शास्त्रारम्भप्रयोजनं नाम प्रथमः पटलः
विश्वास-प्रस्तुतिः
नमः सकलकल्याणदायिने चक्रपाणये ।
विषयार्णवमग्नानां समुद्धरणहेतवे ॥ १ ॥
मूलम्
नमः सकलकल्याणदायिने चक्रपाणये ।
विषयार्णवमग्नानां समुद्धरणहेतवे ॥ १ ॥
शास्त्रावतरणम्
विश्वास-प्रस्तुतिः
सुसिद्धपूजिते स्थाने देवब्रह्मर्षिसेविते ।
तपस्विजनसङ्कीर्णे पुण्यकृद्भिर्निषेविते ॥ २ ॥

तीर्थोत्तमे प्रभासे वै यत्र सन्निहितः सदा ।
विश्वात्मा भगवान् विष्णुर्लोकानुग्रहकृत्प्रभुः ॥ ३ ॥

तत्र शुश्रूषणपरः पित्रादिगुरुसन्ततेः ।
नित्यमेवापवर्गार्थी विरागी वीतमत्सरः ॥ ४ ॥

संवर्तकः कान्तिनिधिर्दृष्ट्वा मग्नं स्वकं वपुः ।
प्राञ्जलिः प्रणतो भूत्वा और्वं पितरमब्रवीत् ॥ ५ ॥

संवर्तकः-
विश्वास-प्रस्तुतिः
संसारार्णवमग्नस्य ममोपायो हि कथ्यताम् ।
यं ज्ञात्वा न पुनर्जन्म स्यान्ममान्यस्य कस्यचित् ॥ ६ ॥

और्वः-
विश्वास-प्रस्तुतिः
पुरा कृतयुगे वत्स मत्पूर्वैः संयमस्थितैः ।
वेदवेदाङ्गपारज्ञै ऋषिभिश्च तपोधनैः ॥ ७ ॥

केनापि चात्मभावेन एतदालोचितं तु वै ।
बहून्यब्दसहस्राणि तपस्तप्त्वा सुदारुणम् ॥ ८ ॥

{{२}}
(सन्तोषनियमाढ्यं च व्रतचर्यासमन्वितम्)
निःश्रेयसालाभान्महर्षीणां निर्वेदः
विश्वास-प्रस्तुतिः
कालेन तपसोऽन्ते वै वयं सद्धर्ममास्थिताः ।
सिद्धिगोचरमप्राप्ताः प्रोच्छ्वसन्तः पुनः पुनः ॥ ९ ॥

न विद्मः किं भविष्यामो ह्यद्यापि गहने भवे ।
न स्थितिः शाश्वती स्वस्थे न च बन्धपरिक्षयः ॥ १० ॥

न चैवेह स्थिरा भोगाः किं कुर्यामोऽत्र वैशसे ।
इत्येवं गहने प्राप्ते तपसश्चानवस्थितेः ॥ ११ ॥

सम्प्राप्ताः स्म ततो मोहं तदा वाणी महत्यभूत् ।
भगवद्धर्मजिज्ञासैर्ध्यानासक्तैः प्रचोदिता ॥ १२ ॥

परतत्त्वज्ञानस्य निःश्रेयसहेतुत्वम्
विश्वास-प्रस्तुतिः
न यज्ञवेदाधिगमैर्नच दानैस्तु केवलैः ।
क्रियाभिर्न त्वनेकाभिर्व्रतैश्चान्द्रायणादिकैः ॥ १३ ॥

स्वर्गे वै न भवेत् स्थैर्यं बन्धमोक्षश्च वै कुतः ।
अज्ञाते परतत्त्वे तु शाश्वते चाक्षयेऽच्युते ॥ १४ ॥

व्यापके तु जगन्नाथे नित्यतृप्ते निरञ्जने ।
इच्छारूपधरे नित्ये शुद्धे बुद्धे सुनिर्मले ॥ १५ ॥

एवमाद्यः परो देवो ज्ञातो यावन्न वै द्विजाः ।
तावदेवापवर्गस्तु दुर्लभो युगकोटिभिः ॥ १६ ॥

तस्माद्यतध्वं येनाशु हृदावासो जगद्गुरुः ।
केवलं चित्स्वरूपश्च गुणगुण्यश्च निर्गुणः ॥ १७ ॥

प्रसादमेति वै क्षिप्रमनाथानामसंशयः ।
अभूतपूर्वं श्रुत्वैवं स्थितास्ते हृष्टमानसाः ॥ १८ ॥

तस्मिन्नेव क्षणे पुण्ये श्रुतमात्रेण पुत्रक ।
किमेतत्केन कथितं किं तद्ब्रह्म ह्यनामकम् ॥ १९ ॥

ज्ञास्यामस्तत्कथं सम्यगेवमूचुः परस्परम् ।
{{३}}
संशयेऽभिनिविष्टास्तु दीर्घकालं यदा तदा ॥ २० ॥
पुनरेवोत्थिता वाणी गगनादमृतोपमा ।
परतत्त्वविवेचनम्
यत्तदक्षरमक्षोभ्यं परं ब्रह्म सनातनम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
परा गतिर्या सर्वेषामच्युतं वित्त तद्द्विजाः ।
मुनयो ब्रह्मनिष्णाता यमाश्रित्य भवोदधिम् ॥ २२ ॥

तरन्ति पुण्डरीकाक्षो देवो नारायणस्तु सः ।
शङ्खचक्रधरं विष्णुमानन्दस्यन्दनिर्भरम् ॥ २३ ॥

ये संश्रयन्ति तं भक्त्या सूक्ष्ममध्यात्मचिन्तकाः ।
ते यान्ति वै पदं विष्णोर्जरामरणवर्जिताः ॥ २४ ॥

इत्युक्त्वा च ततो भूयः सा वागस्तमिता यदा ।
तदा वयं हृष्टतुष्टाः प्रायशो विगतज्वराः ॥ २५ ॥

श्रीवत्साङ्कवपुर्देवस्त्राता शास्ति जगत्त्रये ।
चेतसोऽवस्थितिं कृत्वा ऋषिभिश्च तपोधनैः ॥ २६ ॥

