अष्टमः पटलः
(दिक्साधनं मर्मज्ञानं शल्यज्ञानं वास्तुमण्डलञ्च)
श्रीभगवानुवाच -
बाह्यवास्तसमं कृत्वा [कत्वा क्, कुर्यात् ख्, ग्] चतुरस्रं समन्ततः ।
भूमिं तोयसमां कृत्वा दर्पणोदरसन्निभाम् [सन्निभाम् क्, सम्मिताम्, ख्,
ग्] ॥ १ ॥
१ । पूर्वपटले शङ्कुनिर्माणक्रममुक्त्वा यदि कुर्याद् यथादृष्टं विपन्नो
नरकं व्रजेत् । भानोर्गत्या दिशो ज्ञात्वा कुर्यात् कर्माणि देशिकः । (प्राण ३) इति
राघवभट्टधृतवचनेन दिग्ज्ञानानन्तरमेव प्रासादादौ कर्तव्ये
वास्तुवैषम्यतो यत्र सम्यङ् न ज्ञायते किल । तत्र शर्ङ्कु प्रतिष्ठाप्य
जानीयात्छुद्धदिक्स्थितिम् । इत्यनेन तत्रैवोक्तेन प्रमाणेन इहापि शङ्कुना
साधयेद्दिशमिति वक्ष्यमाणानुसारेण तच्छङ्कुकरणक-
दिङ्निरूपणप्रकारमभिधत्ते वाह्येत्यादिना । वास्तु द्व्यंशकं भवति
बाह्यमाभ्यन्तरीणञ्च । तत्र प्रासादचतुःशालादेर्बहिः स्थितस्तदनुषक्तो
य्ॐऽशस्तद् बाह्यम् । यश्च तदन्तःपाती तदाभ्यन्तरीणमिति । इह
चोभयोरेत्रांशयोस्तुल्यतया वक्ष्यमाणप्रक्रियां प्रदर्शयितुमाह बाह्येति -
समन्ततः वास्तुत्वेनाभिमताया भूमेश्चतुर्दिक्षु बाह्यवास्तुसमं चतुरस्रं
कृत्वेत्यर्थः । भूमिमिति - ताञ्च चतुरस्रां भूमिं तोयसमां तोयेन समां
कृत्वेत्यर्थः । गृहीतवास्तुमध्ये तु समं कृत्वा भुवः स्थलम् । जलेन
दण्डमात्रेण समन्तु चतुरस्रकम् । (मय ६ । २-३) इत्यादिना
जलकरणकभूसमीकरणाभिधानात् । अत्र मयवचने दण्डमात्रेणेत्यभिधानात्
इहापि समीकरणरीतिरेवमवगन्तव्या यद्भमिं समस्थलीकृत्य समन्ततो
मृदादिमयं सेतुं निर्माय जलमयीकृते तदभ्यन्तरे कञ्चन परिमितं दण्डं
परितोऽन्तरान्तरा निधाय निधाय तद्दण्डपरिमाणानुसारिणा तज्जलपरिमाणेन
तद्भूमेः समत्वमसमत्वं दिक्प्लवत्वं वा परीक्षेत । असमत्वे पुनरनयैव
रीत्या तस्याः समत्वं विदधीतेति । दर्पणेति - दर्पणोदरवददन्तुरामित्यर्थः ।
तोयसमामिति दिक्प्लवादिशङ्कानिरसनाय । दर्पणोदरसन्निभामिति सर्वत्र
दन्तुरतादिदोषव्यावृत्तये ।
प्। ३५)
द्वादशाङ्गुलमानेन चाष्टौ [चाष्टौ क्, अष्टौ ख्, ग्] वृत्तांस्तु भ्रामयेत् ।
मध्ये सुनिश्चलं [सु क्, च ख्, ग्] शङ्कुं स्थाप्य च्छायां निरीक्षयेत् ॥ २ ॥
२ । एवं समीकृतायां भूमौ कर्तव्यमाह द्वादशेति । अत्र सुषमे भूतले कृत्वा
वृत्तं भ्रमणरूपतः । तन्मद्यबिन्दौ शङ्कुन्तु स्थापयेद् द्वादशाङ्गुलम् ।
अग्रच्छायान्वयवशाद् वृत्ते पूर्वापरद्वये । पूर्वापराह्णयोः कृत्वा चिह्ने
तमभितस्थथा । सुसमानपरिभ्रान्त्या कार्यं वृत्तद्वयं पुनः । तयोः
संश्लेषसञ्जातमध्यदक्षोत्तरे स्थिते । सन्धिद्वये तु प्राक्प्रत्यक्सूत्रं मध्ये च
विन्यसेत् । सूत्रदक्षोत्तरं तेषामग्रैः प्रागादि कल्पयेत् । इति
प्राणतोषण्युक्तराघवभट्टधृतवचनेन भूमौ प्रथमतो वृत्तं ततस्तन्मध्ये
शङ्कुस्थापनम् पूर्वाह्णे प्रतीच्यामपराह्णे च प्राच्यां
दिग्विलम्बि-शङ्कुच्छायाग्रनिरूपितायां तत्तच्चिह्नरक्षणाय वृत्तद्वयकरणम्
तदुभयतः सुसमानपरिभ्रमणेन
प्रथमवृत्ताभ्यन्तरीणबिन्दोर्दक्षोत्तरयोस्तत्तच्चिह्णसंरक्षणाय
पुनर्वृत्तद्वयमिति क्रमेण च्छायया दिङ्निरूपणान्तरमेव तत्तच्चिह्नस्थापनाय
वृत्तचतुष्टयनिर्माणमभिहितम् । इह तु अष्टौ वृत्तांस्तु भ्रामयेदित्यनेन
प्रथममेव वृत्ताष्टकनिर्माणे कृते तदानीमपि दिङ्निर्णयाभावाद् वृत्तानां
यादृच्छिकत्वेन शङ्कुच्छायापातस्यापि यादृच्छिकत्वसम्भवाद्
वृत्तैरमीभिर्दिक्साधनं न सम्भवेत् परन्तु तेषां वैफल्यमेव स्यादिति
महदसमञ्जसं घटेत । तत् पूर्वदर्शितराघवभट्टप्रमाणरीत्या
ग्रन्थोऽयमस्माभिरेवं व्याख्यायते - प्रातः सूर्योदये किञ्चन वृत्तं कृत्वा
तन्मध्ये सुनिश्चलं शङ्कुं संस्थाप्य च्छायां निरीक्षयेत् निरीक्ष्य च
तच्छयासमसूत्रेण प्रतीच्यां द्वादशाङ्गुलं वृत्तमेकं विदधीत । एवं
