अथ शुद्धसर्गब्रह्मतत्त्वाख्यानं नाम चतुर्थः पटलः
नारदः-
विश्वास-प्रस्तुतिः
शुद्धसर्गमहं देव वेत्तुमिच्छामि तत्त्वतः ।
सर्गद्वयस्य चैवास्य यः परत्वेन वर्तते ॥ १ ॥
मूलम्

(वासुदेवात्परब्रह्मणस्तदनन्यस्याच्युतादेराविर्भावः)
श्रीभगवान्-
विश्वास-प्रस्तुतिः
यत्सर्वव्यापकं देवं परमं ब्रह्म शाश्वतम् ।
चित्सामान्यं जगत्यस्मिन्परमानन्दलक्षणम् ॥ २ ॥

वासुदेवादि(द?)भिन्नं तु वह्न्यर्केन्दुशतप्रभम् ।
स वासुदेवो भगवांस्तद्धर्मा परमेश्वरः ॥ ३ ॥

{{२८}}
विश्वास-प्रस्तुतिः
स्वादीप्तं क्षोभयित्वा तु विद्युद्वत्स्येन तेजसा ।
प्रकाशरूपी भगवानच्युतश्चा(तं चा ?)सृजद्द्विज ॥ ४ ॥

सोऽच्युतोऽच्युततेजाश्च स्वरूपं वितनोति च ।
आश्रित्य वासुदेवं च घर्मे(र्मो) मेघदलं यथा ॥ ५ ॥

क्षोभयित्वा स्वमात्मानं सत्यं भास्वरविग्रहम् ।
उत्पादयामास तदा समुद्रो बुद्बुदं यथा ॥ ६ ॥

स चिन्मयप्रकाशाख्य उत्पाद्यात्मानमात्मना ।
पुरुषाख्यमनन्तं च प्रकाशप्रसरं महत् ॥ ७ ॥

पुरुषात्मनाऽविर्भूतस्य वासुदेवस्य सर्वदेवान्तर्यामित्वम्
विश्वास-प्रस्तुतिः
स च वै सर्वदेवानामाश्रयः परमेश्वरः ।
अन्तर्यामी स तेषां वै तारकाणां यथाऽम्बरम् ॥ ८ ॥

सेन्धनः पावको यद्वत्स्फुलिङ्गनिचयं द्विज ।
अनिच्छतः प्रेरयति तद्वदेष परः प्रभुः ॥ ९ ॥

प्राग्वासनानिबद्धा ये जीवास्तान्बन्धशान्तये ।
स्वदेह * * * * * * * तदुभयं पुनः ॥ १० ॥

अवताराणां तदंशत्वम्
विश्वास-प्रस्तुतिः
ये स्विदाद्यावताराश्च लोकत्राणाधिकारिणः ।
सर्वान्विद्धि तदंशांस्तान्सर्वेऽशास्सत्त्वजास्तथा ॥ ११ ॥

[पुरुषसत्याच्युतानामुत्तरोत्तरस्वरूपादभिन्नानां वासुदेवे परे
रूपेऽवस्थितिः]
विश्वास-प्रस्तुतिः
स च सत्यादभिन्नस्तु तस्मात्सत्यं तथैव हि ।
द्वाभ्यामेकात्मरूपं यत्तदभिन्नमथोऽच्युतात् ॥ १२ ॥

आश्रितस्संस्थितस्ताभ्यामभेदेन सदैव हि ।
पुमान्सत्योऽच्युतश्चैव चिद्रूपं त्रितयं तु तत् ॥ १३ ॥

शान्तसंवित्स्वरूपे च वासुदेवेऽवतिष्ठते ।
[चिद्रूपस्य वासुदेवस्य ततः प्रादुर्भूतस्याच्युतादिरूपत्रयस्य च
सनिदर्शनमभिन्नतानिरूपणम्]
सोऽन्तर्यामी प्रकाशात्मा चिद्रूपस्स प्रतिष्ठितः ॥ १४ ॥
{{२९}}
विश्वास-प्रस्तुतिः
त्रितये यस्तथारूपोऽनिच्छात उदितस्सदा ।
असङ्कल्पात्मकास्सर्वे प्रसरन्ति परस्परम् ॥ १५ ॥

