अथ मुख्यमन्त्रोद्धारो नाम षष्ठः पटलः
नारदः
विश्वास-प्रस्तुतिः
त्वत्प्रसादेन भगवन्संविल्लब्धा मया परा ।
मनसश्चञ्चलत्वाच्च नहि मे स्थिरतां व्रजेत् ॥ १ ॥
मूलम्

अतः पूर्वोदितान्सर्वानुपायान्कथयस्व मे ।
अशेषांश्च क्रमेणैव भोगमोक्षफलप्रदान् ॥ २ ॥

मन्त्रनिरूपणारम्भः
श्रीभगवान्
विश्वास-प्रस्तुतिः
साधु नारद पृष्टोऽहं सारभूतमिदं त्वया ।
मन्त्रपूर्वं हि वै सर्वं यत्त्वया परिचोदितम् ॥ ३ ॥

तस्मान्मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं शुभम् ।
स्थूलसूक्ष्मस्वरूपेण नानासिद्धिफलप्रदम् ॥ ४ ॥

शक्त्यङ्गावरणोपेतमनेकाद्भुतदर्शनम् ।
मातृकापीठपरिकल्पनाप्रकारः
भूमिभागे समे शुद्धे मृद्गोमयसुलेपिते ॥ ५ ॥
विश्वास-प्रस्तुतिः
पञ्चगव्येन संसिक्ते चन्दनाद्युपलेपिते ।
निवाते च सुसञ्च्छन्ने धूपैरप्यधिवासिते ॥ ६ ॥

मृदुकल्हारकुसुमैः केवलैः कुसुमैः शुभैः ।
प्रणवादिनमोन्तेन स्वनाम्ना पूज्य वै पुरा ॥ ७ ॥

परिजप्याथ बहुशो मृदं भूमौ प्रसार्य च ।
चतुरश्रं सुवृत्तं च द्विहस्तं हस्तमेव वा ॥ ८ ॥

{{४२}}
सुसमं मातृकापीठं कृत्वा प्रस्तार्य तामपि ।
अक्षरेषु विभाव्यो भगवतः स्थितिभेदः
एकैव भिन्नवर्गा च वर्गान्तेऽप्यसमाक्षराः ॥ ९ ॥
विश्वास-प्रस्तुतिः
षोडशाक्षर आद्यस्तु अकाराद्यो द्विजोत्तम ।
विसर्गान्तस्थितस्तस्मिन्नग्नीषोमात्मकः प्रभुः ॥ १० ॥

पञ्चार्णानां तु पञ्चानां वर्गाणां परमेश्वरः ।
सुस्थितः कादिमान्तानां तत्त्वात्मत्वेन सर्वदा ॥ ११ ॥

जाग्रदादिक्रमेणैव स्थितोऽवस्थात्मनात्र वै ।
यादिवान्ते चतुर्वर्णे वर्गे विप्रेन्द्र सत्तमे ॥ १२ ॥

तुर्यातीतात्मरूपेण शादिक्षान्तेषु संस्थितः ।
आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे ॥ १३ ॥

पाकः प्राप्तिरिति ह्यष्टौ सूर्यभागे व्यवस्थिताः ।
अकारादिषु ह्रस्वेषु वर्णेष्वेतेष्वनुक्रमात् ॥ १४ ॥

द्रवता शैत्यभावाश्च तृप्तिःकान्तिः प्रसन्नता ।
रसताऽह्लाद आनन्दो ह्यष्टौ चान्द्रास्त्विमा मताः ॥ १५ ॥

आकारादिषु दीर्घेषु संस्थिता मातृकात्मना ।
अविनाभावरूपेण अन्योन्येन सदैव हि ॥ १६ ॥

अष्टानामपि चाष्टौ तु संस्थिता बहिरन्तरे ।
क्ष्मादितत्त्वसमूहस्तु पुरुषान्तः क्रमेण तु ॥ १७ ॥

जाग्रत्स्वप्नसुषुप्तं च तुर्यमूर्ध्वेऽत्र वर्तते ।
संस्थितः परमालोकशब्दो नित्योदितः परः ॥ १८ ॥

परानन्दश्च समता वेद्यवेदकवर्जितः ।
स्वरूपमेतत्कथितं तुर्यातीतात्मनो विभोः ॥ १९ ॥

[एवं भगवतः स्थितिं विभाव्योल्लिख्यमानानामक्षराणं
भगवन्मातृकादेहरूपता]
विश्वास-प्रस्तुतिः
इति वर्णप्रभावं च व्यापकं चानुभूतिगम् ।
बुध्वा च लिपिरूपेण संलिखेद्येन केनचित् ॥ २० ॥

संवेद्योऽपि जनेनैव न लिपिर्विप्र मातृकाः ।
परमः पुरुषो दिव्यो योऽनुभूतः पुरा त्वया ॥ २१ ॥

तस्यायं मातृकादेहः चतुर्धा संव्यवस्थितः ।
{{४३}}
[मातृकायाः स्वविग्रहे न्यासक्रमः]
सूत्रेण मणयो यद्वत्प्रोतास्त्वेकेन नारद ॥ २२ ॥
विश्वास-प्रस्तुतिः
तद्वद्वर्णा मया तन्तुस्वरूपेणाव्ययात्मना ।
इति चेतसि वै कृत्वा मन्त्रानुद्धरते च यः ॥ २३ ॥

दृष्टादृष्टफलप्राप्तिस्तस्य मन्त्रात्प्रजायते ।
एवं स्वविग्रहे न्यस्य मातृकां मन्त्रमात्रकाम् ॥ २४ ॥

वस्तुपूर्णेषु तत्त्वेषु स्वेषु स्वेषूदितेषु च ।
स्नात्वा शुक्लाम्बरधरस्स्रक्चन्दनविभूषितः ॥ २५ ॥

मन्त्रमातृकोद्धारक्रमः
विश्वास-प्रस्तुतिः
तामेव प्रस्तरेन्मन्त्री अष्टवर्गां पृथक्स्थिताम् ।
अष्टारे तु महाचक्रे मध्यतः सुविभूषिते ॥ २६ ॥

प्रागरादि क्षकारान्तमवर्गादिक्रमेण तु ।
मध्यतः प्रणवं लिख्य वर्णचक्रं प्रभुं परम् ॥ २७ ॥

एकैकं तु स्वसञ्ज्ञाभिश्चक्रारेष्वक्षरं लिखेत् ।
यावन्निष्पद्यते वर्गस्स्हितः स्वैस्स्वैररान्तरे ॥ २८ ॥

स्वरव्यञ्जनसंयुक्तां मातृकामग्रतो यजेत् ।
मातृकापूजनप्रकारः
पाद्यार्घ्यपुष्पधूपेन दीपेन च विलेपनैः ॥ २९ ॥
विश्वास-प्रस्तुतिः
फलमूलादिनैवेद्यैर्ॐनमोमन्त्रमातृके ।
सम्पूज्यश्च ततो भक्त्या मातृकाविग्रहः पुमान् ॥ ३० ॥

प्रागुक्तेन स्वनाम्ना वै प्रणत्या प्रणवेन च ।
स्वाभिधाभिः क्रमेणातो ह्येकैकं चाक्षरं यजेत् ॥ ३१ ॥