प्राच्यामपि सूरे प्रतीचीविलम्बिनि पूर्वतः प्रवर्त्तिन्यां सङ्कुच्छायायां
समसूत्रेण द्वादशाङ्गुलं वृत्तमेकं विदधीतेति ।
प्। ३६)
प्रवेशे निष्क्रमे तस्यां शङ्कुच्छायां निरूपयेत् ।
शङ्कुच्छायाग्रचिह्नाभ्यां [चिह्नाभ्यां क्, दह्नाभ्यां (?) ख्, ग्]
प्रक्प्रतीच्यौ प्रसाधयेत् ॥ ३ ॥
प्राक्प्रतीचीगते सूर्ये उदग्याम्ये प्रसाधयेत् [प्रसाधयेत् क्, निरीक्षयेत् ख्, ग्] ।
विषुवे विमले व्योम्नि शङ्कुना साधयेद्दिशम् ॥ ४ ॥
३ । तत्र छायानिरूपणक्रमे विशेषमाह प्रवेश इति - तस्यां भूमौ
प्रवेशनिक्रमयोच्छायानिरूपणं विधेयमित्यर्थः । अत्र
पूर्वापराह्णयोश्छाया यदि तन्मण्डलान्तगा । (मय ६ । ८) इत्यादिना
प्राह्णापराह्नयोः सौरच्छायाया मण्डलाभ्यन्तरगमनेन
दिक्परिच्छेदोऽभिहितः । इहापि प्रवेशनिष्क्रमपदाभ्यां प्रायस्तामेव
शैलीमभिधत्ते । तत्र प्रवेश इति-प्रातः सूर्योदये प्रतीचीना शङ्घोश्छाया
द्राधीयसी भवति ततश्चोर्द्ध्वमारोहति सूरे सा च्छाया क्रमशो
ह्रस्वतामापद्यमाना यदा मध्यवृत्तादन्यून द्वादशाङ्गुलान्तरितं स्वं
देशमनुप्रविशेत् तदा तद्वृत्त-मध्यबिन्दुसमसूत्रेण तच्छीर्षं
प्रतीचीमवगच्छेदित्यर्थः । निष्क्रम-इति - एवमनया रीत्या निष्क्रमे पूर्वदिङ्
निरूपणीया । तथाहि - मध्यमह्नः समारूढे सवितरि पश्चिमदिग्विलम्बिनि
पूर्वगामिनी शङ्कुच्छाया क्रमेण दीर्घतामापद्यते । तत्र
प्रागुक्तप्रतीचीक्रमेण पूर्वदिक्चिह्नभूतं द्वादशाङ्गुलं वृत्तमेकं विधाय
तच्छीर्षीयं पूर्वबिन्दुं प्रतीचीं निरूपयेत् इत्येव दिङ्निरूपणशैलीं बोधयितुं
शङ्कुच्छायाग्रचिह्नाभ्यामित्याचष्ट । शङ्कुच्छ्राययोः पूर्वापरगामिन्यो
अग्रचिह्नाभ्यां प्रवेशनिष्क्रमयोः प्रागुक्तक्रमेण प्राक्प्रतीच्यौ प्रसाधयेत्
निरूपयेदित्यर्थः । वृत्तानि तु तत्र तत्र कर्तव्यानि यथा द्वादशाङ्गुलान्यप्यष्टौ
संश्लेषेण स्थानं लभेरन् ।
४ । अयन्तु पूर्वापरदिङ्निरूपणप्रकार उक्तः । अथ दक्षिणोत्तदिङ्निरूपणोपायः क
इत्यत आह प्रागिति । राघवभट्टः सूत्रपातेन दक्षोत्तरदिङ्निरूपणं तत्र तत्र
तत्तच्चिह्नस्थापनाय वृत्तपातञ्चोपदिदेश । अत्र तु प्रक्रारान्तरेण तदभिधत्ते ।
तथाहि सूर्ये प्राक्प्रतीचीगते विषुवसम्प्राप्त्या पूर्वापरबिन्दुसमसूत्रेण स्थिते
उदग्याम्ये स्थिते उदग्याम्ये दिशौ प्रसाधयेत् निरूपयेदित्यर्थः ।
प्। ३७)
शरद्वसन्तयोरेवमादित्यात् साधयेद्दिशम् ॥ ५ ॥
प्राचीं तु पुष्यवेधेन चित्रास्वात्यन्तरेण वा ।
उदीचीं ध्रुववेधेन मध्ययोगेन चोन्नयेत् ॥ ६ ॥
चतुरस्रां शिलां गृह्य इष्टकां वा सुशोभनाम् ।
एवमत्रावधेयम् - अष्टौ वृत्तांस्तु भ्रामयेदित्युक्त्या
पूर्वकृतद्वादशाङ्गुलपूर्वापरवृत्तद्वयात् वामतो-भ्रमणेन
द्वादशाङ्गुलं संश्लिष्टं वृत्तत्रयं दक्षिणतोऽपि तथा वृत्तत्रयं कुर्यात् ।
एवञ्चाष्टौ वृत्तानि भवन्ति चत्वारि दिग्गतानि चत्वारि च कोणगतानि । तत्र
पूर्ववृत्तोत्तरार्द्धम् ईशानवृत्तं उत्तरवृत्तपूर्वार्द्धं तथा
पश्चिमवृत्तोत्तरार्द्धं वायववृत्तं उत्तरवृत्तपश्चिमार्द्धञ्च निरूप्य
उभयतश्चतुर्विंशाङ्गुलसन्धिमुदीचीं जानीयात् एवं दक्षिणदिङ्निरूपणेऽपि
पूर्ववृत्तदक्षिणार्द्धम् आग्नेयवृत्तं दक्षिणवृत्तपूर्वार्द्धं तथा
पश्चिमवृत्तदक्षार्द्धं नैरृतवृत्तं याम्यवृत्तपश्चिमार्द्धञ्च निरूप्य
पूर्ववदुभयतश्चतुर्विंशाङ्गुलसन्धिं
मध्यवृत्तमध्यदेशमवाचीमवगच्छेदिति फलितम् । ततश्च प्राक्प्रतीचीगते सूर्ये
इत्यनेन सुनिरूपितप्राक्प्रतीच्यपेक्षयैव दक्षोत्तर-दिङ्निरूपणं
हयशीर्षसम्मतम् वृत्ताष्टकपातेन दिङ्निरूपणो पदेशस्तु दिशां विदिशाञ्च
निरूपणाय । अयन्तु पूर्वोक्तः सर्वोऽपि दिङ्निर्णयप्रकारो विषुवविषय एव इत्याह
विषुव इति । विषुव-एव पूर्वापरबिन्दौ समसूत्रेण सौरप्रचारात्तत्रैवानया रीत्या