दीपवन्मुनिशार्दूल स्वपरालोकदास्तु वै ।
सङ्कल्पेन विना तद्वदन्योऽन्यत्वेन संस्थिताः ॥ १६ ॥

हृह्णन्ति प्रतिबिम्बत्वं दर्पणेष्विव दर्पणम् ।
अतीव द्विज नैर्मल्यात्सङ्क्रान्तानां परस्परम् ॥ १७ ॥

प्रविभागो न जायेत व्योमस्फटिकयोर्यथा ।
भासाद्वयस्य विप्रेन्द्र तथा तेषामभिन्नता ॥ १८ ॥

एतद्रहस्यं परमं मया ते सम्प्रकाशितम् ।
सर्ग आद्यो ह्यनन्त(न्य ?)श्च अनन्तस्य महात्मनः ॥ १९ ॥

मयैतद्विदितं सर्वं सर्वेश त्वदनुग्रहात् ।
यथा ह्यस्य(सि ?) त्वमव्यक्तो ह्यमूर्तो मूर्ततां गतः ॥ २० ॥

ज्ञातुमिच्छामि भगवन्स्वरूपं ते यथार्थतः ।
स्थूलं सूक्ष्मं परं चैव अध्यात्मनि तथा बहिः ॥ २१ ॥

भवत्प्रसादसामर्थ्याद्विनैतत्त्रितयं कथम् ।
व्यज्यते विषयस्थानां कुरु मेऽनुग्रहं वद ॥ २२ ॥

[स्थूल-सूक्ष्म-परात्मना त्रेधाऽवस्थितस्य भगवतो रूपस्य
निरूपणम्]
श्रीभगवान्-
विश्वास-प्रस्तुतिः
स्रष्टा पालयिता चाहं संहर्ता पुनरेव च ।
स्वकीययोगयुक्त्या तु स्थूलरूपेण नारद ॥ २३ ॥

सूक्ष्मेण सर्वभूतानां निवसामि हृदन्तरे ।
करोम्यनुग्रहं चापि भक्तानां भावितात्मनाम् ॥ २४ ॥

परेणानन्दरूपेण व्यापकेनामलेन च ।
व्यासयाम्यखिलं विप्र रसेनेव तरूत्तमम् ॥ २५ ॥

मूले सिक्तं शिखाशाखापत्रपुष्पफलान्वितम् ।
नारदः-
सत्यं त्वया जगत्सृष्टं विधृतं च त्वया विभो ॥ २६ ॥
विश्वास-प्रस्तुतिः
कालरूपी त्वमेवान्ते सत्यं संहारकृत्स्मृतः ।
पातालादौ च ये लोकास्त्वन्नाभेश्च समुत्थिताः ॥ २७ ॥

{{३०}}
विश्वास-प्रस्तुतिः
धर्मसंस्थापनं चैव पुनरेव त्वया कृतम् ।
संहृताश्च त्वया दैत्याः श्रुतं च विदितं मया ॥ २८ ॥

यथा येन प्रकारेण त्वमेव प्रकरोषि च ।
तद्वै वेदितुमिच्छामि त्वत्सकाशात्सुविस्तरम् ॥ २९ ॥

[सकलनिष्कलात्मना द्विधा भिन्नाया मन्त्ररूपाया
मूर्तेर्बन्धतद्विपर्ययहेतुत्वोपपादनम्]
श्रीभगवान्
विश्वास-प्रस्तुतिः
योगवीर्येण विप्रेन्द मन्त्ररूपा पुरातनी ।
निष्कला सकला चैव भोगमोक्षप्रदा शुभा ॥ ३० ॥

कृता मया च लोकानां सम्यगालोकदा शुभा ।
मन्त्रोत्पत्तिक्रमेणैव स्थिता शान्ततरात्मना ॥ ३१ ॥

