अथ मानसयागाख्यानं नाम द्वादशः पटलः
श्रीभगवान्
विश्वास-प्रस्तुतिः
एवं विष्णुमयो भूत्वा स्वात्मना साधकः पुरा ।
मानसेन तु यागेन ततो विष्णुं समर्चयेत् ॥ १ ॥
मूलम्

[मानसयागोपक्रमे अवयवविभागशः स्थानभेदेन
आधारशक्त्यादिपद्मान्तानां षण्णां कल्पनाप्रकारः]
विश्वास-प्रस्तुतिः
नाभिमेढ्रान्तरे ध्यायेच्छक्तिं चाधाररूपिणीम् ।
कालाग्निं च तदूर्ध्वे तु अनन्तं तस्य चोपरि ॥ २ ॥

तदूर्ध्वे वसुधां देवीं चतुर्भिः पूरितां स्मरन् ।
कन्दान्नाभ्यवसानाच्च चतुर्द्धा भाजितैः पदैः ॥ ३ ॥

नाभौ क्षीरार्णवं ध्यात्वा ततः पद्मं समुत्थितम् ।
सहस्रदलपर्यन्तं सहस्रकिरणावृतम् ॥ ४ ॥

पद्मस्योपरिपीठकल्पनम्
सहस्ररश्मिसङ्काशं तत्पृष्ठे चासनं न्यसेत् ।
तस्य पीठस्य धर्मादिषोडशपादपरिकल्पनाप्रकारः
विश्वास-प्रस्तुतिः
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुर्थकम् ॥ ५ ॥

अवतार्य स्वमन्त्रेण आग्नेयादिचतुष्टये ।
चतुष्कमेतद्विन्यस्य यावदीशानगोचरम् ॥ ६ ॥

पीठपादचतुष्के तु सितास्सिह्मानना अमी ।
शरीरात्पुरुषाकाराः परोत्साहसमन्विताः ॥ ७ ॥

तत्पूर्वदिग्विभागादि यावदुत्तरगोचरम् ।
न्यस्याधर्मं तथाऽज्ञानमवैराग्यमनैश्वरम् ॥ ८ ॥

पुरुषाकृतयस्त्वेते बन्धूककुसुमोज्वलाः ।
प्रागीशानदिगन्ते तु प्रागाग्नेयदिगन्तरे ॥ ९ ॥

यातुवारुणमध्ये तु वायव्यवरुणान्तरे ।
ऋग्वेदाद्यं चतुष्कं तु पीतं हयनराकृतिम् ॥ १० ॥

ईशानसोमदिग्मध्ये अन्तकाग्निदिगन्तरे ।
याम्यराक्षसमध्ये तु सौम्यसामीरणान्तरे ॥ ११ ॥

कृताद्यं युगसङ्घं च कृष्णं वृषनराकृतिम् ।
सर्वे चतुर्भुजास्त्वेते द्वाभ्यां सन्धारयन्ति च ॥ १२ ॥

{{९८}}
पीठमञ्जलिना द्वाभ्यां प्रणमन्ति जगत्प्रभुम् ।
[धर्मादिपीठस्योपरि अवयवविभागशः स्थानभेदेन
सितकमलसूर्येन्द्वग्निपक्षिराजान्तासनपञ्चकस्योपर्युपरि
परिकल्पनप्रकारः]
एषामुपरि विन्यस्य सितपद्मादितस्त्रयम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
प्रागुक्तैस्स्वोदितैर्मन्त्रैरुपर्युपरि नारद ।
तत्पृष्ठे पक्षिराजं च वराहं तूभयं न्यसेत् ॥ १४ ॥

आनाभि हृदयान्तं च पञ्चधा सुसमैः पदैः ।
विकल्प्य भावयेद्व्याप्तिमस्य मन्त्रासनस्य च ॥ १५ ॥

