अथ ब्रह्मज्ञानोत्पत्त्याख्यानं नाम पञ्चमः पटलः
नारदः
विश्वास-प्रस्तुतिः
ब्रह्माभिन्नं विभो ज्ञानं श्रोतुमिच्छामि तत्त्वतः ।
येन सम्प्राप्यते ज्ञेयमन्तःकरणसंस्थितम् ॥ १ ॥
मूलम्

ज्ञानस्य योगाभ्यासैकलभ्यत्वम्
श्रीभगवान्
विश्वास-प्रस्तुतिः
सर्वोपाधिविनिर्मुक्तं ज्ञानमेकान्तनिर्मलम् ।
उत्पद्यते हि युक्तस्य योगाभ्यासात्क्रमेण तत् ॥ २ ॥

तेन तत्प्राप्यते विप्र अन्यथा दुर्लभं भवेत् ।
नारदः
कथमेवंविधं ज्ञानमुत्पद्येत जगत्प्रभो ॥ ३ ॥
यतस्स्याज्ज्ञेयसमता एतद्विस्तरतो वद ।
[भगवच्छक्तिसामर्थ्याद्गुणसाम्यापत्त्या
स्वात्मस्वरूपजिज्ञासोत्पत्तिः]
श्रीभगवान्
संसारपादपस्थानां फलानां चैव नारद ॥ ४ ॥
विश्वास-प्रस्तुतिः
पक्वकर्मरसानां च भ्रान्तानां भवसागरे ।
भगवच्छक्तिसामर्थ्याद्गुणसाम्यं भवेत्क्षणात् ॥ ५ ॥

तत्साम्यात्कर्मसमता जायते समनन्तरम् ।
तत्समत्वाद्विचारस्तु प्रवर्तेतात्मलाभदः ॥ ६ ॥

कोऽहं किमात्मकश्चैव किमिदं दुःखपञ्जरम् ।
यत्राहमसमाश्वस्तस्संस्थितस्सर्वदैव हि ॥ ७ ॥

{{३९}}
इति मत्त्वा ततो याति निष्पन्नस्य गुरोर्गृहम् ।
विविदिषयोपसन्नस्य शिष्यस्याधिकारानुगुणमुपाये नियोज्यत्वम्
ज्ञात्वा तस्यातुरत्वं च सर्वज्ञो गुरुमूर्तिगः ॥ ८ ॥
विश्वास-प्रस्तुतिः
भाति (व?) व्यापृतिकं बुध्वा तं तथा विनियोजयेत् ।
सोपलब्धे तु निर्बीजे स्वसामर्थ्यात्परे पदे ॥ ९ ॥

निर्वाणे तु निरातङ्के सानन्दे चिन्मये तु वा ।
मान्त्रेऽधिक्रियमे(?) वाऽपि भोगमोक्षप्रदक्षमे ॥ १० ॥

स्वाधिकारानुगुणं मन्त्राराधने प्रवृत्तस्य ज्ञानोदयप्रकारः
विश्वास-प्रस्तुतिः
मन्त्राराधनसक्तस्तु तत्सिद्धीनामलोलुपः ।
भक्तस्तद्ध्याननिष्ठश्च तत्क्रियापरमो महान् ॥ ११ ॥

तदाद्यभिमुखाकाङ्क्षी ब्रह्मचर्यव्रते स्थितः ।
भवं भावयते सम्यक् दुःखशोकप्रदं महत् ॥ १२ ॥

अनित्यमध्रुवं कष्टं जरामरणसङ्कुलम् ।
द्वन्द्वयोगभयाक्रान्तमपर्याप्तमनश्वरम् ॥ १३ ॥

सदैतच्चिन्तनाच्छश्वत्तथा मन्त्राद्यनुग्रहात् ।
नियमाच्चापि शारीरात्परं वैराग्यमावहेत् ॥ १४ ॥

वैराग्याच्च ततो विप्र विषयैः कलुषीकृतम् ।
शरत्काले जलं यद्वच्चित्तमेति प्रसन्नताम् ॥ १५ ॥

प्रसन्नस्थिरतां याति निस्तरङ्ग इवोदधिः ।
निवाताचलदीपाभमचलं बोधसम्मुखम् ॥ १६ ॥

यत्तच्चित्तमिवा(मथा)पन्नः पुमांश्चैतन्यलक्षणः ।
सम्बोधं च तदाप्नोति तज्ज्ञानं परमं स्मृतम् ॥ १७ ॥

