०६ भूमेः परीक्षा शोधनञ्च

षष्ठः पटलः

(भूमेः परीक्षा शोधनञ्च)

श्रीभगवानुवाच -

प्रासादस्य विशेषेण प्रोक्ता भूमिश्चतुर्विधा [प्रोक्ता भूमिः क्, भूमिः
प्रोक्ता ख्, ग्] ।
सुपद्मा भद्रिका पूर्णा धूम्रावेगिन्यथापरा ॥ १ ॥

चन्दनागुरुकर्पूरगन्धा शुभस्वनार्जुनैः [चन्दनागुरुकर्पूरगन्धा
शुभस्वनार्जुनैः क्, पुन्नागै दिवि पार्श्वैश्च चननैः सरलार्जुनैः (?) ख्, ग्]

तिलकैर्नारिकेलैश्च वर्हिः [वर्हिः क्, वर्हि ख्, ग्] काशैश्च शोभिता ॥ २ ॥

पद्मेन्दीवरसंयुक्ता सा सुपद्मेति विश्रुता ।
नदीसमुद्रायतनतीर्थपर्यन्तशोभिता [पर्यन्त क्, पर्वत ख्, ग्] ॥ ३ ॥

पुष्पवृक्षसमाकीर्णा क्षीरिवृक्षोपशोभिता [क्षीरि क्, क्षीर ख्, ग्] ।
वनोद्यानलतागुल्मफुल्लस्तम्बसमावृता [वन क्, वर ख्, ग्] ॥ ४ ॥



१ । पूर्वपटले सामान्येन विहिताविहितभूमिलक्षणमभिधाय इह
सलक्षणांस्तद्भेदानाह सुपद्मेत्यादिना । आवेगिनीति धूम्राविशेषणम् । अपरा
प्रागुद्दिष्टप्रशस्तभूमित्रयविलक्षणा आवेगिनी
शर्कराकण्टकगृध्रादिकृतसम्भ्रमा भूमिर्धूम्रेत्यर्थः । अत्र धूम्रा चेति
सुरोत्तम इति वैदिकसर्वस्वधृतः पाठः ।

२ । तत्र प्रथमां सुपद्मां भूमिं लक्षयति चन्दनेत्यादिना ।

३ । द्वितीयां भद्रां भूमिं लक्षयति नदीत्यादिना ।

प्। २४)

यज्ञीयवृक्षमुक्षेत्रयुक्ता [यज्ञीय ख्, ग्, यज्ञिय क्] भद्रेति कीर्तिता ।
वकुलाशोकबहुला तथा प्लक्षाम्रलोहितैः [लोहितैः क्, रोहितैः ख्, ग्] ॥ ५ ॥

माधवीवेष्टिता या च मुद्गनिष्पावकोद्रवैः ।
शूकधान्यैश्च पुन्नागैर्गिरिपार्श्वगता च या ॥ ६ ॥

तोयञ्च स्वल्पकं [तोयञ्च स्वल्पकं क्, स्वल्पञ्च तोयकं ख्, ग्] यस्यां
पूर्णा सा परिकीर्तिता ।
विल्वार्कस्नुहिपीलूनां वनैर्या परितो वृता ॥ ७ ॥

सशर्करा च कठिना युक्ता कण्टकिभिर्द्रुमैः ।
गृध्रगोमायुकाकानां श्येनानां याकुला कुलैः ॥ ८ ॥

धूम्रेति कीर्त्तिता सा तु तां यत्नात् परिवर्जयेत् ।
ततो [ततः क्, ज्ञात्वा ख्, ग्] भूमिं परीक्षेत पूर्वोदक्प्लवनां
[पूर्वोदक्प्लवनां क्, पूर्वोत्तरप्लवां ख्, ग्] शुभाम् ॥ ९ ॥



५ । तृतीयां पूर्णां भूमिं लक्षयति वकुलेत्यादिना । लोहितैः रक्तचन्दनैः
रक्तशोभाञ्जनैर्वा । इह परत्र चोपलक्षणे तृतीया । निष्पावः श्वेतशिम्बिधान्यम् ।
कोद्रवो धान्यभेदः । कोरदूषस्तु कोद्रवः इत्यमरः । पुन्नागः स्वनामख्यातः
पुष्पप्रधानो वृक्षः ।

