अथ समाधिख्यापनं नाम दशमः पटलः
ध्यानार्थं निर्जनस्थानं प्रति गमनम्
श्रीभगवान्
विश्वास-प्रस्तुतिः
सास्त्रं दूर्वाङ्कुरं दत्वा पुष्पं पत्रं तिलांस्तु वा ।
सोदकानात्मनो मूर्ध्नि शिखास्थाने च नारद ॥ १ ॥
मूलम्

ततश्चोदकसम्पूर्णं भाण्डमादाय पाणिना ।
एकान्तनिर्जनं यायान्मनोज्ञं दोषवर्जितम् ॥ २ ॥

हृन्मध्यस्थं स्मरे(र ?)न्मन्त्रं प्रबुद्धानलविग्रहम् ।
दिगन्तरमवीक्षन्वै मौनी संरोधितानिलः ॥ ३ ॥

स्थानप्राप्तिसमये कर्तव्यांशः
विश्वास-प्रस्तुतिः
प्राप्य स्थानं स्वमन्त्रं तु नासाग्रेण विरेचयेत् ।
बहिरस्त्रं च विन्यस्य चरणेन हनेत्क्षितिम् ॥ ४ ॥

मन्त्रपूर्वं स्मरेद्विष्णुं सकलं गरुडासनम् ।
दर्भाद्यासनविकल्पः
एकदेशं समासाद्य बध्नीयाद्रुचिरासनम् ॥ ५ ॥
दर्भे चर्मणि वस्त्रे वा फलके यज्ञकाष्ठके ।
गुरुस्मरणपूर्वकमानसक्रियानिर्वहणम्
अभिवन्द्य हरिं भक्त्या मनसा गुरुसन्ततिम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
गृहीत्वा मानसीमाज्ञां तेभ्यस्तु शिरसा नतः ।
मानसीं निर्वहेत्सर्वां क्रियां विप्र यथास्थिताम् ॥ ७ ॥

{{८६}}
[आसनशुद्धिः]
विश्वास-प्रस्तुतिः
मूलमन्त्राभिजप्तेन तोयेन प्रोक्ष्य चासनम् ।
च्छोटिकां मन्त्रसंयुक्तां दद्यात्तच्छुद्धये पुनः ॥ ८ ॥

करशुद्धिः
विश्वास-प्रस्तुतिः
हस्तशुद्धिं ततः कुर्याद्यथा तच्छृणु नारद ।
द्वे तले हस्तपृष्ठे द्वे सर्वाश्चाङ्गुलयस्तथा ॥ ९ ॥

अस्त्रमन्त्रेण संशोध्य ध्यानोच्चारप्रयोगतः ।
कृत्वैवं करशुद्धिं च स्थानशुद्धिं समाचरेत् ॥ १० ॥

स्थानशुद्धिः
विश्वास-प्रस्तुतिः
ध्यात्वा देवं ज्वलद्रूपं सहस्रार्कसमप्रभम् ।
ज्वालाकोटिसमाकीर्णं वमन्तं ज्वलनं मुखात् ॥ ११ ॥

तेन सम्पूरयेत्सर्वमाब्रह्मभुवनान्तिमम् ।
दिगोघं प्रज्वलन्तं च भावयेन्मन्त्रतेजसा ॥ १२ ॥

क्ष्मामण्डलमिदं सर्वं स्मरन्पक्वं च वह्निना ।
मन्त्रजेन द्विजश्रेष्ठ मृण्मयं भाजनं यथा ॥ १३ ॥

स्थानशुद्धिर्भवत्येवं सुधाकल्लोलसेचनात् ।
भूतशुद्धिं शृणु मुने यथावदनुपूर्वशः ॥ १४ ॥

भूतशुद्धिप्रकरणम्
विश्वास-प्रस्तुतिः
पृथ्व्यप्तेजोनिलाकाशं शरीरं भूतपञ्चकम् ।
इन्द्रजालोपमं विद्धि ज्ञानाद्यैरुज्झितं गुणैः ॥ १५ ॥

मलिनञ्चास्वतन्त्र च रेतोरक्तोद्भवं क्षयि ।
यावन्न शोधितं सम्यक् धारणाभिर्निरन्तरम् ॥ १६ ॥

