ॥

इत्येतत्कथितं नाभेर्लक्षणं च यथास्थितम् ।
साधनं चतुरश्रस्य विद्धि कुण्डस्य यागवत् ॥ २९ ॥

चतुरश्रस्य वै मध्ये सूत्रं कृत्वा भ्रमं (?) ततः ।
चतुरश्रं समं कुर्यात्सर्वदिक्कोण वर्जितम् ॥ ३० ॥

कुण्डानां विकल्पः

विश्वास-प्रस्तुतिः

नित्यनैमित्तके होमे वृत्तं वा चतुरश्रकम् ।
त्रिमेखलं तु कर्तव्यमोष्ठनाभिसमन्वितम् ॥ ३१ ॥

द्विमेखलं वा विप्रेन्द्र सुश्लक्ष्णं च मनोरमम् ।
एकमेखलकं वाऽपि कुण्डं क्षेपणि(?)णकर्मणि ॥ ३२ ॥

कुण्डे हवनस्य प्राशस्त्यम्

विश्वास-प्रस्तुतिः

कुर्याच्चलं स्थिरं वाऽपि न हि कुण्डं विना शुभम् ।
हवनं विप्र मन्त्राणां तस्मात्कुण्डं च साधयेत् ॥ ३३ ॥

देशकालवैगुण्येन कुण्डस्यासम्भवे हवनप्रकारः

विश्वास-प्रस्तुतिः

देशकालवशाच्चैव कुण्डं न घटते यदि ।
तं विना हवनच्छेदो न कार्यस्सिद्धिमिच्छता ॥ ३४ ॥

शोधिते ह्युपलिप्ते च स्थले चलमृदान्विते ।
होमस्तु विहितस्सम्यक् मन्त्रस्यामन्त्रितस्य च ॥ ३५ ॥

पिण्डिका चतुरश्रा तु बहिस्सर्वत्र शस्यते ।
मध्ये पद्मं प्रकुर्वीत श्रीपद्मं पद्ममध्यगम् ॥ ३६ ॥

एवं कृते शुभे कुण्डे अग्निकार्यं समाचरेत् ।
यागगेहात्तु वाऽन्यस्मिन्यदि गेहे महामुने ॥ ३७ ॥

पूर्ववद्वारयागं तु कृत्वा सम्प्रविशेत्ततः ।
तत्रैव यदि वा कुर्याद्दत्वाऽन्यच्चासनं शुभम् ॥ ३८ ॥

तत्र पूर्वोक्तविधिना उपविश्य समाहितः ।

कुण्डसंस्कारप्रकारः

कुण्डस्यारम्भकाले तु संस्कारा न कृता यदि ॥ ३९ ॥

विश्वास-प्रस्तुतिः

निष्पन्नस्य च ते सर्वे विधेयाश्च क्रमेण तु ।
ताडयेदस्त्रमन्त्रेण पुष्पैर्दक्षिणपाणिना ॥ ४० ॥

{{१३६}}

विश्वास-प्रस्तुतिः

गृहीत्वा चैकदेशात्तु कुण्डमध्याच्च मृत्कणम् ।
अङ्गुष्ठानामिकाभ्यां तु हृदयेन समुद्धरेत् ॥ ४१ ॥

अस्त्रेणैव समीकृत्य न स्यान्निम्नोन्नतं यथा ।
सेचयेत्कवचेनैव कुट्टयेत्तदनन्तरम् ॥ ४२ ॥

लेपयेद्गन्धतोयेन अस्त्रेण परिशोधयेत् ।
उल्लिखेदस्त्रराजेन दर्भकाण्डेन यत्नतः ॥ ४३ ॥

भूमावभ्यन्तरे कुण्डे दक्षिणाशादितः क्रमात् ।
उत्तराशावधिर्यावद्दद्याद्रेखात्रयं समम् ॥ ४४ ॥

प्रत्यग्भागात्समारभ्य नयेत्पूर्वमुखं तु तत् ।
तन्मध्ये त्रितयं चान्यद्रेखाणामुत्तरामुखम् ॥ ४५ ॥

एवमुल्लिख्य विधिना प्रोक्षयेत्कवचेन तु ।
अच्छिन्नाग्रैस्ततो दर्भैरस्त्रमन्त्राभिमन्त्रितैः ॥ ४६ ॥

कुण्डभित्तिगणं सर्वं प्रोत्थितं परिभूषयेत् ।
कृत्वैवमक्षवाटं तु कुण्डसंस्कारमुत्तमम् ॥ ४७ ॥

नाभिपूजनम्

विश्वास-प्रस्तुतिः

समभ्यर्च्य ततोऽर्घ्याद्यैर्मध्यतः प्रणवेन तु ।
तेनैव विधिना नाभिं पूजयेच्चन्द्रसन्निभाम् ॥ ४८ ॥

मेखलापूजनम्

मेखलात्रयपूजायां हृन्मन्त्रं तु प्रयोजयेत् ।

मेखलात्रये तत्त्वत्रयस्य पूजनम्

ततस्तत्वत्रयं पूज्यं मेखलात्रितयोपरि ॥ ४९ ॥

विश्वास-प्रस्तुतिः

प्रधानपुरुषेशाख्यं प्रणवत्रितयेन च ।
अर्घ्यैर्विलेपनैर्धूपैरिष्ट्वा कुण्डं पुरा द्विज ॥ ५० ॥

[कुण्डमध्ये आधारशक्त्याद्यासनकल्पनपूर्वकं
नारायणाख्यायाः शक्तेः स्थापनप्रकारः]

विश्वास-प्रस्तुतिः

चतुष्पथे तु कुण्डस्थे सपुष्पं दर्भविष्टरम् ।
हृन्मन्त्रेण च विन्यस्य तत्रोपर्यथ पूजयेत् ॥ ५१ ॥

सम्पूज्याग्निं समादाय सम्भ्राम्यायतनं त्रिधा ।
योनिमार्गेण निक्षिप्य वह्निबीजमनुस्मरेत् ॥ ५२ ॥

{{१३७}}

विश्वास-प्रस्तुतिः

आधारशक्तिपूर्वं च आसनं वैष्णवं च यत् ।
तत्र नारायणाख्यां वै शक्तिं विद्योतलक्षणाम् ॥ ५३ ॥

लक्ष्म्याकृतिपदं प्राप्ताममृतावृतदेहिनीम् ।
सर्वातिशयरूपां च सर्वशक्तिसमन्विताम् ॥ ५४ ॥

सौकुमार्येण रूपेण सर्ववस्त्वन्तरस्थिताम् ।
शाश्वतीं सृष्टिमार्गेण अवतार्य हृदम्बुजे ॥ ५५ ॥

विश्वास-प्रस्तुतिः

पुरा ध्यानक्रमेणैव हृन्मन्त्रेण हृदम्बुजात् ।
स्वनामपदयुक्तेन सनमःप्रणवादिना ॥ ५६ ॥

रेचकेन विनिक्षिप्य कुण्डहृत्पद्ममध्यतः ।
सम्पूज्य गन्धपुष्पाद्यैः पद्ममुद्रां पदर्श्य च ॥ ५७ ॥

चक्रमन्त्रेण संयुक्तामेवं कुर्याच्च सन्निधिम् ।

वह्नेरुत्पादनक्रमः

आदौ च भगवच्छक्तेर्वह्नेरुत्पादनाय च ॥ ५८ ॥

विश्वास-प्रस्तुतिः

आदायारणिजं चाग्निं सूर्यकान्तोद्भवं तु वा ।
लोहपाषाणजं वाऽथ अदुष्टं लौकिकं तु वा ॥ ५९ ॥

तैजसे ताम्रपात्रेऽथ मृण्मयेऽभिनवे तथा ।

अग्नेस् ताडन-प्रोक्षणादयो बाह्याः पञ्च-संस्काराः

सन्ताड्य चास्त्रमन्त्रेण प्रोक्षयेच्छिखया च तम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

