०९ स्नानविधिः

अथ पाञ्चरात्रे जयाख्यसंहितायां स्नानविधिर्नाम नवमः पटलः

श्रीभगवान्

विश्वास-प्रस्तुतिः

अथाधिकारसिद्ध्यर्थं स्नानं वक्ष्यामि पूर्वतः ।
येन भक्तोऽभिषिक्तस्तु स्यादर्हो होमयागयोः ॥ १ ॥

मूलम्

स्नाने द्वैविध्यम्

विश्वास-प्रस्तुतिः

स्नानं तु द्विविधं कुर्यान्मलसङ्करशुद्धये ।
सामान्यविधिना स्नात्वा विशेषविधिना ततः ॥ २ ॥

सामान्यं लौकिकं स्नानं विशिष्टं मन्त्रसंस्कृतम् ।

शौचविधिः

तच्चापि शौचपूर्वं स्यात्तदादौ कथयामि ते ॥ ३ ॥

{{८०}}

विश्वास-प्रस्तुतिः

तिस्रो लिङ्गे मृदो देया एकैकान्तरमृत्तिकाः ।
पञ्च वामकरे देयास्तिस्रः पाण्योर्विशुद्धये ॥ ४ ॥

मूत्रोत्सर्गे शुद्धिरेषा पुरीषस्याप्यनन्तरम् ।
पञ्चापाने मृत्तिकास्स्युस्तथैवान्तरमृत्तिकाः ॥ ५ ॥

दश वामकरे देयास्सप्त तूभयहस्तयोः ।
पादाभ्यां त्रिसृभिश्शुद्धिर्जङ्घाशुद्धिश्च पञ्चभिः ॥ ६ ॥

नियोजयोत्ततो विप्र कट्यां वै सप्तमृत्तिकाः ।
स्वदेहस्वेददोषघ्नं बाह्यकर्दमशान्तये ॥ ७ ॥

भक्तानां श्रोत्रियाणां च वर्षास्वेवं निरूपितम् ।
प्रावृट्सूक्तात्तदेतस्मादेकमृद्व्यपनोदनम् ॥ ८ ॥

शरद्ग्रीष्मवसन्तेषु नित्यं कार्या क्रियापरैः ।
एतस्मादपि चैकैका परिलोप्या तु मृत्तिका ॥ ९ ॥

हेमन्ते शिशिरे विप्र श्रोत्रियैः संयमस्थितैः ।
पथि शौचं प्रकर्तव्यं देशकालानुरूपतः ॥ १० ॥

गन्धलेपमपास्यैवं मनश्शुद्ध्या विशुध्यति ।

स्नानार्थं मृत्सङ्ग्रहणम्

एवं कृत्वा पुरा शौचं समाचम्य ततः खनेत् ॥ ११ ॥

विश्वास-प्रस्तुतिः

शङ्कुना ह्यस्त्रजप्तेन शुचिस्थानात्तु मृत्तिकाम् ।
गृहीत्वाऽस्त्रेण सङ्गृह्य यायाज्जलनिकेतनम् ॥ १२ ॥

स्नानविधिः

विश्वास-प्रस्तुतिः

तत्रादौ जलकूलं तु क्षालयेदस्त्रवारिणा ।
मृदः कृत्वा द्विधा स्थाप्य एक भागोपगं ततः ॥ १३ ॥

निधाय गोमयं दर्भान्स्तिलास्त्रानभिमन्त्रितान् ।
लौकिकं गोमयाढ्येन भागेन [स्नानमाचारेत्] ॥ १४ ॥

तत(तच्च ?)स्नानं पुरा कृत्वा विधिस्नानं समाचरेत् ।

विधिस्नाने क्रमः

विधिस्नाने तु मृद्भागो यस्तं कुर्याद्द्विधा पुनः ॥ १५ ॥

विश्वास-प्रस्तुतिः

पादादि क्षाल्यमेकेन पूर्ववत्क्रमयोगतः ।
पाणिप्रक्षालनं कृत्वा विनिमज्य जलान्तरे ॥ १६ ॥

{{८१}}

[स्नानाङ्गमन्त्रन्यासमुद्राबन्धौ]

विश्वास-प्रस्तुतिः

समुत्थाय न्यसेन्मन्त्रं षडङ्गं विग्रहे स्वके ।
मन्त्रन्यासं ततः कुर्यान्मुद्राबन्धं च कारयेत् ॥ १७ ॥