शङ्ककरणकदिङ्निरूपणसम्भवात् ।
५ । ननु क्वायं विषुवो नाम यत्रैवं दिक्साधनमित्याह शरदिति । एतच्च
शरदवसन्तविषयमेव । तत्रैवाश्विनचैत्रयोः सूर्यस्य
विषुवरेखासम्प्राप्तेरित्यर्थः ।
६ । एवं दिवा दिक्साधनक्रममभिधाय रात्रऊ तमाह प्राचीन्त्विति । कृत्तिका
श्रवणा पुष्या चित्रास्वात्योर्यदन्तरम् । एतत् प्राच्या दिशो रूपं युगमात्रोदिते
पुरः । (प्राण ३ प०) इत्यनेन श्रवणस्योदये प्राची कृत्तिकायास्तथोदये ।
चित्रास्वात्यन्तरे चन्द्रसूर्योरिति तत्रैव धृतेन त्रिकाण्डमण्डलवचनेन च यद्रात्रौ
नाक्षत्रिकसंस्थानदर्शनेन दिक्साधनक्रमो दर्शितः इह प्राचीमित्यादिनापि
तमेवक्रममभिधत्ते । रात्रौ कर्कटोदिते पुष्ये तद्वेधेन कन्यायां
चित्रोदयानन्तरं स्वायुदये तन्मध्यप्रदेशेन वा प्राचीं दिशमुन्नयेत् तद्वधेन
प्रतीचीं साधयेदित्यपि बोध्यम् ।
प्। ३८)
चतुर्दिक्षु निवेश्याथ सूत्रचिह्नन्तु कारयेत् ॥ ७ ॥
एवं कृत्वा सूत्रचिह्नं [सृतचिह्नं क्, ततोभूमौ ख्, ग्] ब्राह्मणांस्तत्र
भोजयेत् ।
वैष्णवान् पायसेनाग्य्रान् द्वादशैव समाहितः [समाहितः क्, समन्विताः
(?) ख्, ग्] ॥ ८ ॥
मासाधिपानां तुष्ट्यर्थं सूत्रणं स्यादतः परम् ।
महामर्मोपमर्मादि-ज्ञानार्थं यत्नवान् भवेत् ॥ ९ ॥
दर्शनैः कीर्त्तनैः शब्दैर्यजमानस्य चेष्तितैः ।
रात्रावुदीचीसाधनमाह ध्रुववेधेनेति उदीच्यां ध्रुवोदयादित्यर्थः । तथा
मध्ययोगेन साधितप्राचीप्रतीचीमध्यद्वारेण चोन्नयेदुदीचीमवाचोञ्चेत्यर्थः ।
७ । एवं दिशो निरूप्य तत्परिमाणसंस्थापनक्रममाह चतुरस्रामिति । गृह्येति क्ताचो
यवादेश आर्षः । इष्टकां वेति - यत्र शिलामयः प्रासादः करणीयस्तत्र शिलां
यत्र चेष्टकामयस्तत्रेष्टकामिति वाशब्देन सूच्यते एकादशे शिलाधिवासनपटले -
कर्तव्यस्त्विष्टकान्यासः प्रासादे चेष्टकामये । शैले शिलानां विन्यासः कार्करे
कर्करामयमिति वक्ष्यमाणत्वात् वाधकमन्तरेणात्र तत्क्रमाइक्रमे
प्रमाणाभावाच्च । चतुर्दिक्ष्विति वास्तुभूमेरित्यर्थः ।
९ । इदानीं दिक्साधनानन्तरं कर्तव्ये वास्तुपुरुषस्य स्वरूपनिर्णये तस्य
मर्मणामज्ञानमनिष्टफलकमिति तज्ज्ञानमभिधत्ते । तत्र
पूर्वोत्तरदिङ्मूर्द्धा पुरुषोऽयमवाङ्मुखोऽस्य शिरसि शिखी । (बृहत् ५२ । ५१)
इत्यादिना निरूपितस्य वास्तुपुरुषस्य तेषु तेष्वङ्गेषु वक्ष्यमाणक्रमेण
चतुःषष्टिपदन्यासः कर्तव्यः यथा तत्तदङ्गदेवतानां तत तत्र पदेषु
समावेशः सम्पद्येत । तानि च पदानि सूत्रपातसाध्यानि । सूत्राणाञ्चामीषां
कोणात् कोणगतानां सम्पातास्तथा पदानां समानि मध्यानि च मर्माणि ।
यथा - सम्पाता वंशानां मध्यानि समानि यानि च पदानाम् । मर्माणितानि
विन्द्यन्न तानि परिपीडयेत् प्राज्ञः । तान्यशुचिभाण्डकीलस्तम्भाद्यैः पीडितानि
शल्यैश्च । गृहभर्त्तुस्तत्तुल्ये पीडामङ्गे प्रयच्छन्ति । (बृहत् ५२ । ५७-५८) इत्यादिना
मर्मणां स्वरूपं पीडनजनितानिष्टसम्भावनञ्चाभिहितम् । भोजदेवेनापि
प्। ३९)
यथावल्लक्षयेच्छल्यं वास्तुदेहे विचक्षणः ॥ १० ॥
लङ्घनादथ सूत्रस्य दर्शनान्नामभाषणात् ।
अन्तस्त्रयोदशसुरा द्वात्रिंशद् बाह्यतश्च ये । तेषां स्थानानि मर्माणि सिरा
वंशाश्च तेषु तु । (समराङ्गन १३ । ६) इत्यनेन तथैव मर्माण्यभिधाय तेषां
महामर्मोपमर्मभेदेन द्वैविध्यमङ्गीकृतम् । तत्र महामर्माणि मुखे हृदि च
नाभौ च मूर्ध्नि च स्तनयोस्तथा । मर्माणि वास्तुपुंसोऽस्य षण्महान्ति प्रचक्षते
इति । उपमर्माणि तु चतुष्वपि विभागेषु सिरा याः स्युश्चतुर्दिशम् । मर्माणि तानि
चोक्तानि द्वारमध्यगतानि च । (समराङ्गन १३ । ७ । १०) इत्येवंरूपमभिधाय
द्वारैर्वा भित्तिभिर्वापि मर्मणां परिपीडनात् । दौर्गत्यं गृहिणः प्राहुः
कुलहानिमथापि वा । (समराङ्गन १३ । १२) इत्यादिना तत्तदङ्गपरिपीडनात्
तत्तदनिष्टफलानुबन्धोऽभिहितः । ग्रन्थविस्तरभयादत्र तानि नोदाह्रियन्ते ।
