१४ जप-विधानम्

अथ जपविधानं नाम चतुर्दशः पटलः

नारदः-

विश्वास-प्रस्तुतिः

ब्रूहि मे देवदेवेश विष्णोर्विभवमात्मनः ।
निर्णयं जपयज्ञस्य न ज्ञातं तत्कथं भवेत् ॥ १ ॥

मूलम्

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

एवं सन्तर्प्य देवेशं कुम्भे वा मण्डलादिषु ।
जपयज्ञविधानेन देवं सन्तर्पयेत्ततः ॥ २ ॥

तदा स सर्वकामार्थान्मनसेष्टान्प्रयच्छति ।

जपस्य त्रैविध्यम्

जपं तु त्रिविधं कुर्यादक्षसूत्रकरार्पितः ॥ ३ ॥

विश्वास-प्रस्तुतिः

वाचिकं क्षुद्रकर्मभ्य उपांशुं सिद्धिकर्मणि ।
मानसं मोक्षकमार्थं ध्यायेद्देवं तु सर्वतः ॥ ४ ॥

अक्षसूत्रं शुभं कार्यमदृश्यमितरैर्जनैः ।

अक्षसूत्रविधानम् तत्र मणिप्रमाणादिविशेषाः

अक्षास्थिमात्रैर्मणिभिर्ज्येष्ठं कुर्यात्सुवर्त्तुलम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

घात्रीफलानां गर्भेण प्रमाणं मध्यमं स्मृतम् ।
बदरास्थिप्रमाणेन कनीयम्ः समुदाहृतम् ॥ ६ ॥

अष्टोत्तरशतं पूर्णं तदर्धं पादमेव वा ।
कुर्यात्तच्च विधानोक्तं विधिना प्रतिकर्मणि ॥ ७ ॥

सौवर्णं द्रव्यसिध्यर्थमुत्तमं तत्र कारयेत् ।
पुष्ट्यर्थं रूपलाभाय राजतं पितृकर्मणि ॥ ८ ॥

मेधावीर्यमहातेजोलाभार्थं ताम्रमेव च ।
मध्यमं मुनिशार्दूल कार्यं चैवाक्षसूत्रकम् ॥ ९ ॥

{{१२६}}

विश्वास-प्रस्तुतिः

यक्षाणां यक्षिणीनां च साधने त्रपुजं स्मृतम् ।
राक्षसानां पिशाचानां वशे सीसमयं तु वै ॥ १० ॥

पातालसाधनार्थं तु अरीतिमयमुच्यते ।
सपन्नगानां नागानां साधने स्यात्तु कांस्यजम् ॥ ११ ॥

कनीयस्तु तदा कुर्यादायसं क्षुद्रकर्मणि ।
इति धातुमयानां च सूत्राणां विधयः स्मृताः ॥ १२ ॥

वक्ष्ये मणिमयानां च विभागं मुनिसत्तम ।
सर्वं मणिमयं चैव आयुरारोग्यभूतिदम् ॥ १३ ॥

मोक्षदं तु विशेषेण स्फाटिकं शान्तिकर्मणि ।
त्रितयं चोत्तमाद्यं यत्समं सर्वेषु कर्मसु ॥ १४ ॥

मूलजानामथो वक्ष्ये बीजानां विधिमुत्तमम् ।
सौभाग्ये वैद्रुमं कार्यमुत्तमाद्यं सदा त्रयम् ॥ १५ ॥

मुक्त्यर्थं पुत्र दीप्तैस्तु पुष्पषैर्दोप्रशान्तये ।
वक्ष्ये जलोत्थितानां च विषयं सर्वसिद्धिदम् ॥ १६ ॥

पद्मबीजैश्च शाङ्खैश्च श्रीकामो जपमारभेत् ।
आयुःप्रज्ञायशश्शान्तौ मौक्तिकं सर्वसिद्धिदम् ॥ १७ ॥