मध्याह्नभास्कराकारं प्रस्फुरन्तं विचिन्त्य च ।
भगवद्रूपाणामक्षराणामकारादिक्रमेणाभिधाभेदः
अकारश्चाप्रमेयश्च प्रथमो (भवो ?) व्यापकः स्मृतः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
आदिदेवस्तथाऽकार आनन्दो गोपनः स्मृतः ।
रामसञ्ज्ञ इकारश्च इष्ट इद्धः प्रकीर्तितः ॥ ३३ ॥

ईकारः पञ्च बिन्दुर्वै विष्णोर्माया द्विजाधिप ।
उकारो भुवनाख्यश्च उद्दाम उदयस्तथा ॥ ३४ ॥

{{४४}}
विश्वास-प्रस्तुतिः
ऊकार ऊर्जो लोकेशः प्रज्ञाधारस्तथैव च ।
सत्यश्च ऋत्तधामा च ऋकारस्स तु चाङ्कुशः ॥ ३५ ॥

ऋकारं विष्टरं विद्धि ज्वाला सैव प्रसारणम् ।
लिङ्गात्मा भगवान्प्रोक्तो ऌकारस्तारकस्स्मृतः ॥ ३६ ॥

ऌकारो दीर्घघोणश्च देवदत्तो विराट् स तु ।
त्र्यश्र एकारसञ्ज्ञस्तु जगद्योनिरविग्रहः ॥ ३७ ॥

ऐश्वर्यं योगधाता च ऐ समैरावणस्स्मृतः ।
ओकार ओतदेहश्च ओदनस्स च विक्रमी ॥ ३८ ॥
मूलम्
ऐश्वर्यं योगधाता च ऐ समैरावणस्स्मृतः ।
ओकार ओतदेहश्च ओदनस्स च विक्रमी ॥ ३८ ॥
विश्वास-प्रस्तुतिः
और्वोऽथ भूधराख्यश्च औस्स्मृतो ह्यौषधात्मकः ।
त्रैलोक्यैश्वर्यदो व्यापी व्योमेशोऽङ्कार एव च ॥ ३९ ॥

विसर्गः सृष्टिकृत्ख्यातो ह्यकारः परमेश्वरः ।
कमलश्च करालश्च ककारः प्रकृतिः परा ॥ ४० ॥

खकारः खर्वदेहश्च वेदात्मा विश्वभावनः ।
गदध्वंसी गकारश्च गोविन्दस्स गदाधरः ॥ ४१ ॥

घकारश्चैव धर्मांशुस्तेजस्वी दीप्तिमान्स्मृतः ।
ङकार एकदंष्ट्रश्च भूतात्मा विश्वभावकः ॥ ४२ ॥

चकारश्चञ्चलश्चक्री चन्द्राशुस्स च कथ्यते ।
छकारः छलविध्वंसी छन्दश्छन्दःपतिः स्मृतः ॥ ४३ ॥

अजितो जन्महन्ता च जकारस्स च शाश्वतः ।
झषो झकारः कथितः समात्मा सामपाठकः ॥ ४४ ॥
मूलम्
अजितो जन्महन्ता च जकारस्स च शाश्वतः ।
झषो झकारः कथितः समात्मा सामपाठकः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
उत्तमस्त्वीश्वराख्यश्च ज्ञकारस्तत्त्वधारकः ।
चान्द्री टकार आह्लादो विश्वाप्यायकरः स्मृतः ॥ ४५ ॥

ठकारः कौस्तुभः प्रोक्तो नेमिर्धाराधरस्तथा ।
डकारो दण्डधारश्च मौसलोऽखण्डविक्रमः ॥ ४६ ॥

ढकारो विश्वरूपश्च वृषकर्मा प्रतर्दनः ।
णकारोऽभयदश्शास्ता वैकुण्ठः परिकीर्तितः ॥ ४७ ॥

ताललक्ष्मा तकारश्च वैराजस्स्रग्धरस्स्मृतः ।
धन्वी भुवनापालश्च थकारस्सर्वरोधकः ॥ ४८ ॥

{{४५}}
विश्वास-प्रस्तुतिः
दत्तावकाशो दमनो दकारश्शान्तिदः स्मृतः ।
धकारः शार्ङ्गधृद्धर्ता माधवश्च प्रकीर्तितः ॥ ४९ ॥

नरो नारायणः पन्था नकारस्समुदाहृतः ।
पकारः पद्मनाभश्च पवित्रः पश्चिमाननः ॥ ५० ॥

फकारः फुल्लनयनो लाङ्गली श्वेतसञ्ज्ञिकः ।
बकारो वामनो ह्रस्वः पूर्णाङ्गस्स च गीयते ॥ ५१ ॥

भल्लायुधो भकारश्च ज्ञेयस्सिद्धिप्रदो ध्रुवः ।
मकारो मर्दनः कालः प्रधानः परिपठ्यते ॥ ५२ ॥

चतुर्गतिर्यकारस्तु स सूक्ष्मश्शङ्ख उच्यते ।
अशेषभुवनाधारो रोऽनलः कालपावकः ॥ ५३ ॥

लकारो विबुधाख्यस्तु धरेशः पुरुषेश्वरः ।
वराहश्चामृताधारो वकारो वरुणस्स्मृतः ॥ ५४ ॥

शकारः शङ्करः शान्तः पुण्डरीकः प्रकीर्तितः ।
नृसिह्मश्चाग्निरूपश्च षकारो भास्करस्तथा ॥ ५५ ॥

सकारश्चामृतं तृप्तिस्सोमस्तु परिपठ्यते ।
सूर्यो हकारः प्राणस्तु परमात्मा प्रकीर्तितः ॥ ५६ ॥

अनन्तेशः क्षकारस्तु वर्गान्तो गरुडस्स्मृतः ।
अशेषसञ्ज्ञा वर्णानामित्येताः परिकीर्तिताः ॥ ५७ ॥

अनुलोमविलोमेन वर्णाद्वर्णस्य वै पुनः ।
सङ्ख्या सञ्ज्ञा च या सम्यक्सामान्या सा महामते ॥ ५८ ॥

[भगवदंशभूतानामक्षराणामङ्गाङ्गिभावेन
मिथःअसङ्गतानां मन्त्रोत्पत्तिहेतुता]
विश्वास-प्रस्तुतिः
एते भगवदंशाश्च शब्दा भास्वरविग्रहाः ।
कारणं सर्वमन्त्राणां भगवच्छक्तिबृंहिताः ॥ ५९ ॥

परस्पराङ्गभावेन मन्त्रोत्पत्तिं व्रजन्ति च ।
चराचरेऽस्मिंस्तन्नास्ति यदमीभिर्न भावितम् ॥ ६० ॥

कृत्वैवं भावगां व्याप्तिं वर्णानां पूजनक्रिया ।
मन्त्रोद्धारक्रमः
स्वहृच्चक्रेऽथ भूमिष्ठे ततो मन्त्रान्समुद्धरेत् ॥ ६१ ॥
वर्गान्तमाद्यं बीजं तु सप्तवर्गाद्विभेदितम् ।
{{४६}}
पञ्चबिन्दुयुतं मूर्ध्नि व्योमेशेन नियोजितम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
इदं बीजवरं दिव्यं सर्वकामफलप्रदम् ।
अनन्तेशात्तृतीयं तु स्वरवर्गान्तयोजितम् ॥ ६३ ॥

