०८ मुद्राबन्धाख्यानम्

अथ जयाख्यसंहितायां मुद्राबन्धाख्यानं नाम अष्टमः पटलः

श्रीभगवानु वाच

विश्वास-प्रस्तुतिः

अस्यैव मन्त्रवृन्दस्य क्रमेण तु यथाक्रमम् ।
मुद्राकोशं प्रवक्ष्यामि येन सन्निहितस्सदा ॥ १ ॥

मूलम्

{{७०}}

विश्वास-प्रस्तुतिः

भवेच्च साधकेन्द्राणां भुक्तिमुक्तिप्रसाधने ।
आदौ तु मूलमन्त्रस्य अन्येषां तदनन्तरम् ॥ २ ॥

मुद्रां वै बन्धयेन्मन्त्री स्नानकाले जलान्तरे ।
आत्मनो न्यासकाले तु पूजान्ते मण्डलावनौ ॥ ३ ॥

अर्चासु मन्त्रविन्यासे अर्घ्यपात्रेऽम्बुभाजने ।
पूर्णाहुत्यवसाने च मन्त्रे वह्न्यन्तरस्थिते ॥ ४ ॥

हिंसकानां विधाताय सर्वविघ्नोपशान्तये ।
सर्वकार्यार्थसिध्यर्थं मुद्राकोश इहोदितः ॥ ५ ॥

जयामुद्रा

विश्वास-प्रस्तुतिः

अधोमुखाद्वामहस्तान्मध्यमां ग्राहयेन्मुने ।
कनिष्ठया दक्षिणस्य तिस्रोऽन्या मुष्टिवत्स्थिताः ॥ ६ ॥

अङ्गुष्ठमुभयं कृत्वा मुद्रेयं तु जया स्मृता ।
अधस्ताद्गरुडं तस्या वामहस्ते विचिन्तयेत् ॥ ७ ॥

पृष्ठे स्याद्दक्षिणे हस्ते ध्यायेद्विष्णुं सनातनम् ।
एषा मुद्रा जया नाम सर्वकार्यार्थसाधनी ॥ ८ ॥

योजयेद्देवदेवस्य तार्क्ष्येण सहितस्य च ।

शक्तिमुद्रा

प्रसार्य वाममुत्तानमङ्गुल्यो विरलाः स्थिताः ॥ ९ ॥

विश्वास-प्रस्तुतिः

कार्यास्त्वाकुञ्चिताः प्रान्तादङ्गुष्ठं सेतुवद्भवेत् ।
सम्मुखं तासु संलग्नं करशाखासु मध्यतः ॥ १० ॥

हृत्सम्मुखं तु बध्नीयाच्छक्तिमुद्रां सुखप्रदाम् ।
शक्तियुक्तस्य देहस्य मुद्रा वै सन्निधापनी ॥ ११ ॥

प्रदेशिन्या ततो(?)विद्धि लक्ष्मीपूजासु शक्तिषु ।

हृदयमुद्रा

दक्षिणेन तु हस्तेन मुष्टिबन्धं प्रकल्पयेत् ॥ १२ ॥

विश्वास-प्रस्तुतिः

अङ्गुष्ठं करमध्यस्थं कृत्वा योज्यं हृदि द्विज ।
हृदयाख्या भवेन्मुद्रा सर्वमन्त्रेषु साधनी ॥ १३ ॥

शिरोमुद्रा

प्रसृता अङ्गुलीस्सर्वा अङ्गुष्ठेन तु संस्पृशेत् ।
{{७१}}

शिरोमुद्रेति विख्याता मन्त्रसन्निधिकारिणी ॥ १४ ॥

शिखामुद्रा

विश्वास-प्रस्तुतिः

मुष्टिं बध्वा शिखास्थाने तर्जनी चोर्ध्वसंस्थिता ।
शिखामुद्रेति विख्याता सर्वदुष्टक्षयङ्करी ॥ १५ ॥

दोषविघ्नविनाशाय सदा ह्येषा प्रकीर्तिता ।
आदौ तस्मात्प्रयत्नेन यागवेश्मनि बन्धयेत् ॥ १६ ॥