कीटाद्यशुचिसम्पर्काज्जलस्यावहतो द्विज ।
वहतोऽप्युद्धृतस्यापि शुद्धिरेवं भवेत्पुरा ॥ १८ ॥

निर्मलं वारुणं विप्र चन्द्रार्ककरतापितम् ।
यद्यपि स्यात्तथा नैवं सम्यङ्मान्त्रे क्रियाक्रमे ॥ १९ ॥

पवित्रधारणम्

विश्वास-प्रस्तुतिः

त्रिपञ्चसप्तकाण्डोत्थं द्रढिमग्रन्थिसंयुतम् ।
पवित्रकद्वयं दार्भमस्त्रमन्त्राभिमन्त्रितम् ॥ २० ॥

हस्तद्वयेऽपि निक्षिप्य अनामाङ्गुलयोरधः ।

[वामपाणौ मूलादिस्थानभेदेन त्रेधा विभक्ताया मृदः
क्रमेणास्त्रादित्रयेणाभिमन्त्रणम्]

सावशेषां मृदं शेषां कृत्वाऽदायास्त्रमुच्चरन् ॥ २१ ॥

विश्वास-प्रस्तुतिः

तां तथा वामपाणौ तु मूलमध्याग्रतो भजेत् ।
सास्त्रेण मूलमन्त्रेण जपेदङ्गैरनुक्रमात् ॥ २२ ॥

तत्रास्त्राभिमन्त्रिताया विनियोगः

विश्वास-प्रस्तुतिः

अस्त्रजप्तां मृदं गृह्य क्षिपेद्दिक्षु विदिक्षु च ।
अध ऊर्ध्वे च तन्मन्त्रं (न्त्र ?) मुद्राबन्धेन संयुतम् ॥ २३ ॥

तेन स्नानहरा विघ्ना दिग्विदिक्परिसंस्थिताः ।
प्रयान्ति विह्वलीभूता यावत्तन्नोपसम्भृतम् ॥ २४ ॥

मूलमन्त्रिताया मृदो विनियोगः

विश्वास-प्रस्तुतिः

मृद्भागो मूलमन्त्रेण मन्त्रितो यः पुरा स्थितः ।
तमुच्चरंस्तमादाय तोयमध्ये विनिक्षिपेत् ॥ २५ ॥

तेन तत् द्विजशार्दूल तत्क्षणादेव जायते ।
गङ्गातोयेन सम्पूर्णं यामुनेन जलेन च ॥ २६ ॥

प्रायागं चक्रतीर्थं च प्रभासं पुष्कराणि च ।
भवन्ति सन्निधीभूता मन्त्रस्यास्य प्रभावतः ॥ २७ ॥

ततो वै विष्णुतीर्थाय मन्त्रान्ते पदमुच्चरेत् ।
{{८२}}

सनमस्कं भवेत्तेन विष्णुतीर्थस्य सन्निधिः ॥ २८ ॥

तीर्थान्तरे केवलमूलमन्त्रमात्रयोजनम्

विश्वास-प्रस्तुतिः

अन्यतीर्थे यदा स्नानं कुर्यात्तत्र च योजयेत् ।
केवलं मूलमन्त्रं तु विष्णुतीर्थपदं विना ॥ २९ ॥

तीर्थान्तरेष्विदं नाम न सङ्कीर्तयते सुधीः ।
सन्निधाने हि तीर्थस्य यद्यन्यामभिधां स्मरेत् ॥ ३० ॥

स्नातकस्तस्य तत्तीर्थमभिशप्य क्षणं व्रजेत् ।
निर्जराम्बुतटाकादौ सामान्यस्नानकर्मणि ॥ ३१ ॥

गङ्गादीनां नदीनां च तीर्थानां च प्रकीर्तितम् ।
मान्त्रे स्नानक्रमे सम्यग्विष्णुतीर्थाय कीर्तयेत् ॥ ३२ ॥

अङ्गमन्त्राभिमन्त्रितस्य मृद्भागस्य विनियोगः

विश्वास-प्रस्तुतिः

ततोऽङ्गमन्त्रजप्तं च भागं पाणितले स्थितम् ।
तोयेनालोढ्य मसृणं तापयेदर्करश्मिभिः ॥ ३३ ॥

