१३ बाह्य-यागाख्यानम्

अथ बाह्ययागाख्यानं नाम त्रयोदशः पटलः

श्रीभगवान्

विश्वास-प्रस्तुतिः

पुराऽनेन विधानेन कृत्वा यागं तु मानसम् ।
कर्मणा भक्तियुक्तेन मण्डलस्थं यजेत्ततः ॥ १ ॥

मूलम्

हृत्पुण्डरीकमध्ये य इष्टो मन्त्रगणः पुरा ।
प्रस्फुरन्तं तमत्रैव प्राणापानगतं स्मरेत् ॥ २ ॥

विसर्जयेन्न तं यावन्न कृता बाह्यतः क्रियाः ।
न्यसनीयो ह्ययं यस्मादर्घ्यपात्रे द्विजोत्तम ॥ ३ ॥

मण्डले ह्यक्षसूत्रे च कुण्डमध्यगतेऽनले ।

प्रश्न-प्रतिवचन-मुखेन बाह्य-यागस्यावश्यकत्व-निरूपणम्

नारदः-

भगवंस्त्वत्प्रसादेन ज्ञातो ह्यज्ञाननाशनः ॥ ४ ॥

विश्वास-प्रस्तुतिः

ज्ञानविज्ञानसहितो हृद्यागस्सर्वसिद्धिदः ।
किमर्थं बाह्यतः पूजा कार्या वै मण्डलान्तरे ॥ ५ ॥

एतदाचक्ष्व भगवंस्तत्र मे संशयो महान् ।

श्रीभगवान्

बाह्योत्था वासना विप्र बहुजन्मार्जिता दृढा ॥ ६ ॥

विश्वास-प्रस्तुतिः

लोलीकृतोऽनया ह्यात्मा शुद्धोऽशुद्धस्वरूपया ।
या मन्त्रविषया शुद्धा क्रिया शान्तस्वरूपदा ॥ ७ ॥

समुत्थानविनाशार्थमस्यास्सा सम्प्रकीर्तिता ।
स बाह्याभ्यन्तराभ्यां च क्रियाभ्यां तन्मयो भवेत् ॥ ८ ॥

दृढोत्थवासनानां च तानवं स्याच्छनैश्शनैः ।
यन्मयस्साधको विप्र देहस्थस्साम्प्रतो भवेत् ॥ ९ ॥

तन्मयो देहपातात्स्यादित्येतत्कथितं मया ।

नारदः-

ब्रूहि मे देवदेवेश मण्डले यजनं यथा ॥ १० ॥

{{१०८}}

स्वरूपं मण्डलस्यापि यदि सानुग्रहोऽसि मे ।

श्री भगवान्

मण्डल-विन्यासः

शृणु मण्डलविन्यासं विष्णोरद्भुततेजसः ॥ ११ ॥

विश्वास-प्रस्तुतिः

प्रवक्ष्यामि समासेन येन श्रेयो ह्यवाप्स्यसि ।
परीक्ष्य विविधामुर्वीं गन्धवर्णस्सान्विताम् ॥ १२ ॥

लाङ्गलाद्यैः पुरा यत्नास्कृत्वा तु परिशोधिताम् ।
दुष्टशल्यविनिर्मुक्तां हस्तिभारवतीं दृढाम् ॥ १३ ॥

तत्पृष्ठे मण्डपं कुर्यात्सुधाधवलितं शुभम् ।
वितानकपताकाभिर्वस्त्रैश्च सुपरिष्कृतम् ॥ १४ ॥

तत्रादौ लक्षयेद्बुध्या ब्रह्मस्थानं प्रयत्नतः ।
वृक्षजाम्(?)उन्नतां कुर्याद्वेदिं याग(गे ?)द्विजाधिका(यता?)म् ॥ १५ ॥

अस्त्राभिमन्त्रितं कृत्वा पञ्चगव्यं तु तेजसा ।
उपलिप्याग्रतस्सूत्रं वेदिकामभिमन्त्र्य च ॥ १६ ॥

दद्यात्पूर्वपरं सूत्रं तत्र मध्ये च नारद ।
अष्टहस्तं तदर्द्धं वा चतुरस्रं तु साधयेत् ॥ १७ ॥

मानादर्धार्धसूत्रेण ब्रह्मस्थानस्थितेन च ।
दिग्द्वयान्मध्यसूत्रं तु चिन्हीकृत्य समं यथा ॥ १८ ॥

चिन्हाचिन्हगतं सूत्रं कृत्वा तदनु नारद ।
उल्लङ्घ्योल्लङ्घ्य वै कुर्याल्लाञ्छने सौम्ययाम्यगे ॥ १९ ॥

एवमेवापरे चिन्हे तद्वत्तस्मिंश्च दिग्द्वये ।
कुर्यात्तेनैव सूत्रेण चिन्हाच्चिन्हगतेन च ॥ २० ॥

प्रसार्योर्द्धस्थितं सूत्रं मत्स्यसन्धिद्वये द्विज ।
दक्षिणोत्तरदिग्यातं प्राक्पूर्वापरसंस्थितम् ॥ २१ ॥

ततो मानार्धसूत्रेण चिन्हयेद्दिक्चतुष्टयम् ।
तेषु चिन्हेषु वै पृष्ठे कृत्वा तच्चाथ सूत्रकम् ॥ २२ ॥

सल्लाञ्छ्य कोणभागान्वै पूर्वतुल्यैस्तु लाञ्छितैः ।
दिद्गलस्थेन सूत्रेण ततस्सूत्रचतुष्टयम् ॥ २३ ॥

दद्याद्वै क्षेत्रसिध्यर्थं कोणात्कोणे च नारद ।
{{१०९}}

समैः पदैस्तु तत्क्षेत्रं कृत्वा षोडशधा ततः ॥ २४ ॥

विश्वास-प्रस्तुतिः

चतुर्भिस्तु पदैर्मध्ये पद्ममष्टदलं लिखेत् ।
तद्वदष्टासु वै कुर्यादाशासु कमलाष्टकम् ॥ २५ ॥

दिक्षु पद्मचतुष्कं तु देवीनां पूजनाय च ।
विदुक्ष्वन्यानि चत्वारि सत्यान्ता येष्ववस्थिताः ॥ २६ ॥

तेषां मध्ये तु नवमं पूज्यते यत्र केशवः ।
मध्यमं कमलं क्षेत्रं चतुर्द्धा भ्रामयेन्मुने ॥ २७ ॥

वर्जयित्वाऽष्टमांशं तु व्योम तेनार्धतो बहिः ।
भ्रमणेनान्तरस्थेन भवति द्विज कर्णिका ॥ २८ ॥

केसराणि द्वितीयेन तृतीये पत्रसन्धयः ।
पत्राग्राणि चतुर्थेन भ्रमणोपरि कल्पयेत् ॥ २९ ॥

कोणात्कोणगतं तस्मिन्पद्मे सूत्रद्वयं क्षिपेत् ।
सूत्राणामन्तरे भूयः क्षिपेत्सूत्राष्ठकं तथा ॥ ३० ॥