अर्चयेत्कवचेनैव कवचेनावकुण्ठ्य च ।
प्लावयेदमृतेनैव नेत्रमन्त्रेण नारद ॥ ६१ ॥

[अग्नेः स्वात्मन्युपशमापादनपूर्वकं सृष्टिक्रमेण
पदात्पदमवतारितस्य नाभिगतत्वचिन्तनम्]

विश्वास-प्रस्तुतिः

पूरकेणोपसृत्याथ स्वात्मन्युपशमं नयेत् ।
क्रमादानन्दशक्तौ तु प्राग्वदुद्धृत्य योजयेत् ॥ ६२ ॥

सृष्टिक्रमेण तद्भूयो ह्यवतार्य पदात्पदम् ।
शब्दास्पदावधिर्यावत्स्मरेन्नाभिगतं ततः ॥ ६३ ॥

नाभिकुण्डस्थतया भाविते तेजोविशेषे होमक्रमः

विश्वास-प्रस्तुतिः

प्रणवेन तु नाभिस्थमग्नीषोमात्मकं यजेत् ।
त्रिधा समिद्भिर्भिन्नेन अद(ह ?) मादिभिरादरात् ॥ ६४ ॥

त्रयाणामथ बीजेन भिन्नेनाथ यजेद्द्विज ।
{{१३८}}

एकाहुतिप्रदानेन तत्रस्थो बुध्यते यथा ॥ ६५ ॥

तेन मार्गेण जप्तव्यं ध्यात्वा चाज्यामृतं हृदि ।

तस्याग्नेः स्वमन्त्रेण नाभीकुण्डादुत्थापनम्

ततः स्वमन्त्रेणोत्थाप्यो नाभिकुण्डाद्धुताशनः ॥ ६६ ॥

अग्नेर्मन्त्रः

विश्वास-प्रस्तुतिः

कृत्वाऽदौ प्रणवं विप्र तदन्ते त्वजितं न्यसेत् ।
अशेषभुवनाधारमथ ऊर्ध्वेऽस्य योजयेत् ॥ ६७ ॥

ऊर्ध्वाधोभ्यां च तस्यैव भूधरोर्जौ न्यसेत्ततः ।
त्रैलोक्यैश्वर्यदं मूर्ध्नि बीजस्यास्य महामते ॥ ६८ ॥

ततः क्रमेण संयोज्य धरेशाद्यं च सप्तकम् ।
सुपर्णसञ्ज्ञापर्यन्तं सप्तकस्यास्य योजयेत् ॥ ६९ ॥

उर्ध्वाधोभ्यां च नालं तु मायाव्योमे तथोपरि ।
तेजसे पदमादाय ततः सप्तार्चिषे पदम् ॥ ७० ॥

स्वाहासमन्वितश्चाग्नेर्मन्त्रो ह्यष्टादशाक्षरः ।

[स्वमन्त्रेण नाभीकुण्डादुद्बोधितस्य तेजसः पात्रस्थवह्नौ
प्रक्षेपः]

धूधूशब्दशरीरान्तं (?) सच्छब्दालोकबोधितम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

विकल्पधूमनिर्मुक्तं सच्चैतन्यस्फुलिङ्गिनम् ।
नादान्तेन क्षिपेद्विप्र सिद्धिमार्गेण पूर्ववत् ॥ ७२ ॥

पुरा हृते च पात्रस्थे वन्हौ वन्हि (ह्निं ?) विशुद्धये ।
करद्वयेन चादाय भ्राम्य कुण्डे विनिक्षिपेत् ॥ ७३ ॥

कुण्डमध्ये प्रक्षिप्तस्याग्नेश् चिन्तन-विशेषः

विश्वास-प्रस्तुतिः

कुण्डमध्यस्थया चाथ शक्त्या नारायणाख्यया ।
नासाग्रेण तमग्निं च घ्रातं ध्यायेत्स्वहृद्गतम् ॥ ७४ ॥

वह्नेरुद्बोधनम्

विश्वास-प्रस्तुतिः

त्रिपञ्च सप्त वा दद्यात् समिधे हृदयेन च ।
वह्नेरुद्बोधनार्थं तु नेत्रमन्त्रेण नारद ॥ ७५ ॥

पर्यग्निकरणम्

पर्यग्निकरणं कुर्याद्धृदयेनार्द्रपाणिना ।

परिस्तरणम्

स्तरं ततोऽस्त्रमन्त्रेण चतुर्दिक्षु त्रिधा त्रिधा ॥ ७६ ॥

{{१३९}}

विश्वास-प्रस्तुतिः

प्रागादौ तु यथामूलं तदग्रैश्छादितं भवेत् ।
कुर्यात् स्तरसमाप्तिं तु सर्वदाऽत्मन उत्तरे ॥ ७७ ॥

स्तरोपर्यथ संस्थाप्य वन्हिकार्योपयोगि यत् ।

प्रणीतापात्रेघ्म-स्रुक्-स्रुवाद्य्-उपकरण-द्रव्य-सादनम्

प्रणीतापात्रयुग्मं तु तथेध्मयुगलं तु वै ॥ ७८ ॥

विश्वास-प्रस्तुतिः

स्रक्स्रुवद्वितयं चैवमाज्यस्थालीं तथैव हि ।
सर्वं सम्प्रोक्ष्य मूलेन निधायाथ स्तरोपरि ॥ ७९ ॥

प्रणीतापात्रमापूर्य तोयेन तदनन्तरम् ।
तत्रासनवरं ध्यात्वा विष्णुमूलेन विन्यसेत् ॥ ८० ॥

याग(गे ?)यज्ञपिति(ते?)र्मन्त्रमेवं संस्थाप्य चोत्तरे ।

परिधिविधानम्

प्रदद्याच्च ततो विप्र परिधीन्हृदयेन च ॥ ८१ ॥

विश्वास-प्रस्तुतिः

यज्ञकाष्ठोद्भवान्स्पष्टान्सपर्णान्हस्तसम्मितान् ।
चतुर्यवपरीणाहानगारे हस्तसम्मिते ॥ ८२ ॥

अन्येषां द्व्यङ्गुला वृद्धिः परिधीनां द्विजोत्तम ।
यावदष्टकरं कुण्डमत ऊर्ध्वं न कारयेत् ॥ ८३ ॥

ब्रह्मादिलोकपालार्चनम्

विश्वास-प्रस्तुतिः

विष्टराणि ततो दद्यात्तेषु पृष्ठे हृदा मुने ।
तत्पृष्ठे पूजयेन्नित्यं लोकपालान्स्वदिक्स्थितान् ॥ ८४ ॥

ब्रह्ममाहेन्द्ररुद्रादीन्गन्धपुष्पादिभिः शुभैः ।

स्रुक्स्रुवयोः संस्कारक्रमः

स्रुक्सुवाभ्यां च संस्कारमुपयामाग्रगैः कुशैः ॥ ८५ ॥

विश्वास-प्रस्तुतिः

स्रुवं द्वादशधा शोध्यं ह्यस्त्रेणोष्णेन वारिणा ।
तथैव द्विजशार्दूल स्रुक्संशोध्या द्विधैव तु ॥ ८६ ॥

सङ्क्षाल्यौ स्रुक्स्रुवौ ह्येवं शिखामन्त्रेण वै ततः ।
कुण्डस्थेनाग्निना ताप्यौ

स्रुक्स्रुवयोर्लक्षणम्

		तयोर्लक्षणमुच्यते ॥ ८७ ॥  

स्वबाहुदण्डमानेन मन्त्रज्ञः कल्पयेत्पुरा ।
{{१४०}}

दैवीस्रुक्सिद्धये काष्टं विस्ताराच्च षडङ्गुलम् ॥ ८८ ॥

विश्वास-प्रस्तुतिः

दैर्घ्याद्भागद्वयेनाथ दण्डमष्टास्रमुच्यते ।
सार्धद्व्यङ्गुलमानं तु कृत्वा शेषं तु शोधयेत् ॥ ८९ ॥