परमार्थतस्तु वास्तोस्तत्तत्पदान्याक्रम्य सतो मुखादितत्तदङ्गानां
महामर्मत्वम् वंशादीनाञ्चोपमर्मत्वं यथा तेषां पीडा न स्यात् तथा
द्वारादीनां सन्निवेशः कर्तव्य इति ध्येयम् ।
१० । अथेदानीं प्राणतोषण्यां वर्जनीयभूमिं प्रकृत्य - स्फुटिता मरणं
कुर्यादूषरा धननाशिनी । सशल्या क्लेशदा नित्यं विषमा शत्रुतो भयम् । तथा
प्रासादारम्भकाले तु गृहादौ च विशेषतः । शल्योद्धारस्तु कर्तव्यो
यदीच्छेच्छुभमात्मनः । स्वामिनो मरणं वा स्याद् विदेशगमनं तथा ।
यत्नेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः । (३ प०)
इत्यादिभीराघवभट्टधृत-महाकपिलपञ्चरात्रवचनैः शल्यदूषिताया
भूभेर्बलवदनिष्टानुबन्धित्वाभिधानादुद्धरणीये शल्ये
शल्यज्ञानप्रकारमाह - दर्शनैरिति । दर्शनैः
अलीकस्त्रीपुंसपश्वादिसमसंस्थानरूपादीनां वास्तुदेहे यत्रतत्रावलोकनैः ।
कीर्त्तनैः यत्रतत् स्वामिनो नामकीर्त्तनैराह्वानैरित्यर्थः । शब्दैः
अतात्त्विकैर्विडालशृगालखरोष्ट्रादिध्वनिसदृशध्वनिसमाकर्णनैः । तथा
यजमानस्य चेष्टितैः वक्ष्यमानाङ्गविकारैरित्यर्थः । पश्वादिसदृशाचरणैरिति
वा । विचक्षणः शल्यानुशासनानुशीलननिर्मलबुद्धिर्गुरुः वास्तुदेहे
यथावच्छल्यं लक्षयेदित्यर्थः ।
प्। ४०)
श्रवणादथ शब्दस्य जानीयाच्छल्यमादरात् ॥ ११ ॥
दर्शनं लङ्घनं यस्य गदितं [गदितं क्, रुदितं ख्, ग्] नामकीर्त्तितम् ।
तस्य सत्त्वस्य तच्छल्यं जानीयाल्लङ्घनादिभिः ॥ १२ ॥
आदिशेद् वास्तुतः शल्यं गृहिणोऽङ्गविकारतः ॥ १३ ॥
११ । अन्यच्चाह - अथ अथवा सूत्रस्य लङ्घनात् वास्तुमभितः परिमाणविवेकार्थं
सन्निवेशितानां सङ्कूनामध्यग्रं बध्यमानसूत्रस्य
लम्फाप्रदानपूर्वकमतिक्रमणात् तथा दर्शनात्
मनुष्यपश्वादिशरीरावलोकाअत् तथा नामभाषणात् यस्य कस्यचिन्नामोच्चारणात्
शब्दस्य पश्वादिशब्दसमजातीयस्य श्रवणात् आदरात् प्रयत्नविशेषात् शल्यं
जानीयात् कस्य सत्त्वस्य शल्यमिति वक्ष्यमाणरीत्यावगच्छेदित्यर्थः ।
१२ । इदानीं तदेव विशेषयति दर्शनमिति - यस्येति कर्मणि षष्ठी सर्वत्र सम्बध्येत ।
यस्य दर्शनमिति यदि यत्र तत्राकस्माद् वास्तुदेहे स्त्रीरूपं वा पुरूपं वा
तद्विशेषो वा गवाश्वादयः पशवो वाऽन्तराऽन्तरावलोक्येरन् तर्हि
तत्तदङ्गसम्भवान्य - स्थ्यादीनि तद्भूमेरधस्तादस्तीति प्रतीयेत । लङ्घनमिति ।
प्रागुक्तरीत्या पश्वादिकृतेन शल्यं लक्षयेत् - तथाहि येन पशुना तत् सूत्रं
लङ्घ्येत तस्य शल्यं तत्रास्तीत्यवगच्छेत् यथा विडालेन लङ्घिते विडालस्य
शृगालेन शृगालस्य स्त्रीपुंसाभ्यञ्च तयोरिति । गदितमिति । यस्य गदितं शब्दः
श्रूयेत तच्छल्यं तत्रास्तीति । पेचकादिशब्दश्रवणेन तत्तच्छल्यमिति जानीयात् ।
नामकीर्तितमिति देवदत्तयज्ञदत्तादिनाम्ना पुनः पुनः समाह्वानेन
तत्तन्नाम्नः पुरुषादेः शल्यं तत्र वर्त्तत इत्युन्नेयमित्येवाह तस्य सत्त्वस्य
तच्छल्यमित्यनेन ।
१३ । आदिशेदिति । गृहिणः अङ्गविकारतः कण्डूयनादिरूपादङ्गवैकृत्याद् वास्तुतः
शल्यमादिशेत् । अङ्गविकारत इति गृहिणो यदङ्गे शिरसि वाहौ अन्यत्र वा
प्रासादारम्भकाले कण्डूयनादिरूपोऽङ्गविकारो भवेत् वास्तुपुंसस्तत्र
तत्राङ्गे शल्यसत्तां जानीयादित्यर्थः । अतएव प्राणतोषणीधृत
महाकपिलपञ्चरात्रवचनैरङ्गभेदेन कण्डूयनानुमेयसत्ताकं शल्यं
तदुद्धरणञ्चोपदिष्टं यथा -
प्। ४१)
प्रासादारम्भकाले तु यदङ्गं स्पृशते पुमान् ।
वास्तुदेहे दृढं शल्यं तत्र दद्याद्विचक्षणः ॥
कण्डूयति शिरः पुंसि शिरःशल्यं समुद्धरेत् ।
शल्यं तत्रास्ति विज्ञेयं खन्यमाने करद्वये ॥
अग्निदाहश्च रोगश्च धनहानिश्च जायते ।
यत्रेनोत्पाटयेच्छल्यं यदीच्छेच्छुभामात्मनः ॥
वाहौ कण्डूयमाने तु निर्दिशेल्लोहशृङ्खलम् ।
हस्तद्वयेन मानं तल्लक्षणं कथितं तव ॥