पद्मसन्धिस्थसूत्रेण दिक्क्रमेण दलाष्टकम् ।
भ्राम्य वृत्तार्थयोगेन एवमन्ये बहिस्थिताः ॥ ३१ ॥

पद्माः कार्याः प्रयत्नेन सुसमाश्च परस्परम् ।
चतुर्धा केशरांशं तु पत्रे पत्रे विभज्य च ॥ ३२ ॥

केसरत्रितयं मध्ये एकैकेन यथा भवेत् ।
संसक्तनवपद्मे तु गर्भस्यार्धेन वीधिकाः ॥ ३३ ॥

आधाय वीधिविस्तारान् षडंशं वाऽथ पञ्चकम् ।
तेन पद्मसमूहस्य चतुरश्रं लिखेद्बहिः ॥ ३४ ॥

तत्त्रिधा विभजेद्दिक्षु पीठः स्यात्पादगात्रभृत् ।
दिग्पद्मं परितो द्वारं कुर्याद्दिक्षु चतुर्ष्वपि ॥ ३५ ॥

तस्मिन्भागद्वयेनैव कर्णं कुर्याद्द्विजोत्तम ।
चतुर्भिरुपकर्णं तु कोणं कोणं भवेत्ततः ॥ ३६ ॥

द्वाविंशतिपदैः पूर्णमेकीकृत्य विशोध्य च ।
विविक्तं पश्चिमद्वारं कुर्याद्रेखाविवर्जितम् ॥ ३७ ॥

कर्णिकां पीतवर्णेन पीतरक्तेन केसरान् ।
पत्राष्टकं सितं कुर्यादन्तरालं नभस्समम् ॥ ३८ ॥

{{११०}}

विश्वास-प्रस्तुतिः

पीतेन पीठकोणादि गात्रकाण्यरुणेन तु ।
सितं द्वारचतुष्कं तु कोणात्रक्तेन भूषयेत् ॥ ३९ ॥

बाह्ये रेखात्रयं दद्याद्रक्तपीतासितान्तिमम् ।
अन्तःशक्तिगतेनैव स्वरषोडशकेन च ॥ ४० ॥

मण्डले प्रकारभेदाः फलभेदाश्च

विश्वास-प्रस्तुतिः

अथवा द्वादशारं तु द्वादशस्वरभावितम् ।
अष्टारं विलिखेन्नित्यं नाभिनेमिसमन्वितम् ॥ ४१ ॥

वर्गाष्टकेन वै व्याप्ता अरा ऋज्वस्सुशोभनाः ।
चक्रनाभौ लिखेत्पद्मं पूर्वलक्षणलक्षितम् ॥ ४२ ॥

शङ्खोदरेऽथवा लेख्यं पङ्कजं सुमनोहरम् ।
कौमोदक्यां पुरो वाऽपि बिम्बे वा कौस्तुभोपमे ॥ ४३ ॥

पुष्पमालाकृतौ वाऽथ यथाकामाप्तये मुने ।
स्वलाञ्छनाकृतौ यागे ददात्यभिमतं विदुः ॥ ४४ ॥

नवनाभौ परां सिद्धिमैहिकामुष्मिकीं लभेत् ।
पद्मोदरे कृते यागे सदा लक्ष्मीः प्रवर्धते ॥ ४५ ॥

चक्रमध्ये भवेद्राज्यं शत्रुपक्षक्षयङ्करम् ।
शान्तिकर्मणि वै शङ्खे गदायां सुभगो भवेत् ॥ ४६ ॥

कौस्तुभे राज्यलाभस्तु पुष्टिर्वै पुष्पमण्डले ।
एष पद्मोदरो यागः पद्मादेर्मध्यगः स्मृतः ॥ ४७ ॥

[मण्डलस्येव कुम्भ पुष्पमण्डल स्थण्डिल प्रतिमादीनामपि
बाह्ययाग प्रदेशत्वविधानम्]

विश्वास-प्रस्तुतिः

नानावर्णकसंयुक्तस्त्वन्यः कुम्भोदरे शृणु ।
सौवर्णं राजतं ताम्रं मृण्मयं वा घटं दृढम् ॥ ४८ ॥

कालमूलैस्तु रहितं त्रासप्राणविवर्जितम् । (?)
क्षीरपूर्ण तु तं कुर्याद्दध्ना वा गन्धवारिणा ॥ ४९ ॥

सर्वरत्नौषधीगाढं कुशदूर्वाफलोदरम् ।
सिद्धार्थकाक्षतोपेतं कुङ्कुमोदकभावितम् ॥ ५० ॥

प्रशस्ततरुशाखाभिः कोमलाभिरलङ्कृतम् ।
शङ्खस्वस्तिकपद्मैश्च चर्चितं चन्दनेन च ॥ ५१ ॥

{{१११}}

विश्वास-प्रस्तुतिः

शोभितं च सितैर्वस्त्रैः पट्टैश्चैव स्रगादिभिः ।
तन्मध्ये चासनं पद्मं तन्मध्ये तु जनार्दनः ॥ ५२ ॥

वैनतेयोपरिस्थस्तु लक्ष्माद्याः पूर्ववत्स्थिताः ।
सङ्क्षेपपूजनार्थं तु कुम्भे यागः प्रकीर्तितः ॥ ५३ ॥

उपलिप्य स्थलं वाथ गोमयेन मृदाम्भसा ।
वर्त्तुलं परीयात्तत्र दद्याद्वा चतुरश्रकम् ॥ ५४ ॥

यथा कालोद्भवैः पुष्पैः पवित्रैः कटमुक्तये ।
तत्र सम्पूजयेद्देवमथवा मुनिसत्तम ॥ ५५ ॥

अहतं सुसितं वस्त्रं धूपगन्धादिवासितम् ।
पृष्ठतस्तु स्थले दत्वा तत्रोपरि यजेद्धरिम् ॥ ५६ ॥

प्रतिमां कारयेद्वाऽथ घातुमृच्छैलदारुजाम् ।
सपद्मं केवलं वाऽथ भद्रपीठं प्रकल्पयेत् ॥ ५७ ॥

केवले तोयमध्ये वा दीप्तेऽग्नौ धूमवर्जिते ।
स्थितमायतने वाऽथ साकारं परमेश्वरम् ॥ ५८ ॥

शङ्खचक्रधरं विष्णुं सुरसिद्धावधारितम् ।
ऋषिभिर्मनुजैर्वाऽथ भक्तियुक्तैः प्रतिष्ठितम् ॥ ५९ ॥

तन्मूर्तौ च स्वमन्त्रेण यजेदावाहनं विना ।
भूमिष्ठे ह्यचले विप्र पाषाणे चक्रलाञ्च्छिते ॥ ६० ॥

चले वा शङ्खपद्माख्यमुद्राभिर्विप्र मुद्रिते ।
तत्रोपरि यथापूर्वं तथा सम्पूजयेत्प्रभुम् ॥ ६१ ॥