तावदेतदयोग्यं स्यान्मन्त्रन्यासादिवस्तुषु ।
पृथिव्यादिभूतानां बीजानि
शङ्करश्चाग्निरूपश्च सोमःसूर्यस्तदन्तकः ॥ १७ ॥
विश्वास-प्रस्तुतिः
वर्णपञ्चकमेतद्वै युक्तं कुर्यात्क्रमेण तु ।
धरेशेन वराहेण अनलेनाथ कम्बुना ॥ १८ ॥

प्रधानेन द्विजश्रेष्ठ सर्वेषां योजयेत्ततः ।
त्रैलोक्यैश्वर्यदोपेतमादिदेवं च मूर्धनि ॥ १९ ॥

{{८७}}
विश्वास-प्रस्तुतिः
पृथ्वीकाग्निमरुद्व्योमबीजान्येतान्यनुक्रमात् ।
पृथ्व्यादिसञ्ज्ञायुक्तानि हुम्फडन्तानि नारद ॥ २० ॥

प्रागोङ्कारेण युक्तानि भूतशुद्धौ त्रिधोच्चरेत् ।
भूतेश्वराणां पञ्चानां परत्वेन क्रमात्स्थिताः ॥ २१ ॥

पृथिव्यादिभूतानां देवताः
विश्वास-प्रस्तुतिः
अनिरुद्धादयः पञ्च सत्यपूर्वाः पुरोदिताः ।
शक्तित्वेन च वर्तन्ते तैश्च तान्व्याहरेत्क्रमात् ॥ २२ ॥

[पृथिव्यादिमहाभूतानां स्वविग्रहे प्रवेशन तद्व्यापन
तद्विलयनप्रकाराः]
विश्वास-प्रस्तुतिः
सौषुम्नाद्दक्षिणद्वारान्निर्गमय्य हरिं बहिः ।
सहस्ररविसङ्काशं वृत्तमण्डलमध्यगम् ॥ २३ ॥

तप्तकाञ्चनवर्णाभमासीनं परमे पदे ।
मन्त्रात्मानं तु तं ध्यात्वा ह्युपरि द्वादशाङ्गुले ॥ २४ ॥

प्रभाचक्रं तु तदधस्तत्त्वाधिष्टातृसंयुतः ।
निष्कलं मन्त्रदेहं तु ध्यात्वा तु तदधः क्रमात् ॥ २५ ॥

तत्रादौ पृथिवीतत्त्वनिलयनम्
विश्वास-प्रस्तुतिः
तुर्यश्रां पीतभां भूमिं चिन्तयेद्वज्रलाञ्छिताम् ।
शब्दाद्यैः पञ्चभिर्युक्तां नगद्रुमसमाकुलाम् ॥ २६ ॥

पुरप्राकारसुसरिद्द्वीपार्णवपरिष्कृताम् ।
संविशन्तीं स्मरेद्बाह्यात्पूरकेण स्वविग्रहे ॥ २७ ॥

प्रोच्चारयंश्च तन्मन्त्रं विश्रान्तामथ चिन्तयेत् ।
जान्वोः पादतलं यावत्तया व्याप्तं क्रमेण तु ॥ २८ ॥

कुम्भकेन द्विजश्रेष्ठ मन्त्रमूर्तौ स्वके ततः ।
शनैः शनैर्लयम् यातां गन्धशक्तौ च मन्त्रराट् ॥ २९ ॥

जलतत्त्वनिलयनम्
विश्वास-प्रस्तुतिः
गन्धशक्तिं च तां पश्चाद्रेचकेन बहिःक्षिपेत् ।
तोयाख्ये च महाधारे ततस्तोयं च वैभवम् ॥ ३० ॥

समुद्रससरित्स्रोतो रसषट्कं च सौषधीः ।
यानि यान्यम्बुभूतानि भूतानि भुवनान्तरे ॥ ३१ ॥

अर्धचन्द्रसमाकारं कमलध्वजशोभितम् ।
वारुणं विभवं बाह्ये ध्यात्वा तेनाथ विग्रहम् ॥ ३२ ॥