द्वितीयं तस्य तद्बीजं जरामृत्युभयापहम् ।
स्वराद्यं पञ्चमं चैव पञ्चविंशेन योजितम् ॥ ६४ ॥

तयोराद्यं लिखेद्बीजं भोगमोक्षप्रदं शुभम् ।
नमस्कारपदोपेतं सर्वशक्त्याश्रयं प्रभुम् ॥ ६५ ॥

एतद्वर्णत्रयं देहः स्थूलभासो मम द्विज ।
भूतदेहव्यपेक्षायां किञ्चित्सूक्ष्मश्च नारद ॥ ६६ ॥

परमूर्त्त्यन्तरेणैव स्थूल एव विभाति च ।
अत्युत्कृष्टगुणैर्युक्तो ह्यदृश्यो यस्य कस्यचित् ॥ ६७ ॥

अपि चेत्केवलस्सर्वामर्थसिद्धिं प्रयच्छति ।
किं पुनर्मूर्त्तिमन्त्रेण द्वादशार्णेन संयुतः ॥ ६८ ॥

पदं नारायणायेति कुर्याद्विश्वात्मने ततः ।
ह्रीं स्वाहाकारसंयुक्तो मूर्त्तिमन्त्रो ह्ययं स्मृतः ॥ ६९ ॥

मन्त्रमहिमानुवर्णनम्
विश्वास-प्रस्तुतिः
सङ्कल्पाकल्परूपस्तु त्र्यर्णस्याद्योदितस्य च ।
अणिमादिगुणाधारः पातालोत्थानसिद्धिदः ॥ ७० ॥

मोक्षदो मोक्षकामस्य भोगकामस्य भोगदः ।
राज्यदो राज्यकामस्य धनकामस्य भूतिदः ॥ ७१ ॥

यान्यान्प्रार्थयते कामान्सर्वान्वै साधकाय च ।
द(दा)त्युच्चारमात्रेण सम्यक्तद्भावितात्मने ॥ ७२ ॥

देवताध्यानम्
विश्वास-प्रस्तुतिः
अनादिनिधनं देवं जगत्स्रष्टारमीश्वरम् ।
ध्यायेच्चतुर्भुज विप्र शङ्खचक्रगदाधरम् ॥ ७३ ॥

चतुर्वक्त्रं सुनयनं सुकान्तं पद्मपाणिनम् ।
वैकुण्ठं नरसिह्मास्यं वाराहं कपिलाननम् ॥ ७४ ॥

शुक्लं खगेश्वरारूढं सर्वाभरणभूषितम् ।
सर्वलक्षणसम्पन्नं माल्याम्बरधरं विभुम् ॥ ७५ ॥

{{४७}}
विश्वास-प्रस्तुतिः
किरीटकौस्तुभधरं कर्पूरालिप्तविग्रहम् ।
सूर्यायुतसहस्राभं सर्वदेवनमस्कृतम् ॥ ७६ ॥

लक्ष्म्यादीनां भगवद्रूपे नित्यसान्निध्यम्
विश्वास-प्रस्तुतिः
लक्ष्मीः कीर्त्तिर्जया माया देव्यस्तस्याश्रितास्सदा ।
स्वशक्तिनिचयोपेता निराकारास्तु निष्कलाः ॥ ७७ ॥

सूर्यस्य रश्मयो यद्वदूर्मयश्चाम्बुधेरिव ।
सर्वैश्वर्यप्रभावेन कमला श्रीपतेस्तथा ॥ ७८ ॥

नानाविशेषलक्ष्मीभिः कोटिसङ्ख्याभिरावृता ।
कीर्त्तिस्तथाविधेर्देव (नैव ?) विधिना विग्रहे विभोः ॥ ७९ ॥

तन्नास्ति यन्न हि तया व्याप्तं सामान्यदेहया ।
यस्य या च यदा कीर्त्तिस्स्वसामर्यात्प्रजायते ॥ ८० ॥

सा सा विप्र स्मृता सर्वा विशेषप्रतिपत्तिभिः ।
जया जयेश्वरस्यैवं व्याप्तिभावेन संस्थिता ॥ ८१ ॥

या काचिद्विद्यते माया जगत्यस्मिन् सुरादिषु ।
भगवन्माययोद्भूतां तां विद्धि परमां तु वै ॥ ८२ ॥

तदीयं निष्कलं रूपं मुक्त्वा वै परमार्थिकम् ।
कोऽस्मिंस्तत्त्वोदधौ चास्ति चतुर्धा मुनिसत्तम ॥ ८३ ॥

भगवच्छक्तिभिस्सम्यगाभिर्योगविभागतः ।
स्वालोकज्ञानसामर्थ्यात्साकारत्वमुपागताः ॥ ८४ ॥

लक्ष्म्यादीनां ध्यानप्रकारः
विश्वास-प्रस्तुतिः
ध्यातव्यास्साधकेन्द्रेण यस्य स्त्रीश्च(स्त्रियश्चास्य ?)स्वसिद्धये ।
एकवक्त्रा द्विनेत्राश्च द्विभुजाश्चारुकुण्डलाः ॥ ८५ ॥

पद्मगर्भनिभाः कान्ता मेखलादाममण्डिताः ।
श्वेतमाल्याम्बरधरा हारकेयूरभूषिताः ॥ ८६ ॥

सर्वलक्षणसम्पन्नाः पीनोन्नतपयोधराः ।
प्रबुद्धोत्पलविस्तीर्णलोचनाश्च स्मिताननाः ॥ ८७ ॥

चलद्द्विरेफपटलतुल्यैर्युक्तास्तथाऽलकैः ।
ललाटतिलकैश्चित्रैर्विविधैः परिमण्डिताः ॥ ८८ ॥

आरक्ताधररक्ताश्च वंशमुक्ताफलद्विजाः ।
अर्धचन्द्रललाटाश्च श्लक्ष्णकुञ्चितमूर्धजाः ॥ ८९ ॥

{{४८}}
विश्वास-प्रस्तुतिः
पाशाङ्कुशधरा देव्यः सर्वकामार्थसाधकाः ।
पूर्वादिदिग्विभागस्थाः केसरारेषु नारद ॥ ९० ॥

बद्धपद्मासनाश्चैव देवदेवस्य संउखाः ।
लक्ष्म्यादिमन्त्रनिरूपणोपक्रमः
मन्त्रांस्तासां प्रवक्ष्यामि पूजार्थं विविधानथ ॥ ९१ ॥
विश्वास-प्रस्तुतिः
यैस्समाराधिताः शश्वदभीष्टं साधयन्ति च ।
मूलमन्त्राद्द्वितीयं यत्केवलं बीजनायकम् ॥ ९२ ॥

सामान्यं हृदयं ह्येतत्सर्वासां परिकीर्तितम् ।
मूर्तिमन्त्रचतुष्कं तु क्रमेणासां पृथक्शृणु ॥ ९३ ॥

लक्ष्मीमन्त्रः
विश्वास-प्रस्तुतिः
प्रणवं चोद्धरेत्पूर्वं हृद्बीजं तदनन्तरम् ।
द्विरक्षरे पदं लक्ष्म्यै प्राङ्गमोन्तं निवेश्य च ॥ ९४ ॥