एभिर्यागपरैर्मध्यादेकं निष्पाद्य यत्नतः ।
कर्मणा भक्तियुक्तेन पूजयेत्सर्वकामदम् ॥ ६२ ॥

यथाशक्त्युपचारेण विभवेन तु वा मुने ।

मण्डले बाह्ययागप्रकारः

अथ मण्डले बाह्ययागप्रकारः

अर्घ्यपात्रं समादाय सुवर्णरजतादिजम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

शैलं मृद्दारुजं वाऽथ पलाशाम्बुजपर्णजम् ।
अस्त्रोदकेन प्रक्षाल्य लेपयेत्कुङ्कुमादिभिः ॥ ६४ ॥

अनेकाङ्गं च तत्रार्घ्यं योजयेदस्त्रसंस्कृतम् ।

{{११२}}

अर्घ्यद्रव्याणि

सिद्धार्थकास्तिलादूर्वास्सयवास्सिततण्डुलाः ॥ ६५ ॥

विश्वास-प्रस्तुतिः

तोयक्षीरफलोपेता इदमर्घ्यमुदाहृतम् ।
आप्याय्य मूलमन्त्रेण सुधासन्दोहमूर्तिना ॥ ६६ ॥

अर्घ्यस्य विनियोगः

विश्वास-प्रस्तुतिः

पात्रद्वयस्थितं तेन कृत्वा भागद्वयं मुने ।
एकस्मिन्निष्कलाधारे संस्थितं निष्कलात्मकम् ॥ ६७ ॥

मन्त्रचक्रं स्ववीर्येण प्रस्फुरत्तच्च विन्यसेत् ।
संस्थाप्य मण्डलाग्रे तु पूज्यं पुष्पादिना पुरा ॥ ६८ ॥

धारणाद्वितयेनैव अग्नीषोममयेन च ।
सम्यग्द्वितीयं संस्कुर्याद्यथावदवधारय ॥ ६९ ॥

प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत्पुरा ।
सञ्चिन्त्य भस्मभूतं तु ततः पूर्णेन्दुरश्मिभिः ॥ ७० ॥

आपूर्यामृतकल्लोलधारापातेन नारद ।
कान्तिमच्चिन्तयेद्भूयो यद्दग्धं भानुना तु वै ॥ ७१ ॥

मूलमन्त्रादिभिर्मुख्यैर्मन्त्रैस्तदभिमन्त्र्य च ।
बध्वाकामदुधां मुद्रां स्रवन्तीं मन्त्रसंयुताम् ॥ ७२ ॥

गोरूपां हिमशैलाभां निराधारपथस्थिताम् ।
गन्धदिग्धौ करौ कृत्वा अर्घ्यपात्रोद्धृतेन च ॥ ७३ ॥

मण्डलं मण्टपं प्रोक्ष्य यागद्रव्याण्यशेषतः ।
दाहयेदस्त्रमन्त्रेण मूलेन प्लावयेत्ततः ॥ ७४ ॥

निर्मलो द्रव्यसङ्घश्च यागयोग्यो भवेत्तदा ।
नमस्कृत्य ततो विष्णुं मूलमन्त्रं समुच्चरेत् ॥ ७५ ॥

द्वारपूजा

विश्वास-प्रस्तुतिः

स्वमूर्तिसंस्थितः पूज्यः पुष्पैरञ्जलिसंस्थितैः ।
अर्घ्यपात्रं समादाय पुष्पं धूपं विलेपनम् ॥ ७६ ॥

दीपनैवेद्यपर्यन्तं द्वारं बाह्यं ततो यजेत् ।

द्वारदेवतापूजा

उदुम्बरस्य मूले तु बहिर्द्वारस्य मध्यतः ॥ ७७ ॥

{{११३}}

विश्वास-प्रस्तुतिः

भूमिष्ठं क्षेत्रपालं च पूजयेत्तदनन्तरम् ।
द्वारोपरि स्थितां लक्ष्मीमूर्ध्वसंस्थं उदुम्बरे ॥ ७८ ॥

दक्षिणोत्तरशाखाभ्यां मूले चण्डप्रचण्डकौ ।
तद्वज्जयं च विजयं बाह्ये द्वारस्य चान्तरे ॥ ७९ ॥

शाखाद्वयस्य मध्ये तु वामदक्षिणतः क्रमात् ।
गङ्गां च यमुनां चैव पूजयेत्तदनन्तरम् ॥ ८० ॥

तेनैव क्रमयोगेन द्वारस्याभ्यन्तरस्थितौ ।
निधीशौ शङ्खपद्माख्यावर्घ्यपुष्पादिभिर्यजेत् ॥ ८१ ॥

यागमन्दिरप्रवेशविधिः

विश्वास-प्रस्तुतिः

कृत्वैव द्वारयागं तु ततः पुष्पं च सम्मुखम् ।
गृहीत्वाऽङ्गुष्ठपूर्वेण अङ्गुलीत्रितयेन तु ॥ ८२ ॥

अभिमन्त्र्य तदस्त्रेण चक्रं तदुपरि स्मरेत् ।
निशितारं ज्वलद्रूपं वर्षन्तमनलाशनिम् ॥ ८३ ॥

क्षयकृद्विघ्नजालानां क्षिपेद्यागगृहान्तरे ।
दक्षिणां तर्जनीं विप्र कुर्यादूर्ध्वमुखीं ततः ॥ ८४ ॥

शिखामन्त्रेण संयुक्तां विद्युद्विलसितप्रभाम् ।
स्मृत्वा भ्रामयमाणस्तां संविशेद्यागमन्दिरम् ॥ ८५ ॥

उपवेशन-शेष-भूतम् आसन-प्रोक्षणादि

विश्वास-प्रस्तुतिः

स्वासनं च ततः प्रोक्ष्य अर्घ्यपात्रोदकेन च ।
सास्त्रेण ताड्य पुष्पेण तत्पृष्ठे क्रमशो द्विज ॥ ८६ ॥

आधारशक्तिपूर्वं तु मन्त्रसङ्घं प्रपूजयेत् ।
उपविश्य ततः पश्चात्

पूजनाङ्ग-भूतावेक्षण-प्रोक्षण-विशेषौ

					हृदयस्थं च तत्परम् ॥ ८७ ॥  
विश्वास-प्रस्तुतिः

तेजो नारायणाख्यं तु तत्कुर्यान्नेत्रमध्यगम् ।
वासुदेवाभिधानं तु प्रागुक्तं च समाश्रयेत् ॥ ८८ ॥

निरीक्ष्य सकलं सम्यक्स्तब्धनेत्रयुगेन च ।
मण्डलञ्चार्घ्यपात्रं तु पुनः प्रोक्ष्य कुशाम्भसा ॥ ८९ ॥