स्वामिनो मरणं वा स्याद् विदेशगमनं तथा ।
यत्रेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः ॥
उरौ कण्डूयमाने तु कांश्यशल्यं विनिर्दिशेत् ।
हस्तेनैकेन सन्तिष्ठेल्लक्षणं कथितं तव ॥
असती च भवेद् भार्या यशोहानिः प्रजायते ।
यत्नेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः ॥
हस्ते कण्डूयमाने तु कङ्कालञ्च विनिर्दिशेत् ।
त्रिहस्तेन तु सन्तिष्ठेत् खन्यमाने न चान्यथा ॥
अग्निदाहश्च रोगश्च पीडा च मरणं भवेत् ।
यत्नेनोत्पाटयेच्छलय्ं यदीच्छेच्छुभमात्मनः ॥
पृष्ठे कण्डूयमाने तु वाहुशल्यं विनिर्दिशेत् ।
हस्तेनैकेन सन्तिष्ठेन्नात्र कार्या विचारणा ॥
स्वामिनाशो भवेत्तत्र भार्या वा जायतेऽसती ।
पादे कण्डूयमाने तु हस्तशल्यं विनिर्दिशेत् ॥
सार्द्धहस्तेन सन्तिष्ठेल्लक्षणं गदितं तव ।
अङ्गनाशो राजदण्डः शस्यहानिश्च जायते ॥
यत्नेनोत्पाटयेच्छलयं यदीच्छेच्छुभमात्मनः ।
कुक्षौ कण्डूयमाने तु पाषाणं तत्र निर्दिशेत् ॥
हस्तद्वितयमानेन लक्षणं गदितं तव ।
प्। ४२)
शकुनो दृश्यते वापि यस्य वा श्रूयते ध्वनिः ।
कीर्त्त्यते यस्य वा नाम शल्यं तस्य विनिर्दिशेत् ॥ १४ ॥
वास्त्वङ्गं सूत्रयेत् प्राज्ञः श्वेताम्बरधरः शुचिः ।
श्वेतगन्धानुलिप्ताङ्गं [श्वेत क्, शुभ ख्, ग्] सर्वालङ्कारभूषितः ॥ १५ ॥
भुजङ्गदंशस्तत्र स्यात्तस्माच्छल्यं समुद्धरेत् ॥
जानौ कण्डूयमाने तु भस्म तत्र विनिर्द्दिशेत् ।
हस्तद्वयेन सन्तिष्ठेल्लक्षणं गदितं तव ॥
अग्निदाहो मनस्तापः क्लेशदुःखभयानि च ।
करोत्येवंविधं कर्म तस्मात्तं वै समुद्धरेत् ॥ इति ।
एवमन्यादृशैरप्यङ्गविकारैस्तत्र तत्र वास्त्वङ्गे शल्यमस्तीत्यवगन्तव्यम् । १४ ।
पूर्वं यद्दर्शनैरित्याद्यभिहितं तदेव स्फुटीकरोति - शकुन इति । वराहमिहिरैरपि -
अर्द्धनिचितं कृतं वा प्रविशन् स्थपतिर्गृहे निमित्तानि ।
अवलोकयेद् गृहपतिः क्व संस्थितः स्पृशति चाङ्गम् ॥
रविदीप्तो यदि शकुनिस्तस्मिन् काले विरौति पुरुषरवम् ।
संस्पृष्टाङ्गसमानं तस्मिन् देशेऽस्थि निर्देश्यम् ॥
शकुनसमयेऽथवान्ये हस्त्यश्वश्वादयोऽनुवाशन्ते ।
तत्प्रभवमस्थि तस्मिंस्तदङ्गसम्भवमेवेति ॥
सूत्रे प्रसार्यमाणे गर्दभरावोऽस्थिशल्यमाचष्टे ।
श्वशृगाललङ्घिते वा सूत्रे शल्यं विनिर्द्देश्यम् ॥
(बृहत् ५२ । १०३ - १०६)
इत्यादिना प्रायो हयशीर्षसम्मतैव शल्यज्ञानशैली समवर्णि । एतावदन्तं
शल्यज्ञानमुक्तम् । शल्योद्धारस्तु दशमेऽर्घ्यदानपटले वक्ष्यते ।
१५ । एवं शल्यज्ञानक्रममभिधाय वास्तुपुरुषदेहावच्छिन्न-तत्तत्पदविभाजक-
प्। ४३)
चतुःषष्टिन्तु [षष्टिं क्, षष्टिः ख्, ग्] प्रासादे एकाशीतिं गृहे सदा ॥ १६ ॥
वास्तुमण्डलसन्निवेशनशैलीमभिधातुमुपक्रमते - वास्त्वङ्गमित्यादिना ।
सूत्रयेदिति वक्ष्यमाणक्रमेणेत्यर्थः ।
१६ । ननु मण्डलेऽस्मिन् कति पदानि विधेयानीत्यत आह - चतुःषष्टिन्त्विति ।
प्रासादनिर्माणे कर्तव्ये चतुःषष्टिं गृहनिर्माणे चैकाशीतिं पदानि
कुर्यादित्यर्थः । ननु भोजदेवेन वास्तुत्रयविभागानन्तरं - एकाशीतिपदो यः
स्यात्तथा शतपदश्च यः । चतुःषष्टिपदो यश्च वास्तुरत्र त्रिधोदितः ॥ इति प्रकृत्य -
वर्णिनां भवनादीनि निवेशा राजवेश्मनाम् । एकाशीतिपदेनेन्द्रस्थानञ्च विभजेत्
सुधीः ॥ प्रासादा विविधास्तद्वद् विचित्राश्चात्र मण्डपाः । तान्
मापयेच्छतपदप्रविभागेन बुद्धिमान् ॥ यः पुनः स्याच्चतुःषष्टिपदस्तेन
विभाजयेत् । नरेन्द्रशिविरग्रामखेटादि नगरादि च ॥ (समराङ्गन १३ । १ । ३ । ५)
इत्युक्तरीत्या तेषामेकाशीति - पदादिवास्तुमण्डलत्रयाणां विषयभेदेन
प्रविभागः कृतः । तन्मते वर्णिनां राज्ञाञ्च गृहा एकाशीतिपदविषयाः
प्रासादा मण्डपाश्च शतपदविषयाः चतुःषष्टिपदस्य तु
राजशिविरादिविषयकत्वमेव । न तु हयशीर्षानुसारि-देवभवनविषयत्वमिति
परस्परविरोधो दुष्परिहर इति चेदुच्यते - प्रासादा