{{८८}}
विश्वास-प्रस्तुतिः
सम्पूर्य पूरकाख्येन करणेन शनैश्शनैः ।
ऊरुमूलाच्च जान्वन्तं शरीरं मण्डलं स्वकम् ॥ ३३ ॥

तेनाखिलं तु संव्याप्तं कुम्भकेन स्मरेद्द्विज ।
तन्मध्ये वारुणं मन्त्रं धारणाख्यं विचिन्त्य च ॥ ३४ ॥

अम्मयं विभवं सर्वं तन्मध्ये विलयं गतम् ।
ततस्तं रसशक्तौ च सा शक्तिर्वह्निमण्डले ॥ ३५ ॥

तेजस्तत्त्वनिलयनम्
विश्वास-प्रस्तुतिः
रेचकेन विनिक्षिप्य ततो वान्हं च वैभवम् ।
त्रिकोणभुवनाकारं दीप्तिमद्भिर्विभूषितम् ॥ ३६ ॥

विद्युच्चन्द्रार्कनक्षत्रमणिरत्नैश्च धातुभिः ।
स्वप्रकाशशरीरैस्तु अशरीरैश्च खेचरैः ॥ ३७ ॥

चिन्हितं स्वस्तिकैर्दीप्तैर्व्याप्यैवं विभवं महत् ।
तैजसं मुनिशार्दूलं तन्मात्रं चाथ संस्मरेत् ॥ ३८ ॥

तन्मण्डलान्तरस्थं तु प्रोच्चरन्वै तमेव हि ।
प्रविष्टं पूर्ववद्ध्यायेत्तेनैव करणेन तु ॥ ३९ ॥

आनाभेः पायुपर्यन्तं व्याप्तं कृत्वाऽवधार्य च ।
तं विप्र विभवं सर्वं तैजसं परिभावयेत् ॥ ४० ॥

तन्मन्त्रविग्रहे श्रान्तं मन्त्रं तच्चानलात्मकम् ।
रूपशक्तौ लयं यातं शक्तिस्संविन्मयी च सा ॥ ४१ ॥

वायुतत्त्वनिलयनम्
विश्वास-प्रस्तुतिः
तया मन्त्रशरीरं स्वं स्वशक्त्या विलयीकृतम् ।
रेचकेन कृतां शक्तिं वाय्वाधारे बहिः क्षिपेत् ॥ ४२ ॥

ततस्तु वायवीयं वै वैभवं बाह्यतः स्मरेत् ।
वृत्तं राजोपलाभं तु बिम्बैर्युक्तं तु तैजसैः ॥ ४३ ॥

पूर्णं नानाविधैर्गन्धैरनेकैस्तद्गुणैस्तथा ।
स्वमन्त्रेण समाक्रान्तं धारणाख्येन तं स्मरेत् ॥ ४४ ॥

तथा स्वरूपं तन्मन्त्रं ध्यात्वोच्चार्य समाहरेत् ।
{{८९}}
पूर्वोक्तकरणेनैवं घ्राणाग्रेण शनैश्शनैः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
आकण्ठान्नाभिदेशान्तं तेन व्याप्तं तु भावयेत् ।
प्रागुक्तकरणेनैव वायव्यं विभवं ततः ॥ ४६ ॥

अधिष्ठातृलयं यातं स्मृत्वा तं च महामुने ।
स्पर्शाख्यायां महाशक्तौ तां शक्तिमविनश्वरीम् ॥ ४७ ॥

आकाशतत्त्वनिलयनम्
विश्वास-प्रस्तुतिः
व्याप्तां नित्यामदृश्यां च स्वशक्तिविभवान्विताम् ।
शब्दाख्ये तु महाधारे निक्षिपेद्व्योममण्डले ॥ ४८ ॥

ध्यात्वाऽथ विभवं सर्वं व्योमाख्यं विग्रहाद्बहिः ।
नानाशब्दसमाकीर्णं नीरूपं चाञ्जनप्रभम् ॥ ४९ ॥

अविग्रहैश्शब्दमयैः पूर्णं सिद्धैरसङ्ख्यकैः ।
तन्मध्ये धारणान्मन्त्रं व्योमाख्यं संस्मरेद्द्विज ॥ ५० ॥