आधार-शक्त्याद्यासन-कल्पन-तत्-पूजन-क्रमः

पूजनं प्रारभेत्पश्चात्सार्ध्यैः पुष्पैः क्रमेण तु ।
{{११४}}

आधारशक्तेरारभ्य अनुसन्धानपूर्वकम् ॥ ९० ॥

विश्वास-प्रस्तुतिः

युगावसानं प्राक् दत्वा स्थूलं मन्त्रासनासनम् ।
तत्रोर्ध्वे मध्यदेशेऽपि प्रागुक्तविधिना न्यसेत् ॥ ९१ ॥

द्विरष्टकं तु धर्माद्यं कान्तिमत्पररूपधृत् ।
तच्च षोडशकं न्यस्य भूयो भूयो दिगष्टके ॥ ९२ ॥

सूक्ष्मरूपधरं विप्र प्राक्पदादीशगोचरम् ।
पद्मादिवन्हिवेश्मान्तमेकैकस्मिन्न्यसेत्ततः ॥ ९३ ॥

तदेव गर्भदेशस्थं ह्यनुसन्धाय विन्यसेत् ।
भावासनावसानान्तं (नं तत् ?) मन्त्रैः स्वैस्स्वैरथार्चयेत् ॥ ९४ ॥

उपर्युपरि योगेन पुष्पधूपानुलेपनैः ।

चतुरस्रायतमण्डलकल्पनम्

युगावसाने पीठस्य पृष्ठे विधिसमीपतः ॥ ९५ ॥

विश्वास-प्रस्तुतिः

कल्पनाजनितं कुर्याच्चतुरस्रायतं ततः ।
मण्डलं देवदेवस्य दक्षिणे मण्डलोपरि ॥ ९६ ॥

वायव्यकोणादारभ्य यावदीशानगोचरम् ।

गणेशादिपूजनम्

तत्रादौ तु स्वमन्त्रेण गणेशं पूजयेत्द्विजः ॥ ९७ ॥

विश्वास-प्रस्तुतिः

ततो वागीश्वरीं देवीं तदन्ते गरुडं यजेत् ।
पूजयेच्च ततो भक्त्या गुरुं परमसञ्ज्ञितत् ॥ ९८ ॥

परमेष्ठी ततः पूज्यस्ततः पितृगणं यजेत् ।
आदिसिद्धसमूहं च भगवद्ध्यानतत्परम् ॥ ९९ ॥

अनुज्ञां प्रार्थयेत्तेभ्यो यथानुक्रममेव च ।

हृदयकमलाद्भगवत आवाहन पूजनप्रकारः

गृहीत्वा शिरसा तां च तत आवाहयेत्प्रभुम् ॥ १०० ॥

विश्वास-प्रस्तुतिः

आवाह्य मन्त्रेण मुने मुद्रायुक्तेन भक्तितः ।
प्रोच्चार्य मूलमन्त्रं तु हृदयस्थं च सर्वगम् ॥ १०१ ॥

अवतार्य क्रमेणैव रेचकेन शनैश्शनैः ।
नाडीभ्यां सन्धिदेशेन नीरूपेणामलेन च ॥ १०२ ॥

कल्पनारहितेनैव चिद्भावाभासितेन च ।
सर्वगस्य ततो विप्र सार्घ्यं पुष्पाञ्जलिं विभोः ॥ १०३ ॥

{{११५}}

विश्वास-प्रस्तुतिः

निक्षिप्याथोमुखेनैव पाणियुग्मेन मूर्धनि ।
लययागोक्तविधिना पूजयेत्प्रथमं ततः ॥ १०४ ॥

पुष्पार्घ्यलेपनैर्धूपैर्मूलमन्त्रादिभिः क्रमात् ।

लक्ष्म्यादीनां ध्यानपूर्वको न्यासक्रमः

ततो भगवतो विष्णोर्भासा भास्वरविग्रहात् ॥ १०५ ॥

विश्वास-प्रस्तुतिः

लक्ष्म्यादीर्निस्सृता ध्यायेत्स्फुलिङ्गनिचया यथा ।
भोगस्थाने यथायोगमेकैकं विन्यसेत्ततः ॥ १०६ ॥

मण्डले मन्त्रन्यासक्रमः

विश्वास-प्रस्तुतिः

मण्डलोपरि मन्त्रं च यथा तदवधारय ।
ऊर्ध्वतः पद्ममध्ये तु यथा भूतं तथा न्यसेत् ॥ १०७ ॥

मूलमन्त्रं द्विजश्रेष्ठ मूर्तियुक्तं तु पूर्ववत् ।
तदग्रसंस्थिते पद्मे लक्ष्मीं वै कर्णिकान्तरे ॥ १०८ ॥

कीर्ति दक्षिणभागस्थे पृष्ठगे तु जयां न्यसेत् ।
मायां चोत्तरपद्मे तु कर्णिकान्तेऽथ विन्यसेत् ॥ १०९ ॥

आग्नेये हृदयं मध्ये शिरस्त्वीशानपङ्कजे ।
शिखां राक्षसदिङ्मध्ये कवचं वायुगोचरे ॥ ११० ॥

अथ मध्यस्थिते पद्मे देवस्य पुरतो दले ।
नेत्रमन्त्रं विन्यसेत्तु विदिक्पत्रेषु चास्त्रराट् ॥ १११ ॥

अत्रैव नारसिह्माख्यं(द्यं ?) वराहान्तत्रयं क्रमात् ।
दिक्षु पत्रत्रयं(ये ?) विष्णोर्याम्ये प्रत्यक्तथोत्तरे ॥ ११२ ॥

लक्ष्मीकमलयन्त्रा(पत्रा ?)णां सर्वेषां कौस्तुभं न्यसेत् ।
तद्वद्धृत्पङ्कजीयानां वनमालां निवेश्य च ॥ ११३ ॥

कीर्तिपङ्कजपत्राणां पद्ममाहूय विन्यसेत् ।
शङ्खं शिखाब्जपत्राणां जयाब्जे चक्रमेव च ॥ ११४ ॥

ततस्तु तत्र पद्मे तु पत्रस्थां विन्यसेद्गदाम् ।
मायाम्बुजच्छदे विप्र न्यसेत्पाशं ततो द्विज ॥ ११५ ॥

शीर्षाधारे तु वै पद्मे पत्राणामङ्कुशं ततः ।
न्यसेद्द्वारचतुष्के तु समाहूय खगेश्वरम् ॥ ११६ ॥

{{११६}}

विश्वास-प्रस्तुतिः

कर्णिकायां न्यसेत्सत्यं हृन्मन्त्रस्य ततो(थो ?)परि ।
आश्रित्य दक्षिणं भागमथ ब्रह्माम्बुजोपरि ॥ ११७ ॥

मूर्तं मूर्तव्यपेक्षायां न्यस्तं मन्त्रेषु नारद ।
शिरस्यूर्ध्वे तु विन्यस्य वासुदेवं तथैव च ॥ ११८ ॥

शिखायामुपरि न्यासं कुर्यात्सङ्कर्षणस्य तु ।
अथोर्ध्वे कर्णिकायास्तु प्रद्युम्नं कवचोपरि ॥ ११९ ॥