ततः परमशब्दं तु तदन्ते पुरुषेश्वरम् ।
वर्गान्तमास्वरोपेतं वस्थितायै पदं न्यसेत् ॥ ९५ ॥

भूयस्तद्धृदयं बीजं श्रीं ह्रीं बीजद्वयं ततः ।
स्वाहासमन्वितं विप्र प्रणवाद्यं च मन्त्रराट् ॥ ९६ ॥

मूर्त्तिमन्त्रसमेतस्तु लक्ष्म्याख्यो द्विदशाक्षरः ।
कीर्त्तिमन्त्रः
हृद्बीजं प्रणवाद्यं तु पदं कीर्त्त्यै ततो नमः ॥ ९७ ॥
विश्वास-प्रस्तुतिः
सदोदितानन्दपदं विग्रहायै पदं त्वनु ।
ह्रीं क्लीं स्वाहासमेतस्तु प्राक्सङ्ख्यं कीर्तिमन्त्रराट् ॥ ९८ ॥

जयामन्त्रः
विश्वास-प्रस्तुतिः
हृद्बीजं प्रणवोपेतं जयायै त्र्यक्षरं नमः ।
स्वराद्यं जितशब्दश्च धामा वर्णद्वयं ततः ॥ ९९ ॥

वस्थितायै पदं कृत्वा तद्धृद्बीजं न्यसेत्पुनः ।
अशेषभुवनाधारावस्थितं च तृतीयकम् ॥ १०० ॥

व्योमेशपञ्चबिन्दुस्स्यात्स्वाहा तदनु नारद (वै पदम्) ।
वर्णाद्विदशसङ्ख्यश्च जयाख्यो मन्त्र उत्तमः ॥ १०१ ॥

{{४९}}
[मायामन्त्रः]
विश्वास-प्रस्तुतिः
प्राग्बीजं प्रणवाद्यं च मायायै च ततो नमः ।
मोहातीतपदं चाथ नान्तं तदनु योजयेत् ॥ १०२ ॥

द्वितीयस्वरसंयुक्तं दकारं तदनन्तरम् ।
शृतायै त्र्यक्षरश्शब्दो मायाबीजं ततो भवेत् ॥ १०३ ॥

प्रधानमनलारूढं चतुर्थस्वरभूषितम् ।
त्रैलोक्यैश्वर्यदेनैव युक्तं स्वाहान्तमुद्धरेत् ॥ १०४ ॥

मायामन्त्रश्च पूर्वेषां वर्णसङ्ख्यासमस्स्मृतः ।
हृदाद्यङ्गमन्त्रनिरूपणम्
अङ्गानि देवदेवस्य कथयिष्यामि तत्त्वतः ॥ १०५ ॥
विश्वास-प्रस्तुतिः
सन्नद्धःसाधको यैस्तु अवध्यस्त्रिदशैरपि ।
साधयेत्सर्वकार्याणि यान्यायुस्सुखदानि च ॥ १०६ ॥

भक्तस्तद्भावितात्मा च यदि मन्त्रक्रियापरः ।
हृन्मन्त्रः
अनन्तपूर्वं यद्बीजं बिन्दुभूषितमुद्धरेत् ॥ १०७ ॥
विश्वास-प्रस्तुतिः
नमोऽन्तं प्रणवाद्यं तु हृन्मन्त्रं विद्धि निष्कलम् ।
अस्यैव मूर्त्तिमन्त्रो यस्तं ते वच्मि यथास्थितम् ॥ १०८ ॥

प्रणवो बिन्दुसम्भिन्नस्सूर्यस्सोमो विसर्गधृक् ।
शुचिशब्दं ततः कुर्यादग्निरूपमथोद्धरेत् ॥ १०९ ॥

दकारवर्णं तदनु प्रणवेनाप्यलङ्कृतम् ।
हृदयाय नमस्कुर्यात् हृन्मन्त्रो मूर्तिसंयुतः ॥ ११० ॥

सप्तादशाक्षरो विप्र सर्वसिद्धिप्रदायकः ।
शिरोमन्त्रः
द्वितीयस्वरसंयुक्तं तदेव शिरसि न्यसेत् ॥ १११ ॥
विश्वास-प्रस्तुतिः
एवमुद्धृत्य च ततस्तस्यादौ प्रणवं न्यसेत् ।
प्रणतिं चावसाने तु मूर्धानं विद्धि निष्कलम् ॥ ११२ ॥

मूर्त्तिमन्त्रमथो वक्ष्ये अस्यैवानुचरस्तु यः ।
प्रोद्धरेत्पद्मनाभाख्यं केवलं तादृशं त्वनु ॥ ११३ ॥

अशेषभुवनाधारं फलं तस्यावसानगम् ।
{{५०}}
कालपावकसंस्थं वै तं च फान्तं द्विजोत्तम ॥ ११४ ॥
विश्वास-प्रस्तुतिः
अथोद्धरेत्प्राणसञ्ज्ञं मदनेनोपरि स्थितम् ।
शिरसे च पदं पश्चात्स्वाहा शब्दस्तदन्तगः ॥ ११५ ॥

त्रयोदशाक्षरं विद्धि शिरोमन्त्रं तु नारद ।
शिखामन्त्रः
प्रणवं प्रथमं दद्यात्सूर्याख्यं तदनन्तरम् ॥ ११६ ॥
विश्वास-प्रस्तुतिः
विष्णुनाऽलङ्कृतं मूर्ध्ना त्रैलोक्यैश्वर्यदेन च ।
नमश्चास्यावसाने वै शिखामन्त्रश्च निष्कलः ॥ ११७ ॥

मूर्त्तिमन्त्रमथास्यैव वच्मि सर्वार्थसिद्धिदम् ।
पद्मनाभश्च (भं च ?)रारूढं दकारं शङ्खमूर्ध्वगम् ॥

कुर्यात्तमोतदेहेन प्रोतं यत्नेन नारद ।
केवलस्ताललक्ष्मातो रामोपेतो नरस्ततः ॥ ११९ ॥

शिखायै वौषडन्तश्च शिखामन्त्रो ह्ययं स्मृतः ।
सार्धत्रयोदशार्णश्च नानासिद्धिफलप्रदः ॥ १२० ॥

कवचमन्त्रः
विश्वास-प्रस्तुतिः
नतिप्रणवमध्ये तु प्राणं व्योमविभूषितम् ।
पञ्चमस्वरसंयुक्तं कवचार्णं विनिर्दिशेत् ॥ १२१ ॥

कृष्णस्य मूर्त्तिमन्त्रे तु भुक्तिमुक्त्यर्थसिद्धिदम् ।
प्रोद्धरेच्छङ्काराख्यं तु आनन्देनाभ्यलङ्कृतम् ॥ १२२ ॥

वराहस्थं तमेवाथ वैराजं केवलं ततः ।
केवलं पुण्डरीकं तु केवलं कालपावकम् ॥ १२३ ॥

चतुर्गतिसमारूढं वैकुण्ठं प्रोद्धरेत्ततः ।
कवचाय पदं कुर्याद्धुङ्कारेण विभूषितम् ॥ १२४ ॥