विविधास्तद्वदित्यादिभोजदेववचने प्रासादपदं मण्डपपदञ्च
राजगृहपरमेव एकाशीतिपदं प्रकृत्य - तत्र मैत्रपदस्थाने निवेशायावनीपतेः ।
प्रासादः प्राङ्मुखः कार्यो यथावत् पृथिविञ्जयः ॥ श्रीवृक्षं सर्वतोभद्रं
मुक्तकोणमथापरम् । यमिच्छेन्नृपतिः कुर्यात् प्रासादं शुभलक्षणम् ॥
(समराङ्गन १५ । १६ । १७ ) इत्यादिना राजगृहविशेषवाचकस्यैव प्रासादपदस्य
भोजदेवेनाभिहितत्वात् । एकाशीतिपदाज्जातो वास्तुः शतपदाभिधः । (समराङ्गन
१४ । १२) इत्यनेन शतपदस्यैकाशीतिपदप्रकृतिकतया तयोस्तुल्यविषयत्वाभिधानाच्च ।
तथा च - राजभवनत्वपुरष्कारेणाभेदेऽपि
तत्तदुविशेषलक्षणलक्षितराजगृहत्वव्याप्यप्रासादत्वमण्डपत्वरूपविभाजकोप
अधिभेदेन भिन्नानाममीषां
प्। ४४)
चतुरस्रीकृते क्षेत्रे ह्यष्टधोभयभाजिते [ष्टधो क्, स्तथो (?) ख्, ग्] ।
कोणरेखां [रेखां क्, रेफां (?) ख्, ग्] ततो दत्त्वा सुरभागांस्तु [सुर क्,
रुद्र (?) ख्, ग्] कल्पयेत् ॥ १७ ॥
शतपदविषयत्वं तदितरेषान्तु राजवेश्मनामेकाशीतिपदविषयत्वमित्यवधेयम् ।
भोजदेवस्तु राजभवननगरारामादिमात्रव्याख्यानप्रवृत्तः
किमनेनाप्रस्तुतदेवभवनव्याख्यानकौतूहलेनेति चतुःषष्टिपदे
देवगृहाणामन्तर्भावमकुर्वन्नापराध्यति । अथवा चतुःषष्टिपदे नगरादि
चेत्यादिपदेन देवगृहाणामपि ग्रहणे सर्वं निर्विरोधमिति सङ्क्षेपः ।
न च प्रासादो देवभूभजामित्यमरोक्ते श्चतुःषष्टिन्तु प्रासादे इत्यत्र
प्रासादपदं देवगृहराजगृहसाधारणमिति वाच्यं चतुःषष्टिपदं वास्तु
सर्वदेवगृहं प्रति । एकाशीतिपदं वास्तु मानुषं प्रति सिद्धिदम् । इति
वास्तुयागतत्त्वधृतलिङ्गपुराणवचनेन चतुःषष्टिपदस्य
देवगृहमात्रविषयत्वाभिधानात् एकाशीतिपदैर्भक्तं विधेयं नृपमन्दिरम् ।
(समराङ्गन २५ । ९) इति भोजदेववचनेन विशिष्य
राजभवनस्यैकाशीतिपदवास्तुविषयत्वाभिधानाच्च प्रासादपदस्यात्र
देवगृहपरत्वमेव न तु स्वप्नेऽपि राजगृहपरत्वं कल्पनीयमिति निष्कर्षः ।
१७ । अस्य शास्त्रस्य देवगृहमात्रपरतया
समुद्दिष्टमप्यप्राकरणिकमेकाशीतिपदं मण्डलमुपेक्ष्य प्राकरणिकं
चतुःषष्टिपदं व्याचष्टे - चतुरस्रीति । भूमिं प्रथमं चतुरस्रां विधाय
तामुभयतोऽष्टधा विभाजयेत् । तत्र च विभाजने नव पूर्वायता नव चोत्तरायता
रेखाः कर्तव्यः । एवं कृते चतुःषष्टिः पदानि भवन्ति । रेखानामासां
सञ्ज्ञाश्च विश्वकर्मणा प्रदर्शिताः । तत्र पूर्वापरायतानां
रेखानवकानामुत्तरादिक्रमेण सञ्ज्ञाः - श्रिया यशोमती कान्ता सुप्रियापि परा
शिवा । सुशोभा सधना ज्ञेया तथेभा नवमी स्मृता । पूर्वापरायता
येताश्चतुःषष्टिपदे स्थिताः । (विश्व ५ । २२ । २३) पश्चिमादिक्रमेण दक्षोत्तरगाणां
सञ्ज्ञास्तु धन्या धरा विशाला च स्थिरा रूपा गदा निशा । विभवा प्रभवा
चान्या सौम्यासौम्याश्रिताः शिराः । (विश्व
प्। ४५)
शिवः कोणार्द्धतो ज्ञेयः पर्जन्यः पदसंस्थितः ।
द्विपदस्थो जयो ज्ञेयः सुरेशश्चैकपादकः ॥ १८ ॥
भास्करस्तु पदे ज्ञेयो द्विपदः सत्य इष्यते ।
भृशः पदस्थो विज्ञेयो [विज्ञेयो क्, ज्ञातव्यो ख्, ग्] व्योम चैव पदार्द्धगः ॥
१९ ॥
हुताशनः पदार्द्धश्च [च क्, तु ख्, ग्] पूषा च पदसंस्थितः ।
वितथो द्विपदस्थश्च [पदस्थश्च क्, पदो ज्ञेयः ख्, ग्] पदैकस्थो गृहक्षतः ॥
२० ॥
वैवस्वतः पदैकस्थो गन्धर्वो द्विपदस्थितः ।
भृङ्गश्चैकपदेज्ञेयो [दे क्, दो ख्, ग्] मृगश्चार्द्धपदे स्थितः ॥ २१ ॥
५ । २३ । २४) एता ह्यष्टादशरेखाः शिराशब्देनोच्यन्ते तासां मर्मान्तर्गतत्वं
पूर्वमुक्तमित्यलमत्र प्रपञ्चेन । कोणरेखामिति - ततः प्रागुक्तक्रमेण
चतुःषष्टिं पदानि निर्माय चतुष्कोणपदेषु क्रमादेकैकां कोणरेखां
दत्त्वेत्यर्थः । तथा च मण्डस्येशानकोणपदे ऐशानीतो नैरृत्यन्तां आग्नेयपदे
आग्नेय्याद् वायव्यन्तां नैरृतपदे नैरृतादीशानान्तां वायव्यपदे च