लक्ष्म्यादिष्वनिरुद्धं च आधेयत्वेन चोपरि ।
ततस्सप्ताक्षरं मन्त्रं मूलमन्त्रोपरि न्यसेत् ॥ १२० ॥

प्राच्यादावीशपर्यन्तमिन्द्राद्यं चाष्टकं बहिः ।
नागेशं विन्यसेच्छेषमधःस्थमथ चोर्ध्वगम् ॥ १२१ ॥

ब्रह्माणं च सुरेशानमेवं लोकेशसन्ततिम् ।
न्यसेत्तदनु चास्त्राणि बहिस्तेषां तु विन्यसेत् ॥ १२२ ॥

पूर्वादिक्रमयोगेन यावदीशानगोचरम् ।
अधो नागेश्वरास्त्रं च ब्रह्मास्त्रमुपरि न्यसेत् ॥ १२३ ॥

त्र्यम्बकोत्तरदिग्भ्यां तु मध्यतः खस्थितं स्मरेत् ।
विष्वक्सेनं द्विजश्रेष्ठ आयान्तं गगनान्तरात् ॥ १२४ ॥

एवं न्यासं पुरा कृत्वा मन्त्राणां मण्डलान्तरे ।

अथ मन्त्राणां यथान्यासं ध्यानविधिः

ततस्सञ्चिन्तयेद्ध्यानमेकैकस्य यथास्थितम् ॥ १२५ ॥

विश्वास-प्रस्तुतिः

मूलमन्त्रस्य देवा(वी ?)नां पुरा प्रोक्तं मया मुने ।
नोक्तं यद्धृदयादीनां तदेकाग्रमनाः शृणु ॥ १२६ ॥

हृदयमन्त्रध्यानप्रकारः

विश्वास-प्रस्तुतिः

सितशोणितवर्णाभमेकवक्त्रं चतुर्भुजम् ।
गरुडासनसंस्थं च पद्मशङ्खकरान्वितम् ॥ १२७ ॥

मुद्रालङ्कृतिमत् ध्यायेद्दक्षिणं चापरं करम् ।
वामपाणिं द्वितीयं च संयुक्तमभयेन तु ॥ १२८ ॥

सिताभरणमाल्यैश्च कर्पूरालिप्तविग्रहम् ।
सम्मुखं देवदेवस्य हृन्मन्त्रं संस्मरेत्सदा ॥ १२९ ॥

{{११७}}

[शिरोमन्त्रध्यान प्रकारः]

विश्वास-प्रस्तुतिः

बन्धुजीवोपमं रक्तं पद्मचक्रोद्यतन्द्विज ।
स्वमुद्रासंयुतं ध्यायेत्पाणिना वरदेन च ॥ १३० ॥

कुङ्कुमेन विलिप्ताङ्गं रक्तभासं मनोहरम् ।
रक्ताभरणसंयुक्तं रक्तपुष्पविभूषितम् ॥ १३१ ॥

सम्मुखं मन्त्रनाथस्य शिरोमन्त्रं च संस्मरेत् ।

शिखामन्त्रध्यानप्रकारः

चलालिपटलाभं तु पद्मकौमोदकीधरम् ॥ १३२ ॥

विश्वास-प्रस्तुतिः

आत्मीयमुद्रां धर्त्तारं युक्तं चाभयपाणिना ।
युक्तं मृगमदेनैव पुष्पाद्यैरसितैश्च तम् ॥ १३३ ॥

ईषत्स्मिताननं ध्यायेच्छिखामन्त्रं च नारद ।

कवचमन्त्रध्यानप्रकारः

मधुपिङ्गलवर्णाभं शङ्खचक्रधरं तथा ॥ १३४ ॥

विश्वास-प्रस्तुतिः

स्वमुद्राव्यग्रितं ध्यायेत्पाणियुग्मयुतो(तम्) परम् ।
मिश्रैर्विलेपनैर्लिप्तं मिश्रैः पुष्पादिभिस्तथा ॥ १३५ ॥

निरीक्ष्य(क्ष ?)माणं च विभोः कवचं संस्मरेद्द्विज ।

नेत्रमन्त्रध्यानप्रकारः

रक्तपीतप्रभं चैव गदापद्मोद्यतं क्रमात् ॥ १३६ ॥

विश्वास-प्रस्तुतिः

दक्षिणापरहस्ताभ्यां युक्तं चैव स्वमुद्रया ।
सकाश्मीरेण लिप्ताङ्गं चन्दनेन सितेन च ॥ १३७ ॥

पुष्पाभरणवासोभिः पीतैर्मण्डितविग्रहम् ।
संस्मरेन्नेत्रमन्त्रं तु सुनेत्रं च स्मिताननम् ॥ १३८ ॥

अस्त्रमन्त्रध्यानप्रकारः

विश्वास-प्रस्तुतिः

राजोपलद्युतिमुषं गदाचक्रोद्यतं महत् ।
युक्तं चैव स्वमुद्राभ्यां सुवर्णसदृशैः शुभैः ॥ १३९ ॥

युक्तमाभरणाद्यैश्च प्रलयानलविक्रमम् ।
अस्त्रमन्त्रं विभोर्ध्यायेत्सम्मुखं स्वामिनः सदा ॥ १४० ॥

एकवक्त्राः स्मृताः सर्वे सर्वे च गरुडासनाः ।
इतीदमुक्तमङ्गानां ध्यानं पापहरं शुभम् ॥ १४१ ॥

{{११८}}

नृसिंहपूर्वमन्त्राणां त्रयाणामवधारय ।

नृसिह्ममन्त्रध्यानप्रकारः

प्रलयाम्बुदनिर्घोषं प्रोद्वमन्तं च पावकम् ॥ १४२ ॥

विश्वास-प्रस्तुतिः

पद्मशङ्खगदाचक्रधर्त्तारं परमेश्वरम् ।
द्रवच्चामीकराभासं नानाभरणभूषितम् ॥ १४३ ॥

नानाविलेपनाङ्गं च प्रभूतस्रग्धरं द्विज ।
रक्तकौशेयवसनं नृसिह्मं संस्मरेद्विभुम् ॥ १४४ ॥

कपिलमन्त्रध्यानप्रकारः

विश्वास-प्रस्तुतिः

उदयादित्यसङ्काशं पिङ्गलश्मश्रुलोचनम् ।
चतुर्भुजमुदाराङ्गं पद्माद्यैरुपशोभितम् ॥ १४५ ॥

सितवस्त्रोत्तरीयं च मुक्ताभरणभूषितम् ।
सितमाल्यधरं ध्यायेत्कापिलं मन्त्रनायकम् ॥ १४६ ॥

वाराहध्यानप्रकारः

विश्वास-प्रस्तुतिः

राजाश्मराशिवर्णाभं पीताभरणभूषितम् ।
महाद्युतिधरं ध्यायेच्चतुर्हस्तं च नारद ॥ १४७ ॥