उभयात्मैष उक्तस्तु मन्त्रः पञ्चदशाक्षरः ।
नेत्रमन्त्रः
नमोन्तः प्रणवाद्यश्च प्राणो व्योमविभूषितः ॥ १२५ ॥
विश्वास-प्रस्तुतिः
औकारस्वरसंयुक्तो नेत्रमन्त्रस्तु निष्कलः ।
पवित्रमनलारूढं कमलं गोपनाङ्कितम् ॥ १२६ ॥

{{५१}}
विश्वास-प्रस्तुतिः
केवलं शङ्करश्चान्ते रारूढं पश्चिमाननम् ।
अजितश्चामृताधारस्संस्थितं प्रोद्धरेत्ततः ॥ १२७ ॥

धरेशं केवलं दद्यान्नेत्राय त्र्यक्षरं पदम् ।
तदन्ते च वौषट् कुर्यान्नेत्रमन्त्रो ह्ययं स्मृतः ॥ १२८ ॥

त्रिपञ्चवर्णसङ्ख्यस्तु सार्द्धार्णो द्विज सिद्धिदः ।
अस्त्रमन्त्रः
नमः प्रणवमध्यस्थः परमात्मा ह्यनन्तरम् ॥ १२९ ॥
विश्वास-प्रस्तुतिः
सविसर्गःस एवास्त्रं मूर्त्तिमन्त्रसमन्वितम् ।
दत्तावकाशसञ्ज्ञं वै मायाभूषितविग्रहम् ॥ १३० ॥

पवित्रं स्रग्धरारूढं तदूर्ध्वे चोदनं न्यसेत् ।
मदनं सत्यसंस्थं च पवित्रं ताललक्ष्मगम् ॥ १३१ ॥

भूयस्तमनलस्थ च केवलं च ध्रुवं ततः ।
तदन्ते चाप्रमेयं तु सोमाख्यं चोद्धरेत्ततः ॥ १३२ ॥

वैराजस्थं द्विजश्रेष्ठ सोऽपि चानलसंस्थितः ।
गोपनेनाङ्कयेत्तं वै पिण्डोऽयं चतुरक्षरः ॥ १३३ ॥

केवलं च ततः सूक्ष्मं फट्कारपदभूषितम् ।
चतुर्दशस्वरं ह्यस्त्रमर्द्धाक्षरमन्वितम् ॥ १३४ ॥

पूर्वं चतुर्वक्त्रतयोक्तस्य देवस्य नृसिह्माद्यास्यत्रयमन्त्राः
स्थिता नृसिह्मपूर्वेषु तान्वक्ष्यामि समासतः ॥ १३५ ॥
विश्वास-प्रस्तुतिः
सदेहाश्च पृथग्भागे साङ्गास्सपरिवारकाः ।
देवस्य वक्त्रमात्रेण ध्येयाः पूज्याश्च यत्नतः ॥ १३६ ॥

विश्वाप्याययुतं विप्र प्रणवं पूर्वमुद्धरेत् ।
अजितञ्चानलस्थं च ओदनेन समन्वितम् ॥ १३७ ॥

चन्द्रिणञ्चोर्ध्वतः कृत्वा व्यापनस्तस्य चोपरि ।
प्रोद्धरेज्जन्महन्तारं तदधस्सामपाठकम् ॥ १३८ ॥

कुर्याच्चानलसंस्थं च र्-उर्जं वै तदधः पुनः ।
ऊर्ध्वे व्यापी तथा ह्यादौ भूधरश्च भवेत्क्रमात् ॥ १३९ ॥

पिण्डाक्षरमिदं विप्र द्वितीयस्य नमोन्तगम् ।
ज्वलनायुतशब्दं च दीप्तये त्र्यक्षरं पदम् ॥ १४० ॥

{{५२}}
विश्वास-प्रस्तुतिः
नृसिह्मायेति च पदं स्वाहा तदनु योजयेत् ।
ऊनविंशाक्षरो मन्त्रो मूर्तामूर्ते नृकेसरी ॥ १४१ ॥

पूजितस्संस्मृतो ध्यातस्सञ्जप्तश्च ततो द्विज ।
निहन्यात्सामयान्दोषांस्तथा भूतग्रहानपि ॥ १४२ ॥

प्रोद्धरेत्प्रणवञ्चादौ सूर्याख्यं तदनन्तरम् ।
तमेव लोकेशगतं व्योम चान्द्री तदूर्ध्वतः ॥ १४३ ॥

रेफबीजमथादाय धर्मांशुं तदधो न्यसेत् ।
तदधो ह्यनलं भूयः प्रज्ञाधारोपरि स्थितम् ॥ १४४ ॥

औषधात्माऽस्य चोर्ध्वे तु चान्द्री व्यापी क्रमाद्भवेत् ।
अस्य पिण्डद्वयस्यान्ते नमस्कारं नियोजयेत् ॥ १४५ ॥

अनन्तभासाय पदं कपिलाय ततो भवेत् ।
स्वाहासमन्वितं कुर्यान्मन्त्रं सप्तदशाक्षरम् ॥ १४६ ॥

अत्युग्रं कपिलं नाम्ना सर्वद्वन्दोपशान्तिदम् ।
प्रायश्चित्तविधौ नित्यं जप्तव्यस्सिद्धिहेतुकः ॥ १४७ ॥

तथाऽपवर्गप्राप्त्यर्थमचिरेण तु नारद ।
प्रागोङ्कारमथादाय गोविन्दाख्यमथोद्धरेत् ॥ १४८ ॥

पुरुषेश्वरमस्याथ ओतदेहं तदूर्ध्वगम् ।
त्र्यैलोक्यैश्वर्यदोपेतं टकारस्तस्य चोपरि ॥ १४९ ॥

अमृताख्यं वराहस्थमूकारं तदधो द्विज ।
ओकारान्तं तदूर्ध्वे तु त्र्यैलोक्यैश्वर्यदं ततः ॥ १५० ॥

विश्वाप्यायसमायुक्तमस्यान्ते विन्यसेन्नमः ।
कृष्णवर्णद्वयं दद्यात्पिङ्गलाय पदं ततः ॥ १५१ ॥

वराहाय पदं स्वाहा मन्त्रस्सप्तदशाक्षरः ।
शान्ति श्रीपुष्टिमारोग्यं कुर्यादाप्यायनं स्मृतम् ॥ १५२ ॥

गोप्तव्यश्चैव जप्तव्यो वाराहो भुक्तिमुक्तिदः ।
अथ कौस्तुभादिमन्त्रः
कौस्तुभाद्यङ्कुशान्तांश्च मन्त्रान्सर्वान्यथा शृणु ॥ १५३ ॥
येषामनन्तविभवःशश्वदाराधनाद्भवेत् ।
कौस्तुभमन्त्रः
{{५३}}
कौस्तुभो व्योमसम्भिन्नः परमात्मा ततो द्विज ॥ १५४ ॥
विश्वास-प्रस्तुतिः
ऊर्ध्वाधोऽनलसम्भिन्नं कुर्यात्तदनु नारद ।
अकारेणाङ्कितं तं वै तं तमूर्जेन कारयेत् ॥ १५५ ॥

ततो व्योमान्वितो नेमी नमस्कृतिरनन्तरम् ।
प्रभात्मने पदं दद्यात्कौस्तुभाय पदं ततः ॥ १५६ ॥