मेघच्छन्ने स्वकं मन्त्रं सूर्यवत्खस्थितं स्मरेत् ।
दर्शयित्वा करे तस्य ताभ्यां सर्वाङ्गकं स्पृशेत् ॥ ३४ ॥

तीर्थस्य परमीकरणप्रकारः

विश्वास-प्रस्तुतिः

धारणाद्वितयेनाथ तीर्थस्य सजलस्य च ।
परमीकरणं कुर्याद्विधिदृष्टेन कर्मणा ॥ ३५ ॥

आधारशक्तेरारभ्य सङ्कल्पविषयावधि ।
वह्निना पूरयेत्सर्वं ज्वालामालाविलेन च ॥ ३६ ॥

निरम्मयं जगत्कृत्वा तीर्थं शान्ततनु स्मरेत् ।
शान्ते संविन्मये विष्णौ भूयस्तदवतार्य च ॥ ३७ ॥

निशाम्बुकणसङ्काशमियत्ताकल्पितं पुरा ।
स्मृत्वा शक्तिप्रभावेन ब्रह्मस्रोतो विनिर्गतम् ॥ ३८ ॥

धाराकल्लोलसङ्गीर्णं पतमानं तु वेगतः ।
आब्रह्मभवनं सर्वं पूरयेच्छशिसन्निभम् ॥ ३९ ॥

विलोकनपदैश्शश्वत्सङ्घट्टं तं तु भावयेत् ।
समस्ते प्राक्स्वरूपेण तन्मध्ये त्वासनं प्रभोः ॥ ४० ॥

दत्वा तदुपरि ब्रह्मन् स्मरेन्नारायणं प्रभुम् ।
{{८३}}

चन्द्रकोटिसमं शुद्धसुधाधारागणावृतम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

साहंशक्तिसमूहाढ्यं प्रोद्गिरन्तं सुधारसम् ।
एवं कृते सति भवेत्तीर्थं नारायणात्मकम् ॥ ४२ ॥

निमज्जनं ततः कुर्यादुन्मज्जनसमन्वितम् ।
गन्धैस्सामलकैर्हृद्यैः पवित्रैर्विविधैः शुभैः ॥ ४३ ॥

चक्रवर्त्युपचारेण मन्त्री स्नायादतन्द्रितः ।

अथ स्नानोत्तराङ्गविधिः

ततश्चान्तर्जलस्थश्च स्मरेन्मन्त्रं स्वशक्तितः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

भास्वद्भास्वररूपोऽसौ उदेति हृदयान्तरे ।
हृदयादग्रतश्चान्ते द्वादशान्तेन दूरतः ॥ ४५ ॥

परमं पुरुषं दृष्ट्वा प्रत्यक्षस्थं तु नारद ।
समुत्थाय जलात्पश्येद्गगनस्थं तमेव हि ॥ ४६ ॥

ततोऽप्सु तारमासाद्य उपविश्य यथासुखम् ।
न्यसेदङ्कुशमुद्राग्रे हृन्मन्त्रं सितविग्रहम् ॥ ४७ ॥

स्वेनानिलेन संयुक्तं रेचयेत्तीर्थमध्यतः ।
पूरकेण समाकृष्य मुद्रायुक्तेन तत्पुनः ॥ ४८ ॥

एवञ्चोपगतं तीर्थं पुरा कृत्वा तु नारद ।
प्रणवेनोपचाराख्यहृदयेनाचमेत्ततः ॥ ४९ ॥

मूलम्

एवञ्चोपगतं तीर्थं पुरा कृत्वा तु नारद ।
प्रणवेनोपचाराख्यहृदयेनाचमेत्ततः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

सुप्रसन्नेन तोयेन जान्वन्तस्थेन पाणिना ।
एकेन पाद्यमन्त्रेण सोपचारहृदा द्विज ॥ ५० ॥

ध्वात्वा तत्र स्थितं देवं साङ्गं सपरिवारकम् ।
जप्यमानश्च मन्त्रोऽयमुपस्थानं तु कारयेत् ॥ ५१ ॥

प्रणवेन ततस्सर्वान्पितृदेवांश्च तर्पयेत् ।
तिलमिश्रेण विधिवत्सन्त्यजेत्स्नानकर्पटम् ॥ ५२ ॥

