०७ उपकरण-मन्त्रोद्धारो

अथ उपकरणमन्त्रोद्धारो नाम सप्तमः पटलः

श्रीभगवान्

विश्वास-प्रस्तुतिः

अथाधारासनाख्यानां मन्त्राणां लक्षणं शृणु ।
पूजनं यैर्विना विप्र मन्त्रेशस्य न जायते ॥ १ ॥

मूलम्

आधारशक्तिमन्त्रः

विश्वास-प्रस्तुतिः

अशेषभुवनाधारामाधाराधेयवन्न्यसेत् ।
परमात्मनि विप्रेन्द्र मायाख्यो मत ऊर्ध्वतः ॥ २ ॥

नमोऽन्तं प्रणवाद्यं च बीजमाधारशक्तिजम् ।
आधेयतुल्यसामर्थ्यमस्य रूपं तथाविधम् ॥ ३ ॥

कूर्ममन्त्रः

विश्वास-प्रस्तुतिः

उद्धृत्य प्रणवं पूर्वमनन्तेशस्य पूर्वजम् ।
तत्कालपावकेनैव भिन्नं कुर्याद्द्विजोभयोः ॥ ४ ॥

त्रैलोक्यैश्वर्यदेनैवमूर्जेन तु तथा द्विज ।
नमस्कारान्वितं बीजं कूर्मकालाग्निवाचकम् ॥ ५ ॥

आधारशक्तेरुपरि विमलं दीप्तविग्रहम् ।
ज्वालाशतसमाकीर्णं शङ्खचक्रगदाधरम् ॥ ६ ॥

मूलम्

आधारशक्तेरुपरि विमलं दीप्तविग्रहम् ।
ज्वालाशतसमाकीर्णं शङ्खचक्रगदाधरम् ॥ ६ ॥

अनन्तमन्त्रः

विश्वास-प्रस्तुतिः

अनन्तेशस्य यत्पूर्वं गोपनेन समन्वितम् ।
व्योमयुक्तमनन्ताख्यं नागराजस्य कीर्त्तितम् ॥ ७ ॥

प्रणवादि नमोऽन्तं च एतद्बीजवरं शुभम् ।
पूर्णचन्द्राननं ध्यायेत्सहस्रफणभूषितम् ॥ ८ ॥

{{६१}}

चक्रलाङ्गलहस्तं च प्रणमन्तं परात्परम् ।

धरामन्त्रः

अनन्ताख्यं च यद्बीजं प्रधानोपरि संस्थितम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

सोऽप्यारूढो धरेशस्य व्योमानन्तद्वयाङ्कितम् ।
प्राग्वदाद्यन्तसंरुद्धं धरायास्सम्प्रकीर्तितम् ॥ १० ॥

कुङ्कुमोदकसङ्काशां हेमरत्नविभूषिताम् ।
बद्धाञ्जलिं शिरोदेशे संस्मरन्तीं विभोः स्मरेत् ॥ ११ ॥

क्षीरोदमन्त्रः

विश्वास-प्रस्तुतिः

अमृतं वरुणस्थं च आदिदेवेन योजितम् ।
क्षीरोदमन्त्रराडेष व्योमयुक्तो द्विजोत्तम ॥ १२ ॥

अस्यादौ प्रणवञ्चान्ते नमस्कारपदं न्यसेत् ।
शुद्धकुन्देन्दुधवलं स्रोतोरश्मिभिरावृतम् ॥ १३ ॥

कीर्णसम्पूर्णचन्द्राभं ध्यायेद्गम्भीरविग्रहम् ।

पद्ममन्त्रः

पद्मस्याथ प्रवक्ष्यामि मन्त्रं सन्निधिकारणम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

प्रणवं प्रणवान्ते च पवित्रं तदनन्तरम् ।
भुवनं व्योमसम्भिन्नमाधारेति पदं ततः ॥ १५ ॥

पद्माय च नमश्चान्ते पदं पूर्वपदस्य च ।
प्रशान्तपावकाकारमुदयादित्यसन्निभम् ॥ १६ ॥

ध्यायेद्वै द्विभुजं ह्रस्वं जठराद्यैर्विलम्बितम् ।
भासितं सितदन्तं च वेष्टितं सुरषट्पदैः ॥ १७ ॥