तमोमयाभ्यां मूर्त्ताभ्यां दोषाभ्यां नाशनाय वै ।
सैवावतिष्ठते लोके प्रकृतिर्विश्वपालिनी ॥ ३२ ॥

या करोत्येवमादीनि कर्माण्यस्मिन्भवोदरे ।
भक्तानां मोक्षयत्याशु कृत्वा बन्धपरिक्षयम् ॥ ३३ ॥

निश्शेषेण च तद्योगं तन्मन्त्रं वीर्यमेव च ।
आदिशस्व जगत्कर्तु(र्त)र्यदि सानुग्रहोऽसि मे ॥ ३४ ॥

मन्त्रतद्वीर्यादिपरिज्ञानस्य ब्रह्मज्ञानमूलत्वकथनम्
श्रीभगवान्-
ब्रह्मपूर्वमिदं सर्वं यत्त्वया चोदितो ह्यहम् ॥ ३५ ॥
यद्विना न प्रवर्तन्ते यानि सङ्कीर्तितानि ते ।
नारदः-
किं तद्ब्रह्म विजानीयां येन योगेश्वरेश्वर ॥ ३६ ॥
विश्वास-प्रस्तुतिः
विभवो मन्त्रपूर्वश्च मन्त्रोपकरणं तथा ।
प्रवर्तन्ते विभो क्षिप्रं भक्तानां भक्तवत्सल ॥ ३७ ॥
मूलम्
विभवो मन्त्रपूर्वश्च मन्त्रोपकरणं तथा ।
प्रवर्तन्ते विभो क्षिप्रं भक्तानां भक्तवत्सल ॥ ३७ ॥
श्रीभगवान्-
विश्वास-प्रस्तुतिः
ज्ञानेन तदभिन्नेन परिज्ञातेन नारद ।
जायते ब्रह्मसंसक्तिस्तस्माज्ज्ञानं समभ्यसेत् ॥ ३८ ॥

ब्रह्मसिद्धिप्रदं ज्ञानं ब्रूहि तल्लक्षणं प्रभो ।
यज्ज्ञात्वा न भवेज्जन्म मरणं भवबन्धनम् ॥ ३९ ॥

{{३१}}
श्रीभगवान्-
ज्ञानस्य द्वैविध्यम्, तयोः क्रियाख्येन सत्ताख्यस्य निष्पत्तिः
विश्वास-प्रस्तुतिः
ज्ञानं तु द्विविधं विद्धि सत्ताख्यं च क्रियात्मकम् ।
सत्ताख्यस्य क्रियाख्येन अभ्यस्तेन भवेद्धृतिः ॥ ४० ॥

ज्ञानं क्रियात्मकं तावद्वद कीदृग्विधं प्रभो ।
येनाभ्यस्तेन सत्ताख्यं ज्ञास्यामि ब्रह्मसिद्धिदम् ॥ ४१ ॥

क्रियात्मकस्य यमनियमभेदेन द्वैविध्यम्
श्रीभगवान्-
विश्वास-प्रस्तुतिः
द्विविधं च क्रियाज्ञानं पूर्वं नियमलक्षणम् ।
यमाख्यं परमं चैव तच्च स्वाभाविकं स्मृतम् ॥ ४२ ॥

निर्वर्त्य नियमाख्यं तद्यमयुक्तं च सिद्धिदम् ।
नारदः-
एतयोर्लक्षणं ब्रूहि यदायत्तं परं पदम् ॥ ४३ ॥
विस्तरेण जगन्नाथ भवाब्धिपतितस्य मे ।
यमनियमनिरूपणम्
श्रीभगवान्-
शुचिरिज्या तपश्चैव स्वाध्यायश्रुतिपूर्वकः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
अक्रूरताऽनिष्ठुरता क्षमा चैवानपायिनी ।
सत्यं भूतहितं चैव यदबाधा परेष्वपि ॥ ४५ ॥

परस्वादेरहिंसा च चेतसो दमनं महत् ।
इन्द्रियाभ्यवहार्याणां भोगानामपि चास्पृहा ॥ ४६ ॥