कलशं दण्डमूले तु कुर्यात्पद्माननं शुभम् ।
कर्णिकास्थो यथा दण्डो भवेद्वै मुनिसत्तम ॥ ९० ॥

त्रिवलिं त्वथवा शङ्खं यथा दण्डस्तदास्यगः ।
कृत्वाऽग्रस्थं द्विधा भागं समांशेन प्रयत्नतः ॥ ९१ ॥

द्व्यङ्गुलं चाथ भागस्य वैपुल्यं चाग्रतः क्रमात् ।
दण्डावस्थस्य भागस्य त्र्यङ्गुलं परितः समम् ॥ ९२ ॥

दत्वा भ्रमं ततः कुर्यान्निम्नं खातं सलक्षणम् ।
तन्मध्ये पङ्कजं कुर्यात्प्रफुल्लं चोर्ध्वपल्लवम् ॥ ९३ ॥

आज्यकोशं तु तं विद्धि सप्तपञ्चपलोपमम् ।
पद्ममध्ये निमग्ना च कर्णिका वै सकेसरा ॥ ९४ ॥

द्वादशारं बहिश्चक्रं पद्मस्याष्टदलस्य च ।
पद्मबाह्ये तु कर्तव्यं शङ्खं कोणचतुष्टये ॥ ९५ ॥

ततोऽग्रभागस्य मुने पार्श्वयोरुभयोरपि ।
एकैकमङ्गुलं शोध्यं स विभाज्यस्त्रिधा ततः ॥ ९६ ॥

कर्णमेकेन भागेन मध्ये त्वस्यौ (त्वंसौ ?) द्वयेन तु ।
विच्छिन्नं वक्त्रमंसाभ्यां मध्यमेकाङ्गुलेन तु ॥ ९७ ॥

विस्तारं कर्णतुल्यं तु वर्जयित्वा ततः पुरा ।
कर्णदेशात्समारभ्य शेषं तु परिशोधयेत् ॥ ९८ ॥

क्रमागतेन सूत्रेण स्याद्वाराहाननं यथा ।
ततः पुष्करपत्रात्तु मुखाग्रं यावदेव हि ॥ ९९ ॥

कुर्यादाज्यप्रणालं तु समं न्यूनाङ्गुलं मुने ।
ईषद्वै क्रमसूक्ष्मं च नाज्यं याति यथा द्रुतम् ॥ १०० ॥

हस्तमात्रं ततः कुर्यात्स्रुवं विप्र मनोरमम् ।
विस्तारं द्व्यङ्गुलं काष्ठं वैपुल्याच्च तदर्धतः ॥ १०१ ॥

विस्तारमानादग्रेऽस्य वृत्तं कुर्याद्द्विरङ्गुलम् ।
क्रमात्तन्निम्नखातं च गोलके चैव मुद्रितम् ॥ १०२ ॥

{{१४१}}

विश्वास-प्रस्तुतिः

मध्ये मृगपदाकारचिन्हेन तु विराजितम् ।
विस्तारस्य त्रिभागेन ग्रीवा साश्रा त्रिरङ्गुला ॥ १०३ ॥

मूले चोभयतः कुर्यात्स्वस्तिकं द्व्यङ्गुलायतम् ।
विचित्ररचनायुक्तं दण्डं श्लक्ष्णं तु वा भवेत् ॥ १०४ ॥

स्रुवमेवंविधं कुर्याद्धोमकर्मणि साधकः ।
संस्कारार्थं ततोग्नेर्वै तेन होमं समाचरेत् ॥ १०५ ॥

अग्नेः संस्कारद्वैविध्यम्

विश्वास-प्रस्तुतिः

अग्नेश्च दश संस्काराः कुण्डमध्यगतस्य च ।
बाह्ये तु पञ्चसंस्कारा एवं पञ्चदश स्मृताः ॥ १०६ ॥

प्रोक्षणं ताडनं बाह्ये अर्चनं चावकुण्ठनम् ।
अमृतीकरणं वन्हेः पञ्चैते कथिताः पुरा ॥ १०७ ॥

अग्नेर्गर्भन्यासादिसंस्काराः

विश्वास-प्रस्तुतिः

कुण्डमध्ये तु वै विप्र प्राग्लक्ष्म्यां तु प्रयोजनम् ।
गर्भन्यासं पुंसवनं ततो वै वक्त्रकल्पना ॥ १०८ ॥

सीमन्तं वक्त्रनिर्यासं निष्क्रामं जातकर्म च ।
नामध्येयं च भोगं च प्राशनाद्यं द्विजाखिलम् ॥ १०९ ॥

अधिकारं च सर्वान्वै हृदा कुर्याच्च नारद ।

अथाज्यसंस्काराः

आज्यकर्मणि वै कुर्याद्दशैवं विधिपूर्वकम् ॥ ११० ॥

विश्वास-प्रस्तुतिः

अधिश्रयणमादौ हृन्मन्त्रेण कवचेन च ।
सम्प्लवोत्प्लवने चैव उपाधिश्रयणं तथा ॥ १११ ॥

प्रसादीकरणं चैव पवित्रीकरणं तथा ।
ततो नीराजनं नाम त्रीण्येतानि च नारद ॥ ११२ ॥

हृन्मन्त्रेण च कार्याणि कवचेनावकुण्ठनम् ।
अवलोकामृतीकारौ तेनैव तदनन्तरम् ॥ ११३ ॥

भाण्डस्थस्य यदाज्यस्य दर्भैः प्रज्वलितैः पुरा ।
स्पर्शनं विद्धि संस्कारमधिश्रयणसञ्ज्ञकम् ॥ ११४ ॥

{{१४२}}

विश्वास-प्रस्तुतिः

ततः पाणिद्वयेनैव अनामाङ्गुष्ठपीडितम् ।
मध्यनम्रं कुशाकाण्डं गृहीत्वाऽज्योपरि ॥ ११५ ॥

नयेत्तच्चनयेद्विप्र तमग्नौ निक्षिपेत्कुशम् ।
सम्प्लवोत्प्लवनावेतौ संस्कारौ परिकीर्तितौ ॥ ११६ ॥

उपाधिश्रयणं नाम यत्तद्रावणमुच्यते ।
परिवर्तनमन्यस्मिन्भाण्डे दोषापनुत्तये ॥ ११७ ॥

प्रसादीकरणं ह्येतत्ततो दार्भं पवित्रकम् ।
विनिक्षिपेच्च तन्मध्ये पवित्रीकरणं च तत् ॥ ११८ ॥

कुण्डादुल्मुकमादाय ज्वलन्तं धूमवर्जितम् ।
तेनावर्तं सकृद्विप्र तद्वै नीराजनं स्मृतम् ॥ ११९ ॥

नीरजीकृत्य तत्पश्चात्कवचोदरगं स्मरेत् ।
अवकुण्ठनमेतद्धि तर्जन्या यत्प्रदक्षिणम् ॥ १२० ॥

तेजसा हृदयस्थेन दृग्गतेनावलोकनम् ।
निरीक्षणमिदं विप्र ततस्तत्रोपरि स्मरेत् ॥ १२१ ॥

चन्द्रमण्डलमध्यस्थं धेनुमुद्रासमन्वितम् ।
मन्त्रं वै सौरभेयं च स्फुरदिन्दुशतप्रथम् ॥ १२२ ॥

तदन्तरस्थं मन्त्रेशं हिमाचलनिभं स्मरेत् ।
तत्स्रुतैरमृतौघैश्च शशिजैर्धेनुजैरपि ॥ १२३ ॥

सर्वसंस्कारसंयुक्तं स्मरेदाज्यं च भावितम् ।
अमृतीकरणं नाम इदं ते सम्प्रकाशितम् ॥ १२४ ॥