वायव्यादाग्नेय्यन्तां रेखां विदधीतेत्यर्थः । एवं कृते मण्डलस्य
प्रतिकोणमेकैकशस्तिर्यग्रेखा भवति । इति मण्डलाङ्कनक्रमः । सुरभागानिति । तेषु
पदेषु वक्ष्यमाणरीत्या वक्ष्यमाणानां सुराणां भागान् कल्पयेदित्यर्थः ।
१८ । तत्कल्पनशैलीमाह - शिव इत्यत आपटलान्तम् । पूर्वपङ्क्तावीशानकोणार्द्धे
शिवोऽर्द्धपदः । तद्दक्षिणी पर्जन्य एकपदः । तद्दक्षिणे तदधःपदसहिते जयन्तो
द्विपदः । मूले द्विपदस्थो जय इत्यत्र जयो जयन्तः जयन्तायहुंप्रदातव्येति
नवमपटलस्वरसात् द्विपदस्थो जयन्तश्चेति वास्तुयागतत्त्वधृत-
देवीपुराणवचनैकवाक्यत्वाच्च । तद्दक्षिणे सुरेश (इन्द्र) एकपदः ।
१९ । ततो भास्कर एकपदः । तद्दक्षिणे तदधःपदसहिते सत्यो द्विपदः । तद्दक्षिणे
भृश एकपदः । ततोऽग्निकोणार्द्धे व्योमार्द्धपदम् । इत्यष्टौ पूर्वस्यां पूज्या
बहिर्देवताः ।
प्। ४६)
पितरश्चार्द्धतो ज्ञेयाः पदे दौवारिकस्तथा ।
सुग्रीवो द्विपदो [दे क्, दो ख्, ग्] ज्ञेयो ह्येकस्थः पुष्पदन्तकः ॥ २२ ॥
यादसाम्पतिरेकस्थो ह्यमुरस्तु द्विसंस्थितः ।
शोषश्चैकपदे [शोष क्, शोक ख्, ग्] ज्ञेयो ह्यर्द्धगः पाप इष्यते ॥ २३ ॥
रोगश्चार्द्धपदे ज्ञेयो नागश्चापि पदे स्थितः ।
मुख्यश्च [मुख्य क्, यक्ष ख्, ग्] द्विपदो ज्ञेयो भल्लाटः पदसंस्थितः ॥ २४ ॥
२० । अथ दक्षिणपङ्क्तावग्निकोणापरार्द्धे हुताशनोऽर्द्धपदः । तत्पश्चिमे
पूषैकपदः । तत्पश्चिमे सोत्तरैकपदे वितथो द्विपदः । तत्पश्चिमे गृहक्षत
एकपदः ।
२१ । तत्पश्चिमे वैवस्वत (यम) एकपदः । तत्पश्चिमे सोत्तरैकपदे गन्धर्वो द्विपदः ।
तत्पश्चिमे भृङ्गराज एकपदः । मूले भृङ्गश्चैकपदे ज्ञेय इत्यत्र भृङ्गो
भृङ्गराजः गन्धर्वो भृङ्गराजश्चेति (मत्स्य २२७ अ०) वचनस्वरसात् । ततो
नैरृतकोणार्द्धे मृगोऽर्द्धपदः । इत्यष्टौ दक्षिणदिग्देवताः ।
२२ । अथ पश्चिमपङ्क्तौ नैरृतकोणापरार्द्धे पितरोऽर्द्धपदाः । तदुत्तरेदौवारिक
एकपदः । तदुत्तरे पूर्वैकपदसहिते सुग्रीवो द्विपदः । तदुत्तरे पुष्पदन्त एकपदः ।
२३ । तदुत्तरे वरुण एकपदः । तदुत्तरे पूर्वैकपदसहितेऽसुरो द्विपदः । तदुत्तरे शोष
एकपदः । ततो वायुकोणार्द्धे पापोऽर्द्धपदः । पाप इत्यत्र पापयक्ष्मेति
बृहत्संहिता । इत्यष्टौ पश्चिमदिग्देवताः ।
२४ । अथोत्तरपङ्क्तौ वायुकोणापरार्द्धे रोगोऽर्द्धपदः । तत्पूर्वे नाग एकपदः ।
प्। ४७)
यक्षेश्वरः पदे ज्ञेयो नागराड् द्विपदे स्थितः ।
पदस्था श्रीर्महादेवी अदितिश्चार्द्धसंस्थिता ॥ २५ ॥
आपो ज्ञेयास्तु पदगा ह्यापवत्सः [वत्सः क्, वन्ती (?) ख्, ग्] पदस्थितः [स्थितः
ख्, ग्, संस्थितः क्] ।
चतुष्पदस्थो विज्ञेयस्त्वर्यमा पूर्वमध्यगः [पूर्व क्, पूर्य (?) ख्, ग्] ॥ २६ ॥
सविता तु पदे ज्ञेयः सावित्री च [च क्, तु ख्, ग्] पदे स्थिता ।
ततो विवस्वान् विज्ञेयश्चतुष्टयपदस्थितः [चतुष्टयपद क्, चतुष्पादव्यव ख्,
ग्] ॥ २७ ॥
तत्पूर्वे दक्षैकपदसहिते मुख्यो द्विपदः । बृहत्संहितायामपि तथैव ।
वास्तुयागतत्त्वधृतदेवीपुराणे तु द्विपदे विश्वकर्मा तु इति दृश्यते । तत्पूर्वे
भल्लाट एकपदः ।
२५ । तत्पूर्वे यक्ष्मेश्वर (सोम) एकपदः । यज्ञेश्वर इति देवीपुराणम् । सोम इति
बृहत्संहिता । तत्पूर्वे दक्षैकपदसहिते नागराड् द्विपदः । तत्पूर्वे श्रीरेकपदा ।
ततश्चेशानकोणार्द्धे अदितिरर्द्धपदा । इत्यष्टावुत्तरदिग्देवताः ।
इत्येवङ्क्रमेणाष्टशश्चतुर्दिक्षु द्वात्रिंशद् बाह्यदेवताः पूज्याः ।
ईदृशदेवताविभागे तु पदस्थान् पूजयेद्देवान् त्रिंशत् पञ्चदशैव तु ।
द्वात्रिंशद् बाह्यतः पूज्याः पूज्याश्चान्तस्त्रयोदश ॥ (देवी) इत्यादिवचनमेव
नियामकम् ।
२६ । अथेदानीमन्तःपददेवता निरूप्यन्ते । द्वितीयपङ्क्तावीशानपदे आप एकपदाः
। तृतीयपङ्क्तावीशानपदे आपवत्स एकपदः । ततः पूर्वदिङ्मध्यगपदद्वयात्