उत्तमादिविभागेन त्रितयं यत्प्रकीर्तितम् ।
एभ्यो मध्यादेकतमं ग्राह्यं चैव शुभे दिने ॥ १८ ॥

मणीनां क्षालनप्रकारः

सास्त्रेण गन्धतोयेन क्षालयेत्तदनन्तरम् ।

सूत्रविशेषविधानम्

शाणं कार्पासकं वाऽथ प्राप्य सूत्रं नवं दृढम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

त्रिगुणं त्रिगुणीकृत्य चतुर्था वा यथा दृढम् ।
सुवेष्टितं तु वै कृत्वा क्षालयेत्पूर्ववद्द्विज ॥ २० ॥

सूत्रे मणीनां योजनप्रकारः

विश्वास-प्रस्तुतिः

निक्षेप्या मणयस्तस्मिन्सन्धानक्रमयुक्तितः ।
मणयस्सुसमास्सर्वे ऊनाधिक्यविवर्जिताः ॥ २१ ॥

जपार्थं मुनिशार्दूल नित्यं मन्त्रेषु निष्कले ।
मणिभिः क्रमसूत्रैस्तु मुतन्तुकल निष्कले (?) ॥ २२ ॥

{{१२७}}

विश्वास-प्रस्तुतिः

सकले तु यथेच्छा वै सूत्रार्थं मणिगोलकाः । (?)
युगलं युगलं सूत्रे परस्परमुखं द्विज ॥ २३ ॥

पृष्ठं पृष्ठस्य लग्नं वा यथा स्याद्योजयेत्तथा ।
सन्धाय चातिसुश्लिष्टं गहनं न भवेद्यथा ॥ २४ ॥

अक्षसूत्रस्य वलयाकारतापादनम्

विश्वास-प्रस्तुतिः

परस्परमणीनां तु प्रोतानां मुनिसत्तम ।
अव्युच्छिन्नेन तेनैव त्वेकेन प्रोततन्तुना ॥ २५ ॥

मणिभ्यां सङ्गमोद्देशात्सूत्रं सूत्रेण वेष्टयेत् ।
यथा स्यात्कटकाकारं स्तब्धं वृत्तं विभक्तिमत् ॥ २६ ॥

अक्षसूत्रे मेरुकल्पनम्

विश्वास-प्रस्तुतिः

ग्रन्धिसन्धावतो विप्र मणिसख्याधिकं ततः ।
मेरुं प्रकल्पयेन्मध्ये एकेन गुलिकेन च ॥ २७ ॥

अक्षसूत्रसंशोधनावधानम्

विश्वास-प्रस्तुतिः

विलिप्य चन्दनाद्यैस्तु स्थापयेद्भाजने शुभे ।
सम्पूज्य पुष्पधूपाद्यैस्तस्य शुद्धिमथाचरेत् ॥ २८ ॥

दग्धमस्त्रेण सञ्चिन्त्य वर्मणा मारुतेरितम् ।
आप्लाव्य मूलमन्त्रेण परमामृतरूपिणा ॥ २९ ॥

संशोध्यैवं पुरा सूत्रं देहवच्चिन्तयेत्ततः ।

अक्षसूत्रस्य दिव्यदेहत्वेन चिन्तनम्

चतुर्भुजं तु विरजो नारायणमिवापरम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

वरदाभयहस्तं च बद्धाञ्जलिधरं स्मरेत् ।
ब्रह्मद्वारस्थितं तच्च सूत्रं ध्यायेच्छिखोपमम् ॥ ३१ ॥

स्वमन्त्रेण द्विजश्रेष्ठ मन्त्रमत्र निबोधतु ।

अक्षसूत्रमन्त्रः

प्रोद्धरेत्प्रणवं पूर्वं तदन्ते कौस्तुभं न्यसेत् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

त्रैलोक्यैश्वर्यदोपेतं गोपनेनाङ्कयेच्च तत् ।
तदन्ते त्वक्षसूत्राय पदं पञ्चाक्षरं न्यसेत् ॥ ३३ ॥

