अथ ब्रह्मसर्गाख्यानं नाम द्वितीयः पटलः ।
ऋषय ऊचुः-
विश्वास-प्रस्तुतिः
अज्ञानपङ्कमग्नानां त्वं गतिर्नो महामुने ।
पुरा यथोक्तं विभुना मुनेर्ब्रह्मात्मजस्य च ॥ १ ॥
मूलम्

तत्सर्वं विस्तरेणाद्य यथावद्वक्तुमर्हसि ।
नारदो ब्रह्मणः पुत्रो भवबन्धविमुक्तये ॥ २ ॥
शाण्डिल्यः-
विश्वास-प्रस्तुतिः
स्वमात्मानं पुरस्कृत्य सद्भक्ताय(नां?)हिताय च ।
पादपद्मे हरेः स्मृत्वा स्तु(न?)त्त्वा च शिरसा सह ॥ ३ ॥

प्राञ्जलिः प्रयतो भूत्वा प्रोत्फुल्लवदनेक्षणः ।
प्रणयात्प्रणतो भूत्वा द्वन्द्वोपद्रवशान्तये ॥ ४ ॥

उपसङ्गम्य चरणाविदं स्तोत्रमदीरये(दैरय?)त् ।
नारदकृता भगवत्स्तुतिः
नारदः-
नमोऽस्तु परमेशाय कारणाय पराय च ॥ ५ ॥
विश्वास-प्रस्तुतिः
सहस्रशिरसे तुभ्यं सहस्रचरणाय च ।
सहस्रनयनश्रोत्र सहस्राद्भुतविक्रम ॥ ६ ॥
मूलम्
सहस्रशिरसे तुभ्यं सहस्रचरणाय च ।
सहस्रनयनश्रोत्र सहस्राद्भुतविक्रम ॥ ६ ॥
विश्वास-प्रस्तुतिः
सहस्रसूर्यवपुषे सहस्रेन्दुगभस्तये ।
नमः परमहंसाय परात्परतराय च ॥ ७ ॥
मूलम्
सहस्रसूर्यवपुषे सहस्रेन्दुगभस्तये ।
नमः परमहंसाय परात्परतराय च ॥ ७ ॥
विश्वास-प्रस्तुतिः
सत्त्वरूपाय शान्ताय नमो विश्वायनाय च ।
भवाय भवहर्त्रे च सर्गस्य प्रभवाय च ॥ ८ ॥

नमः कनकगर्भाय सर्वदेहभृते नमः ।
त्रयीत्रयमयाद्याय नमस्ते परमात्मने ॥ ९ ॥

हृदम्बुजगुहावासपरव्योमान्तशायिने ।
भक्तियोगविदभ्यसग्राह्याय खलु ते नमः ॥ १० ॥

मीनो निमीलिताक्षस्त्वं कूर्मस्त्वं च नगोद्वहः ।
त्वया रूपं च कृत्वाऽग्र्यं विधृतं भूमिमण्डलम् ॥ ११ ॥

भयाभये त्वयैकस्यां नरसिंह्मतनौ धृते ।
{{२०}}
वामनो गोपितवपुर्विततस्त्वं त्रिविक्रमः ॥ १२ ॥
विश्वास-प्रस्तुतिः
रामरूपेण रम्येण तथा रामत्रयेण च ।
त्वया देव जिता दैत्याश्च्छन्नरूपाश्च राक्षसाः ॥ १३ ॥

कृष्णस्त्वं बालरूपी च विभुर्दामोदरो हरिः ।
त्वं विश्वरूपो देवानां साङ्ख्यानां कपिलः प्रभुः ॥ १४ ॥

योगिनां यो गतिस्त्वं वै शेषात्मा धरणीधरः ।
सङ्कर्षणो ज्ञानिनां त्वं कामिनां कुसुमायुधः ॥ १५ ॥