प्राग्वल्लाञ्छनसङ्घेन कमलाद्येन मण्डितम् ।
वराहमन्त्रनाथं च मधुपिङ्गललोचनम् ॥ १४८ ॥

चलद्विद्युद्भ्रुवं रौद्रं ज्वालाश्मस्रुसटं स्मरेत् ।
बालचन्द्राग्रतुल्येन युक्तं दंष्ट्राद्वयेन तु ॥ १४९ ॥

पद्मासनोपविष्टाश्च चिन्तयन्तः स्वकारणम् ।
सम्मुखाः कर्णिकाधःस्थाः स्मर्तव्याः सर्वदा मुने ॥ १५० ॥

कौस्तुभादिध्यानप्रकारः

विश्वास-प्रस्तुतिः

कौस्तुभं द्विभुजं ध्यायेत्सहस्रार्कसमप्रभम् ।
नानावर्णधरां देवीं वनमालां तथैव च ॥ १५१ ॥

कान्तां कमलपत्राक्षीं प्रौढस्त्रीसदृशीं द्विज ।
पुण्डरीकप्रभं पद्मं शङ्खं कुन्देन्दुसन्निभम् ॥ १५२ ॥

राजोपलप्रभं चक्रं हेमाभां संस्मरेद्गदाम् ।
द्विरष्टवर्षवत्कान्तां कुमारीं नवयुवनाम् ॥ १५३ ॥

गरुडध्यानप्रकारः

रक्ततुण्डं महाप्राणं भीमभुकुटिलोचनम् ।
{{११९}}

द्रवच्चामीकराकारं पक्षमण्डलमण्डितम् ॥ १५४ ॥

संस्मरेद्गरुडं विप्र गृध्रवक्त्रं पृथूदरम् ।

पाशाङ्कुशयोर्ध्यानप्रकारः

नवदूर्वाङ्कुरश्यामं पाशेशं पन्नगाननम् ॥ १५५ ॥

विश्वास-प्रस्तुतिः

संस्मरेदङ्कुशं कृष्णं दीर्घनासं भयानकम् ।
स्वमुद्रालङ्कृताः सर्वे द्विभुजाश्चारुकुण्डलाः ॥ १५६ ॥

ध्यातव्याः पुरुषाकाराः स्वप्रभाभिर्विराजिताः ।
एतल्लाञ्छनमन्त्राणां ध्यानमुक्तं मया मुने ॥ १५७ ॥

सत्यादिपञ्चकध्यानप्रकाराः

विश्वास-प्रस्तुतिः

सत्यादीनामथ ध्यानं समासादवधारय ।
द्विभुजं संस्मरेत्सत्यं सितमिन्दुशताकृतिम् ॥ १५८ ॥

वरदाभयहस्तं च ध्यानोन्मीलितलोचनम् ।
सितकौशेयवसनं मुक्तादामाद्यलतङ्कृम् ॥ १५९ ॥

सितचन्दनलिप्ताङ्गं सितपुष्पविभूषितम् ।
ऊर्ध्वस्थं मन्त्रनाथस्य ब्रह्मपु(प ?)त्रस्थितं स्मरेत् ॥ १६० ॥

पद्मासनेनोपविष्टं प्रसन्नवदनं द्विज ।
एवं विधं ततो ध्यायेद्वासुदेवं चतुर्भुजम् ॥ १६१ ॥

शङ्खपद्मधरं चैव वरदाभयदं विभुम् ।
प्रशान्तहुतभुग्रूपं न सितं नातिचारुणम् ॥ १६२ ॥

ध्यायेत्सङ्कर्षणं देवं प्रद्युम्नं संस्मरेत्ततः ।
पीतचम्पकवर्णाभं कमलायतलोचनम् ॥ १६३ ॥

शरद्गगनसङ्काशमनिरुद्धं स्मरेत्ततः ।
वासुदेवसमाः सर्वे भुजाभरणलाञ्छनैः ॥ १६४ ॥

उपविष्टास्तथैवेते ब्रह्मरन्ध्राम्बुजेषु च ।

सप्ताक्षरमन्त्रध्यानप्रकारः

सुशुद्धस्फटिकप्रख्यं नीरूपमिव (मपि ?)रूपिणम् ॥ १६५ ॥

विश्वास-प्रस्तुतिः

सर्वाकारधरं चैव सर्वाकारविवर्जितम् ।
सर्वतः पाणिपादं च सर्वतोऽक्षिशिरोमुखम् ॥ १६६ ॥

प्रसन्नरश्मिजालेन स्फटिकामलरूपिणा ।
{{१२०}}

स्वदेहनिस्सृतेनैव भासितं परितः प्रभुम् ॥ १६७ ॥

विश्वास-प्रस्तुतिः

प्रतिबिम्बति वै यस्मिन्मन्त्रचक्रं यथास्थितम् ।
ध्यायेत्सप्ताक्षरं मन्त्रं भोगस्थानगतं मुने ॥ १६८ ॥

एवं ध्यात्वा समभ्यर्च्य यथान्यासक्रमेण च ।

ध्यानानानन्तरं न्यासक्रमेण मन्त्रगणस्य बाह्ययागप्रकारः

अर्घैः पाद्यैस्तथा पुष्पैः सुगन्धैरनुलेपनैः ॥ १६९ ॥

विश्वास-प्रस्तुतिः

शालिपूर्णोत्थिताघारपृष्ठसंस्थैरनेकशः ।
सुगन्धघृतदीपैश्च पुष्पालम्बनचर्चितैः ॥ १७० ॥

महामोदैश्शुभोद्दिपैरच्छिन्नैर्गुग्गुलान्वितैः ।
भक्ष्यैर्भोज्यैस्तथा लेह्यैः पेयैरन्यैरनेकधा ॥ १७१ ॥

मधुपर्कैश्च मात्राभिः फलमूलैरनेकशः ।
पायसैर्विविधैर्दिव्यैः मोदकैः कृसरादिभिः ॥ १७२ ॥

सुसंस्कृतैश्च बहुभिर्मध्वाज्यादिपरिप्लुतैः ।
एकैकस्मिंस्तु वै भोगे मुद्रां कामदुघां पुरा ॥ १७३ ॥

समन्त्रां पूर्ववद्ध्यायेत्प्रोक्षयेर्दर्घ्यवारिणा ।
दत्वा पुष्पार्घ्यमुपरि संस्पृशेद्विष्णुपाणिना ॥ १७४ ॥

निवेदयेत्ततो विप्र शिरसाऽवनतेन च ।
यत्किञ्चन्मानसे यागे पुरा प्रोक्तं मया च ते ॥ १७५ ॥

तत्सर्वं देवदेवस्य बहुमूर्तं निवेदयेत् ।
असन्निधिश्च यो भोगो ह्यङ्गभावमनुव्रजेत् ॥ १७६ ॥