धारयन्तं स्वमात्मानं स्वसामर्थ्येन सर्वदा ।
शब्दमत्रामरूपं तु व्यापकं विभवेष्वपि ॥ ५१ ॥
विश्वास-प्रस्तुतिः
धिया च सम्परिच्छन्नं कृत्वा विन्यस्य विग्रहे ।
प्रागुक्तकरणेनैव तेन व्याप्तं तु भावयेत् ॥ ५२ ॥

आकर्णाद्ब्रह्मरन्ध्रान्तं व्योमाख्यं विभवेन च ।
सन्धार्य कुम्भकेनैव यावत्कालं तु योगिना ॥ ५३ ॥

ध्यायेत्परिणतं पश्चात्स्वमन्त्रे तु तथा मुने ।
व्योमाख्यं धारणामन्त्रं शब्दशक्तौ लयं गतम् ॥ ५४ ॥

[शब्दशक्तेः क्रमात् गन्धादिशक्तिनिलयनास्पदभूताया
निष्कलेऽनुप्रवेशभावनम्]
विश्वास-प्रस्तुतिः
तां शक्तिं ब्रह्मरन्ध्रेण प्रयान्तीमनुभावयेत् ।
युक्तां शक्तिचतुष्केण गन्धाद्येनाविनश्वरीम् ॥ ५५ ॥

आश्रयेन्निष्कलं मन्त्रं व्योमातीतं निरञ्जनम् ।
शक्तयो याश्च सत्याद्यास्तासामपि परश्च यः ॥ ५६ ॥

षट्कं (ष्ठं ?) तं निष्कलं विद्धि व्याप्तिः प्रागुदिताऽस्य च ।
समन्त्रं विभवं भौतमेवमस्तं नयेत्क्रमात् ॥ ५७ ॥

{{९०}}
[जीवस्य पदात्पदान्तरप्रापणक्रमेण देहात् स्थूलात्
प्रभाचक्रविशेषप्रापणेन कैवल्यस्थितिप्रापणम्]
विश्वास-प्रस्तुतिः
चैतन्यं जीवभूतं यत्प्रस्फुरत्तारकोपमम् ।
भावनीयं तु विश्रान्तं निस्सृतं भूतपञ्जरात् ॥ ५८ ॥

निष्प्रपञ्चे परे मन्त्रे पञ्चशक्त्याख्यविग्रहे ।
अनेन क्रमयोगेन जीवमात्मानमात्मना ॥ ५९ ॥

इक्षते(क्षेत ?) तद्धृदाकाशे अचलं सूर्यवर्चसम् ।
स्फुरद्द्युतिसमाकीर्णमीश्वरं व्यापकं परम् ॥ ६० ॥

ततो मन्त्रशरीरस्थं समाधिं चाभ्यसेत्परम् ।
परं मन्त्रशरीरं यद्व्यक्तमक्षरसन्ततौ ॥ ६१ ॥

सूर्यादिव्योमपर्यन्तमतीतं शक्तिकारणैः ।
हेयं चेत्थमिदं बुध्वा यदा तत्स्थानबृंहितः ॥ ६२ ॥

अतृप्तोऽकृतकृत्यश्च मन्त्रहृत्पद्मसेवनात् ।
षट्पदी(?)ह्यात्मतत्त्वं च ज्ञानरज्वाऽवलंव्य च ॥ ६३ ॥

हृत्कोटरोर्ध्वान्निर्यान्तं स्वात्मानं स्वात्मना स्मरेत् ।
भारूपान्नाडिमार्गेण मन्त्रवह्नेश्शिखा हि सा ॥ ६४ ॥

पद्मसूत्रप्रतीकाशा सुषुम्ना चोर्ध्वगामिनी ।
तद्ब्रह्मरन्ध्रगां स्मृत्वा सुपथा तेन नारद ॥ ६५ ॥

शनैश्शनैस्स्वमात्मानं रेच्य विज्ञानवायुना ।
मान्त्रं कारणषट्कं च एवमव्यापकं न्यसेत् ॥ ६६ ॥

प्राप्नुयाच्च तदूर्ध्वात्तु यः परात्प्रभुविग्रहात् ।
उदितं (तो?) द्विजशार्दूल तेजःपुञ्जो ह्यनूपमः ॥ ६७ ॥

