अथ मन्त्रन्यासविधिर्नाम एकादशः पटलः
विश्वास-प्रस्तुतिः
संशुद्धविग्रहो मन्त्री मन्त्रन्यासं समाचरेत् ।
येन विन्यस्तमात्रेण देवदेवसमो भवेत् ॥ १ ॥
मूलम्

पूजादौ सर्वकार्याणामधिकारश्च जायते ।
भवेद्वै सर्वसिद्धीनामाविर्भावस्तु येन च ॥ २ ॥

यं कृत्वा निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले ।
विजयश्चापमृत्यूनां स्याद्येन विहितेन च ॥ ३ ॥

आसनपरिकल्पनम्
विश्वास-प्रस्तुतिः
क्षितावुपरि विन्यासं यत्पुरा फलकोदितम् ।
तस्मिंश्चोपरि विन्यासं समुद्रं पद्मसंयुतम् ॥ ४ ॥

स्वेन स्वेन तु मन्त्रेण ध्यानयुक्तेन यत्नवान् ।
तार्क्ष्यं चैव ततो न्यस्य ध्यात्वा चोपविशेत्ततः ॥ ५ ॥

आसनाद्बहिः प्राकारपरिकल्पनम्
दिशो विरेच्य चास्त्रेण पुनरेव मुहुर्मुहुः ।
{{९४}}
शरजालोपमं स्मृत्वा प्राकारं चासनाद्बहिः ॥ ६ ॥
सप्राकारं तु संस्थानं कवचेनावकुण्ठयेत् ।
ज्वलत्कञ्चुकरूपेण
न्यासप्रयोजनम्
यथा सिद्धादिषु द्विज ॥ ७ ॥
विश्वास-प्रस्तुतिः
गगनस्थेष्वदृश्यः स्यादाचरेन्न्यासमात्मनः ।
अगुप्तस्य यतो वीर्यं मन्त्रजस्याहरन्ति ते ॥ ८ ॥

तस्मादनेन विधिना त्वादौ गुप्तिं समाचरेत् ।
हस्तन्यासं पुरा कृत्वा देहन्यासं समाचरेत् ॥ ९ ॥

हस्तन्यासः
विश्वास-प्रस्तुतिः
अङ्गुष्ठे मूलमन्त्रं तु मूर्तिमन्त्रसमन्वितम् ।
एवमेव क्रमेणैव तर्जन्यादिषु देवताः ॥ १० ॥

कनिष्ठान्तासु वै सर्वा न्यस्य चाङ्गानि योजयेत् ।
कनिष्ठिकाद्यासु ततो हृदयादीन्यनुक्रमात् ॥ ११ ॥

अस्त्रमङ्गुष्ठके यावत्कराग्रेषु च लोचनम् ।
नृसिह्मं दक्षिणे हस्ते वामे च कपिलं न्यसेत् ॥ १२ ॥

वामहस्तादि चोभाभ्यां वराहं चाङ्गुलीषु च ।
कौस्तुभं दक्षिणतले वनमालां तथाऽपरे ॥ १३ ॥

दक्षिणे मध्यतः पद्मं शङ्खं वामतले न्यसेत् ।
अनन्तारं च तत्रैव चक्रमस्त्रं महाप्रभम् ॥ १४ ॥

गदां च दक्षिणे हस्ते ज्वलन्तीं स्वेन तेजसा ।
अङ्गुष्ठाद्दक्षिणादादौ वामान्तं मूलदेशतः ॥ १५ ॥

गारुडं विन्यसेन्मन्त्रं दशस्वङ्गुलिषु क्रमात् ।
वामहस्ततले पाशमङ्कुशं दक्षिणे तथा ॥ १६ ॥

क्रमेण हृदयाद्येन उभयोर्हस्तयोर्न्यसेत् ।
सत्यादि चानिरुद्धान्तमौपाङ्गं बीजपञ्चकम् ॥ १७ ॥

नखाद्यामणिबन्धान्तं कृत्स्ने पाणियुगे ततः ।
न्यसेत्सप्ताक्षरं मन्त्रं सर्वमन्त्रोपरि स्थितम् ॥ १८ ॥

अनेन विधिना पूर्वं हस्तन्यासं समाचरेत् ।
देहन्यासाद्धस्तन्यासस्य प्राथम्ये कारणम्
{{९५}}
वैभवी परमा शक्तिर्हृच्चक्रकुहरान्तगा ॥ १९ ॥
विश्वास-प्रस्तुतिः
वायव्यं रूपमास्थाय दशधा संव्यवस्थिता ।
इच्छया स्वप्रवाहेण पाणिमार्गेण निर्गताः ॥ २० ॥

नाडीदशकमाश्रित्य ता एवाङ्गुलयो मताः ।
अत एव द्विजश्रेष्ठ शक्त्याख्ये प्रभुविग्रहे ॥ २१ ॥