चिन्तितं च तदा भूयो ज्ञास्यामस्तं कथं विभुम् ।
परतत्त्वाधिगमोपायजिज्ञासया शाण्डिल्यं प्रत्यभिगमनम्
को वेत्ता देवदेवस्य त्रैलोक्येऽस्मिन् यथार्थतः ॥ २७ ॥
विश्वास-प्रस्तुतिः
प्रसन्नः कस्य भगवान् परमात्माऽप्यधोक्षजः ।
प्रभावात्तपसः सर्वं चिन्तितं मनसा तदा ॥ २८ ॥

यथावद्विदितं पश्चात्सर्वेषां भावितात्मनाम् ।
कृतकृत्यो जगत्यस्मिन् शाण्डिल्यः श्रूयते भुवि ॥ २९ ॥

ते चैवं स्वश्रमात्सर्वे फलपुष्पकरोद्यताः ।
प्रयाताः स मुनिर्यत्र कृतकृत्योऽवतिष्ठते ॥ ३० ॥

सुखासीनो द्विजैः सार्धं योगैश्वर्यसमन्वितः ।
तपसा तेजसा युक्तः पर्वते गन्धमादने ॥ ३१ ॥

नानाश्चर्यसमायुक्ते नानापुष्पोपशोभिते ।
फलद्रुमसमाकीर्णे नानाधातुविचित्रिते ॥ ३२ ॥

सिद्धैरध्यासिते रम्ये देवजुष्टे मनोरमे ।
तपश्शीलैस्सुदान्तैश्च योगव्रतपरायणैः ॥ ३३ ॥

{{४}}
विश्वास-प्रस्तुतिः
सच्छिष्यैर्ज्ञानसम्पूर्णैर्वृतश्चन्द्र इव ग्रहैः ।
दृष्ट्वा(ष्टो ?) ज्ञानक्रियाढ्योऽसावृषिभिः प्राञ्जलिस्थितैः ॥ ३४ ॥

स चाभिवादितस्सर्वैः क्रमात्तेन च ते तथा ।
पूजिताः फलमूलाद्यैरम्बुना कुसुमैस्सह ॥ ३५ ॥

निवृत्तेऽभ्यागते धर्मे सोत्सुकैर्भगवान्मुनिः ।
पृष्टस्तपोधनैस्सर्वैः शाण्डिल्यस्सुरपूजितः ॥ ३६ ॥

भगवत्तत्त्वतदाराधनप्रकारप्रश्नः
विश्वास-प्रस्तुतिः
भगवन्श्रोतुमिच्छामो विष्णोरद्भुतकर्मणः ।
उपासालक्षणं कर्म कथयस्व प्रसादतः ॥ ३७ ॥

श्रुतमत्यद्भुतं यस्मादस्माभिर्गगनान्तरात् ।
अज्ञाते भगवत्तत्वे दुर्लभा परमा गतिः ॥ ३८ ॥

तथाऽनाराधिते चैव सात्विकेन तु कर्मणा ।
सन्तारणार्थमस्माकमन्येषां भविनां तथा ॥ ३९ ॥

यथार्थं भगवद्धर्म वक्तुमर्हसि सर्वथा ।
अस्य शास्त्रस्य प्रवृत्तिक्रमः
शाण्डिल्यः-
श्रुणुध्वं संयतास्सर्वे विष्णोरद्भुततेजसः ॥ ४० ॥
विश्वास-प्रस्तुतिः
सारभूतमिदं शास्त्रं ज्ञानोपनिषदं महत् ।
रहस्यमप्रकाश्यं च ब्रह्मगर्भं च शाश्वतम् ॥ ४१ ॥

अनुग्रहार्थं च पुरा कथितं नारदस्य तत् ।
तथाचातिरहस्यत्वाल्लोकेऽस्मिन्न प्रकाशितम् ॥ ४२ ॥

न चापि चोदितं चैव केनचिद्धर्मगौरवात् ।
तथोक्तस्य (तथाऽनेक ?) दिनस्यान्ते अन्तर्धानगतं तु तम्(त् ?) ॥ ४३ ॥

भूयश्चैवावतीर्णेन विष्णुना प्रभवष्णुना ।
मुनेर्वै स्वांशभूतस्य यदुक्तं पुनरेव हि ॥ ४४ ॥

बदर्याश्रमसंस्थेन प्रभुना लोककारिणा ।
धर्ममार्गावतारार्थं व्रतेनानेन सत्तमाः ॥ ४५ ॥

सिद्धानं शृण्वतां चैव तथा गगनचारिणाम् ।
{{५}}
देवानां च ऋषीणां च नरादीनां तथैव च ॥ ४६ ॥
विश्वास-प्रस्तुतिः
मृकण्डुतार्क्ष्यपूर्वाणामादित्यानां महात्मनाम् ।
किन्नराणां च दैत्यानां वसूनां भावितात्मनाम् ॥ ४७ ॥

साङ्ख्यानां योगसिद्धानां ज्ञानविज्ञानवेदिनाम् ।
[गुरोर्नारदादधिगतस्यास्य शास्त्रस्य मुनीन् प्रति
यथाधिगतमुपदेशप्रतिज्ञा]
तच्छृणुध्वं मुनिश्रेष्ठाः धर्मं संसारतारकम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
यादृक्प्राप्तं मया पूर्वं परितुष्टाच्च नारदात् ।
सर्वज्ञानक्रियायुक्तं सर्वसिद्धिप्रसाधनम् ॥ ४९ ॥

सङ्क्षिप्तं च महार्थं यत्तथा सम्यग्विवेकदम् ।
ज्ञात्वैवं सारभूतं च अधीतं हि पुरा मया ॥ ५० ॥

यस्माद्वै धर्मकामार्थमोक्षाणामाशुसिद्धिकृत् ।
अधीत्य च श्रुतं पश्चात् ज्ञानानां ज्ञानमुत्तमम् ॥ ५१ ॥

यत्प्रसादात्तु वै भूयो भवेऽस्मिन्न भवाम्यहम् ।
तद्युष्मभ्यं प्रवक्ष्यामि आम्नायेन यथास्थितम् ॥ ५२ ॥