नमस्कारान्वितः प्रोक्तो ह्यक्षसूत्रस्य मन्त्रराट् ।

स्वमन्त्रेणाक्षसूत्रस्य सकलीकरणपूजने

सकलीकरणं कुर्यान्मन्त्रेणानेन तस्य वै ॥ ३४ ॥

{{१२८}}

पूजयेच्च स्वमन्त्रेण ततस्तत्सन्घये क्रमात् ।

वैष्णव्याः परशक्तेरक्षसूत्रे भावनाक्रमविधानम्

या परा वैष्णवी शक्तिरभिन्ना परमात्मनः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

प्रचलत्पूर्णचन्द्राभा सूर्यवत्किरणावृता ।
युगक्षयोग्रहुतभुक्तेजसा तीवृबृंहिता ॥ ३६ ॥

प्राग्वत्सृष्टिक्रमेणैव स्मरेद्धृत्पद्ममध्यगाम् ।
पूरकेण तु विप्रेन्द्र कुम्भकेन निरोधिताम् ॥ ३७ ॥

हृत्पद्मादुत्थितां भूयो ब्रह्मरन्ध्रावधिं स्मरेत् ।
ब्रह्मरन्ध्रात्ततो विप्र प्रोल्लसन्तीं शनैश्शनैः ॥ ३८ ॥

पूर्ववत्सन्धिमार्गेण चिन्तयेद्द्वादशान्तगाम् । (?)
रेचकाख्येन योगेन तया सूत्रं तु भावयेत् ॥ ३९ ॥

अक्षसूत्रप्रभोद्भासितत्वेन यागालयस्मरणम्

भासितं चाथ सूत्रेण सर्वं यागालयं स्मरेत् ।

पूर्णेन्दुनेव गगनम्,

[मन्त्रात्मनो भगवच्छत्तेः सूत्रस्य मन्त्राक्षराणां
चैकीभूतत्वभावनविधिः]

			निष्कलो मन्त्रराट् ततः ॥ ४० ॥  
विश्वास-प्रस्तुतिः

मन्त्रबृन्दसमायुक्तो मग्नस्तत्रेति चिन्तयेत् ।
मन्त्रात्मा भगवच्छक्तिस्सूत्रमन्त्राक्षराणि वै ॥ ४१ ॥

सर्वमेकीकृतं ध्यायेद्यथा क्षीरेण सोदकम् ।

सकलनिष्कलमन्त्रस्य सृष्टिक्रमेणाक्षसूत्रे सान्निध्यचिन्तनम्

तत्र पुष्पाञ्जलौ पृष्ठे गृहीत्वा चिन्तयेदिमम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

सुसंस्कृताक्षसूत्रस्य पतन्तं पृष्ठतो द्विज ।
सृष्टिक्रमात्समायातं मन्त्रं सकलनिष्कलम् ॥ ४३ ॥

स्फुलिङ्गगणसङ्काशमाधेयतनुतां गतम् ।

भगवत्प्रार्थनापूर्वक तदभ्यनुज्ञयाऽक्षसूत्रस्य ग्रहणम्

इदं विज्ञाप्य देवेशमक्षसूत्रमयाच्युत ॥ ४४ ॥

विश्वास-प्रस्तुतिः

प्रयच्छ मन्त्रजापार्थं स्मरेद्दत्तं च तेन तत् ।
गृहीस्वा शिरसा पश्चात्प्रसीद इति चोच्चरेत् ॥ ४५ ॥

अभ्यर्चनपूर्वकमक्षसूत्रे मन्त्रस्य प्रतिष्ठापनक्रमः

प्राप्तं संस्नापयेत्पश्चादर्घ्यपात्राच्च वारिणा ।

{{१२९}}

सम्पूज्य पुष्पधूपाद्यैर्मन्त्रं तव च विन्यसेत् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