उत्सादं सर्वविघ्नानां कुरुते मन्त्रसंयुता ।

कवचमुद्रा

उभयोरग्रतश्शाखा ग्रस्तास्तु करयोर्द्विज ॥ १७ ॥

विश्वास-प्रस्तुतिः

तयोर्मध्यं ह्यसंश्लिष्टं करबन्धाधितो भवेत् ।
वार्मण्येषा भवेन्मुद्रा द्वावंसावनया स्पृशेत् ॥ १८ ॥

दुर्भेद्या दुष्टसङ्घस्य भूतवेतालयोगिनाम् ।
कर्मकाले च बध्नीयात्समन्त्रां च प्रयत्नतः ॥ १९ ॥

नेत्रमुद्रा

विश्वास-प्रस्तुतिः

करयोर्ग्रथिताङ्गुल्यस्संवृताः पाणिपृष्ठगाः ।
तर्जन्यौ प्रान्तसंलग्ने सुषिरेचोर्चिते तयोः ॥ २० ॥

अङ्गुष्ठौ मूलसंलग्नविपर्यस्तौ परस्परम् ।
लोचनाख्या भवेन्मुद्रा दर्शयेच्चक्षुषोऽन्तिके ॥ २१ ॥

अस्त्रमुद्रा

विश्वास-प्रस्तुतिः

तर्जनीं स्फोटयेद्दिक्षु दशस्वङ्गुष्ठकेन तु ।
द्रुतं करद्वयेनैव चक्षुर्भ्यां सन्निरीक्षयेत् ॥ २२ ॥

अस्त्रमुद्रेति विख्याता त्रासिनी त्रिदशेष्वपि ।
किं पुनर्दुष्टयोनीनां वाङ्मनःकायसंयुता ॥ २३ ॥

सिह्ममुद्रा

विश्वास-प्रस्तुतिः

उत्ताने दक्षिणे वामे कुञ्चयित्वाऽङ्गुलित्रयम् ।
प्रसारयेच्च तिर्यग्वै अङ्गुष्ठं तर्जनीं तथा ॥ २४ ॥

ईषदूर्ध्वीकृताऽधोदृग् निष्कम्पालोकसंयुता ।
पाशबन्धक्षयकरी सर्वोपद्रवनाशिनी ॥ २५ ॥

सिह्ममुद्रा भवत्येषा विस्मयाख्या महाप्रभा ।

{{७२}}

कपिलमुद्रा

तर्जन्यङ्गुष्ठयोर्मध्ये मध्यमां तु प्रपीडयेत् ॥ २६ ॥

विश्वास-प्रस्तुतिः

प्रसारयेदनामां च पश्चात्तस्याः कनिष्ठिकाम् ।
परस्परं च दूरस्थे मुद्रैषा कपिली स्मृता ॥ २७ ॥

सर्वसिद्धिकरी ह्येषा अणिमादिषु साधनी ।

क्रोडमुद्रा

अधोमुखे वामहस्ते मध्यमानामिके यदा ॥ २८ ॥

विश्वास-प्रस्तुतिः

अङ्गुष्ठस्य तु संसक्ते कनिष्ठा तर्जनीद्वयम् ।
प्रसारितं ततः कार्यं मुद्रा क्रोडात्मिका स्मृता ॥ २९ ॥

सर्वयन्त्रप्रमथनी सर्वदुष्टनिवारिणी ।
स्वे स्वे स्थाने नियोक्तव्या मुद्रावक्त्रेषु या स्थिता ॥ ३० ॥

कौस्तुभमुद्रा

विश्वास-प्रस्तुतिः

मध्यमानामिकान्यूना मुष्टिवत्पाणिमध्यगाः ।
उभयोर्हस्तयोर्विप्र पश्चान्मुष्टिद्वयं तु तत् ॥ ३१ ॥

श्लेषयेत्समरन्ध्रेण तर्जन्यौ द्वे प्रसार्य च ।
ततः संश्लेषयेदग्रादङ्गुष्ठाग्रे नियोजयेत् ॥ ३२ ॥

मध्यतस्तर्जनीभ्यां तु अन्योन्येन क्रमेण तु ।
मुद्रैषा कौस्तुभस्योक्ता मालामुद्रामथो शृणु ॥ ३३ ॥