श्रद्धाभक्तिपूर्वकमुपसन्नस्यैव शास्त्रस्यास्योपदेशे पात्रता ।
विश्वास-प्रस्तुतिः
रहितं संशयैस्सर्वैर्गुरुशिष्यक्रमेण तु ।
परिज्ञातं क्रमेणैव यस्माच्छास्त्रं फलप्रदम् ॥ ५३ ॥

तस्मान्नयं द्विजाः पूर्वमाश्रयध्वं प्रयत्नतः ।
भक्तिश्रद्धासमेतं तु अस्तित्वे (आस्तिक्ये ?) नाप्यलङ्कृतम् ॥ ५४ ॥

सर्वस्वमपि यो दद्यात् भक्तिश्रद्धाविवर्जितः ।
नयाचारविनिर्मुक्तो मानी शास्त्रार्थदूषकः ॥ ५५ ॥

न तस्य शास्त्रं वक्तव्यं ब्रूते वा यस्स यात्यधः ।
समाचारेण यो ब्रूयाच्छृणुयाद्यश्च तावुभौ ॥ ५६ ॥

गच्छेतां तु जगद्योनेः पदं घोरविपर्ययात् ।
[गुरोर्महिमानुवर्णनगर्भं गुरौ भक्तेः
श्रेयःसाधनत्ववर्णनम्]
शास्त्रायत्ता यतः सर्वे भोगमोक्षादयो द्विजाः ॥ ५७ ॥
वैष्णवं ज्ञानवक्तारं विद्याद्विष्णुवद्गुरुम् ।
{{६}}
पूजयेद्वाङ्मनःकायैस्स शास्त्रज्ञस्स वैष्णवः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
श्लोकपादस्य वक्ताऽपि यतः पूज्यस्सदैव हि ।
किं पुनर्भगवद्विष्णोस्स्वरूपं विवृणोति यः ॥ ५९ ॥

शास्त्रस्य चैव वक्ताऽपि तद्भावगतमानसः ।
विभोः शास्त्रस्य च गुरोस्त्रितयस्यास्य पूजनात् ॥ ६० ॥

फलं भवत्यनूनं वै इह लोके परत्र च ।
नारायणः परं ब्रह्म तज्ज्ञानेनाभिगम्यते ॥ ६१ ॥

ज्ञानस्य साधनं शास्त्रं तच्छास्त्रं गुरुवक्त्रगम् ।
ब्रह्मप्राप्तिरतो हेतोर्गुर्वधीना सदैव हि ॥ ६२ ॥

हेतुनाऽनेन वै विप्रा गुरुर्गुरुतमःस्मृतः ।
यस्माद्देवो जगन्नाथः कृत्वा मर्त्यमयीं तनुम् ॥ ६३ ॥

मग्नानुद्धरते लोकान् कारुण्याच्छास्त्रपाणिना ।
तस्माद्भक्तिर्गुरौ कार्या संसारभयभीरुणा ॥ ६४ ॥

शास्त्राञ्जनेन योऽज्ञानतिमिरं विनिपातयेत् ।
शास्त्रं पापहरं पुण्यं पवित्रं भोगमोक्षदम् ॥ ६५ ॥

शान्तिदं च महार्थं च वक्ति यस्स जगद्गुरुः ।
अथ तत्त्वशुश्रूषया मुनिभिः शिष्यभावः
इत्युक्तास्तेन मुनयो मुनिना ब्रह्मवेदिना ॥ ६६ ॥
विश्वास-प्रस्तुतिः
त्यक्तासनास्ततस्सर्वे बभूवुश्शान्तमानसाः ।
तत्पादमूले पतितास्तच्चित्तास्तत्परायणाः ॥ ६७ ॥

अथोपदेशारम्भः
विश्वास-प्रस्तुतिः
दत्तो मूर्ध्नि ततस्तेषां मुनीनां भावितात्मनाम् ।
विष्णुहस्तश्च (?) तुष्टेन मुनिना ब्रह्मवेदिना ॥ ६८ ॥

अथोवाच स विप्रेन्द्रः प्रणिपत्याच्युतं हरिम् ।
क्रमागतं महच्छास्त्रं ज्ञानामृतम्फलप्रदम् ॥ ६९ ॥

[अस्य शास्त्रस्यारम्भकालं-प्रवर्तकपुरुषविशेष-
आख्याविशेषाणां निरूपणम्]
कृते युगे प्रवृत्ते तु कस्मिंश्चिन्मुनिसत्तमाः ।
{{७}}
पौष्करे ब्रह्मकल्पे तु प्रत्यक्षस्थेऽप्यघोक्षजे ॥ ७० ॥
विश्वास-प्रस्तुतिः
कामक्रोधविनिर्मुक्ते प्रवृद्धे तु पितामहे ।
स्थिते निष्कण्टके सम्यक्त्रैलोक्ये सचराचरे ॥ ७१ ॥

सम्प्रवृद्धे तथा धर्मे अधर्मे नाशमागते ।
नारदेन यथा पृष्टो देवः कमललोचनः ॥ ७२ ॥

जयार्थमपि भक्तानां हितार्थमपि चात्मनः ।
अनुष्टुप्छन्दोबद्धेन सारात्सारतरा शुभा ॥ ७३ ॥

प्रोक्ता त्रैलोक्यगुरुणा पृच्छते नारदाय तु ।
सारभूतं समुद्धृत्य संहिताऽमृतगर्भिणी ॥ ७४ ॥

सर्वज्ञत्वगुणेनैव कृत्स्नं ज्ञात्वा च तत्त्वतः ।
सार्धकोटिप्रमाणं तु ज्ञातृज्ञानोपबृंहतिम् ॥ ७५ ॥

जयाव्यं निषदं तन्त्रं ब्रह्ममूलाद्विनिस्सृतम् ।
अमूर्ताद्गगनाद्यद्वत् निर्घातो जायते स्वयम् ॥ ७६ ॥

शान्तात्संविन्मयात्तद्वच्छास्त्रं शब्दात्म चोत्थितम् ।
अविकारमसङ्कल्पं यद्रूपं तत्परं विभोः ॥ ७७ ॥