आसने शयने मार्गे असक्तिश्चापि भोजने ।
हृद्गतं न त्यजेद्ध्यानमानन्दफलदं च यत् ॥ ४७ ॥

आत्मशक्त्या प्रदानं च सत्यं वाक्यमनिष्ठुरम् ।
अमित्रेषु च मित्रेषु समा बुद्धिस्सदैव हि ॥ ४८ ॥

आर्जवत्वमकौटिल्यं कारुण्यं सर्वजन्तुषु ।
एतदङ्गान्वितो यो यो यमो यमनियामकः ॥ ४९ ॥

[क्रियाख्यात्सत्ताख्यनिष्पत्तेर्ब्रह्माभिन्नज्ञानोदयः, तेन
ब्रह्मोपसम्पत्तिः]
एवं क्रियाख्यात्सत्ताख्यं ज्ञानं प्राप्नोति मानवः ।
{{३२}}
ब्रह्मण्यभिन्नं सत्ताख्यात् ज्ञानाज्ज्ञानं ततो भवेत् ॥ ५० ॥
ब्रह्माभिन्नात्ततो ज्ञानाद्ब्रह्म संयुज्यते परम् ।
ब्रह्मसमापत्तेरपुनर्भवलक्षणमोक्षरूपता
अनादिवासनायुक्तो यो जीव इति कथ्यते ॥ ५१ ॥
तस्य ब्रह्मसमापत्तिर्याऽपुनर्भवता च सा ।
ब्रह्माभिन्नत्वप्रकारोपपादनम्
यत्सम्यग्ब्रह्मवेत्तृत्वं मनाग्या चैव भिन्नता ॥ ५२ ॥
ईषद्ब्रह्मसमापत्तिस्तदभिन्नं तु वै स्मृतम् ।
अविद्यायोगादात्मनो देवादिभेदः
ज्ञानं त्वनेकभेदैर्यत्तत्त्वतामेति चात्मनः ॥ ५३ ॥
गौण(णे ?)विद्यामये तत्त्वे सम्यग्विद्यामयस्य च ।
नारदः-
का गुणाख्या ह्यविद्या च यत्र ज्ञानमयः प्रभुः ॥ ५४ ॥
त्वयोक्तं यत्तु (तत्त्व ?)तामेति भेदैर्नानाविधैर्विभो ।
अविद्यास्वरूपनिरूपणम्
श्रीभगवान्-
गुणत्रयस्य यत्साम्यं साऽविद्याऽनेकरूपिणी ॥ ५५ ॥
रागादीनां च दोषाणामुत्पत्तिस्थानमेव च ।
नारदः-
ब्रह्मप्राप्तौ तु यस्सम्यगुपायः कथितः पुरा ॥ ५६ ॥
स च किंलक्षणो ब्रूहि यश्चात्मेति त्वयोदितः ।
जीवात्मनोर्निरूपणम्
श्रीभगवान्-
यत्तत्स्थितं च चिद्रूपं स्वसंवेद्याद्यनिर्गतम् ॥ ५७ ॥
रञ्जितं गुणरागेण स आत्मा कथितो द्विज ।
नारदः-
ज्ञानमात्मस्वरूपं च माया तद्रञ्जिका तु वै ॥ ५८ ॥
विश्वास-प्रस्तुतिः
आचक्ष्व भगवन्ब्रह्म प्राग्व(ग्य ?)त्सञ्चोदितं मया ।
तन्मे न विदितं सम्यग्यदर्थं क्रियते क्रिया ॥ ५९ ॥

{{३३}}
यत्प्राप्य न पुनर्जन्म भवेऽस्मिन्प्राप्यते बुधैः ।
परब्रह्मनिरूपणम्
श्रीभगवान्-
आनन्दलक्षणं ब्रह्म सर्वहेयविवर्जितम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
स्वसंवेद्यमनौपम्यं परा काष्ठा परा गतिः ।
सर्वक्रियाविनिर्मुक्तं सर्वेषामाश्रयं प्रभुः ॥ ६१ ॥