व्यक्ताव्यक्तपरत्वेन पद्माद्यं त्रितयं स्मरेत् ।
त्रितयं तदधस्थं यच्छक्यं तस्यैवमेव हि ॥ १८ ॥

अयमाधारषट्कस्य मन्त्रमार्गः प्रकीर्तितः ।

धर्माद्यासनमन्त्राः

अत्रोपर्यासनाख्यांश्च षण्मन्त्रानथ मे शृणु ॥ १९ ॥

विश्वास-प्रस्तुतिः

धर्त्ताऽजितोऽमृताधारो विबुधाख्यैश्च नारद ।
व्युत्क्रमानुक्रमेणैव कृत्वैकैकस्य योजयेत् ॥ २० ॥

सम्यग्ज्वालाऽथ लिङ्गात्मा देवदत्तस्ततो द्विज ।
{{६२}}

वामनं सोममुद्दामं प्रणवस्योपरि न्यसेत् ॥ २१ ॥

विश्वास-प्रस्तुतिः

त्रैलोक्यैश्वर्यदं दद्यात्सर्वेषां स्याच्चतुष्टयम् ।
धर्माद्यं तद्विपर्यासैर्युक्तं वेदैस्तथा युगैः ॥ २२ ॥

सुसितं चामृतं पद्मं सूर्येन्द्वग्नित्रयं ततः ।
एतेषां प्रणवः सञ्ज्ञा नमस्कारो भवेद्द्विज ॥ २३ ॥

अत्रोपर्यपरं विप्र चिद्भासा खचितं शुभम् ।
भावासनं विभोर्दद्यात्स्थूलसूक्ष्मद्वयात्परम् ॥ २४ ॥

अप्रमेयेण सूर्येण व्योमाख्येनामृतेन च ।
परमेश्वरयुक्तेन त्रितारोक्तात्मनाथवा ॥ २५ ॥

इत्येवं पीठपूजार्थो मन्त्रग्रामो द्विजोत्तम ।
रहस्यमेतदाख्यातमिदानीमपरं शृणु ॥ २६ ॥

क्षत्रपालमन्त्रः

विश्वास-प्रस्तुतिः

क्षेत्रेशाद्यं मन्त्रचयं विघ्ननिर्मथनक्षमम् ।
अनन्ताख्यं च कालेन भेदयेत्सानलेन च ॥ २७ ॥

त्रैलोक्यैश्वर्यदेनाथ सादिदेवेन भेदितम् ।
क्षेत्रपालस्य मन्त्रोऽयमोङ्कारान्तेन भूषितः ॥ २८ ॥

क्षेत्रपालध्यानम्

विश्वास-प्रस्तुतिः

नीलजीमूतसङ्काशं दण्डहस्तं महातनुम् ।
मुष्टिकृद्वामहस्तेन यागक्षेत्रावधौ स्मरेत् ॥ २९ ॥

श्रयादीनां पद्मनिध्यन्तानां मन्त्राः

विश्वास-प्रस्तुतिः

पुण्डरीकस्ततश्चक्री पवित्रश्चाथ शाश्वतः ।
वराहश्च गदध्वं(सी) सूक्ष्मश्शान्तः पवित्रकः ॥ ३० ॥

क्रमेण मुनिशार्दूल एतद्वर्णगणं लिखेत् ।
अशेषभुवनाधारं विश्रान्तं व्योमभूषितम् ॥ ३१ ॥

मायाद्यस्योपरि न्यस्य चतुर्णामथ विक्रमी ।
पञ्चबिन्दुरतो द्वाभ्यां लोकेशोऽप्यपरे द्वये ॥ ३२ ॥

प्रणवेनाभिधानेन नमस्कारेण भूषिताः ।
सर्वे मन्त्रवरा ह्येते स्वसामर्थ्यफलप्रदाः ॥ ३३ ॥

{{६३}}

विश्वास-प्रस्तुतिः

श्रियश्चण्डप्रचण्डाभ्यां जयस्य विजयस्य च ।
गङ्गायमुनयोर्विप्र सनिध्योः शङ्खपद्मयोः ॥ ३४ ॥