[आधारशक्तिप्रभृति पक्षिराजान्तेष्वेकादशपदेषु
भूतपञ्चकप्रभृतीश्वरपर्यन्तानां तत्त्वानां क्रमाद्व्याप्तिः]
विश्वास-प्रस्तुतिः
आधारशक्तेरारभ्य यावन्मान्त्रं परं पदम् ।
भूतान्याधाराशक्तौ तु तन्मात्राः कालपावके ॥ १६ ॥

वागादिकं तथैवाक्षमनन्तं व्याप्य संस्थितम् ।
श्रोत्रादिकं धरण्यां च मनः क्षीरार्णवे द्विज ॥ १७ ॥

अनन्तदलपद्मे तु अहङ्कारस्समाश्रितः ।
द्विरष्टकं च धर्माद्यमधिष्ठाय च धीस्स्थिता ॥ १८ ॥

तदूर्ध्वपद्मे प्रकृतिर्गुणसाम्याऽविभागिनी ।
धामत्रयाश्रितः कालो भावाख्ये पुरुषः स्थितः ॥ १९ ॥

गरुडश्चेश्वरेणैव प्रभुत्वेन त्वधिष्ठितः ।
एकादशपदं ह्येवं मन्त्रमूर्तौ जनार्दने ॥ २० ॥

आसीनं च शरीरस्थमविभक्तं विभक्तिमत् ।
विष्णोर्ध्यानोपक्रमः
विष्णुं विश्वात्मकं देवमीश्वराधारविग्रहम् ॥ २१ ॥
स्वस्थानाच्च समायान्तं प्राक्प्रवाहेण भावयेत् ।
प्रथमं मन्त्रात्परतरस्वरूपस्य भावनम्
मरीचिचक्रपर्यन्तं मन्त्रात्परतरस्थितिम् ॥ २२ ॥
परसूक्ष्मविभागेन ततो मन्त्रात्मना स्मरेत् ।
परसूक्ष्मोभयात्मनाऽवस्थितस्य मन्त्रात्मस्वरूपस्य भावनम्
परं ज्योतिर्मयं रूपमाह्लादानन्दलक्षणम् ॥ २३ ॥
{{९९}}
सूक्ष्मं चिच्छक्तिलक्षं तु लिङ्गमात्रं प्रकाशवत् ।
स्थूलस्वरूपस्य स्मरणम्
ततः स्थूलवपुर्ध्येयो नानारूपविभागशः ॥ २४ ॥
परसूक्ष्मात्मनाऽवस्थितस्य मन्त्रमूर्तेविष्णोरैश्वर्यम्
विश्वास-प्रस्तुतिः
वालाग्रशतभागश्च प्रधानपुरुषेश्वरः ।
गुणभोक्ता गुणाधारो गुणवान्निर्गुणस्तथा ॥ २५ ॥

देहेश्वरस्सविख्यातस्सर्वदेवमयः प्रभुः ।
अङ्गुष्ठमात्रः पुरुषस्सर्वदेहेषु तिष्ठति ॥ २६ ॥

मणिर्यथा विभागेन नीलपीतादिभिर्युतः ।
रूपभेदमवाप्नोति ध्यानभेदात्तथा विभुः ॥ २७ ॥

ब्रह्माह्ययं तथा रुद्रश्चन्द्रसूर्यौ प्रजापतिः ।
परमात्मसमुद्भूतमन्त्राज्जातास्तदात्मकाः ॥ २८ ॥

लक्ष्म्यादिभिः सहैवपूज्यत्वम्
विश्वास-प्रस्तुतिः
बुद्धिस्सन्तारिका या वै परे तद्धर्मधर्मिणी ।
तत्ज्ञा वा (सा ?)प्राग्विभागेन प्रभा चन्द्रमसो यथा ॥ २९ ॥

अवस्थिता चतुर्धा वै शक्तित्वेन जगद्गुरोः ।
ज्ञानक्रियास्वरूपेण ईशित्वानुग्रहात्मना ॥ ३० ॥

पञ्चैव बुद्धिपूर्वास्ताः प्रागुक्तासु च शक्तिषु ।
विकारत्वेन वर्तन्ते आसामपि च नारद ॥ ३१ ॥