अनिरुद्धश्च सर्वेषां जीवत्वेन त्वमच्युतः ।
त्वया सृष्टं जगत्सर्वं ब्रह्मत्वेन जनार्दन ॥ १६ ॥

स्थितं पासि स्वयं भूत्वा विष्णुरूपेण केशव ।
रुद्ररूपेण गोविन्द जगत्संहरसे क्षणात् ॥ १७ ॥

यज्ञरूपेण देवानां हव्यं वह्निमुखेन च ।
वहसि त्वं पितॄणां च कव्यं कृत्स्नं जगत्पते ॥ १८ ॥

आराधयामि त्वां भक्त्या भवनिर्वाणदं प्रभुम् ।
सुरसौख्यकरं देवं सुराणाममृतप्रदम् ॥ १९ ॥

स्थितास्त्वदुदरे लोका द्वीपाश्चोदधिभिस्सह ।
देवैश्च दानवैःसार्द्धमृषिभिश्च तपोधनैः ॥ २० ॥

मनुजैर्दनुजैश्चैव सरिद्भिस्सह पर्वतैः ।
तवान्तस्संस्थितं सर्वं सर्वस्यान्तर्भवान् स्थितः ॥ २१ ॥

त्वमाद्यो भुवनस्यास्य त्वां स्मृत्वा सुखिता वयम् ।
भवामो नित्यसम्बुद्धाः संस्थिता यत्र कुत्रचित् ॥ २२ ॥

प्रणवस्त्वं त्रिमात्रश्च भूर्भुवस्वस्त्वमेव च ।
अहङ्कारकरस्त्वं वै त्रितयं लोकतारकम् ॥ २३ ॥

[भगवद्रूपदिदृक्षया लोकसृष्टिप्रकारजिज्ञासया च नारदकृता
प्रार्थना]
विश्वास-प्रस्तुतिः
तदेनमादिशस्वाशु भवाद्येनोत्तराम्यहम् ।
अधिष्ठाय परां बुद्धिं भूयःश्रेयोऽहमाप्नुयाम् ॥ २४ ॥

मम भक्तस्य देवेश परं ज्ञानात्मकाङ्क्षिणः ।
संसारभयभीतस्य रूपं वै स्वं प्रदर्शय ॥ २५ ॥

सृष्टं त्वया यथा सर्वमाब्रह्मभवनान्तिमम् ।
{{२१}}
गगनञ्चातिमायेन दुस्तरं तद्वदस्व मे ॥ २६ ॥
भगवता कृतं सकलनिष्कलात्मकस्वीयरूपद्वयप्रदर्शनम्
शाण्डिल्यः-
विश्वास-प्रस्तुतिः
इति सञ्चोदितो भक्त्या परया परमेश्वरः ।
विशुद्धबुद्धिना सम्यक् नारदेन सुरर्षिणा ॥ २७ ॥

तदुक्तस्य क्षणे तस्मिन्नात्मीयो गहनश्च यः ।
प्रदर्शितस्स हरिणा सकलो निष्कलात्मकः ॥ २८ ॥

परितोषं परं यातो मुनिर्ब्रह्मसुतस्तदा ।
उवाच परया प्रीत्या भूयस्स विनयान्वितः ॥ २९ ॥

त्वत्प्रसादान्मया ज्ञातं दुर्लभं यत्सुरैरपि ।
इदानीं श्रोतुमिच्छामि सम्भूतिं विभवं तव ॥ ३० ॥

लोकस्य सृष्टिप्रलयकालौ
श्रीभगवानुवाच-
विश्वास-प्रस्तुतिः
यदिदं पश्यसि ब्रह्मन्मायया निर्मितं जगत् ।
कालादिबहुभिर्भेदैर्भिन्नं नानास्वरूपकैः ॥ ३१ ॥

मामके प्रभवो ह्यह्नि प्रलयश्च निशागमे ।
दिव्यं युगसहस्रं च मदीयं विद्धि वासरम् ॥ ३२ ॥