श्र्यादीनां पद्मनिध्यन्तानां ध्यानम्

विश्वास-प्रस्तुतिः

पद्मकुम्भकरां लक्ष्मीं पद्मोपरिगतां स्मरेत् ।
चण्डाद्या विजयान्ताश्च सर्वे ज्ञेयाश्चतुर्भुजाः ॥ ३५ ॥

गदाचक्रधराश्चैव शङ्खहस्ता महाबलाः ।
तर्जयन्तो ह्यभक्तानां दोषाणां ध्वंसनोद्यताः ॥ ३६ ॥

तोयाधारं वहन्त्यौ ते कलशं वारिपूरितम् ।
नवयौवनलावण्यस्त्रीरूपं च नदीद्वयम् ॥ ३७ ॥

निधिपौ शङ्खपद्मौ च निधिभाण्डोपरि स्थितौ ।
स्थूलदन्तौ च पिङ्गाक्षौ द्विभुजौ भगवन्मयौ ॥ ३८ ॥

गणेशादिपित्रन्तानां मन्त्राः

पित्रन्तं च गणेशाद्यमथ मन्त्रगणं शृणु ।

गणेशमन्त्रः

गदाधरं समुद्धृत्य प्रज्ञाधारेण भेदयेत् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

अङ्कारयोजितं मूर्ध्नि गणाधिपतये पदम् ।
नमस्कारान्वितं पूर्वं प्रणवञ्चास्य योजयेत् ॥ ४० ॥

नवाक्षरो ह्ययं मन्त्रो विघ्नेशस्य च वाचकः ।
एष एव गदध्वंसी षोढा कार्योऽथ भेदयेत् ॥ ४१ ॥

आदिदेवादिषट् दीर्घैर्विराट् ज्वालोज्झितैः क्रमात् ।
पञ्चानां मस्तके व्यापी जात्यैकैकं स्वयं न्यसेत् ॥ ४२ ॥

नमः स्वाहा ततो वौषट् हुं वौषट् फट् समन्विताः ।
जातयः षट् समाख्याता हृदादीनां क्रमेण तु ॥ ४३ ॥

गणेशध्यानम्

विश्वास-प्रस्तुतिः

ध्यायेच्चम्पकवर्णाभं बद्धपद्मासनं द्विज ।
कर्णिकायां त्रिपत्रेऽब्जे रक्ते षट्केसरे शुभे ॥ ४४ ॥

वरदाभयहस्तश्च (स्तं च ?) दक्षिणे साक्षसूत्रकम् ।
विश्रान्तं चिन्तयेद्वामं चतुर्थं परशूपरि ॥ ४५ ॥

वरदाभयहस्ताभ्यां मत्स्यमुद्राद्वयं स्मरेत् ।
तर्जन्यङ्गुष्ठसङ्घट्टाज्जायते यदयत्नतः ॥ ४६ ॥

{{६४}}

विश्वास-प्रस्तुतिः

स्थूलाङ्गमेकदंष्ट्रं च लम्बक्रोडं गजाननम् ।
केसरेष्वङ्गषट्कं च पत्रत्रयगतं न्यसेत् ॥ ४७ ॥

वागीश्वरीमन्त्रः

विश्वास-प्रस्तुतिः

आदाय प्रणवञ्चादौ सुपर्णं तदनन्तरम् ।
तदन्तेऽथ तदाद्यं च सोमं तदनु वै द्विधा ॥ ४८ ॥

प्राक्बीजस्याध ऊर्ध्वे च योजयेत्कालपावकम् ।
अथो दद्याद्द्वितीयस्य केवलं तच्च नारद ॥ ४९ ॥

शङ्खसंस्थं तृतीयस्य चतुर्थस्याक्षरस्य च ।
स्रग्धरेण तु शङ्खेन तदूर्ध्वाधोयुतं न्यसेत् ॥ ५० ॥

पुनरादिक्रमेणैव द्वाभ्यां मायां नियोज्य च ।
द्वाभ्यां तं चादिदेवं च सर्वेषां व्योम चोपरि ॥ ५१ ॥

तदन्ते वर्णपूर्वान्तां क्षान्तां संयोज्य मातृकाम् ।
वागीश्वर्यै नमश्चान्ते एकषष्ठ्यक्षरः (?) शुभः ॥ ५२ ॥

