अथ प्रधानसर्गाख्यानं नाम तृतीयः पटलः
नारदः-
विश्वास-प्रस्तुतिः
भगवन्देवदेवेश लोकनाथ जगत्पते ।
व्रूहि प्राधानिकं सर्गं स्थूलस्यास्य हि यः परः ॥ १ ॥
मूलम्

श्रीभगवान्-
(प्रधानलक्षणम्)
विश्वास-प्रस्तुतिः
अनादिमजमव्यक्तं गुणत्रयमयं द्विज ।
विद्धि प्रदीपस्थानीयं भिन्नमेकात्मलक्षणम् ॥ २ ॥

(प्रधानात् क्रमान्महदादितत्त्वोत्पत्तिः)
विश्वास-प्रस्तुतिः
विभक्तं च तदुत्पन्नं क्रमात्सत्त्वं रजस्तमः ।
गुणत्रयसमूहाद्धि धर्मज्ञानादिलक्षणा ॥ ३ ॥

बुद्धिर्बुद्धिमतां श्रेष्ठ अहङ्कारस्त्रयात्मकः ।
प्रकाशात्मा विकृत्यात्मा भूतात्माऽथ तृतीयकः ॥ ४ ॥

तैजसात् समनश्चैव जातं बुध्यक्षपञ्चकम् ।
श्रोत्रे त्वक्चक्षुषी जिह्वा घ्राणं चैव क्रमेण तु ॥ ५ ॥

असृजच्च विकृत्यात्मा करणानां च पञ्चकम् ।
तच्च वाक्पाणिपादाख्यं पायूपस्थेति च स्मृतम् ॥ ६ ॥

भूतात्मा भूतयोनीनां स्रष्टा विद्धि सदैव हि ।
शब्दस्पर्शौ तथा रूपरसगन्धाभिधायिनः ॥ ७ ॥

तेजो(भ्यो ?)भूतानि जातानि खवाय्वग्न्युदकानि च ।
पृथिव्यन्तानि पञ्चैव एकवृद्धिगुणानि च ॥ ८ ॥

एष प्राधानिकस्सर्गः प्रकृत्या तु जडात्मकः ।
नारदः-
जडात्मकं प्रधानं च तदुद्भूतिस्तदात्मिका ॥ ९ ॥
{{२६}}
विश्वास-प्रस्तुतिः
परस्परजडानां च कीदृशं वद मे प्रभो ।
उत्पाद्योत्पादकत्वं हि अत्र मे संशयो महान् ॥ १० ॥

(जडानां मिथो हेतुहेतुमद्भावे उपपत्तिः)
श्रीभगवान्-
विश्वास-प्रस्तुतिः
बीजं ह्यचेतनं यद्वत्तथा व्रीहिकणो द्विज ।
अन्येषूत्पादकं दृष्टं तत्त्वं तत्त्वे तथैव च ॥ ११ ॥

गुणसाम्यस्वरूपस्य रागादेरास्पदस्य च ।
सन्तान एको ह्येकस्य चेतनाचेतनस्य च ॥ १२ ॥

अचेतनमिदं नाथ कथं स्याच्चेतनं पुनः ।
एतद्गुणास्पदं तत्त्वं यच्चैकं नैकधा स्थितम् ॥ १३ ॥

(अचेतने चेतनायोगोपपादनम्)
श्रीभगवान्-
विश्वास-प्रस्तुतिः
चिद्रूपमात्मतत्त्वं यदभिन्नं ब्रह्मणि स्थितम् ।
तेनैतच्छुरितं भाति अचिच्चिन्मयावद्द्विज ॥ १४ ॥

यथाऽयस्कान्तमणिना लोहस्याधिष्ठितं तु वै ।
दृश्यते वलमानं तु तद्वदेव मयोदितम् ॥ १५ ॥

चिन्मयस्य जडस्यास्य सम्बन्धे हेतुरुच्यते ।
विरुद्धमेतद्देवेश वेद्मि छायातपं यथा ॥ १६ ॥

(चिदचितोः संयोगे बन्धे वियोगे च मोक्षे हेतुः)
श्रीभगवान्-
विश्वास-प्रस्तुतिः
अनादिवासनायुक्तो जीवोऽयं वै चिदात्मकः ।
यद्वासनापनोदार्थं परस्माद्ब्रह्मणो द्विज ॥ १७ ॥

तद्धर्मधर्मिनी सूक्ष्मा उदेत्येकान्तरूपिणी ।
शुद्धाशुद्धात्मिका शुद्धा परमानन्दरूपिणी ॥ १८ ॥

शुद्धसर्गक्रमेणैत्य आध्यात्म्यात्मनि तिष्ठति ।
करुणोदधिरूपेण भविना मोक्षदक्षमे ॥ १९ ॥

स हि सङ्कल्पयामास मोक्षो ह्यस्यास्तु कर्मिणः ।
ततो विश्वात्मशक्तिस्सा तदिच्छानुविधायिनी ॥ २० ॥

{{२७}}
विश्वास-प्रस्तुतिः
प्रत्यक्चेतनमाश्रित्य तत्क्षणादवतिष्ठते ।
मन्त्रशक्तिरिवादृश्या तया सम्बोधितो द्विज ॥ २१ ॥

त्विषाऽक्रान्तस्वरूपश्च प्रत्यगात्मा चिदात्मकः ।
ब्रह्मण्येकात्मतां याति कर्मवर्गे क्षयं गते ॥ २२ ॥

तस्माद्वै कर्मणां नाशो ह्यभुक्तानां न तस्य वै ।
न त्वाधारं विना तेषामभिव्यक्तिर्भवेदतः ॥ २३ ॥

तत्स्था ब्रह्मकला सा वै तत्रात्मानं नियोजयेत् ।
मायामये द्विजाधारे गुणाधारे तते जडे ॥ २४ ॥

शक्त्या संयोजितो ह्यात्मा वेत्त्यात्मीयाश्च वासनाः ।
शुभाशुभस्वरूपाश्च मायाधारे स्थितास्सदा ॥ २५ ॥

यदाऽलुप्तविवेको वै असक्तो वासनाफलम् ।
भुङ्क्ते चाशु स बन्धेभ्यो मुक्तो याति क्रमात्परम् ॥ २६ ॥

निर्विवेकोऽथ रज्येत मायाभोगे गुणात्मके ।
सवासनो वासनाभिरविकारश्च बध्यते ॥ २७ ॥

लयोदयौ तथाऽप्नोति स विश्रान्तः पुनः पुनः ।
चेतनाचेतनाभ्यां तु सम्बन्धस्य प्रयोजनम् ॥ २८ ॥

कथितं नारद मया किमिदानीं वदामि ते ।
विश्वास-प्रस्तुतिः
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां प्रधानसर्गाख्यानं नाम
तृतीयः पटलः ॥ ३ ॥