मालामुद्रा

विश्वास-प्रस्तुतिः

शाखाष्टकं कराभ्यां यद्ग्रस्तमग्रानदूरतः ।
संश्लक्ष्णं लम्बमानं च उपविष्टोऽथ वास्थितः ॥ ३४ ॥

कुर्याद्बाहुद्वयं विप्र ऊरुमध्यावलम्बितम् ।
मणिबन्धावधौ सम्यङ्मालामुद्रा प्रकीर्तिता ॥ ३५ ॥

पद्ममुद्रा

विश्वास-प्रस्तुतिः

अङ्गुष्ठौ सङ्गतौ लग्नौ अङ्गुल्यो विरलाः स्थिताः ।
पाद्मी ह्येषा भवेन्मुद्रा पुष्टिसौभाग्यदायिका ॥ ३६ ॥

शङ्खमुद्रा

विश्वास-प्रस्तुतिः

मुष्टिना ग्राहयेद्वाममङ्गुष्ठं दक्षिणेन तु ।
अङ्गुलीर्वामहस्तात्तु दक्षिणस्योपरि न्यसेत् ॥ ३७ ॥

{{७३}}

विश्वास-प्रस्तुतिः

वामतर्जनिकाग्रं तु अङ्गुष्ठाग्रं च दक्षिणात् ।
परस्परं सम्मुखं तु सुश्लिष्टं विनियोजयेत् ॥ ३८ ॥

शङ्खस्यैषा भवेन्मुद्रा उत्ताना तु यदा स्थिता ।

चक्रमुद्रा

स्पष्टौ प्रसारितौ हस्तौ परस्परनियोजितौ ॥ ३९ ॥

विश्वास-प्रस्तुतिः

भ्रमणाच्चक्रवत्तौ तु चक्रमुद्रेति कीर्तिता ।
नाशिनी सर्वदुःखानां मुद्राणां भेदिनी परा ॥ ४० ॥

गदामुद्रा

विश्वास-प्रस्तुतिः

बध्वा मुष्टिं दक्षिणेन वामाङ्गुष्ठस्य मूर्धनि ।
कृत्वैवं दर्शयेदेषा कौमोदक्याः सुशोभना ॥ ४१ ॥

गदामुद्रेति विख्याता दोषसैन्यप्रमर्दनी ।

पक्षिराजमुद्रा

प्रसार्य संहतं कृत्वा पुरा पाणिद्वयं द्विज ॥ ४२ ॥

विश्वास-प्रस्तुतिः

अनामा मूलदेशाभ्यामङ्गुष्ठाग्रद्वयं न्यसेत् ।
अधोमुखं तु पतितं मणिबन्धस्य सम्मुखम् ॥ ४३ ॥

सुश्लिष्टमग्रतः कृत्वा न्यसेत्तच्चाङ्गुलिद्वयम् ।
तर्जनीमध्यमाभ्यां यद्वामं युग्मं करद्वयात् ॥ ४४ ॥

प्रोच्छ्रितं विरलं कुर्यात्कुञ्चितं चापि सम्मुखम् ।
सुस्पष्टमुच्छ्रितं लग्नं पुच्छवत्कन्यसायुगम् ॥ ४५ ॥

पक्षिराजस्य मुद्रैषा केवलस्य महात्मनः ।

पाशमुद्रा

प्रसार्य दक्षिणं पाणिं ततोऽङ्गुष्ठकनिष्ठिके ॥ ४६ ॥

विश्वास-प्रस्तुतिः

मेलयेदग्रदेशाच्च सेतुवत्करणेन तु ।
फणवत्कुञ्चितं लग्नं तर्जन्याद्यं लतात्रयम् ॥ ४७ ॥

पाशमुद्रा भवत्येषा अङ्कुशाख्यं निबोध मे ॥ ४८ ॥

अङ्कुशमुद्रा

विश्वास-प्रस्तुतिः

कनिष्ठा मध्यमा नाम वामहस्तस्य मध्यतः ।
पृष्ठवन्निक्षिपेत्पृष्ठे तासामङ्गुष्टकं भवेत् ॥ ४९ ॥

अग्रतस्तर्जनी कार्या कुञ्चिताङ्कुशवद्द्विज ।
इत्येषाऽङ्कुशमुद्रैव सत्यादीनामथो शृणु ॥ ५० ॥