वाग्विभूतिप्रदो मन्त्रो वागीश्वर्या मयोदितः ।
सोमं चानलसंस्थं च गणेशाङ्गोदितैस्स्वरैः ॥ ५३ ॥

भिन्नमस्याङ्गषट्कं स्यात् ओङ्काराद्यं नमोऽन्तकम् ।

वागीश्वर्या ध्यानम्

सूर्येन्दुमण्डलाभ्यां च मध्ये पद्मं स्मरेत् स्थितम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

तन्मध्ये संस्थितां देवीं वह्निवेश्मप्रभाञ्चिताम् ।
सर्वोपाधिविनिर्मुक्तां सर्वाकारसमन्विताम् ॥ ५५ ॥

इत्यस्या वैश्वरूप्यं स्याद्ध्यानमप्यधुना शृणु ।
सितकुन्देन्दुधवलां शङ्खपद्मकरोद्यताम् ॥ ५६ ॥

वरदाभयहस्तां च विलिखन्तीं च पुस्तकम् ।
द्विनेत्रामेकवक्त्रां च हेमकुण्डलभूषिताम् ॥ ५७ ॥

ध्याता भगवती ह्येषा शक्तिः शब्दात्मिका विभोः ।
समभ्यस्ता ददात्याशु साधकानामभीप्सितम् ॥ ५८ ॥

गुरूणां मन्त्राः

विश्वास-प्रस्तुतिः

प्रणवद्वितयं व्यापी तदधस्थोदयस्तु गः ।
गुरवे सनमश्चान्ते मन्त्रोऽयं पूजने गुरोः ॥ ५९ ॥

प्रणवत्रितयान्ते तु सव्योमा पश्चिमाननः ।
ततः परमशब्दस्तु गुरवे सनमस्ततः ॥ ६० ॥

गुरोर्गुरोरयं मन्त्रस्तद्गुरोरवधारय ।
{{६५}}

मन्त्राद्यस्य चतुष्कं तु पद्मनाभमतः परम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

न्यसेत्तस्यानन्दयुतं व्योमोर्ध्वे परमेष्ठिने ।
सनमस्तकं पदं दद्यात् पितृभ्यां [तॄणाम्] चाथ मे शृणु ॥ ६२ ॥

पितॄणां मन्त्राः

विश्वास-प्रस्तुतिः

तारपञ्चकमाह्लादं व्योमप्राणोपरि न्यसेत् ।
कालानलौ तु तदधस्सर्वलोकेश्वरोपरि ॥ ६३ ॥

यथाक्रमोदितैर्वर्णैः पिण्डं कृत्वा ततः पदम् ।
स्वधा पितृभ्यःसनमः पितृसङ्घस्य मन्त्रराट् ॥ ६४ ॥

पूर्वसिद्धमन्त्रः

विश्वास-प्रस्तुतिः

कथितो द्विजशार्दूल पूर्वसिद्धेष्वथोच्यते ।
अन्ते प्रणवषट्कस्य आनन्दं व्योमभूषितम् ॥ ६५ ॥

पद तथादिसिद्धेभ्यस्सनमस्कं नियोजयेत् ।
प्रागिमं मन्त्रनिचयं पूजयित्वा ततोऽर्चयेत् ॥ ६६ ॥

प्रधानमन्त्रपूर्वा ये यस्मिन्न्यस्मिंस्तु कर्मणि ।

लोकेशमन्त्राः

अथ लोकेशमन्त्राणां शास्त्राणां लक्षणं शृणु ॥ ६७ ॥

विश्वास-प्रस्तुतिः

व्योमानन्दं ततः प्राणं धरेशोपरि संस्थितम् ।
एतदेकीकृतं वर्णं सृष्टिन्यायेन नारद ॥ ६८ ॥

ऐन्द्रो मन्त्रस्समुद्दिष्ट इतरेषां निबोध मे ।
प्राणद्वयं द्विजोद्धृत्य क्रमादनलकालगम् ॥ ६९ ॥

द्वितीयस्वरसंयुक्तं व्योममस्तकभूषितम् ।
शिखिनश्चान्तकस्यैव द्वे बीजे परिकीर्तिते ॥ ७० ॥