७ । चतुर्थो धूम्रां भूमिं लक्षयति विल्वार्केति । पीलुः गुर्जरदेशख्यातो
गुडफलाख्यो वृक्षः ।

९ । अथ भूमिपरीक्षा निरूप्यते तत इत्यादिना । प्रागुक्तरीत्या निन्दितां
भूमिमुपेक्ष्य प्रशस्ताञ्च आदेयतया निरूप्य तस्यां वक्ष्यमाणक्रमेण
परीक्षितायां चेदुत्तीर्येत तर्हि गृह्णीयादन्यथा परिहरेदित्यर्थः ।

प्। २५)

असङ्कटां तथा च्छन्दाकल्पतोयां [च्छन्दां क्, च्छन्नां ख्, ग्]
परिप्लुताम् [तोयां परि क्, तोयपरि ख्, ग्] ।
सम्पूर्यमाणे खाते तु तथाधिकमृदं शुभाम् ॥ १० ॥

कुसुम्भसदृशं वर्णं यस्यां न म्लानिमृच्छति ।
न निर्वाति तथा दीपं तोयं शीघ्रं न जीर्यति ॥ ११ ॥



१० । असङ्कटां अनल्पावकाशां । छन्दां अभिमताम् इष्टसाधनतया
प्रतीयमानामित्यर्थः । सम्पूर्यमाण इति । विशदीकृतमेतद् विश्वकर्मप्रकाशे
प्रथमाध्यायेनिखनेद्धस्तुमात्रन्तु पुनस्तेनैव पूरयेत् ।
पांशुनाधिकमध्योना श्रेष्ठा मध्याधमा क्रमात् इत्यनेन । मयमते च
चतुर्थाध्याये - पूरिते तन्मृदा खाते समता मध्यमा मता । उत्तमा
भूर्मृदाधिक्या हीना हीना मृदा मही । इत्यनेन ।

११ । कुसुम्भेति । अस्याः परीक्षायाः प्रकारः सौरकाण्डे - श्वभ्रे वा
वर्णसदृशान् कुसुमान् सन्निवेशयेत् । प्रदोषे पूर्ववत् सूर-उद्यमे तान् निरीक्षयेत् ।
अम्लानं यस्य वर्णस्य तस्यासौ शुभदा भवेदिति । अत्र
श्वेतारुणेत्याद्येतत्पटलद्वादशश्लोकेन यो ब्राह्मणादिगतः श्वेतादिवर्णभेदो
निरूपितस्तदनुसारेण श्वेतरक्तपीतकृष्णकुसुमेषु श्वभ्रे सन्निवेशितेषु
यद्वर्णकुसुमस्य वर्णम्लानिर्न जायेत तद्वर्णस्य सा भूमिः प्रशस्तेति बोध्यम् ।
कुसुम्भसदृशमित्युपादानन्तु प्रासादनिर्माणस्य प्रायशः
क्षत्रियकर्तृकत्वदर्शनादिति ध्येयम् न निर्वातीति । अस्याः परीक्षायाः क्रमः
सौरकाण्डे - श्वभ्रान्तःकुम्भवक्त्रेषु आमपात्रं निवेशयेत् । गव्येन
हविषापूर्य पूर्ववद् वर्तिकल्पना । पूर्वादिक्रमयोगेन ज्वलनं वीक्षयेत्ततः ।
यद्देशे भिद्यते पात्रं या च वर्तिर्विनश्यति । तस्य सा शस्यते नैव शस्यते यस्य
दीप्यते । सर्वा ज्वलति वै यत्र सर्वकामप्रदा तु सा । इत्यनेन प्रदर्शयिष्यते । अत्र
सर्वकामप्रदेति सर्वेषां कामप्रदेत्यर्थः । अतएव प्राच्यां दीपशिखया
उज्ज्वलत्वे तद् वास्तु ब्राह्मणस्य प्रशस्तं दक्षिणादिदिशि शिखायास्तथात्वे
क्षत्रियादेः सर्वशिखासमत्वे सर्ववर्णानां स वास्तुदेशः प्रशस्त इति
स्मार्तभट्टाचार्याः । तोयमिति । अयमपि परीक्षाप्रकारो विशदीकरिष्यत सौरकाण्डे