{{७४}}

सत्यादिमुद्रापञ्चकम्

विश्वास-प्रस्तुतिः

दक्षिणस्य तु हस्तस्य अग्रतोऽङ्गुलिपञ्चकम् ।
परस्परं स्पृशेत्कार्यं प्रोन्नतं मुखसम्मुखम् ॥ ५१ ॥

सत्यस्यैषा भवेन्मुद्रा प्रागुपाङ्गोद्भवस्य च ।
अङ्गुष्ठतर्जनीयोगाद्द्वितीयस्य प्रकीर्तिता ॥ ५२ ॥

अङ्गुष्ठमध्यमायोगात्तृतीयस्य प्रकीर्तिता ।
अङ्गुष्ठानामिकायोगाच्चतुर्थस्य तु नारद ॥ ५३ ॥

कनिष्ठाङ्गुष्ठसंयोगात्पञ्चमस्य तु जायते ।

महाजयामुद्रा

विश्वास-प्रस्तुतिः

हृल्लग्नं वामहस्तं तु कृत्वोत्तानं प्रसारितम् ।
पृष्ठे तु मुष्टिबन्धं तु दक्षिणेन करेण तु ॥ ५४ ॥

मुष्टेरूर्ध्वं स्थितोऽङ्गुष्ठं चक्षुर्भ्यामवलोकितम् ।
दैवी ह्येषा भवेन्मुद्रा मन्त्रराजस्य सुव्रत ॥ ५५ ॥

महाजयेति विख्याता सर्वयोगप्रसाधनी ।
सर्वसिद्धिकरी शश्वत्सर्वमुद्राप्रपूरणी ॥ ५६ ॥

अनया मुद्रितं विश्वमाब्रह्मभावनान्तिमम् ।
सर्वाङ्गशक्तियुक्तस्य सर्वमन्त्रालयस्य च ॥ ५७ ॥

निष्कलस्याविकारस्य ब्रह्मन्सप्ताक्षरस्य च ।
इत्येष गर्भमन्त्राणामुक्तो मुद्रागणो मया ॥ ५८ ॥

आधारासनमन्त्राणां मुद्राणां लक्षणं शृणु ।

आधारशक्तिमुद्रा कूर्ममुद्रा च

क्षिप्तमङ्गुलियुग्मं तु मुष्टिभ्यामन्तरे द्विज ॥ ५९ ॥

विश्वास-प्रस्तुतिः

वामस्य दक्षिणो मुष्टिः पृष्ठे स्यात्स्पर्शवर्जितः ।
असावाधारशक्तौ च ऊर्ध्वतः कूर्मवह्नि (द्द्वि?)ज ॥ ६० ॥

अनन्तासनमुद्रा

विश्वास-प्रस्तुतिः

अधोमुखस्य वामस्य अनामा तर्जनी उभे ।
आकुञ्च्य पृष्ठलग्ने तु मध्यमायां तु संस्थिते ॥ ६१ ॥

तयोरधस्तान्मध्याख्यामृज्वीं कुर्यादधोमुखाम् ।
कनिष्ठिका तु साङ्गुष्ठा कार्या सुप्रसृता मुने ॥ ६२ ॥

{{७५}}

विश्वास-प्रस्तुतिः

अनन्तासनमुद्रेयमनेनास्या(ख्या?)यते द्विज ।
सर्वं जगदिदं ह्येषा क्रोडीकृत्य च वर्तते ॥ ६३ ॥

सर्वास्वाधारमुद्रासु प्राधान्येन व्यवस्थिता ।
तस्यादौ मन्त्रमुच्चार्य प्लुतं च बहुमातृकम् ॥ ६४ ॥

शब्दशक्यविभागोत्थं भावग्राह्यमनाहतम् ।
ततस्तस्य विसर्गे तु अनन्तासनसञ्ज्ञया ॥ ६५ ॥

बद्धं प्रकल्पयेद्विप्र सद्भावध्यानसंयुतम् ।
सदाधिकारयागे तु मन्त्राणां भिन्नरूपिणाम् ॥ ६६ ॥