सुधौतं परिधायाथ वस्त्रयुग्ममखेददम् ।
अथवा तदधश्शाटीं योगपट्टकसंयुताम् ॥ ५३ ॥

मूलम्

सुधौतं परिधायाथ वस्त्रयुग्ममखेददम् ।
अथवा तदधश्शाटीं योगपट्टकसंयुताम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

नैकवस्त्रेण वै यस्माद्भवितव्यं कदाचन ।
स्थानेऽस्त्रशोधितेऽन्यस्मिन्ननन्तासनसंस्थितम् ॥ ५४ ॥

{{८४}}

विश्वास-प्रस्तुतिः

आधारमासनं ध्यात्वा जलमध्येऽच्युतस्य च ।
मन्त्रग्रामसमोपेतमाहूय विनिवेश्य तम् ॥ ५५ ॥

तर्पयेदुदकेनैव विष्वक्सेनावसानकम् ।
स्वेन स्वेन तु मन्त्रेण पाणिभ्यामग्रतः क्रमात् ॥ ५६ ॥

देवताश्च मुनीन्नागान् ग्रहभूतवियच्चरान् ।
सन्तर्प्य स्थावरान्तांश्च स्ववंशं तर्पयेत्क्रमात् ॥ ५७ ॥

व्रजन्तं सासनं देवं जलमध्यात्ततस्स्मरेत् ।
तीर्थशुद्धौ पुरा मन्त्रो न्यस्तोऽसावपि दिक्षु वै ॥ ५८ ॥

प्रेरयन्पूर्ववद्देवान्प्राणाग्रेणानिलं द्विज ।
तमेकीकृत्य वै तेन त्यक्त्वा तोयं तु शुक्लवत् ॥ ५९ ॥

आपूर्य हृदि विन्यस्येत् सोपसंहारमुद्रया ।
इत्युक्तमौदकं स्नानमथ मान्त्रं निबोध मे ॥ ६० ॥

मन्त्रस्नानम्

विश्वास-प्रस्तुतिः

तोयाभावे च यत्कुर्याद्दुर्गे काले च शीतले ।
गमने क्षिप्रसिद्धौ वा गुरुकार्ये स्वतन्त्रताम् ॥ ६१ ॥

प्राप्तां वा वीक्ष्य विप्रेन्द्र निशाभागे दिनस्य वा ।
प्रक्षाल्य पादावाचम्य प्रोद्धृतेन तु वारिणा ॥ ६२ ॥

स्नानं दश दिशः प्राग्वत्संशोध्योपविशेत्ततः ।
अस्त्रं हस्ततले योज्यं क्रमान्न्यासं ततस्तनौ ॥ ६३ ॥

मूलमन्त्रादि तत्कुर्यात्सर्वमन्त्रगणेन तु ।
केवलादुदकस्नानात्संस्कारपरिवर्जितात् ॥ ६४ ॥

प्रभासादिषु तीर्थेषु यत्फलं स्नातकस्य च ।
ज्ञेयं शतगुणं तस्मान्मन्त्रग्रामस्य नारद ॥ ६५ ॥

ध्यानस्नानम्

विश्वास-प्रस्तुतिः

ध्यानस्नानमथो वक्ष्ये द्वाभ्यामपि परं तु यत् ।
खस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं प्रभुं स्मरेत् ॥ ६६ ॥

तत्पादोदकजां धारां पतमानां स्वमूर्धनि ।
चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ॥ ६७ ॥

तया सङ्क्षालयेत्सर्वमन्तर्देहगतं मलम् ।
{{८५}}

तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

इदं स्नानं परं मान्त्रात्स्नानाच्छतगुणं स्मृतम् ।
तस्मादेकतमं कार्यं स्नानं श्रद्धापरेण तु ॥ ६९ ॥

स्नानपूर्वाः क्रियास्सर्वा यतस्सम्यक्फलप्रदाः ।
तस्मात्स्नानं पुरा कुर्याद्य इच्छेच्छ्रेय आत्मनः ॥ ७० ॥

स्नानेन निर्मलो जन्तुः कृतमात्रेण जायते ।
द्विजेन्द्र निर्विवेकात्मा किं पुनर्यः क्रियापरः ॥ ७१ ॥

वर्णधर्मक्रमोपेतस्साधुमार्गव्यवस्थितः ।

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां स्नानविधिर्नाम नवमः पटलः ॥ ९ ॥