यद्विकारं जगद्धातुश्शब्दब्रह्मेति तत्स्मृतम् ।
ततःप्रभृति कालाच्च लोकेऽस्मिन्मुनिसत्तमाः ॥ ७८ ॥

जयेति विमलं नाम प्रणीतं विश्वकर्मणा ।
अधिकः पाठः
विश्वास-प्रस्तुतिः
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।
इति सर्वत्र विख्यातं भगवच्छास्त्रगौरवम् ॥ १ ॥

सात्त्वतं पौष्करं चैव जयाख्यं तन्त्रमुत्तमम् ।
रत्नत्रयमिति ख्यातं तद्विशेष इहोच्यते ॥ २ ॥

सारं सात्त्वतशास्त्रस्य रहस्यं प्राज्ञसम्मतम् ।
रत्नत्रयमिदं साक्षाद्भगवद्वक्त्रनिःसृतम् ॥ ३ ॥

प्रवर्तितं तथैवेदमन्यूनानधिकत्वतः ।
अन्यान्यानि तु तन्त्राणि भगवन्मुखनिर्गतम् ॥ ४ ॥

सारं समुपजीव्यैव समासव्यासधारणैः ।
व्याख्योपबृंहणन्यायाद्व्यापितानि तथा तथा ॥ ५ ॥

व्याख्यामूलनयेनैषां गौरवं सम्प्रतिष्ठितम् ।
तन्त्रेऽप्यष्टोत्तरशते पारमेश्वरसंहिता ॥ ६ ॥

पौष्करार्थविवृत्यर्था व्याख्यारूपाऽवतारिता ।
सात्त्वतस्य विवृत्यर्थमीश्वरं तन्त्रमुत्तमम् ॥ ७ ॥

जयाख्यस्यास्य तन्त्रस्य व्याख्यानं पाद्ममुच्यते ।
भगवद्व्यक्तिदेशेषु स्वयंव्यक्तेषु भूतले ॥ ८ ॥

अष्टोत्तरशते मुख्यं रत्नभूतं चतुष्टयम् ।
श्रीरङ्गं वेङ्कटाद्रिश्च हस्तिशैलस्ततः परम् ॥ ९ ॥

ततो नारायणादिश्च दिव्यस्थानचतुष्टयम् ।
वेङ्कटाद्रिं विनाऽन्येषु देवदेवस्य धामसु ॥ १० ॥

रत्नेषु त्रिषु रत्नानि त्रीणि तन्त्राण्युपासते ।
मूलव्याख्यानरूपत्वादुपजीव्यं परस्परम् ॥ ११ ॥

तन्त्रत्रयमिदं विद्यादेकशास्त्रं तथा बुधः ।
सात्त्वतं यदुशैलेन्द्रे श्रीरङ्गे पौष्करं तथा ॥ १२ ॥

हस्तिशैले जयाख्यं च साम्राज्यमधितिष्ठति ।
पाद्मतन्त्रं हस्तिशैले श्रीरङ्गे पारमेश्वरम् ॥ १३ ॥

{{९}}
विश्वास-प्रस्तुतिः
ईश्वरं यादवाद्रौ च कार्यकारि प्रचार्यते ।
श्रीरङ्गाद्यादवाद्रेश्च हस्तिशैलो विशिष्यते ॥ १४ ॥

पद्मरागाच्च वैडूर्याद्यथा वज्रं महागुणम् ।
पुरा कृतयुगे ब्रह्मा साक्षात्कृत्य रमापतिम् ॥ १५ ॥

स्वयं समर्चयित्वाऽथ तदर्चाक्रममुत्तमम् ।
शिष्येभ्यो महनीयेभ्य उपदिश्य कृपावशात् ॥ १६ ॥

तैरेवाराधनं काले कारयत्यब्जसम्भवः ।
इत्येवं नारदाच्छ्रुत्वा पुनरेवाहमब्रुवम् ॥ १७ ॥

भगवन् कमलाकान्तः कथं साक्षात्कृतः कदा ।
तदेतद्ब्रूहि मे स्वामिन् हस्त्यन्द्रेश्चापि वैभवम् ॥ १८ ॥

इति पृष्टो मया प्राह नारदो भगवान् ऋषिः ।
साधु पृष्टोऽस्म्यहं वत्स श्लाघनीयोऽसि मे मतः ॥ १९ ॥

यदद्य करिशैलस्य वक्ष्यामि तव वैभवम् ।
पुरा मयोपसन्नेन भगवान् भूतभावनः ॥ २० ॥
मूलम्
यदद्य करिशैलस्य वक्ष्यामि तव वैभवम् ।
पुरा मयोपसन्नेन भगवान् भूतभावनः ॥ २० ॥
विश्वास-प्रस्तुतिः
जगत्स्रष्टा सुराधीशोऽनुयुक्तश्चतुराननः ।
हस्तिशैलस्य माहात्म्यं वरदस्य कृपारसम् ॥ २१ ॥

सत्यव्रतस्य क्षेत्रस्य वैभवं चान्ववर्णयत् ।
तत्तेऽहं सम्प्रवक्ष्यामि सङ्ग्रहेणैव सारवत् ॥ २२ ॥

सावधानः शृणु प्रीत्या गुह्यं सारमिदं यतः ।
भगवन्नाभिपाथोजाज्जातो धाताऽब्जसम्भवः ॥ २३ ॥

सृष्ट्वा चराचरं विश्वं गर्वं परमुपाययौ ।
आभिजात्यं सदाचारो विद्या चेति मदत्रयम् ॥ २४ ॥

सर्वानेवाभिभवति किमु सर्वाधिके पदे ।
ततोऽसौ मत्तचित्तः सन् देवदेवं रमापतिम् ॥ २५ ॥

साक्षाच्चिकीर्षुर्योगेन परं यत्नमुपागमत् ।
देवदेवस्वरूपादिसाक्षात्कारविरोधिना ॥ २६ ॥

अप्रमेयेन महता दुष्कृतेनैष वारितः ।
पुनः पुनः प्रयत्नेऽपि सुमहत्यप्यनुष्ठिते ॥ २७ ॥