अवलोक्यामृतीकृत्य दातव्ये चैव चक्षुषी ।

स्रुक्स्रुवाभ्यां कुण्डस्य दक्षिणवामभागयोः क्रमादाज्यहोमः

स्रुव(च ?) माज्येन सम्पूर्य सूर्यबीजेन चिन्तयेत् ॥ १२५ ॥

विश्वास-प्रस्तुतिः

सहस्रांशुं च तन्मध्ये दद्यात्कुण्डस्य दक्षिणे ।
अपरस्मिन्स्रुवे ध्यात्वा सोमाख्येनाक्षरेण तु ॥ १२६ ॥

पूर्णं शशाङ्कबीजं च प्रदद्यात्तु तदुत्तरे ।

कुण्डस्य मध्यभागे अग्नीषोमात्मकस्य यजनप्रकारः

ताभ्यामभ्यन्तरे पश्चादग्नीषोमात्मकं यजेत् ॥ १२७ ॥

विश्वास-प्रस्तुतिः

यद्बीजं हि सतत्त्वस्य शरीरस्याखिलस्य च ।
अविभागेन वै यत्र संस्थिता देहधातवः ॥ १२८ ॥

{{१४३}}

विश्वास-प्रस्तुतिः

बहिः (र्हि ?) कण्ठोपमं ध्यात्वा लक्ष्मीबीजान्तरस्थितम् ।
उक्तं (क्त ?) बीजद्वयेनैव मन्त्रेणैकीकृतेन वै ॥ १२९ ॥

प्राग्वद्धृतं स्वयं दद्याद्ध्यान(त ?)मस्त्रसमन्वितम् ।

तिलादिहोमद्रव्याणामाज्येन संस्कारः

ततश्चाज्येन संस्कार्याः सर्वहोम्यास्तिलादयः ॥ १३० ॥

अग्नेर्गर्भाधानादिसंस्काराणां विवेचनम्

विश्वास-प्रस्तुतिः

अग्नेर्होमेऽथ कर्तव्यः सर्वसंस्कारसिद्धये ।
हृदाऽनलं पुटीकृत्य कर्मनाम समुच्चरेत् ॥ १३१ ॥

सम्पादयामि स्वाहान्तः सर्वकर्मस्वयं क्रमः ।

अथ तत्र गर्भाधानसंस्कारविवेचनम्

श्रीकुक्षिकुहरे यद्वै बहिष्ठस्य प्रवेशनम् ॥ १३२ ॥

गर्भाधानं तु तं विद्धि संस्कारं प्रथमं मुने ।

पुंसवनम्

घ्राणयोगाच्च या शक्तिर्वन्हि(न्हेः ?) श्रीजठरे स्थिता ॥ १३३ ॥

विश्वास-प्रस्तुतिः

ज्वालारूपाऽक्षया सूक्ष्मा तस्याश्चित्प्रसरो हि यः ।
भगवच्छक्तिचैतन्यसंसर्गाच्च शनैः शनैः ॥ १३४ ॥

सत्वे (स्मृत्वै ?) तज्जुहुयादाज्यं तन्मन्त्रेणोदितेन च ।
भवेत्पुंसवनं चाग्नेश्चिच्छक्तिनयनात्तु वै ॥ १३५ ॥

अथ वक्त्रकल्पना

विश्वास-प्रस्तुतिः

तस्य चार्चिष्मतो वक्त्रात्प्रबुद्धस्योद्भवन्ति ताः ।
आलोके दहने शक्त्या (क्ता ?) निराकारस्य साम्प्रतम् ॥ १३६ ॥

गोलकाकृतिमात्रस्य विद्धि तां वक्त्रकल्पनाम् ।

सप्तानां वक्त्रार्चिषां नामानि

तासां वक्त्रार्चिषां चैव शृणु नामानि नारद ॥ १३७ ॥

विश्वास-प्रस्तुतिः

प्रभा दीप्तिः प्रकाशा च मरीचिस्तपनी तथा ।
कराला लेलिहा चैव कुण्डं व्याप्य व्यवस्थिताः ॥ १३८ ॥

ईशपूर्वाग्निदिग्भागे प्रभाद्यं त्रितयं स्मृतम् ।
रक्षोवारुणवायव्ये मरीच्याद्यं त्रयं तु तत् ॥ १३९ ॥

{{१४४}}

उदग्दिङ्मध्यतो याम्ये स्थितैका लेलिहाऽभिधा ।

वक्त्रार्चिषां बीजगणः

आसां बीजगणं विश्वं वह्निबीजावसानकम् ॥ १४० ॥

पूर्वोदितक्रमेणैव प्रणवाद्यं नमोऽन्तकम् ।

अथ सीमन्तः

अव्यक्ताश्च तदन्तस्थाः शिरःपाण्यादयोऽखिलाः ॥ १४१ ॥

विश्वास-प्रस्तुतिः

स्वां स्वां वै कर्मसीमानं प्रबुद्धाः संश्रयन्ति ये ।
विभागकल्पना तेषां सीमन्तं तदुदाहृतम् ॥ १४२ ॥

अथ वक्त्रनिर्यासः

विश्वास-प्रस्तुतिः

नरसिह्मादयो वक्त्राः स्फुरत्तारकसन्निभाः ।
शक्तिचैतन्यमध्यस्थाः सा च शक्तिस्तदात्मना ॥ १४३ ॥

सम्यक् परिणता विप्र तस्मात्ता निष्क्रमन्ति वै ।
स्वस्वस्थाने स्ववीर्येण वक्त्रनिर्यास उच्यते ॥ १४४ ॥

अथ निष्क्रामः

विश्वास-प्रस्तुतिः

मुखश्वासो (से ?) न निर्यातध्यानं श्रीकुक्षिगोचरात् ।
निष्क्रामः सह वै वह्नेः संस्कारो जुहुयाच्च तम् ॥ १४५ ॥

अथ जातकम्

निस्सृतस्य च वै गर्भाज्जातकं तदुदाहृतम् ।

प्राशनम्

हिरण्यमधुसर्पिभ्यां स्नानं सम्प्राशनं द्विज ॥ १४६ ॥

नामकरणम्

विश्वास-प्रस्तुतिः

कुर्यात्तदनु वै नाम जातस्याग्नेः प्रयत्नतः ।
नामकारावसानं च प्रणवं वैष्णवाग्नये ॥ १४७ ॥

भोगः

विश्वास-प्रस्तुतिः

अन्नप्राशनपूर्वस्तु भोगो दारावसानिकः ।
अभ्यङ्ग एकः संस्कारो होतव्यः पूर्ववद्द्विज ॥ १४८ ॥

अथाधिकारः

ततोऽधिकारसञ्ज्ञस्तु संस्कारो बहुरूपधृत् ।

उक्तसंस्कारसंस्कृतस्याग्नेर्नारायणत्वेन ध्यानम्

इति संस्कारसंशुद्धं वह्निं नारायणात्मकम् ॥ १४९ ॥

{{१४५}}

विश्वास-प्रस्तुतिः

चतुर्भुजं चतुर्वक्त्रं शङ्खचक्रगदाब्जिनम् ।
कुण्डमध्यस्थितं ध्यात्वा उदयार्कसमप्रभम् ॥ १५० ॥

ज्वालामार्गेण हृदये प्रविष्टत्वभावनम्

विश्वास-प्रस्तुतिः

तत्र तज्जनितं(तां ?) कुण्डाज्ज्वालामार्गेण चागताम् ।
परानन्दप्रकाशाभान्नासिक्या(?)द्वादशावधि ॥ ५१ ॥

ततोऽवतारयोगेन प्रविष्टां भावयेद्धृदि ।

अथ संस्कृतस्याग्नेः पूजनम्

संस्कृतस्याथ वै वह्नेः पूजां कृत्वा तु भक्तितः ॥ १५२ ॥

विश्वास-प्रस्तुतिः

पुष्पैर्धूपेन दध्ना च तिलैरक्षतमिश्रितैः ।
अन्नैर्भक्ष्यफलोपेतैराज्येन क्रमशो द्विज ॥ १५३ ॥