स्वाहान्वितस्सप्रणवः कौस्तुभस्य प्रकीर्त्तितः ।
षोडशार्णो महामन्त्रो नास्ति तद्यन्न साधयेत् ॥ १५७ ॥

मालामन्त्रः
विश्वास-प्रस्तुतिः
प्रोद्धरेत्प्रणवान्ते तु धरेशं तदधो न्यसेत् ।
तृप्तिसञ्ज्ञं च तस्याधो वरुणं विनिवेश्य च ॥ १५८ ॥

मायाव्योमान्वितः पिण्डो नमस्कारसमन्वितः ।
स्थलवर्णद्वयं दद्याज्जलोद्भूतपदं ततः ॥ १५९ ॥

भूषिते वनमाले स्वाहा समेतं पदं ततः ।
एकोनविंशवर्णस्तु मालामन्त्र उदाहृतः ॥ १६० ॥

अभीष्टसिद्धिदो विप्र नित्यमाराधकस्य च ।
पद्ममन्त्रः
प्रणवस्यावसाने तु वामनाख्यं नियोजयेत् ॥ १६१ ॥
विश्वास-प्रस्तुतिः
सोमाख्यं तदधो योज्य उद्दामोपरि संस्थितः ।
त्र्यैलोक्यैश्वर्यदोपेतः पिण्डो नतिसमन्वितः ॥ १६२ ॥

श्रीनिवासपदं दद्यात्पद्माय तदनन्तरम् ।
स्वाहान्वितस्तु पद्मस्य मन्त्रः स्यात्त्रिदशाक्षरः ॥ १६३ ॥

प्रयच्छत्यतुलां भूतिं भक्तानामक्षयां द्विज ।
शङ्खमन्त्रः
प्रणवं पूर्वमादाय परमात्मानमुद्धरेत् ॥ १६४ ॥
विश्वास-प्रस्तुतिः
भेदयेद्भुवनान्तेन त्र्यैलोक्यैश्वर्यदेन तु ।
नमस्कारं क्रमं कुर्यादेतदेवाक्षरं त्रिधा ॥ १६५ ॥

महाशङ्खाय च स्वाहा शङ्खाख्यस्त्रिदशाक्षरः ।
यन्त्रश्शुभतरः प्रोक्तो धियं विद्यां प्रयच्छति ॥ १६६ ॥

{{५४}}
[चक्रमन्त्रः]
विश्वास-प्रस्तुतिः
शाश्वतः प्रणवान्ते तु रारूढस्सिद्धिकृद्युतः ।
तादृशश्चापि कमलः प्रफुल्लनयनस्ततः ॥ १६७ ॥

केवलस्स्यात्तदन्ते तु ह्लादस्स्वरविवर्जितः ।
परमात्मानमुद्धृत्य अङ्कुशाद्येन संयुतम् ॥ १६८ ॥

और्वान्तेनाङ्कितं मूर्ध्ना तदन्ते योजयेन्नमः ।
फट्कारत्रितयं पश्चाद्विष्णुचक्राय वै पदम् ॥ १६९ ॥

स्वाहार्णद्वितयं चान्ते चाक्रं सप्तदशाक्षरम् ।
अर्धाक्षरचतुष्केन युक्तं सर्वमिदं जगत् ॥ १७० ॥

गदामन्त्रः
विश्वास-प्रस्तुतिः
उद्धरेत्प्रणवं त्वादौ तदन्ते च गदाधरम् ।
प्रधानोपरिसंस्थं च तदधः पुरुषेश्वरम् ॥ १७१ ॥

जगद्योनियुतं मूर्ध्ना व्योमेशमुपरि न्यसेत् ।
ततो जकारमादाय विष्टरोपरि संस्थितम् ॥ १७२ ॥

विसर्गाद्येन सम्भिन्नं नमस्कारविभूषितम् ।
सहस्राश्रिगदे स्वाहा गदाख्यस्त्रिदशाक्षरः ॥ १७३ ॥

अभीष्टदो महामन्त्रो विघ्नजालक्षयङ्करः ।
गरुडमन्त्रः
प्रणवं पूर्वमादाय अनन्तेशमतः परम् ॥ १७४ ॥
विश्वास-प्रस्तुतिः
ऊर्ध्वाऽधोनलसम्भिन्नं सत्याद्यं तदधो न्यसेत् ।
त्र्यैलौक्यैश्वर्यदा दानत्रैलोक्यैश्वर्यदेन च ॥ १७५ ॥

शिरसा भूषितं कुर्याद्वेदात्मानमथोद्धरेत् ।
सोऽप्यनन्तेशवत्कार्यस्स्वरव्यञ्जनभूषितः ॥ १७६ ॥

सृष्टिकृत्सहितं भूयः कूटं दद्यान्नमोन्तगम् ।
पदञ्चान्तेऽनन्तगते स्वाहान्तं गरुडाय च ॥ १७७ ॥

सप्तदशाक्षरो मन्त्रः कीर्त्तितो गरुडस्य च ।
यस्य संस्मरणात्सम्यक्समस्तापल्लयं व्रजेत् ॥ १७८ ॥

{{५५}}
[पाशमन्त्रः]
आदायादौ तु वैकुण्ठं तस्यारूढं च रं न्यसेत् ।
व्योमानन्दसमेतं च कढ्ढकढ्ढपदं ततः ॥ १७९ ॥
विश्वास-प्रस्तुतिः
धाराधरद्वयोपेतं वरपाशाय वै पदम् ।
स्वाहा चैव तु तस्यान्ते कुर्यात् सप्तदशाक्षरः ॥ १८० ॥

स तारको ह्ययं मन्त्रः पाशाख्यः क्षिप्रसिद्धिकृत् ।
अङ्कुशमन्त्रः
प्रणवान्ते ततः कुर्याद्विराट्सञ्ज्ञं तदूर्ध्वतः ॥ १८१ ॥
विश्वास-प्रस्तुतिः
व्योमविप्रानलोपेतं कमलं तदनन्तरम् ।
ऋतधामोपरिस्थं च व्योम तस्योपरि न्यसेत् ॥ १८२ ॥

पदं निशितघोणाय अङ्कुशाय पदं ततः ।
स्वाहान्वितस्त्रिपञ्चार्णो मन्त्रराडङ्कुशस्य च ॥ १८३ ॥

शीघ्रकर्मकरः प्रोक्तो नित्यमिच्छान्तलक्षणः ।
उपाङ्गपञ्चकनिरूपणारम्भः
उपाङ्गपञ्चकं चाथ सत्यादीनां हि वाचकम् ॥ १८४ ॥
विश्वास-प्रस्तुतिः
ब्रह्मस्वरूपममलं व्यापकं सर्वसिद्धिदम् ।
सम्यक्शृणुष्व देवर्षे सरहस्यं वदामि ते ॥ १८५ ॥

यद्विन्यासात्साधकस्य सिद्धो वै यत्र कुत्रचित् ।
फलदो मन्त्रमूर्तिस्स्यादचिरात्तन्मयस्य च ॥ १८६ ॥

स्याद्देवेशसमो मन्त्री तन्न्यासाद्व्याप्तिभावनात् ।
यागाहुतस्य मन्त्रस्य शक्त्यङ्गाद्यावृतस्य च ॥ १८७ ॥