बुद्धिं विना चतसॄणां विकृतिश्चापि नश्वरी ।
व्यवस्थिताश्चतुर्धा या लक्ष्म्याद्या देवतास्तु ताः ॥ ३२ ॥

ताभिस्सह सदा पूज्यस्साङ्गो हृत्पद्मकोटरे ।
[परमात्मनः शक्तिभूतानां लक्ष्म्यादीनां
धर्मज्ञानादिविकृत्यष्टकमूलप्रकृतित्वम्]
विश्वास-प्रस्तुतिः
एतासां हि विकारश्च श्रेयोमार्गनियामकाः ॥ ३३ ॥
सदैव मत्प्रपन्नानां जनानां येऽनुरागिणः ।
संस्थिताश्च जगत्यस्मिन् धर्मज्ञानादयस्तु ते ॥ ३४ ॥

एतेषां वै द्विजश्रेष्ठ विकारत्वेन संस्थितम् ।
अधर्माद्यं चतुष्कं तु अश्रेयः पथयोजकम् ॥ ३५ ॥

गुर्वग्निमन्त्रशास्त्राणां दूषकादिषु जन्तुषु ।
शेषं मायामयं सर्वं तां मायां विद्धि मामकीम् ॥ ३६ ॥

{{१००}}
पृथग्रूपं तथैक्यं च आभ्यामुक्तं पुरा मया ।
[हृत्पुण्डरीकमध्येऽवस्थापितस्य मन्त्रात्मनः परस्य चैतन्यज्योतिषो
विष्णोः प्रभावविशेषः]
एवं प्रकीर्तितं सङ्घं मन्त्रचक्रं परात्मकम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम् ।
कदम्बागोलकाकारं विश्वरूपं मणिप्रभम् ॥ ३८ ॥

रत्नदीपसमाकारमच्छिन्नप्रसरं महत् ।
श्रोत्रपूर्वैः खरन्ध्रैश्च रश्मयस्तस्य निर्गताः ॥ ३९ ॥

छिद्रपूर्णाद्यथा कुम्भान्महादीपयुताद्ध्विज ।
याति भासां गणो बाह्ये शरीरादेवमेव हि ॥ ४० ॥

मन्त्रो रश्मिसमूहस्तु नाडीभिः प्रसरेद्बहिः ।
स्थैर्यादीनां पृथिव्यादिगुणानामपि परमात्मैकाश्रयत्वम्
अप्रत्यक्षस्सदाऽक्षाणां मन्त्रात्माऽयमपि द्विज ॥ ४१ ॥
विश्वास-प्रस्तुतिः
तथाऽप्यनेन न्यायेन प्रत्यक्षमुपलक्ष्यते ।
बहिस्थितं यद्भूतानां क्ष्मादीनां गुणपञ्चकम् ॥ ४२ ॥

तेन तच्चोपलब्धव्यं प्रत्यक्षेण परोक्षगम् ।
तस्य भौमो गुणस्थैर्यं तद्गुणेन हि सा स्थिरा ॥ ४३ ॥

परस्परानुभावेन संवृत्तौ तदुपारुहेत् ।
आह्लादो यस्तदीयोऽपि सतोये चोपलभ्यते ॥ ४४ ॥

तोये गुणस्तु तस्यास्ति कथं स्यादन्यथा मुने ।
स्मृतमात्रेण मन्त्रेण आह्लादो मानसो महान् ॥ ४५ ॥

रूपात्मना परिणतस्सचाग्नौ पारमेश्वरः ।
यो रूपाख्यो गुणश्चाग्नेस्समन्त्रात्मनि तिष्ठति ॥ ४६ ॥

तेजो विना यतो ध्यानं कुत्रचिन्नोपलभ्यते ।
स्पर्शधर्मो हि यो वायोस्स तदीयो महामते ॥ ४७ ॥

यो वायव्यो गुणस्सूक्ष्मस्स च मन्त्रतनौ स्थितः ।
स चान्तःकरणे चैव संहृते स्यात्तदुत्थितः ॥ ४८ ॥