क्षिप्रकर्मप्रसिध्यर्थं योजनीया प्रयत्नतः ।

पृथिवीमुद्रा

करद्वयेन बध्नीयाल्लग्नमुष्टिद्वयं पुरा ॥ ६७ ॥

विश्वास-प्रस्तुतिः

अङ्गुलित्रितयेनैव अङ्गुष्ठे तर्जनीद्वयम् ।
प्रान्तलग्नं ततः कृत्वा तद्युगे मेलयेत्पुनः ॥ ६८ ॥

एषा तु पार्थिवी मुद्रा सामुद्रीमधुना शृणु ।

समुद्रमुद्रा

मणिबद्धौ च संलग्नौ नखाग्राणि करद्वयात् ॥ ६९ ॥

विश्वास-प्रस्तुतिः

कार्याणि साङ्गुलीकानि परस्परमुखानि तु ।
अङ्गुष्ठाग्रे निराधारे तन्मध्ये चालयेद्धृतम् ॥ ७० ॥

मध्यं कुर्याच्च हस्ताभ्यां गाधं तु सुषिरोपमम् ।
क्षीरार्णवस्य मुद्रैषा प्रागुक्ता पङ्कजस्य तु ॥ ७१ ॥

मन्त्रयोगात्तथा ध्यानादन्यत्वं चैव जायते ।

धर्मादिमुद्राचतुष्टयम्

करद्वयमसंलग्ने(ग्नं?) कृत्वा तदनु योजयेत् ॥ ७२ ॥

विश्वास-प्रस्तुतिः

मुखे मुखं तर्जनीभ्यां तं मुञ्चेदथ मध्ययोः ।
कुर्यात्ताद्दृग्विधं बन्धं तं त्यक्त्वाऽनामिकाद्वये ॥ ७३ ॥

उपसंहृत्य तं चापि द्वे कनिष्ठे नियोजयेत् ।
प्रत्येकबन्धे संलग्नमङ्गुष्ठयुगलं न्यसेत् ॥ ७४ ॥

धर्माद्यस्य चतुष्कस्य विद्धि मुद्रागणं क्रमात् ॥ ७५ ॥

तदूर्ध्वस्थस्य पद्मस्य प्रागुक्ता मन्त्रयोगतः ।

{{७६}}

सूर्येन्द्वग्नि-लक्षण-धाम-त्रय-मुद्रा

दक्षिणस्य तु हस्तस्य तर्जन्यङ्गुष्ठमेलनम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

कृत्वा तदनु तद्बन्धं विकास्य च शनैः शनैः ।
समुत्तानं पुनः कुर्याच्छाखासङ्घं पृथक्स्थितम् ॥ ७७ ॥

धामत्रयस्य मुद्रैषा हंसाख्यां तु निबोध मे ।

हंसमुद्रा

स्पष्टौ प्रसारितौ हस्तौ कुर्यादञ्जलिरूपकौ ॥ ७८ ॥

विश्वास-प्रस्तुतिः

भावासनस्य मुद्रैषा सुशुद्धा परमार्थकी ।
एष आसनमन्त्राणां मुद्राबन्धो मयोदितः ॥ ७९ ॥

क्रमात्क्षेत्रेशपूर्वाणां बीजानां मुनिसत्तम ।
पद्मनिध्यधिपान्तानां मुद्रादशकमुच्यते ॥ ८० ॥

क्षेत्रेशमुद्रा

विश्वास-प्रस्तुतिः

ग्रस्तमङ्गुलिसङ्ख्यातं कृत्वा पाणिद्वयेन तु ।
बलात्प्रपीडयेत्कुर्यादङ्गुष्ठद्वयमुच्छ्रितम् ॥ ८१ ॥

मुद्रेयं क्षेत्रपालस्य श्र्यादीनामथ मे शृणु ।

श्रीमुद्रा

उत्तानौ तु करौ कृत्वा निकटस्थौ तु नारद ॥ ८२ ॥

विश्वास-प्रस्तुतिः

तदङ्गुलीगणं सर्वं कुञ्चितं मध्यसंस्थितम् ।
अङ्गुष्ठौ पतितौ कृत्वा क्रमशः स्पष्टतां नयेत् ॥ ८३ ॥