शक्रभास्कराभ्यामधिष्ठितादधःपदचतुष्टये ब्रह्मस्थानादूर्ध्वे अर्यमा
चतुष्पदः ।
२७ । ततो द्वितीयपङ्क्तावाग्नेयपदे सवितैकपदः । ततस्तृतीयपङ्क्तावाग्नेयपदे
सावित्री एकपदा ।
प्। ४८)
इन्द्रश्चेन्द्रजयश्चैव एकैके संव्यवस्थितौ ।
मित्रश्चतुष्पदस्थश्च [च क्, तु ख्, ग्] पश्चिमे तु व्यवस्थितः ॥ २८ ॥
रुद्रः पदैकसंस्थो वै यक्ष्मा [यक्ष्मा क्, ब्रह्मा ख्, ग्] चैकपदे [क क्, व
ख्, ग्] स्थितः ।
धराधरश्च विज्ञेयो ह्युत्तरे च चतुष्पद। [च चतुष्पदः इत्यंशो क्, पुस्तके
पतितः ।] ॥ २९ ॥
चतुर्मुखश्चतुष्कस्थो मध्ये ज्ञेयः प्रजापतिः ।
देवतानुचरा बाह्ये सर्वे स्कन्दादयः स्थिताः ॥ ३० ॥
इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (अष्टमो)
देवताविभागपटलः ॥ ८ ॥
आदितः श्लोकसङ्ख्या - १६८
ततो याम्यमध्यगपदाभ्यां गृहक्षतयमाधिष्ठिताभ्यामधःपदचतुष्टये
ब्रह्मस्थानादूर्ध्वे विवस्मांश्चतुष्पदः ।
२८ । ततो द्वितीयपङ्क्ता नैरृतपदे इन्द्र एकपदः । ततस्तृतीयपङ्क्तौ नैरृतपदे
इन्द्रजय एकपदः । ततः पश्चिमपदाभ्यां पुष्पदन्त-
वरुणाधिष्ठिताभ्यामधः पदचतुष्टये ब्रह्मस्थानादूर्ध्वे मित्रचश्तुष्पदः ।
२९ । ततो द्वितीयपङ्क्तौ वायव्यपदे रुद्र एकपदः । ततस्तृतीयपङ्क्तौ वायव्यपदे
राजयक्ष्मैकपदः । मूले यक्ष्मेत्यनेन राजयक्ष्मेति बोध्यम् राजयक्ष्मा
पदस्थित इति वास्तुयागतत्त्वधृतदेवीपुराणात् रुद्रश्च राजयक्ष्मा चेति
मत्स्यपुराणाच्च । अत्र पापयक्ष्मेति बृहत्संहिता । तत उत्तरपदाभ्यां
भल्लाटयक्षेश्वराधिष्ठिताभ्यामधःपदचतुष्टये ब्रह्मस्थानादूर्ध्वे
धराधर (पृथ्वीधर) श्चतुष्पदः ।
३० । मध्ये चतुर्मुखः प्रजापतिर्ब्रह्मा चतुष्पदः । इत्येवं क्रमेण पदविभागः
विभक्तेषु पदेषु देवानामीषां पूजनञ्च कर्तव्यम् ।
प्। ४९)
देवतेति । बाह्ये मण्डलबहिर्भागे स्कन्दादयः सर्वे देवाः स्थिताः तेषामपि
पूजनं वक्ष्यमाणक्रमेण विधेयमित्यर्थः । स्कन्दादयश्च - पूज्या
मण्डलबाह्ये तु पूर्वाग्नेय्यादिक्रक्रमात् । स्कन्दश्चैव विदारी च अर्यमा पूतना
तथा । जम्भकापापराक्षस्यौ पिलिपिञ्जश्चरक्यपि । इति वास्तुयागतत्त्वधृत-
देवीपुराणवचनानुसारेण पूतना पश्चिमायां जम्भका वायव्यां
पापराक्षसी उत्तरस्यां पिलिपिञ्जः ऐशान्यां चरकी च स्थिताः इत्यर्थः । तथा
गारुडे चतुःषष्टिपदे देवा इत्येवं परिकीर्त्तिता । इति प्रकृत्य
चरक्यादिचतुष्टयानां पूजनादनन्तरम् ईशानाद्यास्तथा बाह्ये देवाद्या
हेतुकादयः । हेतुकस्त्रिपुरान्तश्च अग्निवेतालको यमः । अग्निजिह्वः कालकस्तु करालो
ह्येकपादकः ॥ ऐशान्यां भीमरूपस्तु पाताले प्रेतनायकः । आकाशे गन्धमाली
स्यात् क्षेत्रपालांस्तथा यजेत् ॥ (गारुड ३६)
इत्यभिधानान्मूलस्थस्कन्द्दादिपदेनैतेषामपि ग्रहणम् । अत एव विश्वकर्मणा
बाह्यदेवानाममीषां सन्निवेशनक्रममभिधाय - या बाह्यदेवताः प्रोक्ताः
प्रासादेः ताः प्रपूजयेत् । (विश्व ५) इत्यनेन यत्र यत्र देवतानुचरा बाह्ये सर्वे
स्कन्दादयः स्थिता इति हयशीर्षीयरीत्या स्कन्दादीनां मण्डलपदबहिर्देवतानां
पूजनमभिहितं तत्र तत्रैव तस्य प्रासादमात्रपरत्वमवगन्तव्यमिति सूचितम् ।
तथा चैकाशीतिपदविषये गृहादौ प्रागुक्ताः शिख्यादिचतुःपञ्चाशद्देवता एव
पूज्याः । चतुःषष्टिपदविषये प्रासादादौ तु
शिवादिचतुःपञ्चाशद्देवतापूजनानन्तरं स्कन्दादीनामपि पूजनं
कर्तव्यमित्येव प्रतिभाति विश्वकर्म-हयशीर्षादिवचनसंवादेन । पूजा च
हेतुकादीनामीशानादिक्रमेणोत्तरान्ता । ईशानाद्यास्तथा बाह्ये देवाद्या
हेतुकादयः दति गारुडस्वरसात् । हेतुकः पूर्वदिग्भागे इत्यादि
विश्वकर्मोक्तन्त्वेकाशीतिपदविषयकमिति ध्येयम् । तथा ऐशान्यां पाताले
प्रेतनायकः आकाशे गन्धमाली पूज्यौ । तथा हेतुकादयः क्षेत्रपालाः पूज्याः
इति क्षेत्रपालांस्तथा यजेदिति तथाशब्देन सूचितम् ।
प्। ५०)