यदाकाशस्य शून्यत्वमस्ति तस्मात्तदुद्भवः ।
स मन्त्रात्मनि संविष्टो गुणो ह्यस्मिन्महामते ॥ ४९ ॥

{{१०१}}
विश्वास-प्रस्तुतिः
अग्राह्यत्वाच्च करणैः प्राकृतैर्भावनां विना ।
इत्येवं मन्त्रसामर्थ्यं पुरा ज्ञात्वा यथार्थतः ॥ ५० ॥

मुद्रामन्त्रपूर्वकमावाहनम्
विश्वास-प्रस्तुतिः
सन्निधानं भवेद्येन पूजाकाले ह्युपस्थिते ।
मुद्रासमन्वितो मन्त्रो य आवाहनसञ्ज्ञितः ॥ ५१ ॥

पूरकेण द्विजश्रेष्ठ मनसा समुदीरयेत् ।
समाहूय ततः पश्चान्मूर्तिमन्त्रेण चेतसा ॥ ५२ ॥

ध्यानोक्तां कल्पयेन्मूर्त्तिं तस्य हृत्पद्ममध्यगाम् ।
परेणाधिष्ठितं ध्यायेन्मूलमन्त्रं ज्वलत्प्रभम् ॥ ५३ ॥

आवाहितस्य तस्य संउखीकरणम्
विश्वास-प्रस्तुतिः
सम्मुखीकरणं कुर्यान्मन्त्रमूर्तेर्द्विजात्मनः ।
आत्ममन्त्रादितो भूयो मन्त्रैस्सर्वैश्च पूर्ववत् ॥ ५४ ॥

करन्यासं विना देहे न्यासं तस्य च संस्मरेत् ।
पुष्पमर्घ्यं तथा धूपं दीपं माल्यं विलेपनम् ॥ ५५ ॥

चेतसा सादरेणैव पाद्यपूर्वं च भक्तितः ।
प्रणाममथ चाष्टाङ्गं जयशब्दांश्च मानसान् ॥ ५६ ॥

कृत्वा भगवते ब्रह्ममुद्रां वै सम्प्रदर्शयेत् ।
स्वागतं तव देवेश सन्निधिं भजमेऽच्युत ॥ ५७ ॥

गृहाण मानसीं पूजां यथार्थपरिभाविताम् ।
ज्ञात्वा तु सुप्रसन्नं तं प्रसादाभिमुखं प्रभुम् ॥ ५८ ॥

अथ विस्तरेण मानसयागारम्भः
विश्वास-प्रस्तुतिः
विस्तरेण द्विजश्रेष्ठ मानसं यागमारभेत् ।
सङ्कल्पजनितैर्द्रव्यैः पवित्रैरक्षयैः शुभैः ॥ ५९ ॥

सर्वकामप्रदं देवं मन्त्रमूर्त्तिधरं यजेत् ।
अभ्यङ्गोद्वर्तने पूर्वं स्नानं चाथ विलेपनम् ॥ ६० ॥

वस्त्रपूर्वाणि माल्यानि सुगन्धानि निवेद्य च ।
हारकेयूरकटकैर्मुकुटैर्भूषितं स्मरेत् ॥ ६१ ॥

चित्रेण कटिसूत्रेण हेमरत्नमयेन च ।
माणिक्यरचितैश्शुद्धैर्मुक्ताहारैश्च भूषयेत् ॥ ६२ ॥

{{१०२}}
विश्वास-प्रस्तुतिः
सम्पूर्णेन्दुसमानं च हेमदण्डसमन्वितम् ।
छत्रं निवेदयेद्विष्णोर्मायूरं व्यजनं शुभम् ॥ ६३ ॥

कर्पूरचूर्णसम्मिश्रं सुगन्धि मधुरं बहु ।
धूपं भगवते दत्वा दीपमालां घृतेन च ॥ ६४ ॥

मधुसर्पिःप्लुतं चाथ मधुपर्कं निवेद्य च ।
पशुं च विविधं मूर्तं पावनं शकुनिं तथा ॥ ६५ ॥