  • प्रदोषे वारिणा गर्तं पूर्य सूर्योदये गुरुः । वीक्षेद् यत्नेन
    मतिमानुत्तमाधममध्यमाम् ।

प्। २६)

श्वेतारुणा पीतकृष्णा [अरुणा पीत क्, अरुणपीत ख्, ग्] विप्रादीनां प्रशस्यते

आज्यासृग्गन्धमद्यानां तुल्यगन्धा च या भवेत् ॥ १२ ॥

मधुरा च कषाया च अम्ला च कटुका च या ।
कुशैः काशैः शरैस्तद्वद्दूर्वाभिर्याति संवृता [याति क्, या च ख्, ग्] ॥ १३ ॥

तस्यां पुण्येऽथ नक्षत्रे कुर्याद् भूमिपरिग्रहम् ।
प्राकारसीमापर्यन्तं ततो भूतबलिं हरेत् ॥ १४ ॥



तोये तिष्ठति श्रेष्ठा स्यात् सपङ्का मध्यमा भवेत् । शुष्का विस्फुटिता हीना वर्ज्या
यत्नेन वै मही । इत्यनेन ।

१२ । वर्णभेदेन भूमिभेदमाह श्वेतेति । श्वेता ब्राह्मणानां रक्ता
क्षत्रियाणां पीता वैश्यानां कृष्णा शूद्राणामित्यर्थः । आज्यामृगिति - अत्रापि
विप्रादीनामिति सम्बध्यते धृतगन्धा भवेद् राज्ञी रक्तानुगन्धिनी । क्षारगन्धा
भवेद् वैश्या शूद्रा मद्यानुगन्धिनी (अपरा २ ।) इति विशेषदर्शनात् ।

१३ । मधुरेति - अत्रापि विप्रादीनामिति सङ्गमनीयः मधुरा ब्राह्मणी भूमिः
कषाया क्षत्रिया मता । अम्ला वैश्या भवेद् भूमिः कटुका शूद्रिणी मता । (विश्व
२) इति रसभेददर्शनात् । कुशैरिति - अत्रापि विप्रादीनामिति बोध्यम् सौरकाण्डे कुशैः
श्रैस्तथा काशैर्दूर्वाभिर्या समन्विता । सा विप्रादिक्रमेणेह शस्यते
वसुधानध । इति दर्शनात् । भूमिलक्षणपरीक्षादिविस्तरस्तु सौरकाण्डे
द्वितीयपटले द्रष्टव्यः ।

१४ । एवं परीक्षया प्रशस्ततया ज्ञायमानाया भूमेः परिग्रहमाह तस्यामिति ।
अत्र नक्षत्र इत्येतत्कल्पविहितशुभदिनोपलक्षकं तथा पुण्यतिथोपेते नक्षत्रविषये
शुभे ॥ करणे च सुलग्ने च मुहूर्ते च बुधेप्सिते । (मय ४।८)
इत्यादिभिस्तिथ्यादिविचारविधानात् ।

प्। २७)

माषं [माषं ख्, ग्, मांसं क्] हरिद्राचूर्णञ्च सलाजा [सलाजा क्,
सलाज ख्, ग्] दधिशक्तवः ।
एभिर्भूतबलिं [एभिः क्, एतैः ख्, ग्] दत्त्वा सूत्रमष्टाक्षरेण [सूत्र क्,
मन्त्र (?) ख्, ग्] तु ॥ १५ ॥

पातयित्वा ततः शङ्कूनष्टदिक्षु निवेशयेत् ।
राक्षसाश्चापि भूताश्च येऽस्मिंस्तिष्ठन्ति भूतले ॥ १६ ॥