रात्रिश्च तावती ज्ञेया एवंरूपे क्षये सति ।
प्रवर्तमाने त्वहनि काले सर्गाख्यलक्षणे ॥ ३३ ॥

भगवतो नाभीकमलात् चतुर्मुखसृष्टिः
विश्वास-प्रस्तुतिः
स्वकारणमनिर्जित्य कार्यार्थं मुनिपुङ्गव ।
ज्ञानयोगप्रभावेन अम्मयं महिमावृतम् ॥ ३४ ॥

प्रेरितं नाभिरन्ध्रेण मया हार्दं कुशेशयम् ।
विज्ञप्तिमात्ररूपं यन्ममान्तःकरणस्थितम् ॥ ३५ ॥

सहस्रार्कप्रतीकाशं सहस्रशशिकेसरम् ।
सहस्रवंह्निगर्भं च हेमनालं महाप्रभम् ॥ ३६ ॥

तन्मध्ये मानवो(सो ?) ब्रह्मा मया सृष्टश्चतुर्मुखः ।
तस्य चतुर्मुखस्य विद्याशक्तिविशेषयोगः
जगतां प्रभवस्तस्माद्विद्यादेहस्सनातनः ॥ ३७ ॥
{{२२}}
विश्वास-प्रस्तुतिः
सर्वसंस्कारसम्पूर्णो वेदवेदाङ्गपारगः ।
अणिमाद्यष्टकोपेतस्सिसृक्षाशक्तिभिर्युतः ॥ ३८ ॥

रजोगुणोद्रेकात् तत्कृता विविधसृष्टिः
विश्वास-प्रस्तुतिः
न तस्य विदितश्चाहं यदा यातस्सगर्वताम् ।
अस्मीति प्रत्ययं लब्ध्वा रजसा कलुषीकृतः ॥ ३९ ॥

तदा चकार विविधां सृष्टिं स्वामा(त्मा ?)नुपूर्विकाम् ।
न्यग्भूतभूतपूर्वाणि स्थूलसूक्ष्माणि यानि च ॥ ४० ॥

चेतनाचेतनाख्यानि व्यञ्जितानि क्रमेण तु ।
देवाश्चानेकभेदेन मनुष्याः पशवस्तथा ॥ ४१ ॥

स्थावरान्तानि सर्वाणि सन्त्यस्मिन्यानि कानिचित् ।
स्वनिकेतानि सर्वाणि दृष्ट्वा स्वस्मिन्पितामहः ॥ ४२ ॥

[रजःप्रकर्षादभिभूतसत्त्वतया चतुर्मुखस्य
लोकधारणेऽसामर्थ्यम्]
विश्वास-प्रस्तुतिः
स्वा(स्व ?)लोकं रागबाहुल्यात्सम्यग्धर्तुं न वेत्यसौ ।
कृताकृतं जगत्यस्मिन्विना सत्त्वोदयेन तु ॥ ४३ ॥

भूमेर्धारणाय भगवतो योगनिद्राश्रयणम्
विश्वास-प्रस्तुतिः
सम्पाद्यैवं महारूपमात्मीयं पङ्कजान्वितम् ।
जलान्तर्वर्तितं भूमेः कृत्वा सन्ता(न्धा ?)रणार्थतः ॥ ४४ ॥

योगनिद्रां समाश्रित्य स्थितोऽहं द्विजसत्तम ।
मधुकैटभासुरयोरुत्पत्तिः, ताभ्यां कृतः सर्वलोकविजयः
ब्रह्मणो जायमानस्य ह्यभूतां स्वेदबिन्दुकौ ॥ ४५ ॥
विश्वास-प्रस्तुतिः
पद्मनालं समाश्रित्य संस्थितावुदरान्तरे ।
तदोत्थितौ दुराधर्षौ नाम्ना द्वौ मधुकैटभौ ॥ ४६ ॥