सम्पूर्णहृदयेनैव स्वमन्त्रेणानलं ततः ।
तर्पयेत यथाशक्ति तिलाज्याद्यैरनुक्रमात् ॥ १५४ ॥

अग्नेः पूर्णाहुतिं दत्वा वौषडन्तां घृतेन च ।

अग्निमध्ये देवस्य पूजनम्

ततः पूजा प्रकर्तव्या देवस्याग्नेस्तु मध्यतः ॥ १५५ ॥

तत्र प्रथमं वन्हेः स्मरणप्रकारः

विश्वास-प्रस्तुतिः

पूर्वं तं च स्मरेद्वह्निं साकारं निष्कलप्रभम् ।
स्वयोगबलवीर्येण व्यापकं सर्वदिग्गतम् ॥ १५६ ॥

सर्वतः करवाक्पादं सर्वतोऽक्षिशिरोमुखम् ।
कदम्बकुसुमाकारं स्वप्रभाभिर्विराजितम् ॥ १५७ ॥

कुण्डमापूरयन्सर्वं सर्वाकृत्या च सर्वतः ।
एवं हि विततो व्यापी निराकारः सुदीप्तिमान् ॥ १५८ ॥

व्योमवद्व्यापकतया भावितस्याग्नेर्मध्ये देवयजनम्

वह्निं तु व्योमवद्ध्यात्वा तन्मध्ये पूजयेत्प्रभुम् ।
गन्धपुष्पादिना चैव

अस्त्रादियजनम्

		ततोऽस्त्रं कवचं यजेत् ॥ १५९ ॥  
विश्वास-प्रस्तुतिः

दक्षिणे बाहुमार्गे तु अनिरुद्धसमीपतः ।
अग्नीषोमात्मकं तत्र आत्मरक्षार्थमेव च ॥ १६० ॥

{{१४६}}

देवं चक्रस्थितं चक्रं

अथ होमविधानम्

		ततो होमं समारभेत् ।  

तिलैर्घृतसमायुक्तैः द्रव्यैः सर्वैश्च याज्ञिकैः ॥ १६१ ॥

सुगन्धाज्यप्लुतैश्चैव कुर्वीत विधिवत्ततः ।

लक्ष्म्यादीनां होमसङ्ख्याविधानम्

मूलमन्त्राच्चतुर्थांशं लक्ष्म्यादीनां च होमयेत् ॥ १६२ ॥

विश्वास-प्रस्तुतिः

अङ्गानां शक्तिहोमाच्च अर्धं तु जुहुयात्ततः ।
तदर्धेन तु वक्त्राणां होमं कुर्याद्द्विजोत्तम ॥ १६३ ॥

वक्त्रेभ्यः कौस्तुभादीनामर्धं तु परिहोमयेत् ।
सत्यादीनां तदर्धं तु तेभ्यश्चार्धं परेऽक्षरे ॥ १६४ ॥

अर्धमर्धांशसंयुक्तमधिकं चाग्रवर्तिनाम् ।

जपानुगुण्येन होमस्य कर्तव्यता

जपकाले यथा होमे कर्तव्यं सिद्धिमिच्छता ॥ १६५ ॥

विश्वास-प्रस्तुतिः

एवं ज्ञात्वा ततः कुर्यात्कोटिहोमाच्छतावधि ।
यस्मादतर्पितो मन्त्रो न कदाचित्फलप्रदः ॥ १६६ ॥

कामैरवश्यफलदैर्देशकालसमुद्भवैः ।

होमद्रव्यनिरूपणम्

तिलैर्घृतेन पयसा दध्ना वा पायसेन तु ॥ १६७ ॥

विश्वास-प्रस्तुतिः

सिद्धान्नैः साधितैर्भक्ष्यैर्बीजलाजैश्च तण्डुलैः ।
मूलैः फलैः पल्लवैर्वा सुप्रशस्तैश्च कोमलैः ॥ १६८ ॥

सुगन्धैः स्थलपद्माद्यैः पुष्पैर्विप्र सितादिकैः ।
गुग्गुलेनाज्यमिश्रेण साज्यश्रीवेष्टकेन वा ॥ १६९ ॥

धात्रीफलैर्वा सरसैरुत्पलैश्च शुभैस्तथा ।
सुसितैः सितररक्तैश्च पद्मैर्बिल्वैः सुशोभनैः ॥ १७० ॥

दूर्वाकाण्डैरभग्नाग्रैः दन्तिसद्दन्तनिर्मलैः ।
एध्ॐभिर्ब्रह्मवृक्षोत्थैः क्षीरद्रुममयैस्तथा ॥ १७१ ॥

अमृता क्षीरसंयुक्ता औदुम्बर्यो मधुप्लुताः ।
अच्छिन्नाग्रा ह्यभग्नाश्च कण्टकैः परिवर्जिताः ॥ १७२ ॥

सर्वास्त्रिमधुरक्ताश्च घृतयुक्तास्तु वा पुनः ।

{{१४७}}

[होमद्रव्यभेदेन फलभेदः]

आज्ययुक्तैस्तिलैः शान्तिः सिद्धयः सकलास्तथा ॥ १७३ ॥

विश्वास-प्रस्तुतिः

घृतेन पयसा दध्ना होमस्तृप्तिं प्रयच्छति ।
पायसेन तु सिद्धान्नैर्भक्ष्यैः पुष्टिः सदा भवेत् ॥ १७४ ॥

बीजैर्धान्यैस्तण्डुलैश्च तर्पितो मन्त्रराड् भवेत् ।
प्रयच्छति सदा श्रेयः प्रसन्नः परमेश्वरः ॥ १७५ ॥

पल्लवैः फलमूलैश्च होमस्तुष्टिं प्रयच्छति ।
जहाति चापमृत्युं च रोगांश्चोपशमं नयेत् ॥ १७६ ॥

तर्पितः स्थलपद्माद्यैः पुष्पैश्चान्यैः सितादिकैः ।
सौभाग्यमतुलं विप्र अचिरात्सम्प्रयच्छति ॥ १७७ ॥

गुग्गुल्वाद्यैर्द्विजारोग्यं शुभैर्धात्रीफलैस्तथा ।
आज्याक्तैः पद्मबीजैश्च लक्ष्मीं शीघ्रं प्रयच्छति ॥ १७८ ॥

उत्पलैर्वश्यकामस्तु भोगकामश्च होमयेत् ।
दूर्वामृताभिर्होमेन आयुषो वृद्धिमाप्नुयात् ॥ १७९ ॥

एधोभिश्च शुभैर्होमाद्दोषशान्तिप्रदः प्रभुः ।

आहुतिप्रमाणभेदः

तिलानां शस्यते होमः सततं मृगमुद्रया ॥ १८० ॥

विश्वास-प्रस्तुतिः

घृतस्य काषि(र्ष ?)को होमः क्षीरस्य च विशेषतः ।
शुक्तिमात्राहुतिर्दध्नः प्रसृतिः पायसस्य च ॥ १८१ ॥

ग्रासार्धमात्रमन्नानां भक्ष्याणां स्वप्रमाणतः ।
सर्वेषामेव बीजानां मुष्टिना होममाचरेत् ॥ १८२ ॥

अग्राङ्गुलिस्तु लाजानां शालीनां पञ्चकं हुनेत् (?) ।
फलानां स्वप्रमाणं च पल्लवानां तथैव च ॥ १८३ ॥

त्रितीयं मूलखण्डानां पुष्पाणां स्वप्रमाणतः ।
कर्कन्धुमात्रगुलिका होतव्या गुग्गुलैस्सदा ॥ १८४ ॥

धात्रीफलप्रमाणां वा सम्भवे सति होमयेत् ।
दूर्वाकाण्डानि विप्रेन्द्र चतुरष्टाङ्गुलानि वा ॥ १८५ ॥