तत्तद्ध्यात्वा तु मनसा भक्त्या विष्णोर्निवेदयेत् ।
यथानुक्रमतो ह्येवं सर्वमन्त्रगणं मुने ॥ १७७ ॥

इष्ट्वा पूर्वं विधानेन भूयः सम्पूज्य केशवम् ।

पुष्पाञ्जलिप्रकारः

मूलमन्त्रं समुच्चार्य पुष्पैरापूर्य चाञ्जलिम् ॥ १७८ ॥

विश्वास-प्रस्तुतिः

तन्मध्ये परमात्मानं मन्त्रं माणिक्यदीधितिम् ।
समस्तमन्त्रसंलीनं ध्यायेदुद्धारयोगतः ॥ १७९ ॥

पूरकादिविभागेन शब्देनातिप्लुतात्मना ।
यावच्छब्दावसानस्थो व्यज्यतेऽसावनेकधा ॥ १८० ॥

{{१२१}}

विश्वास-प्रस्तुतिः

तन्त्रीशब्दात्मना विप्र ततो भासात्मना तु वै ।
ह्लादात्मना च तदनु आनन्दविभवात्मना ॥ १८१ ॥

तस्मात्सर्वपदातीतः सर्वत्र विभवात्मना ।
सच्चिद्घनोर्मिनिर्मुक्तशान्तबोधान्तरात्मना ॥ १८२ ॥

एवं षडूर्मिनिर्मुक्तं विकल्पातीतगोचरम् ।
अवगाह्य क्रमेणाथ पुनरेत्य पदात्पदम् ॥ १८३ ॥

ध्यात्वा मन्त्रं सहस्त्रांशुं सहस्रकरजामृतम् ।
रेचकेन विनिक्षिप्य देवदेवस्य मूर्धनि ॥ १८४ ॥

ततोऽछिन्नं करे कृत्वा धूपपात्रं तु दक्षिणे ।

धूपपात्रविधिः

पद्मचक्राङ्कितं दिव्यमाधारं कञ्जरूपिणम् ॥ १८५ ॥

विश्वास-प्रस्तुतिः

एकनालं च कर्तव्यं (कुर्वीत ?) शेषं सप्तफणं विभुम् ।
बद्धाञ्जलिपुटं नित्यं ध्यायन्तं कारणं परम् ॥ १८६ ॥

चक्रलाङ्गलहस्तं च पद्मासनगतं विभुम् ।
कर्तव्यं (कुर्वीत ?) धूपघर्त्तारं किङ्किणीजालशोभितम् ॥ १८७ ॥

चक्रं तच्चक्रहृदयं पद्मं हृत्कोटरं विदुः ।
चक्रे या या (ये ये ?) अराख्या (स्स्यु ?)स्ता नाड्यो वै द्वादश स्मृताः ॥

१८८ ॥
विश्वास-प्रस्तुतिः

किङ्किण्यो याः स्मृता विप्र ज्ञेयास्ताः सूक्ष्मनाडयः ।
यासां वै मध्यमा शक्तिर्भुजङ्गकुटिलोपमा ॥ १८९ ॥

धूमधूसरवर्णाभा अण्डं भित्वा विनिर्गता ।
कालाग्निहृदयोत्था सा सत्यान्ते तु लयं गता ॥ १९० ॥

तया सम्बोधितो ह्यात्मा मन्त्रमूर्तिधरः प्रभुः ।
सन्निधौ भवति, क्षिप्रमव्युच्छिन्नं दहेत्तथा ॥ १९१ ॥

धूपपात्रमन्त्रविधानम्

विश्वास-प्रस्तुतिः

मन्त्रेणानेन विप्रर्षे तन्मन्त्रमवधारय ।
ओङ्कारं पूर्वमुद्धृत्य परमात्मा ततः पुनः ॥ १९२ ॥

व्योमानन्देन संयुक्तमनन्ताय पदं ततः ।
कालाग्निरूपाय पदं जगद्धूमपदं तथा ॥ १९३ ॥

सुगन्धिने पदं कुर्यात्सर्वगन्धवहाय च ।
{{१२२}}

नमः स्वाहासमायुक्तमेकत्रिंशाक्षरं परम् ॥ १९४ ॥

विश्वास-प्रस्तुतिः

मन्त्रं द्विज समाख्यातं धूपपात्रस्य नारद ।
मुद्राध्यानसमायुक्तं (क्तां ?) सर्वसिद्धिकरं (रीं ?) परम् (राम्
?) ॥ १९५ ॥

पूजितां धूपितां लिप्तां मन्त्रविन्यस्तविग्रहाम् ।
एकीकृत्य स्वशब्देन हृद्गतेनान्तरात्मना ॥ १९६ ॥

घण्टाचालनविधानम्

विश्वास-प्रस्तुतिः

सञ्चालयेत्ततस्सम्यक्सशब्दां चक्रचिन्हिताम् ।
त्रैलोक्यद्राविणीं घण्टां सर्वदुष्टनिबर्हिणीम् ॥ १९७ ॥

एषा दूती हि मन्त्राणां सुप्तानां च प्रबोधिनी ।
वारणी सर्वविघ्नानां सर्वमन्त्रप्रसादिनी ॥ १९८ ॥

प्रणवान्ते ध्वनिर्ह्येष शब्दशक्तौ लयं गतः ।
वर्णदेहाः स्मृता मन्त्रा मन्त्रदेहाश्च देवताः ॥ १९९ ॥

घण्टास्तनितमूलास्ते प्रबुद्धाः कर्मसिद्धिदाः ।
परशब्दोत्थिता शक्तिर्घण्टास्तनितरूपिणी ॥ २०० ॥

वर्णत्वं समनुप्राप्ता तैर्वर्णैर्मुनिसत्तम ।
मन्त्राणां कल्पनादेहा नानाकाराः सहस्रशः ॥ २०१ ॥

स्वेच्छया त्वनया शक्त्या सामर्थ्यात्स्वात्मनस्स्वयम् ।
अनुग्रहार्थमिह हि भक्तानां भावितात्मनाम् ॥ २०२ ॥

मननान्मुनिशार्दूल त्राणं कुर्वन्ति वै ततः ।
ददते पदमात्मीयं तस्मान्मन्त्राः प्रकीर्तिताः ॥ २०३ ॥

अनभिव्यक्तशब्दास्ते निराकारास्तथैव च ।
घण्टायां चाल्यमानायां निर्यान्ति च सहस्रशः ॥ २०४ ॥

अत एव मुनिश्रेष्ठ मन्त्रमाता प्रकीर्तिता ।
एषा घण्टाभिधा शक्तिर्वागीशी च सरस्वती ॥ २०५ ॥

वाचि मन्त्राः स्थितास्सर्वे वाच्या मन्त्रे प्रतिष्ठिताः ।
मन्त्ररूपात्मकं विश्वं स बाह्याभ्यन्तरं ततः ॥ २०६ ॥

घण्टाशब्दगतं सर्वं तस्मात्तां चालयेत्पुरा ।
आवाहनेऽर्घ्ये धूपे च दीपे नैवेद्यजोषणे ॥ २०७ ॥