न स सिद्धिमनुप्रापत् समाधेः प्रत्यहन्यत ।
अथ चिन्तापरो दीनश्चिन्तयित्वा मुहुर्मुहुः ॥ २८ ॥

{{१०}}
विश्वास-प्रस्तुतिः
वृथैवाचरितं कष्टमियता मन्दबुद्धिना ।
देवावाससमारोहावारोहाभिख्यकेलितः ॥ २९ ॥
मूलम्
वृथैवाचरितं कष्टमियता मन्दबुद्धिना ।
देवावाससमारोहावारोहाभिख्यकेलितः ॥ २९ ॥
विश्वास-प्रस्तुतिः
निर्मोचनार्थमेकोऽपि क्षणो हन्त न यापितः ।
अथालम्ब्य धृतिं धीमान् भूलोकं प्रत्यपद्यत ॥ ३० ॥

गङ्गामध्ये महद्घोरं तपस्तप्तुमुपाक्रमत् ।
अङ्गुष्टाग्रपदात्तिष्टन्निरुद्धश्वासचेष्टितः ॥ ३१ ॥

ऊर्ध्वबाहुर्निराहारस्तपस्तेपे सुदारुणम् ।
कापेयचपलं चित्तं न स्वास्थ्यं प्राप तस्य यत् ॥ ३२ ॥

क्षणमात्रमपि श्रीशं न ध्यातुं प्राभवत्ततः ।
अथ दीने कृशे धातर्याकाशादशरीरिणी ॥ ३३ ॥

वाणी प्रादुरभूत्पुण्या बोधयामास पद्मजम् ।
अधिकारमहानन्दरसमग्रस्य ते मनः ॥ ३४ ॥

सहस्रेणाश्वमेधानां विना शुद्धिं न गच्छति ।
अशुद्धस्येह मनसः स्वास्थ्यं सम्पाद्यतां कथम् ॥ ३५ ॥

अस्वस्थे मनसि ध्यानं साधु निष्पद्यतां कथम् ।
कर्तव्यगौरवात्कालविलम्बाच्च बिभेषि चेत् ॥ ३६ ॥

उपायं सुकरं वक्ष्ये यथावदवधारय ।
गङ्गाया दक्षिणे भागे योजनानां शतद्वये ॥ ३७ ॥

पञ्चयोजनविस्तारं पञ्चयोजनमायतम् ।
तीरान्तं पूर्ववाराशेः सर्वैः सुमहितं गुणैः ॥ ३८ ॥

सिद्धिक्षेत्रं महापुण्यं श्रीशस्याभिमतं परम् ।
सत्यव्रतमिति ख्यातं यथार्थाख्यावभासकम् ॥ ३९ ॥

एकस्तत्र कृतो धर्मो वर्धते हि सहस्रधा ।
तत्र त्वमश्वमेधेन यजेरेकेन चेद्धरिम् ॥ ४० ॥

सहस्रस्याश्वमेधानां फलं प्राप्स्यसि निश्चितम् ।
तत्र शर्वतरे कल्पे दिग्गजा विष्णुमव्ययम् ॥ ४१ ॥

कस्यचिद्गिरिवर्यस्य शिखरे पर्यपूजयन् ।
तेषामाविरभूद्देवः करुणावरुणालयः ॥ ४२ ॥
मूलम्
कस्यचिद्गिरिवर्यस्य शिखरे पर्यपूजयन् ।
तेषामाविरभूद्देवः करुणावरुणालयः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
कमलाकामुकः कान्तविग्रहः कञ्जलोचनः ।
ततः प्रभृति शैलेन्द्रो ययौ करिगिरिप्रथाम् ॥ ४३ ॥

{{११}}
विश्वास-प्रस्तुतिः
तमेव वेदिकां कृत्वा वाजिमेधेन तं यज ।
लक्ष्मीवल्लभकारुण्यवीक्षावैभवतो महान् ॥ ४४ ॥

धन्यः कृतार्थो विमलो भविष्यसि न संशयः ।
इति वाणीं समाकर्ण्य विरिञ्चो हृष्टमानसः ॥ ४५ ॥

क्षेत्रं सत्यव्रतं पुण्यं त्वरितं समुपागमत् ।
त्वष्ट्रा हस्तिगिरेः शृङ्गं टङ्कैः सन्तक्ष्य शोभनाम् ॥ ४६ ॥

यागार्हां यजमानोऽयं यागवेदीमकल्पयत् ।
यथाशास्त्रं च लक्ष्मीशं सर्वकारणकारणम् ॥ ४७ ॥

ईजेऽजो वाजिमेधेन यागानामुत्तमेन सः ।
तत्र सर्वेषु मन्त्रेषु तत्तद्दैवतनामभिः ॥ ४८ ॥

पठ्यमानेषु धाताऽयं देवदेवं रमापतिम् ।
हृदये समनुध्यायंस्तस्मै सर्वं हविर्हुतम् ॥ ४९ ॥

भक्त्या समर्पयन्नेतदलमेकोऽपि वेदितुम् ।
सर्वमेव हविर्देवः पुण्डरीकेक्षणो हरिः ॥ ५० ॥

स्वयमेव समादाय समास्वादयदादरात् ।
स्वान् स्वान् भागान्परीकॢप्तान्कालेष्वनधिगच्छताम् ॥ ५१ ॥

उन्मुखानां वञ्चितानां देवानां क्षुभितं मनः ।
ब्रह्माणमथ ते सर्वे समागत्यान्वयुञ्जत ॥ ५२ ॥

किमिदं वर्तते मोहः क्षोभिता वञ्चिरा? वयम् ।
ब्रह्मा तु स्मयमानस्तान् सान्त्वपूर्वमबोधयत् ॥ ५३ ॥

देवा मया पुरा सृष्टाः स्रष्टाऽहं भवतां पिता ।
किमेतद्यत्पिता पुत्रानुपास्तां विनयादिति ॥ ५४ ॥