श्रीबीजस्य तु मुद्रैषा प्रथमं कथिता तव ।

चण्डमुद्रा

समुत्थाप्य कराद्वामात्तर्जनीं चण्डबीजजा ॥ ८४ ॥

प्रचण्डमुद्रा

तामेव दक्षिणाद्धस्तात्प्रचण्डाख्यस्य विद्धि वै ।

जयमुद्रा

मध्यमाद्वामहस्ताद्वै समुत्थाप्य जयस्य च ॥ ८५ ॥

विजयमुद्रा

दक्षिणाद्विजयाख्यस्य बीजस्य परिकीर्तिता ॥ ८६ ॥

गाङ्गमुद्रा

वामाच्चानामिका प्राग्वत्कृत्वा गाङ्गस्य विद्धि ताम् ।

{{७७}}

[यामुनमुद्रा]

दक्षिणाद्यामुनस्योक्ता मुद्रा बीजस्य नारद ॥ ८७ ॥

शङ्खमुद्रा

निधीश्वरस्य शङ्खस्य वामहस्तात्कनिष्ठिका ।

पद्मनिधिमुद्रा

पद्माख्यस्यापराद्धस्तात्सैव चोर्ध्वीकृता यदा ॥ ८८ ॥

गणेशमुद्रा

विश्वास-प्रस्तुतिः

दक्षिणेन तु हस्तेन साङ्गुष्ठेन च मुष्टिना ।
प्रदेशिनीं ह्यनामां च वामहस्तस्य पीडयेत् ॥ ८९ ॥

प्रयत्नकृतशङ्खानां पृष्ठे योज्या च मध्यमा ।
लम्बमानकराकारा यथा सन्दृश्यते च सा ॥ ९० ॥

मुष्टेर्नातिसमीपस्थां वामहस्तात्कनिष्ठिकाम् ।
दक्षिणाङ्गुष्ठबाह्ये च दंष्ट्रावत्परिभावयेत् ॥ ९१ ॥

ईषत्तिर्यक्ततस्सपष्टो वामाङ्गुष्ठस्तथा परः ।
यथा तौ परिदृश्येते गजकर्णोपमौ द्विज ॥ ९२ ॥

गणेश्वरस्य मुद्रेयं सर्वविघ्नक्षयङ्करी ।

वागीश्वरीमुद्रा

सुश्लिष्टौ मणिबन्धौ तु कृत्वा पाणिद्वये पुरा ॥ ९३ ॥

विश्वास-प्रस्तुतिः

संलग्नमग्रदेशात्तु प्रोन्नतं मध्यमायुतम् ।
प्रदेशिनीद्वयं तद्वत्कृत्वाऽनामायुगं तथा ॥ ९४ ॥

अचलं द्विगुणीकृत्य नमयेत्तदधोमुखम् ।
शनैः शनैःस्पृशेद्यावत्स्वं स्वं पाणितलं द्विज ॥ ९५ ॥

स्पष्टं सुविरलं कुर्यादङ्गुष्ठद्वितयं द्विज ।
तद्वत्कनीयसीयुग्मं समेन धरणेन तु ॥ ९६ ॥

मुद्रैषा वाग्विश्रूत्यर्थी यो बध्नाति दिने दिने ।
जपमानस्तु तद्भावी तस्य चावतरेत्तु धीः ॥ ९७ ॥

गुरुमुद्रा

विश्वास-प्रस्तुतिः

सम्मुखौ सम्पुटीकृत्य द्वौ हस्तौ सम्प्रसारितौ ।
विनियोज्यौ ललाटोर्ध्वे शिरसाऽवनतेन तु ॥ ९८ ॥

{{७८}}

गुरोर्गुरुतरस्यापि मुद्रा ह्येषा पितुः पितुः ।

पितृगणमुद्राः

प्रोत्तानं दक्षिणं पाणिं कृत्वाङ्गुलिगणं ततः ॥ ९९ ॥

विश्वास-प्रस्तुतिः

संलग्नं कुञ्चयेत्किञ्चिदङ्गुष्ठं सम्प्रसार्य च ।
तिर्यग्भवैः शनैः किञ्चित्कुर्याद्वाऽधोमुखं ततः ॥ १०० ॥

मुद्रा पितृगणस्यैषा नित्यतृप्तिकरी स्मृता ।
पूजाकाले तु वै तस्माद्दर्शनीया प्रयत्नतः ॥ १०१ ॥