औषधीश्शालिदूर्वां च सत्फलाढ्यं वनस्पतिम् ।
मूर्तं निवेदयेत्पूर्वमिदमन्नं चतुर्विधम् ॥ ६६ ॥

नैवेद्यं विविधं शुद्धं भक्ष्यभोज्यान्यनेकशः ।
हृद्यानि फलमूलानि षड्-ऋतुप्रभवानि च ॥ ६७ ॥

षड्रसानि च चित्राणि पानान्यथ निवेद्य च ।
सर्वाण्यात्मोपभोग्यानि भक्तिश्रद्धावशाद्द्विज ॥ ६८ ॥

प्राग्दिक्ष्वप्यविरुद्धानि देवाय विनिवेदयेत् ।
तन्त्रीवाद्यान्यनेकानि नृत्तगेयान्वितानि च ॥ ६९ ॥

भेरीपटहघोषादिस्तुतिपाठान्वितानि च ।
चिन्तयेद्देवदेवस्य लोकत्रयगतानि च ॥ ७० ॥

किङ्किणीजालयुक्तेन चामरेणोपवीज्य च ।
वितानकं पताकाश्च ध्वजानि विविधानि च ॥ ७१ ॥

विनिवेद्य विभोर्भक्त्या प्रसन्नेनान्तरात्मना ।
गजाश्वधेनुयानानि सुवस्त्रालङ्कृतानि च ॥ ७२ ॥

निवेद्य चान्तरा तानि ग्राहयन्तं स्मरेत्ततः ।
आत्मानं ससुतान्दारांस्तस्मै च नमसा युतान् ॥ ७३ ॥

निवेद्य प्रणतो मूर्ध्ना आनन्दाश्रुसमन्वितः ।
कामधेनुमयीं मुद्रां मनसा मन्त्रसंयुताम् ॥ ७४ ॥

बध्वा सञ्चिन्तयेद्विष्णोस्सर्वकामप्रपूरणीम् ।
हृद्व्योमपुष्कराग्रस्थं देवमिष्ट्वा जगद्गुरुम् ॥ ७५ ॥

समस्तमन्त्रदेहं तु सकलं निष्कलात्मकम् ।
लक्ष्म्याद्यङ्गपूजनम् तत्रलययागादिभेदः
शक्तयश्चाङ्गषट्कं च लाञ्छनं कमलादिकम् ॥ ७६ ॥
भूषणं कौस्तुभाद्यं च वदनानां तथा त्रयम् ।
{{१०३}}
सत्याद्या मूर्तयश्चैव देहे देवस्य भाविताः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
व्यापय्य च तथात्वेन स्वे स्वे स्थाने तथात्मकाः ।
तद्देहसंस्थितास्सर्वे पूजनीयाः क्रमेण तु ॥ ७८ ॥

परिवारं विना मन्त्रैः स्वैः स्वैः पुष्पानुलेपनैः ।
लययागो ह्ययं विप्र लक्ष्म्यादिष्वनुकीर्तितः ॥ ७९ ॥

तस्माद्धृत्कर्णिकाधारे मूर्तौ वा यत्र कुत्रचित् ।
मूलमन्त्रशरीरस्थं परिवारं यजेत्सदा ॥ ८० ॥

याग एष लयाख्यस्तु सङ्क्षिप्तस्सर्वसिद्धिदः ।
मन्त्रराट् कर्णिकामध्ये लक्ष्म्याद्याः केसरादिषु ॥ ८१ ॥

साकाराः केवलास्सर्वे यत्र भोगाभिधस्स तु ।
केवलेन च यागेन पृथग्भूतेन नारद ॥ ८२ ॥

पूजनं कमलादीनामधिकाराभिधस्स तु ।
साम्प्रतं सर्वमन्त्राणां भोगयागार्थमेव च ॥ ८३ ॥

हृत्पद्मे तु विभागेन विन्यासमवधारय ।
पूर्वभागे विभोर्लक्ष्मीं केसरस्थां च विन्यसेत् ॥ ८४ ॥