सम्यङ्निरोधसिद्ध्यर्थं योजनीयं सदैव हि ।
तथात्मनः कृते न्यासे न्यस्ते चोपाङ्गपञ्चके ॥ १८८ ॥

शश्वत्स्याच्चित्तवृत्तीनां विक्षिप्तानां च संयमः ।
सत्याद्युपाङ्गपञ्चकबीजमन्त्रः
तुर्यातीतात्मसञ्ज्ञो यो वर्गः पञ्चार्णभूषितः ॥ १८९ ॥
विश्वास-प्रस्तुतिः
विलोमेन सुपर्णाद्यं स्थापयित्वा नियोज्य च ।
आद्यं वै भूधराख्येन ऊर्जसञ्ज्ञेन चापरम् ॥ १९० ॥

लोकेशेन तृतीयं तु तुर्यं साक्षाच्च विष्णुना ।
{{५६}}
पञ्चमं त्वादिदेवेन व्यापी सर्वत्र मूर्धनि ॥ १९१ ॥
विश्वास-प्रस्तुतिः
समस्तेन द्विजोङ्कारे एकैकं मध्यतः क्षिपेत् ।
पञ्चकं पञ्चसञ्ज्ञस्य बीजभूतमिदं स्मृतम् ॥ १९२ ॥

संस्थितं तु परत्वेन एतस्मात्प्रभवन्ति ते ।
सौक्ष्म्येन व्यापकत्वेन धातृत्वेन तु नारद ॥ १९३ ॥

एकैकस्मिन्समूहेन पञ्चैते संव्यवस्थिताः ।
प्रशान्तहुतभुग्रूपाः परमन्त्रसहोदिताः ॥ १९४ ॥

आदिदेवस्य वै विष्णोः सत्याख्यस्य महात्मनः ।
महाविभवसञ्ज्ञस्य प्रथमो मन्त्रराट् स्मृतः ॥ १९५ ॥

वासुदेवस्य च विभोर्द्वितीयः परिकीर्तितः ।
सङ्कर्षणस्य च ततो बीजमुक्तं तृतीयकम् ॥ १९६ ॥

चतुर्थं विप्रशार्दूल प्रद्युम्नस्य महात्मनः ।
उपाङ्गं पञ्चमं विद्धि अनिरुद्धात्मनो विभोः ॥ १९७ ॥

सत्याद्यमनिरुद्धान्तं पवित्रं मन्त्रपञ्चकम् ।
उपाङ्गसञ्ज्ञं यो वेत्ति स सत्यं वेत्ति नान्यथा ॥ १९८ ॥

इति सूक्ष्मस्वरूपस्य विभोर्मन्त्रवरस्य च ।
त्र्यक्षरस्य द्विबीजाद्यं व्यापकस्यामलस्य च ॥ १९९ ॥

मूर्त्तिमन्त्रादितः प्रोक्तो मन्त्रसञ्ज्ञो(घो ?) यथाक्रमम् ।
अभीप्सितप्रदस्सम्यग्भक्तानां भावितात्मनाम् ॥ २०० ॥

अत्रासक्तो भव मुने यजैतत्पूजयस्व च ।
विधिना शास्त्रदृष्टेन वाञ्छितं यत्प्रयछति ॥ २०१ ॥

स्थूलसूक्ष्मविभागेन एष मन्त्रः परो मया ।
ज्ञातः परस्वरूपेण न ज्ञातः परमेश्वर ॥ २०२ ॥

पुराऽस्यैव परा मूर्त्तिर्मान्त्री संसूचिता त्वया ।
समाचक्ष्व समासेन यदि सानुग्रहोऽसि मे ॥ २०३ ॥

मन्त्रस्य परस्वरूपनिरूपणम्
श्रीभगवान्
मूर्तिमन्त्रं विना विप्र यो मन्त्रः प्रागुदीरितः ।
{{५७}}
प्रभवाद्यो विसर्गान्तस्सुधासन्दोहविग्रहः ॥ २०४ ॥
विश्वास-प्रस्तुतिः
सर्वदेवमयश्शुद्धस्सर्वाध्वात्मा परः प्रभुः ।
समस्तशक्तिदेहस्तु भारूपस्सूक्ष्मरूपधृत् ॥ २०५ ॥

संसारार्णवमग्नानामिच्छया स्थूलतां गतः ।
अधिष्ठितस्स विभुना परेणालोकरूपिणा ॥ २०६ ॥

सुसूक्ष्मेणाविग्रहेण सदालोकरसात्मना ।
अणीयांसमणोर्विद्धि मन्त्रशक्तिः परा हि सा ॥ २०७ ॥

उपाधिरहितं शुद्धं मत्सामीप्यफलप्रदम् ।
तच्छरीरं हि मे मन्त्रं परं परफलप्रदम् ॥ २०८ ॥

[परसूक्ष्मस्थूलरूपेण सतां मन्त्राणां संविन्मयात् सर्वतः
परतरात्प्रादुर्भावनिरूपणम्]
विश्वास-प्रस्तुतिः
निर्विकारशरीरं च यागाख्यं परमं स्मृतम् ।
तुर्यात्परं पदादस्मात् ज्ञेयाख्यं परमं मम ॥ २०९ ॥

ग्राह्यग्राहकनिर्मुक्तं संविदानन्दलक्षणम् ।
तन्मयास्तं प्रपश्यन्ति विशुद्धेनान्तरात्मना ॥ २१० ॥

यतः परः प्रभवति भाःशब्दाख्यश्च मन्त्रराट् ।
यत्र सप्तपदार्थं तु विज्ञातं व्यक्तिमेति च ॥ २११ ॥

यत्र वै वर्णरूपेण सर्वे लोकाः प्रतिष्ठिताः ।
प्रधानकारणानां यद्द्वाभ्यां यत्परतस्स्थितम् ॥ २१२ ॥

मन्त्रोत्पत्तिक्रमेणैव यादृक्संस्थं तथा शृणु ।
अनुक्रमेण संयोज्य सृष्टिन्यायेन नारद ॥ २१३ ॥

सप्तकञ्चैव वर्णानां संविभक्तिविभावितम् ।
सूर्यसोमाग्निरूपं तु प्रधानपुरुषेश्वरम् ॥ २१४ ॥

अशेषभुवनाधारं त्र्यैलोक्यैश्वर्यदायकम् ।
एष वर्णमयः पिण्डः परो मे मन्त्रविग्रहः ॥ २१५ ॥

भावग्राह्यमनौपम्यमप्रकाश्यमिदं मुने ।
प्रकाशितो मया तेऽद्य जीवभूतो हि मन्त्रराट् ॥ २१६ ॥

समस्तमन्त्रचक्रस्य सामर्थ्यजनको हि यः ।
मन्त्रेण तेन विधिना ओतप्रोतव्यवस्थया ॥ २१७ ॥