चिन्तामणौ यथा सर्वं मूर्तं सङ्गि व्यवस्थितम् ।
तथा सर्वं तु सर्वत्र विद्यते सर्वगस्य च ॥ ६२ ॥

अनादि तदनन्तं च न सत्तन्नासदुच्यते ।
सर्वत्र करवाक्पादं सर्वतोऽक्षिशिरोमुखम् ॥ ६३ ॥

सर्वतःश्रुतिमद्विद्धि सर्वमावृत्य तिष्ठति ।
सगुणैरिन्द्रियैस्सर्वैर्भासितं चैव वर्जितम् ॥ ६४ ॥

तदसक्तं हि सर्वत्र यत्तु सर्वत्र चैव हि ।
निर्गुणो गुणभोक्ता च सर्वस्यान्तर्बहिः स्थितः ॥ ६५ ॥

चलाचलं तु तद्विद्धि सूक्ष्मत्वान्नोपलभ्यते ।
दूरस्थितस्तथा हृत्स्थः परमात्मा परः प्रभुः ॥ ६६ ॥

भूतेभ्यश्चाविभक्तं तद्विभक्तमुपलभ्यते ।
स भावभूतभृच्च स्यात्संहर्तापि सृजत्यपि ॥ ६७ ॥

प्रकाश्यं ज्योतिषां तच्च अज्ञानात्परतः स्थितम् ।
ज्ञानं तदेव ज्ञेयं चतद्ध्यानेनाधिगम्यते ॥ ६८ ॥

सर्ववर्णरसैर्हीनं सर्वगन्धरसान्वितम् ।
सर्वज्ञस्सर्वदर्शी च सर्वस्सर्वेश्वरः प्रभुः ॥ ६९ ॥

सर्वशक्तिमयश्चैव स्वाधीनः परमेश्वरः ।
अनादिश्चाप्यनन्तश्च सर्वदुःखविवर्जितः ॥ ७० ॥

विदित्वैवं (एवं वेत्ति?) परं ब्रह्म ज्ञानेन परमेण च ।
यदा न जायते भूयस्संसारेऽस्मिंस्तदा पुमान् ॥ ७१ ॥

नारदः
विश्वास-प्रस्तुतिः
सर्वतः पाणिपादाद्यैर्यदुक्तं लक्षणैस्त्वया ।
न चैकमुपपद्येत घटते तद्यथाऽदिश ॥ ७२ ॥

{{३४}}
श्रीभगवान्-
विश्वास-प्रस्तुतिः
इति तस्य जगद्धातुस्सर्वज्ञत्वा च नारद ।
महिमाऽयमनन्तस्य ईश्वरत्वाच्च विद्यते ॥ ७३ ॥

तस्य सर्वातिशायित्वं यथा ते न मयोदितम् ।
अन्यथा विद्यते तस्य महिमाऽयं तथाऽच्युते ॥ ७४ ॥

अनादिस्सर्वपूर्वत्वान्न सत्तन्नासदित्यपि ।
अप्रत्यक्षतयाऽक्षाणां तदसद्विजसत्तम ॥ ७५ ॥

स्वसंवेद्यं तु तद्विद्धि गन्धः पुष्पादिगो यथा ।
तथा समस्तमाक्षिप्तं यस्माद्वै परमात्मना ॥ ७६ ॥

तस्माद्वै सर्वपाणित्वं सर्वगस्यानुमीयते ।
नावच्छिन्नं हि देशेन न कालेनान्तरीकृतम् ॥ ७७ ॥

अतस्सर्वगतत्वाद्वै सर्वतःपात्प्रभुः स्मृतः ।
ऊर्ध्वं तिर्यगधोयातैर्यथोच्चै(स्रै?)र्भासयेद्रविः ॥ ७८ ॥

तद्वत्प्रकाशरूपत्वात्सर्वचक्षुस्ततो ह्यजः ।
यथा सर्वेषु गात्रेषु प्रधानं गीयते शिरः ॥ ७९ ॥