समित्प्रदेशमानेन समच्छेदा त्वगन्विता ।

स्वाहाकार वषट्कार वौषट्कारादिप्रयोगे निमित्तभेदनिरूपणम्

स्वाहाकारं सदा होमे पूर्णायां वौषडेव च ॥ १८६ ॥

{{१४८}}

विश्वास-प्रस्तुतिः

तमेव शान्तिके कुर्याद्वषड्वाऽप्ययने सदा ।
स्वधा पितृक्रियायां च फट्कारः क्षयकर्मणि ॥ १८७ ॥

विद्वेषे हुं वशे हीं च नमो मोक्षप्रसिद्धये ।

पूर्णाहुतिप्रकारः

कर्महोमावसाने च घृतेनापूर्य च स्रुव(च)म् ॥ १८८ ॥

विश्वास-प्रस्तुतिः

अभावात्तु प्रभूतस्य (?) होमद्रव्येन पूरयेत् ।
तत्रोपरि घृतं दद्यात्ततोर्घ्यकुसुमादिभिः ॥ १८९ ॥

मूलदेशात्समारभ्य स्रुक्सम्पूज्या स्रुवान्विता ।
घृतयुक्तं तु तद्द्रव्यं स्रुचः पुष्करकुक्षिगम् ॥ १९० ॥

द्रवच्चन्द्रोपमं ध्यायेत्ततः पूर्णं समुद्धरेत् ।
स्रुग्दण्डं देहनाभौ तु मूले संरोध्य संस्मरेत् ॥ १९१ ॥

निष्कलं मन्त्रनाथं तु पूर्णशीतांशुसन्निभम् ।
आमूलाच्च मरुच्छक्त्या प्रोद्धरेच्च स्वविग्रहात् ॥ १९२ ॥

विधाय चेश्वराधारे तस्माद्धारामृतं महत् ।
नासिकासन्धिमार्गेण स्रुक्पद्मे पतितं स्मरेत् ॥ १९३ ॥

सामृतामाज्यधारां च वसुधारामिव क्षिपेत् ।
मुखमध्ये तु मन्त्रस्य तद्ब्रह्मविवरेऽथवा ॥ १९४ ॥

हृत्पद्मान्तर्गतां सम्यक्प्रविष्टामनुभावयेत् ।
तया वै बृंहितं मन्त्रं भावयेद्ब्रह्मधारया ॥ १९५ ॥

तृप्तं हृष्टं च पुष्टं च तुष्टं वै साधकोपरि ।
मन्त्रोच्चारसमेता वै शरीरकरणान्विता ॥ १९६ ॥

ध्यानोपेता द्विजश्रेष्ठ पूर्णेयं परिपातिता ।
सर्वसिद्धिकरी शश्वन्मोक्षलक्ष्मीविवर्धनी ॥ १९७ ॥

अग्नेर्वर्णादिभेदैः कर्मसिद्धेर्ज्ञातव्यता

विश्वास-प्रस्तुतिः

बहुशुष्केन्धनेऽग्नौ च होतव्यं कर्मसिद्धये ।
अग्नेर्वर्णाश्च गन्धाश्च शब्दाश्चाकृतयस्तथा ॥ १९८ ॥

विकाराश्च शिखाश्चैव संवेद्याः कर्मसिद्धये ।
पद्मरागद्युतिः श्रेष्ठो लाक्षालक्तकसन्निभः ॥ १९९ ॥

बालार्कवर्णो हुतभुक् जयार्थं शस्यते द्विज ।
इन्द्रकोपकवर्णाभः शोणाभो वाऽथ पावकः ॥ २०० ॥

{{१४९}}

विश्वास-प्रस्तुतिः

शक्रचापनिभः श्रेष्ठः कुङ्कुमाभस्तथैव च ।
रक्तानां पुष्पजातीनां वर्णेनाग्निरिहेष्यते ॥ २०१ ॥

सुगन्धद्रव्यगन्धोऽग्निर्घृतगन्धश्च शोभनः ।
आयुर्दः पद्मगन्धः स्याद्बहुगन्धश्च सुव्रत ॥ २०२ ॥

उग्रगन्धोऽभिचारे तु विहितः सर्वदाऽनलः ।
जीमूतवल्लकीशङ्खमृदङ्गध्वनितुल्यकः ॥ २०३ ॥

शब्दोऽग्नेः सिद्धये हेतुरतोऽन्यः स्यादसिद्धिदः ।
छत्राकारो भ्रमः श्रेष्ठो ध्वजचामररूपकः ॥ २०४ ॥

विमानादिवितानानां प्रासादानां वृषस्य वा ।
आकारेणाथ हंसानां मयूराणां च सिद्धिदः ॥ २०५ ॥

रक्ताभस्तु यदा वह्निर्लक्षणात्परिदृश्यते ।
भग्नराजोपलाभश्च स्फटिकाभस्तथा शुभः ॥ २०६ ॥

यद्रूपं कथितं पूर्वं यदि तस्य प्रदक्षिणम् ।
अन्योन्यत्वं प्रपद्येत तथा सिद्धिकरोऽनलः ॥ २०७ ॥

गर्हितेन तु तर्णेन यदि कापोतिकादिना ।
परिवर्तं करोत्यग्निस्तदा विप्र विपर्ययम् ॥ २०८ ॥

होमान्ते तन्निमित्तं वै होमं कुर्याच्छताधिकम् ।
विषमाश्च शिखा वह्नेस्त्रयादयश्च शुभावहाः ॥ २०९ ॥

हस्वा ह्रस्वोन्नता दीर्घा ज्वालाः सिद्धिप्रदाः स्मृताः ।
स्निग्धः प्रदक्षिणावर्तः श्रुतिप्रच्छादितध्वनिः ॥ २१० ॥

स नित्यमेव शुभकृद्यदन्यैर्वर्जितो गुणैः ।

होमे प्रशस्तोऽग्निः

प्रदीप्ते लेलिहानेऽग्नै निर्धूमे सगुणे तथा ॥ २११ ॥

हृद्ये तुष्टिप्रदे चैव होतव्याः श्रियमिच्छता ।

होमे वर्ज्योऽग्निः

अल्पतेजोऽल्परूपश्च विष्फुलिङ्गसमन्वितः ॥ २१२ ॥

विश्वास-प्रस्तुतिः

ज्वालाभ्रमविहीनश्च कृशानुर्नैव सिद्धिदः ।
अप्रबुद्धे सधूमे च जुहयाद्यो हुताशने ॥ २१३ ॥

कर्महानिर्भवेत्तस्य त्वाभिचारार्थमश्नुते ।
दुर्गन्धश्चावलीढश्च पीतः कृष्णश्च यो भवेत् ॥ २१४ ॥

{{१५०}}

असकृत्कुं लिखेद्यस्तु स तु दद्यात्पराभवम् ।

तिथिभेदेन फलभेदाः

शुभे ग्रहे सुनक्षत्रे शुक्लपक्षे तिथिष्वपि ॥ २१५ ॥

विश्वास-प्रस्तुतिः

द्वादश्यां धर्मकामार्थानग्निस्थः कुरुते विभुः ।
सौभाग्यं तु त्रयोदश्यामेकादश्यां ध्रुवं जयः (यं ?) ॥ २१६ ॥

पञ्चम्यां द्रव्यसिद्धिं च नवम्यां कीर्तिदः प्रभुः ।
तिथयः शुक्लपक्षे तु प्रोक्ताः सौभाग्यकर्मणि ॥ २१७ ॥

यथाकामं तु मोक्षार्थी पक्षयोरुभयोरपि ।

प्रभाद्यर्चिःसप्तके क्रमादेकैस्मिंस्तर्पितस्य मन्त्रस्य फलभेदः

प्रभामूर्तिगतो मन्त्रस्तर्पितो यदि नारद ॥ २१८ ॥

विश्वास-प्रस्तुतिः

विद्यां प्रयच्छत्यचिरात् दीप्तिस्थो भूप्रदः प्रभुः ।
तापयत्थाशु शत्रूणां प्रकाशोपर्यवस्थितः ॥ २१९ ॥