व्यापी नरश्च लिङ्गात्मा प्राग्वत्संयोज्य पिण्डवत् ।
यात्वीशस्य तु बीजेन अन्येषामवधारय ॥ ७१ ॥

परमात्मानमुद्धृत्य द्विधा द्वाभ्यामथो न्यसेत् ।
वराहसूक्ष्मसञ्ज्ञौ तु व्योमानन्दावथोपरि ॥ ७२ ॥

अनुक्रमेण विज्ञेयौ बीजौ वरुणवायुजौ ।
धर्मांशोरूर्ध्वगं न्यस्य वर्णं वाराहसञ्ज्ञकम् ॥ ७३ ॥

{{६६}}

विश्वास-प्रस्तुतिः

प्राग्वत्स्वरद्वयोपेतं बीजं चोडुपतेः स्मृतम् ।
सूर्यमूर्जोपरिस्थं च व्यापकेन तथाङ्कितम् ॥ ७४ ॥

ईशानाख्यं स्मृतं बीजं विश्वाप्यायकरान्वितम् ।
आदिदेवान्वितं व्योम प्राणाख्यस्योपरि न्यसेत् ॥ ७५ ॥

वैकुण्ठस्तदधो योज्यो बीजं नागेश्वरस्य च ।
प्राग्वत्स्वरान्विते सूर्ये वेदात्मानमथो न्यसेत् ॥ ७६ ॥

ब्रह्मणो बीजमाख्यातं परं व्योमेश्वरस्य च ।
सर्वेषां प्रणवं पूर्वं स्वसञ्ज्ञान्ते नमोयुताः ॥ ७७ ॥

वज्राद्यायुधमन्त्रः

विश्वास-प्रस्तुतिः

अथायुधानां क्रमशो ये मन्त्राः शुभलक्षणाः ।
स्थितान् शृणु समासेन यथायोगानुवाचकान् ॥ ७८ ॥

अजितं च द्विधोद्धृत्य प्रधानोपरिसंस्थितम् ।
अशेषभुवनाधारमूर्ध्वेऽधश्चानयोर्न्यसेत् ॥ ७९ ॥

लोकेशोर्ध्वोदितं पूर्वं द्वितीयं पञ्चबिन्दुना ।
विसर्गयुक्ते द्वे चैते बीजे कुलिशशक्तिजे ॥ ८० ॥

अखण्डविक्रमश्वान्द्री द्वावेतौ मर्दनस्थितौ ।
लोकेश्वरविसर्गाढ्यौ विज्ञेयौ दण्डखड्गयोः ॥ ८१ ॥

आह्लादाजितसञ्ज्ञौ द्वौ शताख्यवरुणस्थितौ ।
विसर्गानन्दसंयुक्तौ ज्ञेयौ पाशध्वजाभिधौ ॥ ८२ ॥

परमात्मानमुद्धृत्य अनलाख्यमतःपरम् ।
तयोरुपरि तौ कुर्यात्क्रमादनलशाश्वतौ ॥ ८३ ॥

सोद्दामेन विसर्गेण एकैकमथ योजयेत् ।
प्रोक्तौ मुद्गरशूलौ द्वौ सोमेशाभ्यां द्विजायुधे ॥ ८४ ॥

परप्रकृतिसञ्ज्ञं यद्विन्यसेदनलोपरि ।
ओदनं सविसर्गं च ततस्तस्यैव योजयेत् ॥ ८५ ॥

सीराख्यं बीजमेतद्धि वारिजस्याधुनोच्यते ।
वरुणञ्च द्विजोद्धृत्य नराख्यस्योपरि स्थितम् ॥ ८६ ॥

विसर्गेणादिदेवेन युक्तं पाद्ममिहोदितम् ।

विष्वक्सेनमन्त्रः

आक्रान्तमनलेनैव प्राणाख्यं बीजनायकम् ॥ ८७ ॥

{{६७}}

विश्वास-प्रस्तुतिः

त्रैलोक्यैश्वर्यदोपेतमूर्जोपरि गतं तु तत् ।
ततो वाराहमादाय भूधरव्योमभूषितम् ॥ ८८ ॥

विष्वक्सेनाय तदनु सनमस्कं पदं न्यसेत् ।
प्रणवाद्यो ह्ययं मन्त्रो विष्वक्सेनस्य कीर्त्तितः ॥ ८९ ॥