भवेऽस्मिन्प्राकृतानां तु न तथा तस्य सत्तम ।
समत्वात्पावनत्वाच्च सिद्धस्सर्वशिराः प्रभुः ॥ ८० ॥

यथाऽनन्तरसास्सर्वे तस्य सन्ति सदैव हि ।
सर्वत्र शान्तरूपस्य अतस्सर्वमुखः स्मृतः ॥ ८१ ॥

शब्दराशिर्यतो विद्धि स एव परमेश्वरः ।
सर्वतः श्रुतिमांश्चातो यथा दृक्श्रावकोरगः ॥ ८२ ॥

अयःपिण्डे यथा वह्निर्भिन्नस्तिष्ठत्यभिन्नवत् ।
तद्वत्सर्वमिदं देवो व्यावृ(पृ ?)त्य परितिष्ठति ॥ ८३ ॥

निर्मले दर्पणे यद्वत्किञ्चिद्वस्त्वभितिष्ठति ।
न च तद्दर्पणस्यास्ति अस्ति तस्य च तद्विज ॥ ८४ ॥

सेन्द्रियैस्तु गुणैरेवं संयुक्तश्चापि वर्जितः ।
अस्मिन्मायामये विश्वे व्यापी सर्वेश्वरः प्रभुः ॥ ८५ ॥

सर्वदा विद्ध्यसक्तश्च यथाऽम्भः पुष्करच्छदे ।
सर्वभृद्वैश्वरूप्याच्च अमोघत्वाच्च निर्गुणः ॥ ८६ ॥

{{३५}}
विश्वास-प्रस्तुतिः
उदासीनवदासीनो गुणानां गुणभुक् ततः ।
सर्वदाऽन्तर्गतस्यैव कुम्भस्य च यथोदकम् ॥ ८७ ॥

तथा सर्वस्य जगतो वहिरन्तर्व्यवस्थितः ।
घटसंस्थं यथाऽकाशं नीयमानं विभाव्यते ॥ ८८ ॥

नाकाशं कुत्रचिद्याति नयनात्तु घटस्य च ।
चलाचलत्वमेवं हि विभोश्चैवानुमीयते ॥ ८९ ॥

बहुष्वम्बुजपत्रेषु वेधं कुर्वन्क्रमात्क्रमात् ।
कालवच्चातिसूक्ष्मत्वान्न सदाऽप्युपलभ्यते ॥ ९० ॥

अज्ञानाच्चातिदूरस्थं ज्ञानात्सम्भाव्यते हृदि ।
यदा तदा समीपस्थं स्वसंवेद्यश्चिदात्मकः ॥ ९१ ॥

आकाशस्य (शः स ?) च यो वायुस्तद्द्वयोरप्यभेदतः (दिता?) ।
तथा तस्य(स्या ?) विभक्त्यैक्यं भूतानां हि परस्य च ॥ ९२ ॥

चेतनाचेतनास्सर्वे भूताः स्थावरजङ्गमाः ।
पूरिताः परमेशेन रसेनौषधयो यथा ॥ ९३ ॥
मूलम्
चेतनाचेतनास्सर्वे भूताः स्थावरजङ्गमाः ।
पूरिताः परमेशेन रसेनौषधयो यथा ॥ ९३ ॥
विश्वास-प्रस्तुतिः
एकेनाभिन्नरूपेण भूतभृत्त्वेन हेतुना ।
यथैव सूर्याधीने तु प्रकाशतमसी द्विज ॥ ९४ ॥

तद्वत्सृष्टिं ससंहारां स्वतन्त्रः प्रकरोति च ।
प्रकाशो ज्योतिषां तच्च श्रोत्रादीनां यथा मनः ॥ ९५ ॥

शब्दादिके न सन्दृष्टे तथाऽपि श्रुणुतेऽन्यथा ।
तमसोऽन्यो यथाऽलोकश्चाज्ञानात्तत्परस्तथा ॥ ९६ ॥