शत्रुक्षयं ददात्याशु मरीच्यामूर्ध्वगो विभुः ।
तपन्यामूर्ध्वगो मन्त्रः सर्वतापोपशान्तिदः ॥ २२० ॥

विपक्षोच्चाटनं कुर्यात्करालासंस्थितो विभुः ।
लेलिहावस्थितो मन्त्रो यदि सन्तर्पितो मुने ॥ २२१ ॥

दद्यादभीप्सितं चैव देहान्ते परमं पदम् ।
इदमुक्तं मया विप्र होमकर्म समासतः ॥ २२२ ॥

होमान्ते कर्तव्यस्य तदुत्तराङ्गस्य विधानम्

विश्वास-प्रस्तुतिः

होमान्ते सानलं मन्त्रं भूयः पुष्पादिभिर्यजेत् ।
मुद्राः प्रदर्शयेत्सर्वा मूलमन्त्रादितः क्रमात् ॥ २२३ ॥

सन्दर्शयेत्ततो वह्नेर्मुद्रां मन्त्रसमन्विताम् ।

अग्निमुद्रा

पद्माकारौ करौ कृत्वा अङ्गुष्ठौ च कनिष्ठिके ॥ २२४ ॥

विश्वास-प्रस्तुतिः

सम्मील्य चाग्रदेशात्तु कर्णिकेव यथा द्विज ।
तर्जन्यादित्रयं शेषमूर्ध्वगं च करद्वयात् ॥ २२५ ॥

असंलग्नं तु निक्षिप्तं मुद्राऽग्नेः सम्प्रकीर्तिता ।

[मण्डले विन्यस्तस्य मन्त्ररूपस्य भगवतो मूर्धनि
पुष्पाञ्जलिसमर्पणप्रकारः]

मण्डलाग्रं ततो यायाद्धोमं विष्णोः समर्प्य च ॥ २२६ ॥

आपूर्य पाणियुगलं पुष्पैस्तत्रोपरि स्थितम् ।
{{१५१}}

संस्मरेन्निष्कलं मन्त्रममृतेनोपबृंहितम् ॥ २२७ ॥

प्रभूतदीप्तिच्छुरितं निक्षिपेन्मन्त्रमूर्धनि ।

अथ प्रार्थना

तर्पितोऽसि विभोर्भ(भ ?)क्त्या होमेनानलमध्यगम्(ग ?) ॥ २२८ ॥

विश्वास-प्रस्तुतिः

होमद्रव्येषु यद्वीर्यं तदिदं चात्मसात्कुरु ।
गृहीतं भावयेत्तेन प्रसन्नेनान्तरात्मना ॥ २२९ ॥

अथ मण्डलस्थस्य विसर्जनप्रकारः

विसर्जनं ततः कुर्याद्दत्वाऽर्घ्यं धूपसंयुतम् ।

अथ प्रसादस्य शिरसि धारणम्

प्रसादार्घ्यं सपुष्पं च कर्णिकोर्ध्वात्परिच्युतम् ॥ २३० ॥

गृहीत्वा स्वात्मनो मूर्ध्नि दत्वा

मण्डलादुद्धृतरजसा तिलकधारणम्

					ऽथ रजसा मुने ।  

ललाटे तिलकं कुर्यात्पीतरक्तेन मण्डलात् ॥ २३१ ॥

अर्घ्यपात्रे न्यस्तस्य मन्त्रस्य पूरकेण स्वदेहे व्याप्तत्वभावनम्

विश्वास-प्रस्तुतिः

द्विधा यश्चार्घ्यपात्राभ्यां मन्त्रो न्यस्तः पुरा द्विज ।
मन्त्रमुद्रासमेतेन पूरकेण तु नारद ॥ २३२ ॥

भासितं भावयेद्देहं तेनापादाच्छिरोऽवधि ।

भोगस्थानगतानां मन्त्राणां मुख्यमन्त्रशरिरे
प्रविष्टत्वभावनम्]

भोगस्थानगता मन्त्राः पूजिता ये यथा क्रमात् ॥ २३३ ॥

विश्वास-प्रस्तुतिः

मुख्यमन्त्रशरीरं तु सम्प्रविष्टांश्च संस्मरेत् ।
ज्वाला ज्वालान्तरे यद्वत्समुद्रस्येव निम्नगाः ॥ २३४ ॥

[सर्वमन्त्रास्पदस्य तस्य स्थूलमन्त्रशरीरस्य
स्वकारणसूक्ष्मादिक्रमेण पररूपे प्रविष्टत्वभावनम्]

विश्वास-प्रस्तुतिः

तं मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज ।
प्रविष्टं भावयेत्सूक्ष्मे बुध्यक्षे ह्युभयात्मके ॥ २३५ ॥

परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् ।

पररूपस्य तस्य स्वहृदये प्रविष्टत्वभावनम्

तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् ॥ २३६ ॥

सिद्धिमार्गणहृत्पद्मे सम्प्रविष्टं तु भावयेत् ।

{{१५२}}

[स्वहृदयं प्रविष्टस्य परस्वरूपस्य भासाऽपादमस्तकं
स्वदेहस्य व्याप्तत्वभावनम्]

मन्त्रमुद्रासमेतेन पूरकेण तु नारद ॥ २३७ ॥

विश्वास-प्रस्तुतिः

भासितं भावयेद्देहं तेनापादाच्छिरोवधि ।
प्रविष्टेन तु मन्त्रेण प्रयत्नेन विना द्विज ॥ २३८ ॥

विग्रहः कम्पते यस्य मन्त्रस्तस्य प्रसीदति ।

विसर्जनानन्तरं दीक्षितेभ्यो नैवेद्यप्रदानम्

एवं विसृज्य मन्त्रेशं लोकपालास्त्रवर्जितम् ॥ २३९ ॥

विश्वास-प्रस्तुतिः

दीक्षितानां द्विजानां च श्रद्धासंयमसेविनाम् ।
प्रदद्याद्द्विज नैवेद्यं शिष्याणां भावितात्मनाम् ॥ २४० ॥

मूलमन्त्राभ्यर्चने विनियुक्तानां पुष्पादीनां समाहरणम्

विश्वास-प्रस्तुतिः

वलमानस्य (?) मन्त्रस्य तुल्यकालं समाहरेत् ।
पुष्पाण्यस्त्रं च नैवेद्यं मूलमन्त्रोपयोजितम् ॥ २४१ ॥

समाहृतेन तेन द्रव्येण विष्वक्सेनाभ्यर्चनम्

विश्वास-प्रस्तुतिः

तेन भाण्ड-स्थितेनापि
समाहूय +अम्बरान्तरात् ।
विष्वक्सेनं यजेद् भक्त्या
ध्वात्वा वै मण्डलान्तरे ॥ २४२ ॥

मूलम्

तेन भाण्डस्थितेनापि समाहूयाम्बरान्तरात् ।
विष्वक्सेनं यजेद्भक्त्या ध्वात्वा वै मण्डलान्तरे ॥ २४२ ॥

विश्वास-प्रस्तुतिः

चतुर्भुजम् उदाराङ्गं
गदा-शङ्ख-धरं विभुम् ।
नवाम्र-पत्र-सङ्काशं
पिङ्गल-श्मश्रु-लोचनम् ॥ २४३ ॥

मूलम्

चतुर्भुजमुदाराङ्गं गदाशङ्खधरं विभुम् ।
नवाम्रपत्रसङ्काशं पिङ्गलश्मश्रुलोचनम् ॥ २४३ ॥

विश्वास-प्रस्तुतिः

पीत-वस्त्रं चतुर्-दष्ट्रं
स्व-मुद्रा-द्वितयान्वितम् ।
समभ्यर्च्य क्रमात् साङ्गं
मुद्राम् अस्याथ दर्शयेत् ॥ २४४ ॥