यो वै नैमित्तिकाच्छ्राद्धात्परितोषस्तु जायते ।
स पितॄणां शतगुणो मुद्राबन्धाच्च पूजनात् ॥ १०२ ॥

सिद्धमुद्रा

विश्वास-प्रस्तुतिः

करद्वयं समुत्तानं नाभिदेशे नियोजयेत् ।
वामस्य दक्षिणे(?) पृष्ठे मुद्रैषा सिद्धसन्ततेः ॥ १०३ ॥

वराभयमुद्रे

विश्वास-प्रस्तुतिः

सुस्पष्टं दक्षिणं हस्तं स्वात्मनस्तु पराङ्मुखम् ।
पराङ्मुखं लम्बमानं वामपाणिं प्रकल्पयेत् ॥ १०४ ॥

क्रमाद्वराभयाख्यं तु इदं मुद्राद्वयं द्विज ।
विज्ञेयं लोकपालानामिन्द्रादीनां समासतः ॥ १०५ ॥

एकैकेन तु मन्त्रेण वज्राद्येन क्रमाद्युताम् ।
अस्त्राख्यां शक्तिसंयुक्तां प्रागुक्तां सम्प्रदर्शयेत् ॥ १०६ ॥

लोकपालायुधानां तु पूजितानां क्रमेण वै ।

विष्वक्सेनमुद्रा

कनिष्ठाऽनामिका मध्या वामाच्च करमध्यगाः ॥ १०७ ॥

विश्वास-प्रस्तुतिः

तासामङ्गुष्ठकः पृष्ठे तर्जनी प्रोन्नता भवेत् ।
नासावंशप्रदेशस्था ततो दक्षिणपाणिना ॥ १०८ ॥

अङ्गुलीत्रितयेनैवं मुष्टिं बध्वा तु पूर्ववत् ।
तर्जनीद्विगुणं कृत्वा अङ्गुष्ठाग्रे निरोधयेत् ॥ १०९ ॥

प्रोद्यतो बाहुदण्डः स्याच्चक्रक्षेपे यथोद्यतः ।
विष्वक्सेनस्य मुद्रेयं विश्वकर्मनिकर्तनी ॥ ११० ॥

{{७९}}

[आवाहनमुद्रा]

विश्वास-प्रस्तुतिः

किञ्चिदाकुञ्चयेद्धस्तं दक्षिणं हृदयोपगम् ।
अङ्गुष्ठो विरलस्पष्टो मुद्रा ह्यावाहने स्मृता ॥ १११ ॥

विसर्जनमुद्रा

विश्वास-प्रस्तुतिः

खड्गधारासमाकारा विरलाङ्गुलिकावुभौ ।
अङ्गुष्ठौ दण्डवत्कृत्वा मुष्टिबन्धं शनैश्शनैः ॥ ११२ ॥

कुर्यात्कनिष्ठिकादिभ्यो मुद्रैषा स्याद्विसर्जने ।

सुरभिमुद्रा

ग्रथितौ [द्वौ] करौ कृत्वा सुश्लिष्टौ चाप्यधोमुखौ ॥ ११३ ॥

विश्वास-प्रस्तुतिः

कनीयसौ तदाङ्गुष्ठौ सुश्लेषेण नियोज्य च ।
मध्यमाङ्गुलियुग्मं तु अन्योन्यकरपृष्ठगम् ।
विक्षिप्तानामिकायुग्मं तर्जनीयुगलं तथा ॥ ११४ ॥

मुद्रैषा कामधेन्वाख्या सर्वेच्छापरिपूरणी ।
द्विप्रकारं तु मुद्राणां प्रयोगं नित्यमाचरेत् ॥ ११५ ॥

संविन्मयं तु चाध्यात्मरूपं भास्वरसम्पुटम् ।
बाह्यान्तस्त्रिविधं विप्र कर्मवाक्चित्तजं तु यत् ॥ ११६ ॥

अनेन विधिना मुद्रां यो बध्नाति विधानवित् ।
तेनेदं मुद्रितं विश्वमपुनर्भवसिद्धिदम् ॥ ११७ ॥

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मुद्राबन्धाख्यानं नाम
अष्टमः पटलः ॥ ८ ॥