ज्ञानं तदेव ज्ञेयं च वह्नेर्ज्वाला यथैव हि ।
वर्णैर्विरहितं सर्वैर्नीरूपत्वात्सितादिकैः ॥ ९७ ॥

मधुरादिरसैस्तद्वत्कल्पनारहितं यतः ।
मयूरकण्ठवत्सर्वैर्वर्णैस्तदुपचर्यते ॥ ९८ ॥

अनुभावाद्रसानां च तथा सर्वरसात्मकः ।
सर्ववर्णरसैर्हीनो युक्तश्चातस्स्मृतोऽच्युतः ॥ ९९ ॥

सर्वज्ञस्सर्ववेत्तृत्वाद्दर्शस्सर्वत्र दर्शनात् ।
साम्यात्सर्वेश्वरश्चैव यतस्सर्वज्ञतादिभिः ॥ १०० ॥

{{३६}}
विश्वास-प्रस्तुतिः
युक्तश्चान्तस्सर्वशक्तिः षाङ्गुण्यमहिमान्वितः ।
स्वाधीनश्च स्वतन्त्रत्वात्पुराणत्वादनादि तत् ॥ १०१ ॥

न ह्यस्यान्तोस्त्यतोऽनन्तस्तृप्तत्वाद्दुःखवर्जितः ।
अमूर्त एव सर्वेशो ह्यभ्यासादुपलभ्यते ॥ १०२ ॥

यथा काष्ठान्तराद्वह्निर्घृतं क्षीरान्तराद्यथा ।
स्वानुभावाद्विना नैव वक्तुं संयुज्यते यथा ॥ १०३ ॥

माधुर्यमिक्षुसंस्थं च अमूर्तमुपलभ्यते ।
एवं स्वदेहगं देवं परमात्मानमव्ययम् ॥ १०४ ॥

हेयोपादेयरहितं सुसितानन्दविग्रहम् ।
प्रमाणैरपरिच्छैद्यं यतस्संविन्मयं महत् ॥ १०५ ॥

विभाति हृदयाकाशे येषां मायाविवर्जितम् ।
एष नारायणो देवस्सर्वोपाधिविवर्जितः ॥ १०६ ॥

स्वात्मसंवेदनत्वाद्द्यो विना लक्ष्यः परः प्रभुः ।
तमाश्रयस्वानिर्देश्यं ज्ञानेन परमेण च ॥ १०७ ॥

यच्चोपमानै रहितं व्यवहारैर्धियोऽक्षगैः ।
कारणं तदनौपम्यं ये विदन्त्यभयास्तु ते ॥ १०८ ॥

भावातीतं परं ब्रह्म स्फटिकामलसन्निभम् ।
मोक्षं यान्ति च ते मुक्ताः स्थितिस्तेषां परे पदे ॥ १०९ ॥

नानाभेदेन भेदानां निवसत्येक एव हि ।
न तस्य विद्यते मानं न च रूपं महात्मनः ॥ ११० ॥

तेजोवाय्विन्दुभावेन, पद्मसूत्रायुतायुतात् ।
कोष्ट्यंशेन तु मानेन सुसूक्ष्मेषु स्थितोऽणुषु ॥ १११ ॥

किञ्चिच्च तेभ्यः स्थूलेषु स्थूलज्योतिः पुरोदिताम् ।
प्रमाणात्संस्थितो व्यापी परमात्मा ह्यधोक्षजः ॥ ११२ ॥

वाय्वात्मना स भूतानां स्थितः कुटिलभाविनाम् ।
सर्गो रूपेण धूतानां पार्थिवानामशेषतः ॥ ११३ ॥

स्थितःषड्रसरूपेण सर्वौषधिषु सर्वगः ।
अनेकाभिश्च सञ्ज्ञाभिस्तमव्ययमुपासते ॥ ११४ ॥

ईश्वरत्वेन विप्रेन्दु पुरुषत्वेन चैव हि ।
शिवसूर्यात्मकत्वेन सोमत्वेन तथैव च ॥ ११५ ॥