पूर्वं मन्त्रगणं न्यस्य ततो भूतमये न्यसेत् ।
देहन्यासः
विग्रहे मन्त्रसङ्घातं यथावदवधारय ॥ २२ ॥
विश्वास-प्रस्तुतिः
आमूर्ध्नश्चरणान्तं च मूलमन्त्रं पुरा तनौ ।
व्यापकत्वेन विन्यस्य पादाद्भूयश्शिरोऽन्तिमम् ॥ २३ ॥

मूर्तिमन्त्रेण वै कुर्यान्न्यासं सर्वाङ्गकं ततः ।
मूर्ध्नि वक्त्रेऽसयुग्मे च क्रमात्सव्येतरे हृदि ॥ २४ ॥

पृष्ठे नाभौ तथा कट्यां जानुनोरथ पादयोः ।
क्रमेण हावसानं च नाद्यं द्वादशवर्णकम् ॥ २५ ॥

मूर्त्तिमन्त्रं तु विन्यस्य देवतां तु ततो न्यसेत् ।
वामस्कन्धे तथा लक्ष्मीं कीर्तिं दक्षिणतो न्यसेत् ॥ २६ ॥

जयां दक्षिणपाणिस्थां मायां वामे तथा न्यसेत् ।
हृदयादीनि चाङ्गानि विन्यसेत्तदनन्तरम् ॥ २७ ॥

स्तनान्तरे तु हृन्मन्त्रं शिरोमन्त्रं च मूर्धनि ।
चूडिकां च शिखास्थाने स्कन्धयोः कवचं ततः ॥ २८ ॥

नेत्राभ्यां विन्यसेन्नेत्रमस्त्रं पाणितले द्विज ।
नृसिह्मं दक्षिणे श्रोत्रे कपिलञ्च कृवाटिके ॥ २९ ॥

वामश्रोत्रावधौ न्यस्य वाराहं मन्त्रनायकम् ।
वक्षसः कौस्तुभं मध्ये कण्ठे च वनमालिकाम् ॥ ३० ॥

पद्मादींश्च ततः प्राग्वदूरुभ्यामन्तरे द्विज ।
गरुडाख्यं महामन्त्रमथोपाङ्गं गणं न्यसेत् ॥ ३१ ॥

क्रमेण वाऽनिरुद्धेन प्रथमं द्विजसत्तम ।
पादयोर्वस्तिशीर्ष च नाभौ हृदि शिखावधौ ॥ ३२ ॥

{{९६}}
विश्वास-प्रस्तुतिः
सत्याद्येन क्रमेणैव भूयस्तत्पञ्चकं न्यसेत् ।
ब्रह्मरन्ध्रान्तरे चैव हृन्मध्ये नाभिपुष्करे ॥ ३३ ॥

नाभिमेढ्रान्तरे चैव पादयोः क्रमयोगतः ।
योजयेच्च ततो देहे आमूर्ध्नश्च तनुत्रवत् ॥ ३४ ॥

सप्ताक्षरं महामन्त्रं विष्णुं नारायणं प्रभुम् ।
सर्वे मन्त्रास्तदन्तस्थास्तेषामन्तगर्तश्च सः ॥ ३५ ॥

अस्यैव मन्त्रसङ्घस्य परमं करणञ्च सः ।
सर्वेषां वर्तते मूर्ध्नि तस्मात्सर्वोपरि न्यसेत् ॥ ३६ ॥

शक्तिचक्रं हृदन्नाभिं(?)नाना तु मुनिसत्तम ।
न्यस्तमात्रेण वै तेन सन्धानमुपद्यते ॥ ३७ ॥

एवं न्यासं पुरा कृत्वा करयोर्विग्रहे ततः ।
तत्तन्मुद्राप्रदर्शनम्
मूलमन्त्रादिसर्वस्य न्यस्तमन्त्रगणस्य च ॥ ३८ ॥
मुद्रां प्रदर्शयेत्स्वां स्वां मन्त्रन्याससमन्विताम् ।
साधकेन कर्तव्यध्यानप्रकारः
ततस्सविग्रहं ध्यायेदात्मानं विष्णुरूपिणम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
पूर्वोक्तध्यानयोगेन षाङ्गुण्यमहिमावृतम् ।
स्वरूपं विश्वरूपं वा यथाभिमतरूपकम् ॥ ४० ॥

अहं स भगवान्विष्णुरहं नारायणो हरिः ।
वासुदेवो ह्यहं व्यापी भूतावासो निरञ्जनः ॥ ४१ ॥

एवं रूपमहङ्कारमासाद्य सुदृढं मुने ।
तन्मयश्चाचिरेणैव जायते साधकोत्तमः ॥ ४२ ॥

न्यासाद्ध्यानात्तथा भावान्मध्यमाच्चापि योगजात् ।
इति सङ्क्षेपतः प्रोक्तं न्यासकर्म मया च ते ॥ ४३ ॥

समाचर यथान्यायं गोपयस्व च यत्नतः ।
विश्वास-प्रस्तुतिः
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मन्त्रन्यासविधिर्नाम
एकादशः पटलः ॥ ११ ॥