कीर्त्तिं दक्षिणतस्तस्य पृष्टतस्तु जयां हरेः ।
तस्यैव चोत्तरे भागे मायां केसरगां न्यसेत् ॥ ८५ ॥

विदुक्ष्वङ्गानि विन्यस्य केसरेषूपरि द्विज ।
पूर्वयाम्यान्तरे विष्णोर्हृन्मन्त्रं विनिवेश्य च ॥ ८६ ॥

शिरःपूर्वोत्तरे दद्याच्छिखां पश्चिमदक्षिणे ।
पश्चिमोत्तरदिङ्मध्ये कवचं विन्यसेद्विभोः ॥ ८७ ॥

अग्रतः केसरोद्देशे नेत्रं दिक्ष्वस्त्रमेव च ।
दक्षिणे मन्त्रनाथस्य पद्मपत्रे नृकेसरी ॥ ८८ ॥

कपिलः पश्चिमेन्यस्यो वराहश्चोत्तरे दले ।
कौस्तुभं वनमालां च विभोः पूर्वदलान्तरे ॥ ८९ ॥

नृसिह्मक्रोडमन्त्राभ्यां समीपे तद्दलद्वये ।
पद्मशङ्खौ तु विन्यस्य गदाचक्रे तथैव च ॥ ९० ॥

समीपे रत्नमालां च गरुडं नातिदूरतः ।
पाशं च तत्समीपे तु गदाया निकटेऽङ्कुशम् ॥ ९१ ॥

अनिरुद्धाद्युपाङ्गानि पत्राग्रेषु तु विन्यसेत् ।
{{१०४}}
सौम्माप्यदक्षिणे पूर्वे कर्णिकासंस्थितस्य च ॥ ९२ ॥
विश्वास-प्रस्तुतिः
तदीशपत्रादारभ्य दलाग्रेषु चतुर्ष्वपि ।
सत्यमन्त्रं तु विन्यस्य यावद्वायुदलावधि ॥ ९३ ॥

ब्रह्मरन्ध्राद्विनिष्क्रान्ते मूलमन्त्रस्य नारद ।
प्रभानाले निराधारे प्रचरद्रश्मिपल्लवे ॥ ९४ ॥

आनन्दकेसराकीर्णे महानन्दाख्यकर्णिके ।
न्यसेत्सप्ताक्षरं मन्त्रं निष्कलं तु च केवलम् ॥ ९५ ॥

यद्वै तद्भावभावित्वमेतावत्तस्य पूजनम् ।
सङ्कल्पजनितैर्भोगैर्विकल्पपदवर्तिभिः ॥ ९६ ॥

कथं स्यात्पूजनं तस्य यतस्तेभ्यः स्थितः परे ।
न्यस्यैवं मन्त्रसङ्घं तु पूर्ववत्पूजयेत्क्रमात् ॥ ९७ ॥

ध्यात्वैकैकं स्वमन्त्रेण तद्ध्यानमवधारय ।
भोगस्थाने च मन्त्राणां यत्सदा सम्प्रयोजयेत् ॥ ९८ ॥

यत्पूर्वं कथितं रूपं मन्त्राणां निष्कलं मया ।
सकलेन बहिस्थेन छुरितं भावयेत्ततः ॥ ९९ ॥

निर्मलं स्फटिकं यद्वदुपरागेण केनचित् ।
स्फटिकं चोपरागस्य नान्तरं संविशेद्यथा ॥ १०० ॥

उपरागस्त्वनिच्छातस्संविशेत्स्फटिकान्तरम् ।
एवं हि सकलं रूपं निष्कलेन सह स्मरेत् ॥ १०१ ॥

भोगस्थानगतस्यैव विद्धि तच्चोभयात्मकम् ।
अधिकारपदस्थस्य मन्त्रस्य मुनिसत्तम ॥ १०२ ॥

सकलं योजयेद्ध्यानं तस्य हृप्तद्ममध्यगम् ।
निराधारस्थितं ध्यायेत्तद्रूपं निष्कलं तु तत् ॥ १०३ ॥