तत्प्रभाचक्रनाभिस्थं स्वानन्दानन्दनन्दितम् ।
एवं पदात्पदस्थस्य आत्मतत्त्वस्य नारद ॥ ६८ ॥

तत्त्व(स्य ?)निर्मुक्तदेहस्य केवलस्य चिदात्मनः ।
य उदेति महानन्दः सा शक्तिर्वैष्णवी परा ॥ ६९ ॥

अलुप्तकर्मकर्तारं जीवं कृत्वा तमात्मसात् ।
यत्रोदिता च तत्रैव पुनरेवावतिष्ठते ॥ ७० ॥

तच्च (तं च?) सङ्कल्पनिर्मुक्तमवाच्यं विद्धि नारद ।
{{९१}}
[त्यक्ततया भावितस्यास्य भौतिकदेहस्य प्रज्वालन
भस्मीकरणभावनम्]
एवं स्वस्थानमासाद्य त्यक्त्वा भौतं च विग्रहम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
तत्र स्थितो दहेत्पिण्डं शक्तितन्मात्रवर्जितम् ।
षाट्कोशिकमसारं च निर्दग्धतृणरूपिणम् ॥ ७२ ॥

इच्छानिर्मथनोत्थेन मन्त्रजेन तु वह्निना ।
अशेषभुवनाधारं चतुर्गतिसमन्वितम् ॥ ७३ ॥

लोकेशोपरिसंस्थं च व्योम्नि तस्योपरि न्यसेत् ।
प्रणवादिनमोऽन्तं च इच्छाग्नेर्वाचकः स्वयम् ॥ ७४ ॥

तेनाङ्घ्रिदेशादारभ्य तं पिण्डं ज्वलितं स्मरेत् ।
भस्मराशिसमप्रख्यं शान्ताग्निं तदनु द्विज ॥ ७५ ॥

साह्लादेन च सूक्ष्मेण व्यापिनोङ्कारपूर्विणा ।
नमोऽन्तेन तु तद्भस्मपातं ध्यात्वाऽन्वितस्ततः ॥ ७६ ॥

भस्मावशेषतया भावितस्य समाप्लावनभावना
विश्वास-प्रस्तुतिः
ध्यानजेनोदकेनाथ भूतिं सम्प्लाव्य दिग्गताम् ।
विनिपातात्स्वमन्त्रेण सिक्तेन क्षीररूपिणा ॥ ७७ ॥

अथापूर्वतेजोमयशरीरसृष्टिभावनाक्रमः
विश्वास-प्रस्तुतिः
वराहममृतारूढं त्रैलोक्यैश्वर्यदान्वितम् ।
दीपकं द्वितयेनैतत्सम्पुटीकृत्य पूर्ववत् ॥ ७८ ॥

तेन क्षीरार्णवाकाराद्ध्यायेद्विश्वं चराचरम् ।
पात्यमानं तदूर्ध्वे तु धारासङ्घो द्विजामृतः ॥ ७९ ॥

तुर्यस्थानाद्विनिष्क्रान्तो भावनीयो मुहुर्मुहुः ।
तत्राधारमयीं शक्तिं मध्ये विन्यस्य वैष्णवीम् ॥ ८० ॥

बीजभूतां च सर्वस्य तदुत्थं चाम्बुजं स्मरेत् ।
षडध्वतत्त्वभूतं च सितं तेजोमयं शुभम् ॥ ८१ ॥

मण्डलत्रितयाकीर्णं स्पुरत्किरणभास्वरम् ।
मन्त्रात्मानं च तन्मध्ये ध्यायेन्नारायणं प्रभुम् ॥ ८२ ॥

निष्कलं केवलं शुद्धं पञ्चसन्मन्त्रविग्रहम् ।
तन्मन्त्रशक्तिभिर्भूयो मूर्च्छितं भावयेद्द्विज ॥ ८३ ॥

व्योमादिपञ्चभूतीयं मन्त्रमीश्वरपञ्चकम् ।
{{९२}}
तेभ्योऽथ प्रसरन्तं च व्योमाद्यं विभवं स्मरेत् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
संयोगजनितं पिण्डं ध्यायेद्विभवपञ्जरात् ।
सहस्रसूर्यसङ्काशं शतचन्द्रगभस्तिमत् ॥ ८५ ॥