१५-१६ । पूर्वं भूतबलिं हरेदित्युक्तं तदुपचारानाह माषमिति । सूत्रमिति ।
तारं नमःपदं ब्रूयान्न-रौ दीर्घसमन्वितौ । पवनो नायमन्त्रोऽयं प्रोक्तो
वस्वक्षरः परः । इति तन्त्रसारप्रमाणप्राप्तेन ॐ नमो
नारायणायेत्यष्टाक्षरमन्त्रेण वक्ष्यमाण-शङ्कुनिवेशनसीमनिरूपणार्थं
सूत्रं पातयित्वा अष्टौ शङ्कन् निवेशयेदित्यर्थः । सौरकाण्डे तृतीयपटले
शङ्कून् प्रकृत्य - ईशानादिषु कोणेषु संस्थाप्य विधिना बुधैः रित्यनेन
शङ्कुचतुष्टयारोपणमभिधास्यते । व्यवहारोऽपि तथैव । अत्र अष्टौ शङ्कून्
निवेशयेदिति तु सूत्रच्छेदादिशङ्कयेति बोध्यम् । मात्स्ये सूत्रच्छेदे
भवेन्मृत्युर्व्याधिः कीले त्वधोमुखे इत्यभिधानात् । विस्तृतप्रदेशे
शङ्कुचतुष्टयमात्रे रोपिते तद्गतदीर्घतरसूत्रच्छेदस्य सूत्राकर्षणेन
शङ्कुस्खलनस्य च सर्वथा सम्भवात् । अतएव भोजदेवः कीलानष्टौ परीक्षेत
स्थापयेच्च यथाविधि इत्यभिधाय वध्यमानं यदा सूत्रं शङ्कुः किमपि
मुञ्चति । तदा पुत्रबधं विद्याच्छिन्नं स्वस्वामिमृत्यवे । तस्माद् यत्नः
प्रकर्तव्यो यावत् सूत्रं प्रसार्यते । (समराङ्गन २३ । २५ + ७ - ७२) इत्यादिना
शङ्कुष्टकारोपणं प्रबलानिष्टानुबन्धिसूत्रच्छेदादिपरिहाराय
प्रयत्नञ्चोपदिदेश । तथा च यत्र भूमेर्न तथा विस्तारस्तत्र
शङ्कुचतुष्टयारोपणं न दोषाय । यत्र तु विस्तारस्तत्र
सूत्रच्छेदादिशङ्कानिरसनाय शङ्क्वष्टकनिवेशनमेव सम्यगिति परिहृतः
परस्परविरोधः । अष्टौ शङ्कूनिति सौरकाण्डोक्तं सूर्यविषयं वा । अत्र
सौरकाण्डे शङ्कुं संस्थापयेद् यत्रात् सूत्रञ्चापि प्रसारयेदिति प्रकृत्य
यज्ञीयसारवद्वृक्षसम्भवाः शङ्कवः स्मृताः । द्वादशाङ्गुलविस्ताराः
इत्यभिधानात् उडुम्बरादियज्ञकाष्ठैर्द्वादशाङ्गुलपरिमाणाः शङ्कवः
कर्तव्याः । अत्र विस्तरः सौरकाण्डतृतीयपटले द्रष्टव्यः । तत्र
प्रार्थनामन्त्रमाह राक्षसाश्चेति ।

प्। २८)

ते सर्वे व्यपगच्छन्तु स्थानं कुर्यामहं हरेः ।
इत्यनुज्ञाप्य भूतादींस्तां भूमिं [तां भूमिं ख्, ग् भूमिञ्च क्]
परिशोधयेत् ॥ १७ ॥

आदित्यादिग्रहाणाञ्च लोकपालसमन्वितान् (?) ।
आज्यनिष्ठाविधानेन [आज्यनिष्ठा क्, आज्यं चरु ख्, ग्] ततस्तु होममाचरेत् ॥ १८