कामक्रोधात्मकौ चैव तमसाऽतीव निर्भरौ ।
तामसेनाभिमानेन वृद्धियुक्तौ कृतौ स्थितौ ॥ ४७ ॥

किमिदं तस्य पद्मस्य कल्पयन्तौ परस्परम् ।
कौतुकाभिनिविष्टौ तु पातालतलमाश्रितौ ॥ ४८ ॥

भूयस्तस्माच्च पातालात्कालवैश्वानरावधि ।
कृत्वाथ तैजसीं मायां यातावग्नेरधस्तु तौ ॥ ४९ ॥

{{२३}}
विश्वास-प्रस्तुतिः
नान्तोऽस्ति पद्मनालस्य तेजोज्वालावृतस्य च ।
गर्वान्मोहं गतौ किञ्चिद्यदा भूयस्तदा द्विज ॥ ५० ॥

मतिं कृत्वोर्ध्वगमने प्राप्तावूर्ध्वं मया ततः ।
स पद्मोऽन्तर्हितश्चैव ततश्चोत्पन्नविस्मयौ ॥ ५१ ॥

स्थितौ तु तौ महाघोरौ क्व गतस्स च पङ्कजः ।
प्रोत्थितौ तोयमध्याच्च पश्येतां पृथिवीमिमाम् ॥ ५२ ॥

चक्रतुर्मतिमूर्द्धेषु लोकेषु गमनं प्रति ।
दृष्ट्वा च विभवं सर्वं बुद्धिरासीत्तयोस्तदा ॥ ५३ ॥

क्ष्मादौ सर्वेषु लोकेषु सम्यक्स्वीकरणं प्रति ।
निर्जिताश्च ततस्सर्वे लोका लोकान्तराण्यपि ॥ ५४ ॥

तमसाऽतीव कष्टेन व्याप्तं सर्वं चराचरम् ।
[ताभ्यां कृतेन वेदापहारेण चतुर्मुखस्य
ज्ञानभ्रंशादधर्मवृद्ध्या लोकस्य दुरवस्थाप्राप्तिः]
हृतवेदः कृतो ब्रह्मा अभूदन्यस्तु तत्क्षणात् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
वेदैर्विना यतो विप्र वेदं चक्षुः पुरा श्रितः ।
अस्थितिं जगतः कृत्वा अधर्मस्थापनं महत् ॥ ५६ ॥

ततस्तौ तामसौ दुष्टौ जलमध्यं पुनर्गतौ ।
मुनिभिः कृतं चतुर्मुखस्योद्बोधनम्
तदा सम्बोधितो ब्रह्मा देवतैर्मुनिभिस्सह ॥ ५७ ॥
विश्वास-प्रस्तुतिः
संस्मरस्वादिदेवं त्वं समुद्भूतोऽब्जसम्भव ।
स नः श्रेयःप्रदो नान्यो यदि स्यात्सत्यता श्रुतेः ॥ ५८ ॥

न त्वया साभिमानेन ज्ञातं परमकारणम् ।
येनाऽनर्थमिदं कष्टं जगत्यस्मिन्प्रतिष्ठितम् ॥ ५९ ॥

कारणं ते स भगवांस्त्वमस्माकं च कारणम् ।
परमं कारणं विष्णुमजेयं स्मर पद्मज ॥ ६० ॥

मुनिभिरुद्बोधितेन चतुर्मुखेन कृता भगवत्स्तुतिः
विश्वास-प्रस्तुतिः
ततश्शान्तरजा ब्रह्मा सत्वैकगतमानसः ।
अभूत्स्तुतिपरस्सर्वैर्देवतैर्मुनिभिस्सह ॥ ६१ ॥

प्रणष्टवेदधर्मोऽहं न मेऽस्ति गतिरच्युत ।
पाहि पाहीत्यभीक्ष्णं स अत्यार्तश्च यदाऽब्रवीत् ॥ ६२ ॥