{{३७}}
विश्वास-प्रस्तुतिः
अग्नीषोमात्मकत्वेन शब्दत्वेनापि वै पुनः ।
ज्योतिर्ज्ञानात्मकत्वेन कालत्वेन च नारद ॥ ११६ ॥

जीवक्षेत्रात्मकत्वेन भूतात्मत्वेन वै तथा ।
एवमेकः परो देवो नानाशक्त्यात्मरूपधृत् ॥ ११७ ॥

नारायणः परं ब्रह्म निष्ठा सन्ब्रह्मवेदिनाम् ।
सनिदर्शनमुपासकानां ब्रह्मसम्पत्तिनिरूपणम्
यद्वन्महापुरस्यान्तर्यायिनः प्रविशन्ति च ॥ ११८ ॥
विश्वास-प्रस्तुतिः
सर्वदिग्बहुनिर्माण (?)स्तद्वद्विष्णोरुपासकाः ।
ध्येयेष्वीश्वरभूतेषु ध्यायिनस्तु सदैव हि ॥ ११९ ॥

विशन्ति क्षीणमोहाश्च यथा क्षीणामृता द्विज ।
कला या ऐन्दवास्सूर्ये तद्वद्विष्णौ च योगिनः ॥ १२० ॥

मेघाद्धारागणेनैव पृथग्म्बुगतं क्षितौ ।
प्राप्नोत्यैक्यं तथा सर्वे भगवत्यपि योगिनः ॥ १२१ ॥

यथाऽनेकेन्धनादीनि सम्प्रविष्टानि पावके ।
अलक्ष्याणि च दग्धानि तद्वद्ब्रह्मण्युपासकाः ॥ १२२ ॥

सरित्सङ्घाद्यथा तोयं सम्प्रविष्टं महोदधौ ।
अलक्ष्यश्चोदके भेदः परस्मिन् योगिनां तथा ॥ १२३ ॥

उपासते यमात्मज्ञा यतस्सूर्यो विराजते ।
तमाश्रय मुने शश्वद्यस्य कोट्यंशजा वयम् ॥ १२४ ॥

तथा सहस्रमूर्द्धा यः सहस्राक्षस्सहस्रपात् ।
सहस्रबाहुभिः पूर्णस्सहस्रात्मधरः प्रभुः ॥ १२५ ॥

सहस्रदीप्तिभिः स्फीतः श्रीनिवासः किरीटवान् ।
श्रीवत्सवक्षा विप्रेन्द्र कौस्तुभाद्यैरलङ्कृतः ॥ १२६ ॥

चन्द्रार्कौ नयनोद्देशे जिह्वासङ्घे(स्थाने?) सरस्वती ।
यस्योच्छ्वासश्च पवनस्तस्मादूर्ध्वस्तु कावधौ (?) ॥ १२७ ॥

श्रोत्रोद्देशे दिशो यस्य विदिशो यस्य बाहवः ।
पातालादौ तलं यस्य विज्ञेयं पादसन्ततौ ॥ १२८ ॥

प्रभा यस्य च कालाग्निर्जीमूताः केशसन्ततिः ।
रोमाणि यस्य विबुधा ऋषयो रोमकूपगाः ॥ १२९ ॥

{{३८}}
विश्वास-प्रस्तुतिः
मुखेऽग्निरापस्स्वेदो वै ग्रहा ऋक्षादयो मलम् ।
मलमस्योपचारत्वान्नत्वेवं परमार्थतः ॥ १३० ॥

इदमुक्तं मया ब्रह्मन् ब्रह्मतत्त्वं यथार्थतः ।
यज्ज्ञात्वा न पुनर्भूयो भवमेष्यासे सङ्कुलम् ॥ १३१ ॥

खवत्सर्वगतं चैव यद्यप्यस्मिंश्चराचरे ।
स्थितं ज्ञानं विना विप्र तथाऽपि हि सुदुर्लभः ॥ १३२ ॥

इति श्रीपाञ्चरात्रे जयाख्यसंहितायां
शुद्धसर्गब्रह्मतत्त्वाख्यानं नाम चतुर्थः पटलः ॥ ४ ॥