अधिष्ठितोऽपि बीजो वै निर्मलस्फटिको यथा ।
{{५८}}
निर्मलेनाम्बरेणैव दृश्यादृश्येन वै तथा ॥ २१८ ॥
व्याप्तास्तेनापरे मन्त्रास्तथैव परिभाविताः ।
नारदः
मन्त्रः(ः ?)सृष्टिक्रमेणैव यथावन्नोदितस्त्वया ॥ २१९ ॥
विश्वास-प्रस्तुतिः
तमादिशस्व येनाद्य कृतकृत्यो भवाम्यहम् ।
योऽविकारः परश्शुद्धस्स्थितस्संवेदनात्परे ॥ २२० ॥

स कथं व्यापकं ब्रह्म मन्त्रमूर्तित्वमागतः ।
मन्त्रसृष्टिक्रमविवेचनम्
श्रीभगवान्
तस्यैकां परमां शक्तिं विद्धि तद्धर्मचारिणीम् ॥ २२१ ॥
विश्वास-प्रस्तुतिः
ययोपचर्यते विप्र सृष्टिकृत्परमेश्वरः ।
बृह्मितो यद्बृहत्वेन नित्यानन्दोदितस्तथा ॥ २२२ ॥

सर्वदा नित्यशुद्धो यस्तस्यैतन्नोपपद्यते ।
शक्त्यात्मकस्स भगवान्सर्वशक्त्युपबृंहितः ॥ २२३ ॥

अग्नीषोमात्मकेतं मे (कत्वेन ?) तुल्यकालं हि मूर्च्छति ।
प्रकाशस्तु भवेत्सूर्य आह्लादस्सोम उच्यते ॥ २२४ ॥

द्वयोरन्तर्गता संवित्ताभ्यामस्तोदयावपि ।
पुमान्स एव चिन्मूर्त्तिरग्नीषोममयो द्विज ॥ २२५ ॥

यदग्निरूपं त्रैगुण्यं तच्च विद्यामयं तु वै ।
चिदात्मा शलभो यद्वत्तमधिष्ठाय तिष्ठति ॥ २२६ ॥

ततः प्रधानिकीं भूमिं तत्रस्थो गमयेत्प्रभुः ।
पुरुषेश्वरतां याति क्ष्मातत्त्वेऽधिष्ठिते सति ॥ २२७ ॥

ममेति वासनाविद्धस्तेजसा परिपूरयेत् ।
तत्त्वबृन्दं च सकलं त्रैलोक्यैश्वर्यतां व्रजेत् ॥ २२८ ॥

तैजसादभिमानात्तु ततस्तस्मान्निवर्तते ।
स्वां स्थितिं समवाप्नोति परावस्थास्थितिं पुनः ॥ २२९ ॥

गमयेत्स्थूलरूपं वा सूक्ष्मं वा शक्तिवेष्टितम् ।
द्वयमेतत्समाश्रित्य लोकानुग्रहकृद्भवेत् ॥ २३० ॥

सम्प्रयच्छति मोक्षं च भोगं राज्यादिकं तु वा ।
यत्तस्मात्तदुपास्यो वै स्थूलसूक्ष्मोभयात्मकः ॥ २३१ ॥

{{५९}}
विश्वास-प्रस्तुतिः
त्र्यक्षरः परमो मन्त्रस्तेन सन्दीक्षयेत्क्रमात् ।
भवाब्धिपतितान्भक्तानपरेण तु (?)कर्हिचित् ॥ २३२ ॥

दीक्षितः पाशमुक्तो वै त्यक्तसर्वपरिग्रहः ।
पिण्डपाताभिलाषी वा योगैकगतमानसः ॥ २३३ ॥

भक्तः परो योजनीयस्सर्वो निर्वाणभागथ ।
तत्स्थः परं पदं याति स्थूलसूक्ष्मोभयेन तत् ॥ २३४ ॥

व्यक्तिमेत्यचिराद्विप्र भविनां भावितात्मनाम् ।
उपलब्धौ तु सत्यां वै संयुक्तं चैव विष्णुना ॥ २३५ ॥

जपमानस्तु यो ध्यायेत्पञ्चस्थानविनिर्गतम् ।
सृष्टिक्रमेण तस्याशु सिध्यते मनसेप्सितम् ॥ २३६ ॥

विग्रहादुदितं वाऽथ व्याप्तिसत्तासमन्वितम् ।
यत्पदादवतीर्णं च तदाक्रम्य पुनर्बहिः ॥ २३७ ॥

वर्तते विग्रहं त्यक्त्वा संस्मृतो मोक्षमृच्छति ।
दृश्याद्वायोर्गतिपथाद्व्यापाराच्च क्रमेण तु ॥ २३८ ॥

संहृत्य हृदयात्सर्वं स्थानान्यूर्ध्वे तथैव च ।
तत्सेवामृतसम्भिन्नान्नित्याभ्यासाच्च नारद ॥ २३९ ॥

स्यात्स्थिरत्वं शरीरस्य भोगमोक्षबलं तथा ।
तस्मादस्य सदा पूजा ध्यानजप्यमयी भवेत् ॥ २४० ॥

नोपचारमयी कार्या पुष्पधूपादिकैर्बहिः ।
यतस्सकलदेहस्य पूजनं विहितं मुने ॥ २४१ ॥
मूलम्
नोपचारमयी कार्या पुष्पधूपादिकैर्बहिः ।
यतस्सकलदेहस्य पूजनं विहितं मुने ॥ २४१ ॥
विश्वास-प्रस्तुतिः
भावना निष्कलाख्यस्य नैतदस्ति द्वयोज्झिते ।
यदस्याविकृतं रूपं तदनेन त्वधिष्ठितम् ॥ २४२ ॥

भाव्योदयेन योगेन सोऽस्य वै जनको यतः ।
अस्मात्सिंह्मादिवच्चान्यदेवमेव विभावयेत् ॥ २४३ ॥

पृथग्यागे समस्ते वा निर्विघ्नफलसिद्धये ।
ब्रह्मप्रात्तौ तथा भोगे दीक्षाद्ये कर्मसङ्ग्रहे ॥ २४४ ॥

एतदीयं हि सामर्थ्यं मन्त्रस्य त्र्यक्षरस्य तु ।
बोद्धव्यस्स त्रिधैवात्मा गुणत्रयमयस्तथा ॥ २४५ ॥

सदा विप्र त्रिलोकात्मा त्रिवेदात्मा स उच्यते ।
त्रेताग्निं तं विजानीयात्कर्म वाङ्मनसे असौ ॥ २४६ ॥

{{६०}}
विश्वास-प्रस्तुतिः
मनोबुद्धिरहङ्कारो बुद्धिकर्माक्षभूतवान् ।
सोमसूर्याग्निरूपेण त्रिधा सोऽपि त्रयोऽक्षरः (राः ?) ॥ २४७ ॥

प्रकृतिः पुरुषश्चैव तृतीयश्चेश्वरश्च सः ।
स च नाडीत्रयं देहे स्थानत्रयसमन्वितम् ॥ २४८ ॥

एवमेवास्य मन्त्रस्य वैश्वरूप्यं च नारद ।
व्यापकत्वं च यो वेत्ति तत्सत्यं वेत्ति नान्यथा ॥ २४९ ॥

इति मन्त्रगणो मुख्यस्सर्वोप्लवशान्तिकृत् ।
प्रकाशितो यथा तथ्यं नाख्येयो यस्य कस्यचित् ॥ २५० ॥

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मुख्यमन्त्रोद्धारो नाम
षष्ठः पटलः ॥ ६ ॥