मूलम्

पीतवस्त्रं चतुर्दष्ट्रं स्वमुद्राद्वितयान्वितम् ।
समभ्यर्च्य क्रमात्साङ्गं मुद्रामस्याथ दर्शयेत् ॥ २४४ ॥

अथ कुण्डे विन्यस्तस्य मन्त्रस्य पुष्पैः पूजनम्

विश्वास-प्रस्तुतिः

गत्वा कुण्डसमीपं तु मन्त्रं पुष्पैः प्रपूज्य च ।

भस्मना तिलकधारणम्

विश्वास-प्रस्तुतिः

भस्मनाऽस्त्राभितप्तेन
ललाटे तिलकं शुभम् ॥ २४५ ॥

मूलम्

भस्मनाऽस्त्राभितप्तेन ललाटे तिलकं शुभम् ॥ २४५ ॥

मण्डलस्थस्येव कुण्डस्थस्य मन्त्रस्योपसंहरणम्

विश्वास-प्रस्तुतिः

कृत्वा मण्ड(ल)वत् पश्चाद्
उपसंहृत्य चात्मनि ।

मूलम्

कृत्वा मण्ड(ल)वत्पश्चादुपसंहृत्य चात्मनि ।

अथ विष्वक्सेनस्य कुण्डे सन्तर्पणक्रमः

विश्वास-प्रस्तुतिः

विष्वक्सेनस् ततो भक्त्या
तर्पणीयस् तिलाक्षतैः ॥ २४६ ॥
वौषडन्तेन मन्त्रेण
दद्यात् पूर्णाहुतिं द्विज ।
मण्डले पूजयित्वाऽथ
कुर्यात् तस्य विसर्जनम् ॥ २४७ ॥

मूलम्

विष्वक्सेनस्ततो भक्त्या तर्पणीयस्तिलाक्षतैः ॥ २४६ ॥
वौषडन्तेन मन्त्रेण दद्यात्पूर्णाहुतिं द्विज ।
मण्डले पूजयित्वाऽथ कुर्यात्तस्य विसर्जनम् ॥ २४७ ॥

{{१५३}}

विष्वक्सेनविसर्जनम्

विश्वास-प्रस्तुतिः

स्वमन्त्रेण द्विजश्रेष्ठ
क्षमस्वेति पदेन च ।
मुद्रा-समन्वितेनाथ
नभस्य् उत्पतितं स्मरेत् ॥ २४८ ॥

मूलम्

स्वमन्त्रेण द्विजश्रेष्ठ क्षमस्वेति पदेन च ।
मुद्रासमन्वितेनाथ नभस्युत्पतितं स्मरेत् ॥ २४८ ॥

विश्वास-प्रस्तुतिः

पूर्णेन कलशेनाथ
अस्त्र-जप्तेन नारद ।
क्षीराम्बु-मधुराज्येन
+++(लयं)+++ प्रापयेन् मण्डलं तु तत्(?) ॥ २४९ ॥

मूलम्

पूर्णेन कलशेनाथ अस्त्रजप्तेन नारद ।
क्षीराम्बुमधुराज्येन प्रापयेन्मण्डलं तु तत्(?) ॥ २४९ ॥

लोकपालादीनां विसर्जनप्रकारः

विश्वास-प्रस्तुतिः

ततः कुण्डात्समुत्थाप्य
विष्वक्सेनं यथा पुरा ।
पूजयेल् लोकपालांश् च
पुष्पाद्यैस् तर्पयेत् ततः ॥ २५० ॥

मूलम्

ततः कुण्डात्समुत्थाप्य विष्वक्सेनं यथा पुरा ।
पूजयेल्लोकपालांश्च पुष्पाद्यैस्तर्पयेत्ततः ॥ २५० ॥

विश्वास-प्रस्तुतिः

एकाहुतिप्रदानेन शक्त्या वा बहुभिः पुनः ।
यथाविधि स्वमन्त्रेण पूजयित्वा विसर्जयेत् ॥ २५१ ॥

सास्त्रान्सपरिवारांश्च स्वं स्वं स्थानं क्रमेण तु ।

अथ क्षेत्रपालादीनां घृतादिभिस्तर्पणक्रमः

गत्वा कुण्डसमीपेऽथ क्षेत्रपालादयः क्रमात् ॥ २५२ ॥

विश्वास-प्रस्तुतिः

आधारशक्तेरारभ्य पीठमन्त्राश्च सर्वशः ।
गणेशाद्याश्च सिद्धान्तास्तर्पणीया घृतादिकैः ॥ २५३ ॥

सकृत्सकृत्स्वशक्त्या वा पूर्णां सर्वेष्वथ क्षिपेत् ।
पात्रस्थं कलशस्थं च मन्त्रतन्त्रावतारितम् ॥ २५४ ॥

क्रमेण चोपसंहृत्य घ्राणाग्रेण तु पूर्ववत् ।

अथ वह्नेस्तर्पणप्रकारः

स्वमन्त्रेण ततो वह्निं शक्तितस्तर्पयेद्द्विज ॥ २५५ ॥

विश्वास-प्रस्तुतिः

अच्छिद्रकरणीं पूर्णां पूर्णामन्त्रेण पातयेत् ।
कुण्डे पुष्पाञ्जलिं कृत्वा वह्निमन्त्रमनुस्मरन् ॥ २५६ ॥

समाघ्राय न्यसेत्कोष्ठे ह्यवतारक्रमेण तु ।

अथाग्नेः परिषेचनम्

स्रुवन्तु तोयेनापूर्य कुण्डं बाह्ये प्रदक्षिणम् ॥ २५७ ॥

कुर्यादीशानकोणाद्वै अच्छिद्रोदकधारया ।

नैवेद्यादीनां तोये प्रक्षेपविधानम्

नैवेद्यमुपसंहृत्य वस्त्रालङ्कारवर्जितम् ॥ २५८ ॥

अगाधोदकमध्ये तु वहत्यधिविनिक्षिपेत् ।

{{१५४}}

[निमार्ष्ट्युपलेपनपूर्वकं सिद्धार्थकादीनामुत्किरणम्]

सम्यक्कृत्वा निमार्ष्टिं वै उपलिप्याथ चोत्किरेत् ॥ २५९ ॥

सिद्धार्थकादिलाजांश्च तिलं सुमनसोऽक्षतान् ।

रक्षार्थं स्थापितयोः कवचास्त्रयोरुपसंहारः

वर्मास्त्रे ह्युपसंहृत्य रक्षार्थं योजिते पुरा ॥ २६० ॥

स्वविग्रहे कृतस्य न्यासस्योपसंहारः

विश्वास-प्रस्तुतिः

यागस्थानाच्च तिलकं कृत्वा न्यासं स्वविग्रहात् ।
उपसंहृत्य मेधावी कुर्याद्वै भोजनादिकम् ॥ २६१ ॥

इदमुक्तं समासेन मन्त्रसन्तर्पणं द्विज ।

अपात्रेऽस्य मन्त्रसन्तर्पणक्रमस्यावाच्यत्वकथनम्

वाच्यं नादीक्षितानां च नाभक्तानां कदाचन ॥ २६२ ॥

नान्यदर्शनसंस्थानां नोपहासरतात्मनाम् ।

पात्रे वक्तव्यता

सद्भावज्ञे तु वक्तव्यं समयज्ञेऽथ पुत्रके ॥ २६३ ॥

विश्वास-प्रस्तुतिः

साधके तु गुरोर्वापि भक्ते स्निग्धे विमत्सरे ।
सत्यधर्मपरे वापि साचारे समयस्थिते ॥ २६४ ॥

इति श्रीपञ्चरात्रे जयाख्यसंहितायामग्निकार्यविधानं नाम
पञ्चदशः पटलः ॥ १५ ॥