{{२४}}
[भगवता कृतमभयप्रदानम्]
विश्वास-प्रस्तुतिः
तदा विप्रावतीर्णोऽहं ममत्वे ग्लानिमागते ॥
प्रणष्टेषु च वेदेषु ब्रह्मण्यब्रह्मतां गते ॥ ६३ ॥

दत्तं मयाऽभयं तेषां समाश्वस्तमिदं जगत् ।
विद्या मायात्मकं रूपं द्विविधं च मया कृतम् ॥ ६४ ॥

[विद्यामयरूपं परिगृह्य भगवता विरचितं
पातालाद्वेदानामुद्धरणम्]
विश्वास-प्रस्तुतिः
विद्यामयेन रूपेण शब्दब्रह्ममयेन च ।
पातालान्तर्गता वेदास्स्वीकृताः प्रणवेन तु ॥ ६५ ॥

[विद्यामयरूपस्य भगवतोऽनुप्रवेशाच्चतुर्मुखस्य
वेदावधारणम्]
विश्वास-प्रस्तुतिः
सम्प्रविष्टस्ततश्चाहमिमां प(पा ?)द्मोद्भवीं तनुम् ।
लब्धसञ्ज्ञेन तेनाथ वेदा ह्यावर्तिताः पुनः ॥ ६६ ॥

तदा भुवननाथाश्च सर्वे हृष्टतमाः स्थिताः ।
तमोमोहभयान्मुक्ताः स्वकं स्थानं समाश्रिताः ॥ ६७ ॥

[मायामयं रूपं परिगृह्य ताभ्यां सह भगवतो
युद्धाचरणम्]
विश्वास-प्रस्तुतिः
द्वितीयेन तु रूपेण तयोरग्रे स्थितोऽभवम् ।
तौ तु दुष्टौ मदोन्मत्तौ मम युद्धाभिलाषिणौ ॥ ६८ ॥

ततो मायात्मकेनैव वपुषाऽनेकबाहुना ।
बहून्यब्दसहस्राणि योधितौ तौ तदा मया ॥ ६९ ॥

तयोरजेयत्वमालक्ष्य मन्त्रमयरूपं परिगृह्य तयोर्हननम्
विश्वास-प्रस्तुतिः
ज्ञात्वा तयोरजेयत्वमहमन्तर्हितो द्विज ।
ततो मन्त्रमयं रूपं कृत्वा शक्त्यात्मकं महत् ॥ ७० ॥

तत्ताभ्यां चैव दुर्धर्षं दुर्निरीक्ष्यं तथाऽर्कवत् ।
लीलया करयुग्मेन गृहीत्वा कण्ठतो मया ॥ ७१ ॥

र्-ऊरूभ्यां मर्दितौ चैव ययुर्निष्कण्टकास्सुराः ।
मेदिनीशब्दनिर्वचनम्
तदुद्भूतेन मेदेन परिपूर्णा वसुन्धरा ॥ ७२ ॥
विश्वास-प्रस्तुतिः
ततः प्रभृति कालाच्च मेदिनीति निरुच्यते ।
इत्येष कथितस्सर्गो मुने ब्राह्मो मया तव ॥ ७३ ॥

अन्ये ह्यनेकरूपाश्च सर्गा बहुतरा गताः ।
ईदृक्प्रकाशाः स्थूलाश्च येषा सङ्ख्या न विद्यते ॥ ७४ ॥

{{२५}}
विश्वास-प्रस्तुतिः
प्राधानिको द्विजाऽस्याद्यस्तस्याद्यो वैष्णवः परः ।
किमन्यत्कथयिष्यामि ब्रूहि यवास्ति संशयः ॥ ७५ ॥

अद्यापि मुनिर्शार्दूल तदहं प्रव्रवीभि ते ।
विश्वास-प्रस्तुतिः
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां ब्रह्मसर्गाख्यानं नाम
द्वितीयः पटलः ॥ २ ॥