पूर्वबीजं हि यच्चास्य ऊकारस्वरवर्जितम् ।
गणेशवच्च षट्दीर्घैर्भिन्नमङ्गगणं भवेत् ॥ ९० ॥

प्रणवेन स्वनाम्ना च जातिभिः षड्भिरन्वितम् ।

औपचारिकमन्त्रपञ्चकम्

औपचारिकमन्त्राणां पञ्चकं चाधुनोच्यते ॥ ९१ ॥

विश्वास-प्रस्तुतिः

मूलमन्त्रादिसर्वेषां सामान्यं यन्महामते ।
येन विज्ञातमात्रेण जपध्यानादिकं विना ॥ ९२ ॥

यथाकालं प्रयुक्तत्वात्सम्पूर्णं जायतेऽर्चनम् ।

आवाहने विनियोक्तव्यो मन्त्रः

प्रणवद्वितयोपेतं परमं त्र्यक्षरं पदम् ॥ ९३ ॥

विश्वास-प्रस्तुतिः

धामावस्थितपञ्चार्णं द्वितीयं प्रोद्धरेत्ततः ।
तदनुग्रहकाम्यं यो अष्टार्णं परमं पदम् ॥ ९४ ॥

दकारं च यकारस्थं तदन्ते योजयेद्द्विज ।
आदिदेवान्वितं पश्चात्ताललक्ष्माणमुद्धरेत् ॥ ९५ ॥

ततो वरुणसञ्ज्ञं च केवलस्रग्धरं ततः ।
अशेषभुवनाधारं जगद्योनियुतं ततः ॥ ९६ ॥

मूलम्

ततो वरुणसञ्ज्ञं च केवलस्रग्धरं ततः ।
अशेषभुवनाधारं जगद्योनियुतं ततः ॥ ९६ ॥

विश्वास-प्रस्तुतिः

परमात्मानमन्ते च गोपनेन समन्वितम् ।
रामोपेतं ध्रुवं दद्यात्ततः कालं च केवलम् ॥ ९७ ॥

वैराजं केवलं चाथ सिद्धिदं त्र्यक्षरं पदम् ।
मन्त्रेति द्व्यक्षरं दद्याच्छङ्करं केवलं ततः ॥ ९८ ॥

अशेषभुवनाधारं मायायुक्तं ततो न्यसेत् ।
विक्रमव्योमसम्भिन्नमनलञ्चोद्धरेत्ततः ॥ ९९ ॥

नमो नमः पदं पश्चादष्टत्रिंशाक्षरः परः ।
प्रणवेनाधिको विप्र द्वितीयेन महाप्रभः ॥ १०० ॥

{{६८}}

मन्त्र आवाहने विप्र योक्तव्यस्तु परं शृणु ।

पाद्याद्येषूपचारेषु विनियोज्यो मन्त्रः

औपचारिकहृत्सञ्ज्ञं क्रियते येन पूजनम् ॥ १०१ ॥

विश्वास-प्रस्तुतिः

प्रणवान्ते त्रिधा योज्य प्राणं व्योमविभूषितम् ।
इदमिदमिदं पश्चात्पदं दद्यात्षडक्षरम् ॥ १०२ ॥

गृहाण च ततः स्वाहा मन्त्रः पञ्चदशाक्षरः ।
योग्यस्सर्वोपचारेषु पाद्याद्येषु सदैव हि ॥ १०३ ॥

न्यूनाधिकपरिहाराय विनियोज्या विष्णुगायत्री

विश्वास-प्रस्तुतिः

प्रणवं विश्वरूपाय विद्महे विन्यसेत्ततः ।
विश्वातीताय तदनु धीमहे तदनन्तरम् ॥ १०४ ॥

पदद्वयान्ते तदनु तन्नो विष्णुः प्रचोदयात् ।
सर्वेषां कर्मणामन्ते पूरणार्थं प्रयोजयेत् ॥ १०५ ॥

न्यूनाधिकनिमित्तार्थं गायत्री वैष्णवी परा ।
चतुर्विंशाक्षरो ह्येष नमःप्रणवसंयुतः ॥ १०६ ॥