साधारं साधनं चैव शक्तिपूर्वैस्समावृतम् ।
सन्निधौ भव देवेश सन्निरुद्धो भवाच्युत ॥ ४७ ॥

सूत्राख्ये मणिजालेऽस्मिन्यावच्चन्द्रार्कतारकम् ।
एवं मुने प्रतिष्ठाप्य मन्त्रं सूत्रेऽक्षसञ्ज्ञिके ॥ ४८ ॥

प्रतिष्ठितस्य वै पश्चान्मुद्रां स्वां च प्रदर्शयेत् ।

अक्षसूत्रमुद्रा

लग्नं तिर्यग्गतं कुर्यात्कुञ्चितं दक्षिणात्करात् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

चतुष्कमङ्गुलीनां च अङ्गुष्ठाग्रेण संस्पृशेत् ।
तर्जनादिक्रमेणैव कनिष्ठान्तं द्विजोत्तम ॥ ५० ॥

संस्पृशन्तं कनिष्ठान्तमङ्गुष्ठं चोर्ध्वमानयेत् ।
अक्षसूत्रस्य मुद्रैषा नित्यसन्निधिकारिणी ॥ ५१ ॥

जपं समारभेत्पश्चाददृश्यमितरैर्जनैः ।

जपारम्भात्प्राक्कर्तव्योऽनुसन्धानविशेषः

करणं वाङ्मनश्चैव मन्त्रेण परमात्मना ॥ ५२ ॥

विश्वास-प्रस्तुतिः

विष्णुना शक्तिरूपेण भावितं भावयेत्पुरा ।
चेतसा यदुपारूढं तद्युक्तं वस्तु वाग्गतम् ॥ ५३ ॥

वस्तुयुक्तं च चैतन्यं वाक्तृतीया च नारद ।
समारोहेत्कर्मपदे विकारत्वे शनैश्शनैः ॥ ५४ ॥

एवं विवर्तते मन्त्रस्तुर्याज्जाग्रावधि क्रमात् ।
प्रातिलोम्येन वै विप्र पुनरेव निवर्तते ॥ ५५ ॥

करणं वाक्स्वरूपं स्याद्वाक्च चिद्रूपिणी भवेत् ।
यच्चित्तं स भवेन्मन्त्रो यो मन्त्रस्स त्वजो हरिः ॥ ५६ ॥

ब्रह्माद्यजाग्रत्पर्यन्तं पुनरत्रैव सन्नयेत् ।
व्यापकं यत्परं ब्रह्म शक्तिर्नारायणी च या ॥ ५७ ॥

सा ह्येव परिणामेन तुर्याख्यं भजते पदम् ।
तुर्यं सुषुप्ततामेति सुषुप्तं स्वप्नतां व्रजेत् ॥ ५८ ॥

जाग्रत्वं स्वप्नमायाति एवं जाग्रादितः पुनः ।

{{१३०}}

[जाग्रदादिभेदनिरूपणम्]

भगवच्छक्तिपर्यन्तं सन्धानं चैकतां स्मरेत् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

यदनित्यमिदं विप्र चित्रवत्परिदृश्यते ।
बाह्यं विषयजालं च जाग्रदेतदुदाहृतम् ॥ ६० ॥

अनित्यप्रतिपत्तिर्या अस्मिन्नुपरि सर्वदा ।
भङ्गुरे स्वप्नतुल्यो यस्स स्वप्नो जाग्रकारणम् ॥ ६१ ॥

सुषुप्तं शान्ततां विद्धि स्वप्नवृत्तेः परं तु यत् ।
शक्तिरूपस्य वै विष्णोः प्राप्तस्तुर्यत्वमेति सः ॥ ६२ ॥

तया सह समत्वं च तुर्यातीतं तदुच्यते ।
मन्त्रातीतं परं मन्त्रं स्थूलसूक्ष्मद्वयं तथा ॥ ६३ ॥

आत्मानं पञ्चमं विप्र एकत्वेनानुसन्धयेत् ।
कृत्वैवमनुसन्धानं प्रारभेत जपं तथा ॥ ६४ ॥