चरुहोमं ततः कुर्यान्मूलमन्त्रेण देशिकः ।
दद्यात् पूर्णाहुतिं पश्चाद् वौषडन्तेन मन्त्रवित् [मन्द्रवित् ख्, ग् देशिकः क्]
॥ १९ ॥

वृषभौ कपिलौ गृह्य सवर्णौ वा [सवर्णौ वा क् समवर्णौ ख्, ग्] विचक्षणः

योजनार्थं हलस्यैव गृह्णीयादसनोद्भवम् ॥ २० ॥

प्राङ्मुखं योज्य मन्त्रज्ञो वस्त्रालङ्कारभूषितः ।
आसनीं यष्टिमादाय द्वादशाक्षरविद्यया ॥ २१ ॥



१८ । भूमिशोधनक्रममाह आदित्येति । लोकपालसमन्वितानिति द्वितीयान्तं पदं
निरन्वयमपि अस्मदुपजीव्यपुस्तकत्रितयसंवादान्मूले निवेशितम् । शब्दकल्पद्रुमे
मन्दिरशन्दे लोकपालैः समं कृतीत्युपलभ्यमानो हयशीर्षीयः पाठस्तु
साधीयानिति प्रतिभाति ।

२० । भूमिकर्षणमाह वृषभाविति । कपिलाविति प्रथमः कल्पः तदलाभे
सवर्णाविति । असनोद्भवं सर्जवृक्षसम्भवम् ।

२१ । आसनीं सर्जवृक्षसम्भवां यष्टिमादाय वृषनोदनार्थमित्यर्थः ।
द्वादशाक्षरविद्ययेति ॐ नमो भगवते वासुदेवायेति मन्त्रेण प्रणवो हृद्
भगवते वासुदेवाय कीर्तितः । प्रधाने वैष्णवे तन्त्रे मन्त्रोऽयं सुरपादपः ।
इतितन्त्रसारप्रमाणानुसारिणेत्यर्थः ।

प्। २९)

समर्द्धेन [समर्द्धेन क्, समत्वेन ख्, ग्] (?) समीकृत्य शुभवीजानि योजयेत् ।
सम्प्राप्ते शोभने काले [शोभने काले क्, फलकाले तु ख्, ग्] गोभिस्तत् [तत् क् तं
(?) ख्, ग्] खादयेद् बुधः ॥ २२ ॥

पुनस्तां कर्षयित्वा तु समीकृत्य गृहं गुरुः ॥ २३ ॥

इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (षष्ठो)

भूशुद्धिपटलः ॥ ६ ॥

आदितः श्लोकसङ्ख्या - १२७



२२ । समर्द्धेनेति । अत्र सम्मर्द्दनैरिति वैदिकसर्वस्वधृतः पाठः साधीयानिति
प्रतिभाति । समर्द्धेनेति तु सर्मर्द्दनैरित्यस्यैव लेखकप्रमादकृतं वैरूप्यमिति
सम्भाव्यते । शुभवीजानीति । हलकृष्टे तथोद्देशे सर्ववीजानि वापयेदित्यभिधाय
व्रीहयःशालयो मुद्गा गोधूमाः सर्षपास्तिलाः । यवाश्चीषधयः सप्त
सर्वबीजानि चैव हि (विश्व २ । ६५) इत्युक्तानि । योजयेत् वापयेदित्यर्थः । शोभने काले
फलकाले । सम्प्राप्ते फलकाले तु गोकुलं तत्र वासयेत् । अहोरात्रत्रयं सम्यक् ततः
शुध्यति सा महीति सौरकाण्डतृतीयपटलसंवादात् ।

२३ । पुनरिति । प्रथमं भूमेः कर्षणं ततः कर्षणप्रभावां लोष्ट्रादीनां
सर्मर्द्दनैः समीकरणं तत्र वीजवपनम् उप्त वीजप्रभवेषु फलेषु तत्र
चरद्भिर्गोभिः खादितेषु तस्या भूमेः पुनः कर्षणं पुनः समीकरणमिति
कर्मक्रमः । गृहमिति व्रजेदित्यर्थः ।
प्। ३०)