भिन्नात्मभ्यां ततस्ताभ्यामेकत्वेन स्थितिं पुरा ।
इति चेतसि वै कृत्वा ततस्सम्पूजयेद्द्विज ॥ १०४ ॥

पादपश्च यथा भौमैर्गुणैर्दूरतरे स्थितः ।
पादपीयैर्गुणैस्तद्वद्दूरे तिष्ठति मेदिनी ॥ १०५ ॥

सकलाकलमन्त्राभ्यामविनाभाव ईदृशः ।
केवलात्सकलाद्ध्यानात्पदसिद्धिर्न जायते ॥ १०६ ॥

{{१०५}}
विश्वास-प्रस्तुतिः
स्वभावनिष्कलान्मन्त्रात्तद्वद्दूरे च सिद्धयः ।
अत एव क्रमाद्ध्यातैः पूजितैस्तोषितैस्ततः ॥ १०७ ॥

विशेषपूजनम्
विश्वास-प्रस्तुतिः
विशेषपूजनं विप्र कल्पयेदच्युतस्य तु ।
सौवर्णपुष्पसम्पूर्णमञ्जलिं सम्प्रसार्य च ॥ १०८ ॥

मूलमन्त्रं समुच्चार्य प्रयत्नात्पूरकादिभिः ।
दीर्घघण्टारवप्रख्यं यावत्तत्सम्भवावधि ॥ १०९ ॥

स्फुरद्रश्मिचयाकीर्णमग्न्यर्केन्दुशतप्रभम् ।
ध्यात्वा नारायणं देवमञ्चलौ सन्निरोधयेत् ॥ ११० ॥

तमञ्जलिं क्षिपेन्मूर्ध्नि तस्मिन्वै मन्त्रविग्रहे ।
अर्घ्यं निवेदयेद्भूयः पुनः पुष्पाञ्जलिं शुभम् ॥ १११ ॥

मुद्रां सन्दर्श्य मूलाख्यां मानसं जपमारभेत् ।
सङ्ख्याहीनं यथाशक्ति घण्ठाख्यकरणेन च ॥ ११२ ॥

भोगस्थानगतानां च लक्ष्म्यादीनां क्रमेण च ।
मनसा दर्शयेन्मुद्रां जपं कुर्यात्सकृत्सकृत् ॥ ११३ ॥

स्रोत्रमन्त्रैः पवित्रैश्च स्तुत्वा सम्यक्प्रसादयेत् ।
एवं क्रमेण विप्रेन्द्र कृत्वा यागं तु मानसम् ॥ ११४ ॥

अथ मानस होमप्रकारः
विश्वास-प्रस्तुतिः
होमं तथाविधं कुर्यान्मोक्षलक्ष्मीप्रदं शुभम् ।
नाभिचक्रान्तरस्थं तु ध्यायेद्वन्हिग्र(गृ ?)हं मुने ॥ ११५ ॥

त्रिकोणं त्रिगुणेनैव अव्यक्तेनावृतं परि ।
ध्यानारणिं तु निर्मथ्य चिदग्निमवतार्य च ॥ ११६ ॥

सुशुद्धं संस्कृतं दीप्तं सदैवोर्ध्वशिखं द्विज ।
वासुदेवात्मकं यस्मात्स वसत्यन्तरात्मसु ॥ ११७ ॥

प्रोच्चरेन्मूलमन्त्रं तु यावच्छब्दस्य गोचरम् ।
तत्रस्थमाहरेद्दिव्यमाह्लादाज्यामृतं परम् ॥ ११८ ॥

ब्रह्मसर्पिःसमुद्राद्यन्निस्तरङ्गाप्तरिस्रुतम् ।
गृहीत्वाऽमृतमार्गेण ब्रह्मरन्ध्रेण संविशेत् ॥ ११९ ॥

हृदयान्मध्यमार्गेण चिन्मयेन सदीप्तिना ।
प्रोल्लसन्तं स्मरेन्मन्त्रं ब्रह्मसक्त्युपबृंहितम् ॥ १२० ॥