अन्तर्हृत्पुण्डरीकादिव बहिरक्षसूत्रे मन्त्रस्योदय क्रमभावनम्

विश्वास-प्रस्तुतिः

हृत्पुण्डरीकमध्यस्थो भारूपः परमेश्वरः ।
निर्मलस्फटिकप्रख्यः प्रस्फुरन्यः स्वतेजसा ॥ ६५ ॥

तस्य शब्दमयी शक्ती(क्तिः ?)ज्वालावन्निस्सृतं महत् (ताहिया ?) ।
तद्धर्मधर्मिणी शुद्धा तस्या वै वर्णसन्ततिः ॥ ६६ ॥

निस्सृता मन्त्रजननी तदग्राच्चैव मन्त्रराट् ।
निस्सृतं(तु) यथा पुष्पं लताग्रान्मुनिसत्तम ॥ ६७ ॥

एवमेवाक्षसूत्रे तु उदितं च क्रमं स्मरेत् ।
हृल्लयं तल्लयीकुर्याद्धृल्लयस्य च तत्तथा ॥ ६८ ॥

एकस्य मन्त्रनाथस्य अन्तर्बाह्योदितस्य च ।

जपसङ्ख्याविधानम्

यदैकं तज्जपो विप्र लक्षसङ्ख्याभिधो भवेत् ॥ ६९ ॥

विश्वास-प्रस्तुतिः

एवं लक्षस्थितो यस्माज्जपस्तु परिसङ्ख्यते ।
प्रयत्नादक्षसूत्रेण जपसङ्ख्या तु सा स्मृता ॥ ७० ॥

अनेन क्रमयोगेन विष्णुवत्करणं भवेत् ।
विष्णुवद्योगमाश्रित्य अक्षमक्षं समाहरेत् ॥ ७१ ॥

सह प्राणोदयेनैव निष्ठाक्षं यावदेव हि ।

{{१३१}}

[मेरोर्लङ्घननिषेधः]

ततः प्रदक्षिणं कुर्यान्मेरुमूर्तिस्थितस्य च ॥ ७२ ॥

विश्वास-प्रस्तुतिः

निष्कलस्य च मन्त्रस्य तदूर्ध्वेऽवस्थितस्य च ।
ग्रन्धीरूपस्य च विभोरमलस्य महात्मनः ॥ ७३ ॥

पृष्ठेन लङ्घनं यस्माद्वर्जनीयं तु नारद ।
मेरुमूलेऽङ्गुलिप्रान्तं शिष्टं कृत्वा शनैश्शनैः ॥ ७४ ॥

अङ्गुष्ठस्य भ्रमं कुर्यान्नमेरोर्लङ्घनं भवेत् ।
अङ्गुष्ठमूलमध्ये च भ्रामणीयं च छत्रवत् ॥ ७५ ॥

विधिनाऽनेन जप्तव्यो मन्त्रो ध्यानसमन्वितः ।

[शान्तिकपौष्टिकादिनिमित्तभेदेन मन्त्रस्य भिन्नभिन्नरूपतया
ध्यानविधानम्]

शान्तिके स्फाटिकाभं च पीतं ध्यायेच्च पौष्टिके ॥ ७६ ॥

विश्वास-प्रस्तुतिः

वश्ये किंशुकपुष्पाभमाकृष्टौ नृपशैलवत् ।
मारणे कज्जलाभं तु विद्वेषे चाषपक्षवत् ॥ ७७ ॥

उच्चाटने च धूम्राभं मन्त्रं ध्यायेज्जपेत्सदा ।

परापरभेदेन जपस्य द्वैविध्यम्

परापरस्वरूपेण जपस्तु द्विविधः स्मृतः ॥ ७८ ॥

विश्वास-प्रस्तुतिः

परदेहप्रदे (वे ?)शे च तत्त्वानां प्रेरणे द्विजं ।
क्रूरकर्मणि सिध्यर्थं जपो ज्योतिर्मयस्स्मृतः ॥ ७९ ॥