नित्यमेव प्रयुञ्जीत सम्यङ्मन्त्रार्थसिद्धये ।
{{१२३}}

पूजाकालं विनाऽन्यत्र हितं नास्याः प्रचालनम् ॥ २०८ ॥

विश्वास-प्रस्तुतिः

नानया तु विना कार्यं पूजनं सिद्धिमिच्छता ।
यस्मात्तस्मात्परं मन्त्रमेतदीयमिदं शृणु ॥ २०९ ॥

घण्टामन्त्रनिरूपणम्

विश्वास-प्रस्तुतिः

आदाय प्रणवं पूर्वमनन्तेशं ततः परम् ।
तच्चानलेन सम्भिन्नमूर्ध्वाधो मुनिसत्तम ॥ २१० ॥

त्रैलोक्यैश्वर्यदेनाथ लाञ्छयेत्पञ्चबिन्दुना ।
दद्यादस्यावसाने तु जगद्ध्वनिपदं ततः ॥ २११ ॥

मन्त्रमात्रे पदं चान्यत्स्वाहाक्षरसमन्वितम् ।
तदन्ते परमात्मानं प्रज्ञाधारोपरि स्थितम् ॥ २१२ ॥

भूधरेण युतं मूर्ध्ना भूधरोपरि विन्यसेत् ।
विश्वाप्यायकरान्तस्थं त्रैलोक्यैश्वर्यदं मुने ॥ २१३ ॥

त्रयोदशाक्षरो मन्त्रो घण्टाख्यस्सर्वसिद्धिकृत् ।
विन्यासकाले यस्या वै प्लुतमुच्चारयेत्ततः ॥ २१४ ॥

घण्टाध्यानप्रकारः

विश्वास-प्रस्तुतिः

ध्यानयुक्तं द्विजश्रेष्ठ तद्ध्यानमवधारय ।
अधोमुखं तु ब्रह्माण्डं ध्यायेज्जनरवाकुलम् ॥ २१५ ॥

सनालं च तदूर्ध्वे तु पद्ममष्टदलं तथा ।
प्रकीर्णपत्रं सुसितं (त ?) केसरालं (लिं ?) सुकर्णिकम् ॥ २१६ ॥

तन्मध्ये चिन्तयेद्देवीं वर्गाष्टक भुजान्विताम् ।
मुख्यहस्तचतुष्के तु लाञ्छनं कमलादिकम् ॥ २१७ ॥

कमलं च ततः शङ्खं पाशं चैवाङ्कुशं क्रमात् ।
स्फटिकं चाक्षसूत्रं च तथा विज्ञानपुस्तकम् ॥ २१८ ॥

अभयं वरदं चैव हस्तद्विद्वितये परे ।
पद्मासने चोपविष्ठां पद्मपत्रायतेक्षणाम् ॥ २१९ ॥

पद्मगर्भप्रतीकाशां पद्ममालाविभूषिताम् ।
विद्याभरणसञ्छन्नां पीतवस्त्रविवेष्टिताम् ॥ २२० ॥

दर्शयेद्देवदेवस्य मुद्रां नारायणात्मनः ।

लक्ष्म्यादिमन्त्राणामभ्यर्चनम्

लक्ष्म्यादीनां ततो भक्त्या मन्त्राणां च महामुने ॥ २२१ ॥

{{१२४}}

भूयोऽर्घ्यपुष्पगन्धेन धूपान्तेन समर्चयेत् ।

अथ स्तुतिः

ततः स्तुवीत देवेशं स्तोत्रेणानेन नारद ॥ २२२ ॥

विश्वास-प्रस्तुतिः

सम्यक्प्रणवपूर्वेण नमोऽन्तेन तु वै त्रिधा ।
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥ २२३ ॥

नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ।

मधुपर्कादिसमर्पणप्रकारः

जपन्वै दधिसम्पूर्णं मधुना सर्पिषाऽन्वितम् ॥ २२४ ॥

विश्वास-प्रस्तुतिः

पात्रं करतले कृत्वा तन्मध्यस्थं प्रभुं स्मरेत् ।
मूलमन्त्रेण तद्वस्तु स्वरूपादुदितेन च ॥ २२५ ॥

लसत्पीयूषकल्लोलसत्तरङ्गेण नारद ।
तन्निवेद्य पुनर्भक्त्या भूयः पुष्पाञ्जलिं क्षिपेत् ॥ २२६ ॥

ततो निवेदयेद्विष्णोर्हिरण्यकटकादिकम् ।
अनन्तरं निमित्तार्थं ताम्बूलं तदनन्तरम् ॥ २२७ ॥

प्रक्षाल्य गन्धतोयेन अर्घ्यपात्रोद्धृतेन वै ।
पाणियुग्मं यथा वै स्यात्सार्धमत्यन्तनिर्मलम् ॥ २२८ ॥

नैवेद्यधूपपात्राद्यैः पात्रैश्च निर्मलीकृतम् ।
कृत्वा तद्गन्धदिग्धौ तौ अर्घ्येणार्च्य परस्परम् ॥ २२९ ॥

तन्निवेद्य विभोः पश्चाद्वाक्कर्ममनसाऽन्वितः ।

बाह्ययागपरिसमापनक्रमः

पुण्डरीकाक्ष विश्वात्मन्मन्त्रमूर्ते जनार्दन ॥ २३० ॥

विश्वास-प्रस्तुतिः

गृहाणेदं जगन्नाथ मम दीनस्य शाश्वत ।
इत्युक्त्वा सोदकं पुष्पं कृत्वा दक्षिणपाणिगम् ॥ २३१ ॥

अग्रतो निक्षिपेद्विष्णोर्मूलमन्त्रेण नारद ।
भावयेच्च ततस्सम्यक्स्फुरन्तीं तारकावलीम् ॥ २३२ ॥

प्रविष्टां भवगद्वक्रे वक्रान्ताद्धृद्गतां पुनः ।
हृदयाद्द्विजशार्दूल संहाराख्यक्रमेण तु ॥ २३३ ॥

पूर्ववद्ब्रह्मरन्ध्रेण परेण सह योजयेत् ।
भगवन्तं ततो नत्त्वा अष्टाङ्गेन तु भक्तितः ॥ २३४ ॥

{{१२५}}

विश्वास-प्रस्तुतिः

समुत्थायासनात्तस्मिन्नर्घ्यपुष्पे विनिक्षिपेत् ।
यस्मात्तत्क्षणमन्त्रं(?) तु न शून्यं सम्परित्यजेत् ॥ २३५ ॥

अज्ञानात्ज्ञानतो वाऽपि यातमूनाधिकं च यत् ।
दासस्य मम दीनस्य क्षन्तव्यं लोकलोचन ॥ २३६ ॥

इति श्रीपाञ्चरात्रे जयाख्यंसहितायां बाह्ययागाख्यानं नाम
त्रयोदशः पटलः ॥ १३ ॥