{{१०६}}
विश्वास-प्रस्तुतिः
स्वकारणाग्नौ नाभिस्थे य ऊर्ध्वेन्धनवत्स्थितः ।
स्वभावदीप्तब्रह्माग्नौ परितश्चोदरोज्वलम् ॥ १२१ ॥

स्मृत्वा मन्त्रं तु तन्मूर्ध्नि पतमानं द्विजाम्बरात् ।
चिन्तयेदमृतन्त्वाज्यं पुरा यच्चाहृतं द्विज ॥ १२२ ॥

चिदग्निमेव सन्तर्प्य नाभौ मन्त्रस्वरूपिणम् ।
ज्वालाग्रावस्थितं चैव भूयो हृत्पङ्कजे स्मरेत् ॥ १२३ ॥

प्रोच्चारयंश्च मन्त्रेशं प्लुतं ध्यानसमन्वितम् ।
कृत्वैवमेकसन्धानं स्थानद्वयगतस्य च ॥ १२४ ॥

विष्णोर्मन्त्रस्वरूपस्य नानामन्त्रात्मकस्य च ।
सर्वं तु सन्यसेत्पश्चात्तस्मिन्मन्त्रकृतं च यत् ॥ १२५ ॥

तोयपुष्पाक्षतैः पूर्णं भावयेद्दक्षिणं करम् ।
तन्मध्ये निष्कलं मन्त्रं संस्मरेत्किरणाकुलम् ॥ १२६ ॥

यागोत्थां फलसम्पत्तिं लक्ष्मीरुपां विचिन्त्य च ।
मूलमन्त्रं समुच्चार्य पाणिमध्ये तथा स्मरेत् ॥ १२७ ॥

भूयश्च निष्कलं मन्त्रं तस्यामुपरि भावयेत् ।
सशीर्षे जानुनी भूमौ कृत्वा विष्णोर्निवेदयेत् ॥ १२८ ॥

प्रसादाभिमुखेनाथ तेन तच्चात्मसात्कृतम् ।
भावनीयं द्विजश्रेष्ठ परितुष्टेन चादरात् ॥ १२९ ॥

अयं यो मानसो यागो जराव्याधिभयापहः ।
पापोघसर्गशमनो भवाभावकरो द्विज ॥ १३० ॥
मूलम्
अयं यो मानसो यागो जराव्याधिभयापहः ।
पापोघसर्गशमनो भवाभावकरो द्विज ॥ १३० ॥
विश्वास-प्रस्तुतिः
सतताभ्यासयोगेन देहपातात्प्रमोचयेत् ।
यस्त्वेवं परया भक्त्या सकृदाचरते नरः ॥ १३१ ॥

क्रमोदितेन विधिना तस्य तुष्याम्यहं मुने ।
याजकानां च सर्वेषां प्रधानत्वेन वर्त्तते ॥ १३२ ॥

तारयेत्स्वपितॄन्यातानेष्यांश्चैव तु साम्प्रतात् ।
किं पुनर्नित्ययुक्तो यस्तद्भावगतमानसः ॥ १३३ ॥

मन्त्राराधनमार्गस्थश्रद्धाभक्तिसमन्वितः ।
न तस्य पुनरावृत्तिस्स याति परमं पदम् ॥ १३४ ॥

ज्ञात्वैवं यत्नतो नित्यं कुर्याद्यागं तु मानसम् ।
इदं रहस्यं परमं मयोक्तं तेऽद्य नारद ॥ १३५ ॥

{{१०७}}
विश्वास-प्रस्तुतिः
नाशिष्याणां च वक्तव्यं नाभक्तानां कदाचन ।
अत्यन्तभवभीतानां भक्तानां भावितात्मनाम् ॥ १३६ ॥

इदं रहस्यं वक्तव्यं सम्यग्भावं परीक्ष्य च ।
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मानसयागो नाम द्वादशः पटलः ॥ १२ ॥