तत्रान्तर्लीनममलं शब्दं तु परिभावयेत् ।
भुक्तिमुक्तिप्रसिध्यर्थं दोषदुःखक्षयङ्करम् ॥ ८० ॥

शान्तौ तु सर्वकार्याणां सिध्यर्थमविचारतः ।
सुखसौभाग्यसिध्यर्थं तथाऽप्याधानकर्मणि ॥ ८१ ॥

जपो भवति शब्दाख्यस्तत्रान्तस्तु विभावयेत् ।
निशाम्बुकणसङ्काशप्रकाशात्मजनार्दनम् ॥ ८२ ॥

हृत्पद्मात्तु स्वमन्त्रेणं भावयेच्छब्दमुत्थितम् ।
नित्योदितं तु तेनैव प्रयत्नहरि (रहि ?) तेन तु ॥ ८३ ॥

प्राणापन्नपदस्थेन भावनामिश्रितेन च ।
जप्यमानस्तु वै मन्त्रस्सर्वकामफलप्रदः ॥ ८४ ॥

{{१३२}}

विश्वास-प्रस्तुतिः

अथ प्रयत्नजनितं शब्दमुत्थाप्य नारद ।
केवलं तु स्वमन्त्रेण बद्धलक्षस्तु पूर्ववत् ॥ ८५ ॥

अक्षरादक्षरं यातमृतदोषेण वर्जितम् ।
विलम्बितं च नातीतं तथाऽस्फुटपदोज्झितम् ॥ ८६ ॥

चित्तविक्षेपरहितमत्युत्कृष्टधियाऽन्वितम् ।

अधिकारिणां सत्त्वादिगुणभेदेन जपकालभेदः

पूर्वान्हे मध्यभागेऽथ अपरान्हे दिनस्य तु ॥ ८७ ॥

विश्वास-प्रस्तुतिः

क्रमाद्वै सात्विकादीनां वेलात्रयमुदाहृतम् ।
एवं कृत्वा जपन्विप्र विनिवेद्य च यागवत् ॥ ८८ ॥

मन्त्रात्मा भगवान्विष्णुरचिरात्सिद्धिदो भवेत् ।
प्रतिमासं द्विजश्रेष्ठ इष्ट्वाऽर्घ्यकुसुमादिभिः ॥ ८९ ॥

अक्षसूत्रस्यपुनर्नवीकरण प्राचीनसूत्रपरित्यागयोर्विधानम्

विश्वास-प्रस्तुतिः

सन्धानमुपसंहृत्य पूर्वं यच्चाक्षसूत्रकम् ।
विसर्जनाख्यमन्त्रेण मुद्रायुक्तेन नारद ॥ ९० ॥

सूत्रं चाभिनवं कृत्वा प्राग्वत्संस्कृत्य वेष्टयेत् ।
यथास्थितं मणीनां च योजनं चाचरेत्पुनः ॥ ९१ ॥

संस्नाप्य विधिवन्मन्त्री भूयस्तस्मिंस्तु विन्यसेत् ।
पुरा यदाहृतं चैव सूत्रच्छेदभयात्ततः ॥ ९२ ॥

पूजां कृत्वा तथा होमं तत्कर्मछिद्रकारणम् ।
पुराणसूत्रमादाय विभजेत्तन्तुजं च तत् ॥ ९३ ॥

बध्वा पाषाणखण्डे च अगाधेऽम्भसि निक्षिपेत् ।
विष्वक्सेनीयमन्त्रेण क्षिप्त्वाऽचम्य स्मरेद्धरिम् ॥ ९४ ॥

मूलमन्त्रण विप्रेन्द्र सप्तवारान्समाहितः ।

इति श्रीपञ्चरात्रे जयाख्यसंहितायां जपविधानं नाम चतुर्दशः पटलः ॥ १४ ॥