संसारमार्गनिष्णातैस्तत्तत्फलमभीप्सुभिः ।
यूयमाराधनीया हि तदर्थमधिकारिताः ॥ ५५ ॥

सर्वान्तरात्मा सर्वेशो मम चापि पिता हरिः ।
कमलावल्लभो देवस्तमेवोद्दिश्य हूयते ॥ ५६ ॥

इह सर्वं हविर्यज्ञे नाममात्रं तु मन्त्रगम् ।
भवतां तत्तदर्थस्तु भगवान् कमलापतिः ॥ ५७ ॥

इयं मद्यज्ञसारस्य धोरणी सारमाधुरी ।
परमैकान्तिनां नॄणामप्येषैव निबोधत ॥ ५८ ॥

{{१२}}
विश्वास-प्रस्तुतिः
इति सम्बोधिता देवा गतक्षोभाः प्रजापतिम् ।
सारार्थावगमात्तुष्टाः साधु साध्वित्यपूजयन् ॥ ५९ ॥

श्रेयसां किल कार्याणां प्रत्यूहानां शतं शतम् ।
तथा तत्र महायज्ञे विघ्नानां शतमुत्थितम् ॥ ६० ॥

देवदेवो रमानाथः कृपया परया मुदा ।
सर्वान्प्रशमयामास प्रत्यूहान् समुपस्थितान् ॥ ६१ ॥

अथ काले बहुगुणे वपाहोमोचिते तदा ।
आविरासन्निमित्तानि मनोहारीणि सर्वशः ॥ ६२ ॥

मेषमासे सिते पक्षे चतुर्दशतमे तिथौ ।
शोभने हस्तनक्षत्रे रविवारेण संयुते ॥ ६३ ॥

प्रातः सवनकालीने वपाहोमे समापिते ।
तां वपामधरे हृह्णन्नग्नेराविरभूद्धरिः ॥ ६४ ॥

सूर्यकोटिप्रतीकाशे तप्तकार्तस्वरोज्वले ।
विमाने पुण्यकोट्याख्ये श्रीभूमिसहितः प्रभुः ॥ ६५ ॥

पश्चिमाभिमुखो दीप्तकिरीटमकुटोज्ज्वलः ।
ऊर्ध्वपुण्ड्रोल्लसत्फालपट्टो राजीवलोचनः ॥ ६६ ॥

तिलप्रसूनसौभाग्यनासाकल्पलतान्वितः ।
प्रवालखण्डसुषमामोषदक्षाधरोष्ठवान् ॥ ६७ ॥

कम्बुगम्भीरकण्ठान्तर्लम्बिकौस्तुभविभ्रमः ।
श्रीवत्सवक्षा हारश्रीशोभमानभुजान्तरः ॥ ६८ ॥

पञ्चायुधोल्लसद्बाहुचतुष्टयमनोहरः ।
सपद्मेन करेणोच्चैर्वहन्नभयमुद्रिकाम् ॥ ६९ ॥

गदां चापं च वामेन पाणिना परिभूषयन् ।
कटिबन्धे धरिन्दिव्यं नन्दकं खड्गमुत्तमम् ॥ ७० ॥

पीताम्बरलसन्नाभिगह्वरोज्वलविह्वलः (ग्रहः ?) ।
कामारामीयकदलीकेलीचोरोरुभास्वरः ॥ ७१ ॥

मुकुराकारजानूत्थलावण्यप्रसराद्भुतः ।
कलाचिकारुचिस्पर्धिजङ्घाद्वितयसुन्दरः ॥ ७२ ॥

पद्मसौभाग्यसर्वस्वहारिपादमनोहरः ।
करुणारसपूर्णाभ्यामीक्षणाभ्यां चतुर्मुखम् ॥ ७३ ॥

{{१३}}
विश्वास-प्रस्तुतिः
आदरादनुगृह्णानः स्मिताञ्चदधरान्तिकः ।
एवं स्वयमुदात्तेन रूपयौवनशोभिना ॥ ७४ ॥
मूलम्
आदरादनुगृह्णानः स्मिताञ्चदधरान्तिकः ।
एवं स्वयमुदात्तेन रूपयौवनशोभिना ॥ ७४ ॥
विश्वास-प्रस्तुतिः
विग्रहेणोदितं देवं रमाकान्तं जगत्पतिम् ।
आसेव्य सर्वे संहृष्टाः कृतार्थनयनोदयाः ॥ ७५ ॥

अहो भाग्यमहो भाग्यमित्युच्चैरुदघोषयन् ।
चतुर्मुखोऽपि नयनैरष्टाभिर्देवमच्युतम् ॥ ७६ ॥

प्रणतार्तिहरं नाथं वरदं समसेवत ।
सहर्षसम्प्रभो नानाचेष्टास्तास्ताः स्वयं चरन् ॥ ७७ ॥

क्रमेण शान्तसंरम्भो देवो नाभिप्रचोदितः ।
वत्स सत्यव्रतक्षेत्रमाहात्म्यं पश्य पद्मज ॥ ७८ ॥

एकेन हयमेधेन सहस्रस्य फलं त्वया ।
काङ्क्षितं तेन चित्तस्य शुद्धिस्तेन च चेतसः ॥ ७९ ॥

स्थैर्यं तेन च निष्पत्तिर्ध्यानस्येतीप्सितं त्वया ।
अन्ते प्रतीक्षितं यत्ते फलं पर्वक्रमात्किल ॥ ८० ॥

प्रथमे पर्वणि प्राप्तं सुखेनैव प्रजापते ।
प्रसन्नोऽस्मि तवानेन हयमेधेन सुव्रत ॥ ८१ ॥

वपारसोऽयं मधुरो मम हृद्यो मनोऽहरत् ।
पारमैकान्तिसौरभ्यसारामृतमनोहरा ॥ ८२ ॥
मूलम्
वपारसोऽयं मधुरो मम हृद्यो मनोऽहरत् ।
पारमैकान्तिसौरभ्यसारामृतमनोहरा ॥ ८२ ॥
विश्वास-प्रस्तुतिः
वपेयं सर्वभक्ष्येभ्यो मम प्रीतिकरी सदा ।
वरं वरय तस्मात्त्वं यथाऽभिमतमात्मनः ॥ ८३ ॥