सैव चिद्धृदयाकाशे ह्युदेत्यादित्यवत्क्रमात् ।
तेनाधिगम्यते ज्ञेयं यद्वत्सूर्योदयाज्जगत् ॥ १८ ॥

सम्बोधो ज्ञेयनिष्ठा सा तदाऽयाति शनैश्शनैः ।
तदा समरसत्वं हि सह तेनैव तस्य हि ॥ १९ ॥

ज्ञेयज्ञप्तिकरं ज्ञानं क्रमोपेतं च नारद ।
निर्वाणदमसङ्कीर्णमिदं ते सम्प्रकाशितम् ॥ २० ॥

युक्तितस्तदभिन्नं च भेदवत्प्रतिभाति यत् ।
तथाऽपीदं स्वभावेन विद्धि नातः परं तु वै ॥ २१ ॥

{{४०}}
विश्वास-प्रस्तुतिः
विद्यते ब्रह्मशार्दूल किं वा तत्र प्रवर्तते ।
यथेदं ते मया विप्र स्वालोकं प्रकटीकृतम् ॥ २२ ॥

अनुभूतं न भूयस्त्वं मया वक्तुं हि शक्ष्यसे ।
ब्रह्मणो दुरवबोधत्वम्
अवाच्ये वर्तते कुत्र वाग् वै संवेदनं विना ॥ २३ ॥
विश्वास-प्रस्तुतिः
षण्णां यद्वद्रसानां च स्वादुत्वं नानुभूयते ।
प्राकृतैः करणैस्तद्वन्नाभिव्यक्तिं बहिर्व्रजेत् ॥ २४ ॥

केवलं ह्युपमानेन तत्प्रत्यक्षं प्रकाश्यते ।
प्रवर्तनार्थं मन्दानां नामन्दानां तु वै पुनः ॥ २५ ॥

योगी समरसत्वेन वेदय त्वं विचाररतः ।
तस्मात्त्वमेव विप्रेन्द्र अनुभूतं स्थिरीकुरु ॥ २६ ॥

लयमेष्यसि येनात्र निजानन्दे ह्यनूपमे ।
भूतानन्दस्वरूपेण त्यक्त्वा सम्यक्परिग्रहम् ॥ २७ ॥

निवेदितं मया यत्ते तत्तद्वाच्यं न जातु वै ।
त्वया यदनुभूतं च तदानीं मयि मन्यसे ॥ २८ ॥

सर्वोपमानरहितं वागतीतं स्ववेदनम् ।
अस्तीति परमं वस्तु निरालम्बमतीन्द्रियम् ॥ २९ ॥

आत्मन्यानन्दसंस्थस्य व्यज्यते करणैर्विना ।
करणाः प्राकृतास्सर्वे चित्तजाश्च विशेषतः ॥ ३० ॥

मन्त्रसमाघ्योर्मन्त्रस्य सुकरोपायत्वम्
विश्वास-प्रस्तुतिः
उपायमत्र मन्त्रौघास्समन्त्रास्ते च सिद्धिदाः ।
तस्मान्मुद्रादिकरणा भावजाश्च समाधयः ॥ ३१ ॥

क्रियोपेतास्तथा मन्त्राः सर्वे सद्वस्तुसाधकाः ।
विघ्नायुतसहस्रं तु परोत्साहसमन्वितम् ॥ ३२ ॥

प्रहरन्त्यनिशं तच्च सर्व(स्या)भिमुखस्य च ।
मन्त्रपूर्वं हि यत्किञ्चित्स्थूलं ब्रह्मव्यपेक्षया ॥ ३३ ॥

विघ्नजालस्य सर्वस्य वीर्यध्वंसकरं स्मृतम् ।
यथाग्नेर्दाहसामर्थ्यमुदकेन निपात्यते ॥ ३४ ॥

{{४१}}
विश्वास-प्रस्तुतिः
मायारूपस्तु विघ्नौघो मन्त्राद्यैरुपहन्यते ।
निकटस्था यथा राज्ञस्त्वन्येषां साधयन्ति च ॥ ३५ ॥

सिद्धिं राजोपगां शीघ्रमेवं मन्त्रादयः परम् ।
ज्ञात्वैवं सर्वदा विप्र य आस्ते यत्परायणः ॥ ४६ ॥

अभीप्सितेन मार्गेण निष्पद्येताचिरात्तु सः ।
विश्वास-प्रस्तुतिः
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां ब्रह्मज्ञानोत्पत्त्याख्यानं
नाम पञ्चमः पटलः ॥ ५ ॥