प्रसादने विनियोज्यो मन्त्रः

विश्वास-प्रस्तुतिः

उद्धरेत्प्रणवं पूर्वं विष्णुं व्योमान्वितं ततः ।
ह्रीङ्कारं च ततो दद्याद्भूयो विष्णुं तथाविधम् ॥ १०७ ॥

ततो व्योमान्वितं प्राणं सोमं तदनु केवलम् ।
परवर्णं द्वयं दद्यात्परमेशपदं ततः ॥ १०८ ॥

प्रसीद ॐ नमस्यान्तो मन्त्रो ह्यष्टादशाक्षरः ।
मन्त्रप्रसादने योज्यो मुद्राबन्धावसानतः ॥ १०९ ॥

विसर्जने विनियोक्तव्यो मन्त्रः

विश्वास-प्रस्तुतिः

ॐ भगवन्मन्त्रमूर्ते दद्यादष्टाक्षरं पदम् ।
तदन्ते वरुणारूढममृताख्यं नियोज्य च ॥ ११० ॥

पदमासादयपदं ततो दद्यात् षडक्षरम् ।
क्षमस्व त्र्यक्षरं भूयः प्रणवान्तं च विन्यसेत् ॥ १११ ॥

नमोनमःपदं दद्यात्षड्विंशार्णं तु मन्त्रराट् ।
विसर्जने नियोक्तव्यो मन्त्रग्रामस्य सर्वदा ॥ ११२ ॥

ज्ञप्तिसञ्ज्ञं तु यद्वर्णं वराहोपरि संस्थितम् ।
व्योमेशं विष्णुना युक्तं नमःप्रणवमध्यगम् ॥ ११३ ॥

{{६९}}

विश्वास-प्रस्तुतिः

सौरभीयो ह्ययं मन्त्रः स्वसञ्ज्ञासंयुतो द्विज ।
सम्पूरणार्थं भोगान्ते तेषामाप्यायनार्थतः ॥ ११४ ॥

इत्येष कथितो विप्र मन्त्रकोशो यथा स्थितः ।
सर्वपापक्षयकरस्सर्वदुःखोपशान्तिदः ॥ ११५ ॥

गोपनीयो ह्यभक्तानां शठानां च विशेषतः ।
नास्तिकानामसाधूनां धूर्तानां छद्मचारिणाम् ॥ ११६ ॥

नास्तिकानां च भक्तानां श्रद्धासंयमसेविनाम् ।
गुरुशास्त्ररतानां च नयमार्गानुवर्तिनाम् ॥ ११७ ॥

तत्त्वतश्चोपपन्नानां दृढश्रद्धावलम्बिनाम् ।
तन्मयानामिदं वाच्यमितरेषु च योऽन्यथा ॥ ११८ ॥

वक्ति चैतेषु यो मोहाद्भक्तिश्रद्धोज्झितेषु च ।
लोभेनान्यायतः कामात्स याति नरकेऽधमः ॥ ११९ ॥

सिद्धोऽपि विप्रशार्दूल असिद्धस्य तु का कथा ।
तस्मादालक्ष्य वै पूर्वं न्यायधर्मो यथार्थतः ॥ १२० ॥

वक्तव्यमुपसन्नस्य न्यायतः शृणुयाद्यदि ।
यो वक्ति न्यायरहितं विना न्यायं शृणोति यः ॥ १२१ ॥

तावुभौ नरकं घोरं व्रजतः कालमक्षयम् ।
ज्ञात्वैवं मुनिशार्दूल रहस्यमिदमुत्तमम् ॥ १२२ ॥

साधनं भोगमोक्षाभ्यां वक्तव्यं नापरीक्षिते ।
यद्यत्किञ्चिज्जगत्यस्मिंस्तत्तत्सर्वं विनश्वरम् ॥ १२३ ॥

स्वप्नवत्क्षणमात्रस्य सुखदायि धनादिकम् ।
समाचारक्रियाश्शास्त्रे मान्त्रं ज्ञानमनश्वरम् ॥ १२४ ॥

अनन्तनित्यसुखदं वृद्धिं याति क्षणात्क्षणम् ।

विश्वास-प्रस्तुतिः

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां उपकरणमन्त्रोद्धारो नाम
सप्तमः पटलः ॥ ७ ॥