सर्वं सम्पत्स्यते पुंसां मयि दृष्टिपथं गते ।
इति देवेन सन्दिष्टः प्रहृष्टः परमार्थवित् ॥ ८४ ॥

ब्रह्मा प्रणम्य बहुशः स्तुत्वा च प्रार्थयद्विभुम् ।
वैकुण्ठे तु यथा लोके यथैव क्षीरसागरे ॥ ८५ ॥

तथा सत्यव्रतक्षेत्रे निवासस्ते भवेदिह ।
हस्तिशैलस्य शिखरे सर्वलोकनमस्कृते ॥ ८६ ॥

पुण्यकोटिविमानेऽस्मिन् पश्यन्तु त्वां नरास्सदा ।
इति सम्प्रार्थितो देवो भगवान् भक्तवत्सलः ॥ ८७ ॥

हिताय सर्वलोकानां तथाऽस्त्वित्यन्वमोदत ।
तस्मिन् कृतयुगे ब्रह्मा देवदेवमधोक्षजम् ॥ ८८ ॥

{{१४}}
विश्वास-प्रस्तुतिः
स्वयं तेनैव रूपेण समाराधयदच्युतम् ।
महाशान्तगजेन्द्रोऽथ त्रेतायां हरिमार्चयत् ॥ ८९ ॥

स्वकराग्रोद्धृतैः पद्मैरथ ग्राहेण पीडितः ।
शरणागतिमाधाय वरदेन विमोचितः ॥ ९० ॥

हरिणा धाम निन्ये स्वं वाहनेन गरुत्मता ।
अथ द्वापरसञ्ज्ञे तु युगे देवगुरुः स्वयम् ॥ ९१ ॥

आराध्य वरदं देवं स्वाभीष्टां सिद्धिमाप्नुत ।
ततः कलियुगस्यादौ ब्रह्माणं वरदोऽब्रवीत् ॥ ९२ ॥

परामृशन् जगत्सर्वं प्रहृष्टेनान्तरात्मना ।
कालोऽयं कलिरायातः सर्वे स्वार्थपरा जनाः ॥ ९३ ॥

न कोऽपि तत्त्वतो भक्तो द्रक्ष्यते कालविप्लवात् ।
अयुते वा परार्धे वा यदि कोऽपि च तादृशः ॥ ९४ ॥

सम्भाव्यते गुणोत्कृष्टं न तं लोकोऽनुमंस्यते ।
दोषानारोपयेत्कश्चिन्मत्सरात्तस्य मूर्द्धनि ॥ ९५ ॥

तं तथैवेति सर्वेऽन्ये धोषयिष्यन्ति सर्वशः ।
अन्ते तस्यापि नैराश्याच्च्युतिरेव मनोगतेः ॥ ९६ ॥

भविष्यति तथा नाम कालोऽयं कलिरूर्जितः ।
अतो न रोचते वत्स हस्तिशैलस्य मूर्धनि ॥ ९७ ॥

दिव्येनानेन रूपेण वस्तुं काले कलाविह ।
प्रतिज्ञातं च कल्पान्तमवस्थानमिहैव मे ॥ ९८ ॥

अतोऽत्र क्रियतामेवमहं त्वामनुमानयेत् ।
वरदोऽहं विधे भक्तजनानां करुणाकरः ॥ ९९ ॥
मूलम्
अतोऽत्र क्रियतामेवमहं त्वामनुमानयेत् ।
वरदोऽहं विधे भक्तजनानां करुणाकरः ॥ ९९ ॥
विश्वास-प्रस्तुतिः
अतः स्थलमिदं पुण्यं त्यागमण्टपमुच्यताम् ।
योगमण्टपसञ्ज्ञातु श्रीरङ्गस्य मया कृता ॥ १०० ॥

पुष्पमण्टपमित्याख्या वेङ्कटादेर्विराजताम् ।
अन्यद्यदुगिरिस्थानं विद्यामण्टपमुच्यताम् ॥ १०१ ॥

सर्वोत्तममिदं पुण्यं क्षेत्रं स्थानं च शोभनम् ।
मम प्रीतिकरं दिव्यं मुक्तिक्षेत्रेषु चोत्तमम् ॥ १०२ ॥

नैतस्य सदृशं किञ्चित् क्षेत्रं वा तीर्थमेव वा ।
अतो मदाज्ञया ब्रह्मन् आलयोऽत्र विधीयताम् ॥ १०३ ॥

{{१५}}
विश्वास-प्रस्तुतिः
सर्वमन्त्रस्वरूपत्वात् सर्वेभ्योऽभ्यधिको भुवि ।
संस्थानस्यालयस्यास्य स्वरूपं परमार्थतः ॥ १०४ ॥

न वेत्तुं प्रभवेदन्यो मदीक्षावीक्षितान्नरात् ।
कालिकालोचितां रीतिमाश्रित्य मनसा मया ॥ १०५ ॥

पाञ्चरात्राह्वयं तन्त्रं यथावदवतारितम् ।
तदुक्तेन प्रकारेण मूलकर्मोत्सवाश्रयाः ॥ १०६ ॥

तिस्रो मूर्तिः प्रतिष्ठाप्य पूजनं प्रतिपादय ।
बल्यर्चा च विधानेन सादरं परिकल्प्यताम् ॥ १०७ ॥

रत्नेषु त्रिष्वपि श्रेष्ठं जयाख्यं तन्त्रमुच्यते ।
तदुक्तेन विधानेन प्रतिष्ठादि प्रवर्त्यताम् ॥ १०८ ॥

काण्वीं शाखामधीयानावौपगायनकौशिकौ ।
प्रपत्तिशास्त्रनिष्णातौ स्वनिष्ठानिष्ठितावुभौ ॥ १०९ ॥

जयाख्यतन्त्रमार्गेण दीक्षयित्वाऽब्जमण्डले ।
आचार्यके चाभिषिच्य ताभ्यां पूजां प्रकल्पय ॥ ११० ॥

तद्गोत्रसम्भवा एव कल्पान्तं पूजयन्तु माम् ।
जयाख्येनाथ पाद्मेन तन्त्रेण सहितेन वै ॥ १११ ॥