निर्मलस्फटिकप्रख्यं जरामरणवर्जितम् ।
जनित्वैवं सपिण्डं तु परमं भोगमोक्षयोः ॥ ८६ ॥

साधनं मुनिशार्दूल सहजं सर्वदेहिनाम् ।
तमासाद्य क्रमेणैवं सिसृक्षालक्षणेन च ॥ ८७ ॥

स्वपादान्निस्तरङ्गाच्च कृत्वा शक्त्या सहोदयम् ।
जीवस्य सृष्टे शरीरे प्रवेशनक्रमः
स्वानन्दं च महानन्दात्स्वनन्ताच्चाश्रयेत्ततः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
मारीचं नाभसं चक्रं तस्माद्रूपं स्वकं च यत् ।
सूर्यकोटिकराभासं प्रस्पुरन्तं स्वभाससा ॥ ८९ ॥

कदम्बगोलकाकारं निशाम्बुकणनिर्मलम् ।
एवमात्मानमानीय स्वस्थानात्स्वात्मना द्विज ॥ ९० ॥

विशेन्मन्त्रशरीरं स्वं ब्रह्मरन्ध्रेण पूर्ववत् ।
ज्योत्स्नानाडीपथेनैव पुर्यष्टककजान्तरम् (?) ॥ ९१ ॥

स्ववाचकं भावयन्वै ध्वनिना निष्कलेन तु ।
आत्ममन्त्रः
अशेषभुवनाधारं विश्वाप्यायकरेण तु ॥ ९२ ॥
विश्वास-प्रस्तुतिः
अङ्कयेदमृताख्यं च तदन्ते चात्मने नमः ।
स तारकस्त्वयं मन्त्रो विज्ञेयो ह्यात्मवाचकः ॥ ९३ ॥

ततस्तु निष्कलो मन्त्रो यावद्भानुं च विग्रहः ।
पञ्चकं चाभिमानं तु आसाद्यालोकविग्रहम् ॥ ९४ ॥

स्वमन्त्रादमृतौघेन सेचयेद्विग्रहं स्वकम् ।
ततस्स्वतन्त्रं तं बिम्बमाकृष्य हृदि विन्यसेत् ॥ ९५ ॥

निस्तरङ्गा परा शक्तिर्महानन्दमयी च सा ।
स्वानन्दाच्च प्रभाचक्रं रूपमात्मीयभास्वरम् ॥ ९६ ॥

सौषुम्नस्तादृशो मार्गः पिण्डमन्त्रश्च निष्कलः ।
{{९३}}
शक्त्याद्यो मन्त्रसङ्घोऽथ धारणेश्वरपञ्चकम् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
तेषां विभवसङ्घो यः पिण्डस्तत्सामुदायिकः ।
स्मरेज्ज्वालीकृतं सर्वमपृथक्च पृथक् स्थितम् ॥ ९८ ॥

स्थूलसूक्ष्मपराख्येन त्रिविधेन तु नारद ।
करणेनोदिता सम्यक्शुद्धिरेषा च भौतिकी ॥ ९९ ॥

भक्तस्त्वं भावितात्मा च स्थिरबुद्धिरतन्द्रितः ।
प्रियोऽपि मे यथा तेन सरहस्या प्रकीर्तिता ॥ १०० ॥

यथा त्वं मयि विप्रेन्द्र त्वय्येवं यो भविष्यति ।
तस्येदं प्रकटीकुर्यान्नेतरस्याधरस्य च ॥ १०१ ॥

परं भवहरं पुण्यं समाधिं भूतशुद्धिदम् ।
केवलं यस्समभ्यस्येत्स याति ब्रह्म शाश्वतम् ॥ १०२ ॥

अनेन किं पुनर्विप्र चित्तं विग्रहसंयुतम् ।
संस्तुत्य यो यजेद्देवं भावितात्मा प्रसन्नधीः ॥ १०३ ॥

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां समाधिख्यापनं नाम
दशमः पटलः ॥ १० ॥