मूलव्याख्यानरूपाभ्यां समर्चयतु मां सदा ।
न तन्त्रसङ्करो दोषस्तन्त्रयोरनयोरिह ॥ ११२ ॥

आचार्यके तथाऽर्त्विज्ये पूजने वा ममाब्जज ।
तावेतौ गोत्रिणौ मुख्यौ मम प्रीतिकरौ मतौ ॥ ११३ ॥

परिचर्यासु तत्तासु योग्यान्निर्णीय चेतसा ।
दीक्षयित्वा च ते तत्र नियुज्यन्तां यथाविधि ॥ ११४ ॥

अत्राधिकारे उभयोस्तयोरेव कुलीनयोः ।
शाण्डिल्यश्च भरद्वाजो मुनिर्मौञ्जायनस्तथा ॥ ११५ ॥

इमौ च पञ्चगोत्रस्था मुख्याः काण्वीमुपाश्रिताः ।
श्रीप्राञ्चरात्रतन्त्रीये सर्वेऽस्मिन् मम कर्मणि ॥ ११६ ॥

इह ताभ्यां चिरं वत्स तोषितोऽस्मि तपोबलात् ।
तयोरयं वरः प्रीत्या प्रादायि प्रार्थितो मया ॥ ११७ ॥

मन्त्रैः कातीयसूत्रेण निर्दिष्टैर्वैदिकैः सह ।
भगवच्छास्त्रसंसिद्धैर्दिव्यैर्मन्त्रैर्विमिश्रितैः ॥ ११८ ॥

{{१६}}
विश्वास-प्रस्तुतिः
गर्भाधानादिकाः सर्वे संस्कारा नित्यकर्म च ।
नैमित्तिकं च श्राद्धादि कर्तव्यं तैरतन्द्रितैः ॥ ११९ ॥

आचारेणैवामुनैवाहं भवामि प्रीतिमानसः ।
शर्करासहितेनैव क्षीरेण कमलासन ॥ १२० ॥
मूलम्
आचारेणैवामुनैवाहं भवामि प्रीतिमानसः ।
शर्करासहितेनैव क्षीरेण कमलासन ॥ १२० ॥
विश्वास-प्रस्तुतिः
प्रत्यब्दं चैत्रमासे तु स्वेन रूपेण मां विभुम् ।
पूर्णिमायामिहागत्य त्वं मामाराधयानघ ॥ १२१ ॥

प्रत्यहं रात्रिकाले तु शेषः फणभृतां वरः ।
अप्राकृतेन रूपेण मां समाराधयिष्यति ॥ १२२ ॥

इति देवेन सन्दिष्टः परतन्त्रमना विधिः ।
तथिव तत्स्वयं प्रीत्या निरवर्तयदादरात् ॥ १२३ ॥

देवावतारसमये विमानमतुलप्रभम् ।
सर्वदेवमयं दिव्यमग्निमध्यात् समुत्थितम् ॥ १२४ ॥

तथैव देवदेवस्य वरदस्य निदेशतः ।
भूतले वास्तुविधिना प्रतिष्ठामध्यगम्यत ॥ १२५ ॥

दिव्यालयस्य निर्माणप्रकारो विश्वकर्मणे ।
देवादेशाद्विरिञ्चेन स्फुटमेवात्यदिश्यत ॥ १२६ ॥

स तस्याज्ञां वहन्मूर्ध्ना तदादिष्टेन वर्त्मना ।
आलयं निर्ममे दिव्यं तेनैव प्रत्यवेक्षितः ॥ १२७ ॥

मूलमन्त्रत्रयात्मत्वाद्देवदेवस्य सन्निधौ ।
प्रणवेन समं पूर्वं सोपानत्रयमास तत् ॥ १२८ ॥

षडक्षरस्य मन्त्रस्य स्मारणाय रमापतेः ।
अर्धमण्डमभागे षट् सोपानानि चकार सः ॥ १२९ ॥

चतुर्विंशतितत्त्वात्मा चतुर्विंशतिसङ्ख्यका ।
गायत्रीसम्मिता पश्चात् सोपानावलिराबभौ ॥ १३० ॥

अथ द्वयाख्यं परमं मन्त्रराजमनुस्मरन् ।
सोपानयोर्द्वयं दीप्रं निर्ममे निर्ममान्तरः ॥ १३१ ॥

प्रणतार्तिहृतो मन्त्रे दिव्ये देवस्य तोषणे ।
दशवर्णा इति व्यक्तीकुर्वन् दश तताऽकरोत् ॥ १३२ ॥

बहुनाऽत्र किमुक्तेन देवदेवालयो महान् ।
उक्तानां भगवच्छास्त्रे लक्ष्मणां लक्ष्यतां ययौ ॥ १३३ ॥

{{१७}}
विश्वास-प्रस्तुतिः
करीशः कमलाकान्तः काले कमलसम्भवम् ।
स्वच्छन्दः सन्दिशंस्तेन स्वमालयमकारयत् ॥ १३४ ॥

अथ देवेन निर्दिष्टे काले कमलसम्भवः ।
जयाख्यतन्त्रमार्गेण प्रतिष्ठाविधिमादिशत् ॥ १३५ ॥

दारुणा मूलबेरं तु कर्मार्चां रजतेन वै ।
औत्सवं चैव ताम्रेणाकारयद्विश्वकर्मणा ॥ १३६ ॥

तथैव चाथ बल्यर्चां विधिनाऽकारयद्विधिः ।
औपगायनमाचार्यं कौशिकं च तपस्विनम् ॥ १३७ ॥

तत्पुत्रांश्च महाभागान् द्वौ द्वौ देवसुतोपमौ ।
दीक्षयित्वा यथान्यायं चक्रवारिजमण्डले ॥ १३८ ॥

तैः प्रतिष्ठान्तिकं सर्वं कर्षणाद्यमकारयत् ।
वैशाखे श्रवणर्क्षे तु सङ्कल्प्यावभृशं पुरा ॥ १३९ ॥

नवमेऽह्नि ध्वजारोहं विधिनाऽकारयद्विध