पञ्चमः पटलः
(एतच्छास्त्रानधिकारिनिरूपणं प्रतिष्ठायां दिङ्नियमः भूमिपरीक्षा च)
श्रीभगवानुवाच -
इदं न हेतुवादिभ्यो वक्तव्यं नास्तिकाग्रतः [अग्रतः यतः ख्, ग्] ॥
जैमिनिः सुगतश्चैव नास्तिको नग्न एव च ।
कपिलश्चाक्षपादश्च षडेते हेतुवादिनः ॥ २ ॥
एतन्मतानुसारेण वर्त्तन्ते ये नराधमाः ।
ते हेतुवादिनः प्रोक्तास्तेभ्यस्तन्त्रं [तेभ्यस्तन्त्रं क्, तन्त्रं तेभ्यः ख्, ग्] न
दापयेत् ॥ ३ ॥
अथ दिङ्नियमोपेतं देवतास्थापनं शुभम् ।
पुरे देशि यथा देवाः स्थाप्याः शृणु तथा मम ॥ ४ ॥
१ । अथेदानीमेतच्छास्त्रानधिकारिणो निरूपयति इदमित्यादिना । शास्त्रमिदं
हेतुवादिभ्यो वक्ष्यमाणेभ्यो नास्तिकाग्रतश्च न वक्तव्यमित्यर्थः । आस्तिक्यमस्ति
वेदैकगम्यं वस्त्विति निश्चयः । (अहिर्बुध्न्यसंहिता ३ । २८ ।)
इत्यास्तिक्यलक्षणवहिर्भूतानां विशेषतो युक्तिमनुरुन्धानानाममीषां
प्रतिकूलतर्कावष्टम्भेन भगवदुपासनपराणां शास्त्राणामप्रामाण्यं
प्रतिपिपादयिषूणां हेतुवादिनां नास्तिककोटावन्तर्भावात् । योऽवमन्येत ते
मूले हेतुशास्त्राश्रयाद् द्विजः । स साधुभिर्वहिष्कार्यो नास्तिको वेदनिन्दकः ॥ (मनु
२ । २२) इत्यादिभिर्निन्दितत्वाच्च । अत्र हेतुवादित्वादेव नास्तिकानां सङ्ग्रहे
पुनर्नास्तिकाग्रत इत्युपादानं तेषां विशिष्य वर्जनार्थम् । नास्तिका यत इति पाठे
इदं हेतुवादिभ्यो न वक्तव्यं यतस्ते हेतुवादिनो नास्तिका इत्यर्थः ।
२ । पूर्वोक्तान् हेतुवादिनो निरूपयति जैमिनिरित्यादिना ।
३ । तन्मतानुसरणे दोषमाह एतदित्यादिना ।
४ । प्रतिष्ठायां देवताभेदेन दिग्भेदनियममाह अथेत्यादिना भिद्यत इत्यन्तेन ।
प्। १९)
नगरग्राममध्ये तु ब्रह्मणः स्थानमुत्तमम् ।
आखण्डलस्य सूर्यस्य पूर्वेणायतनं शुभम् ॥ ५ ॥
स्वदिग्गतं कृशानोस्तु मातॄणाञ्चैव दक्षिणे ।
भूतानामालयो यस्मिन् धर्मराजालयः शुभः ॥ ६ ॥
चण्डिकायाः पितॄणाञ्च दैत्यानां नैरृते भवेत् ।
प्रचेतसः समुद्रस्य सिन्धूनां पश्चिमे भवेत् ॥ ७ ॥
फणिनाञ्चैव [फणिनां क्, सालिनां (?) ख्, ग्] वायव्यां वायोः स्थानञ्च
[च ख्, ग् तु क्] तच्छुभम् ।
यक्षाधिपस्य स्कन्दस्य उदीच्यां स्थानमुच्यते ॥ ८ ॥
चण्डीशस्य महेशस्य ऐशान्यां स्थानमिष्यते ।
विष्णोः स्थानन्तु सर्वत्र [स्थानन्तु सर्वत्र क्, स्थानं समासाद्य ख्, ग्]
कालभेदेन भिद्यते [भिद्यते क्, विद्यते ख्, ग्] ॥ ९ ॥
नगराभिमुखाः सर्वे स्थापिताः शुभदा नृणाम् ॥ १० ॥
अज्ञानाद्वा प्रमादाद्वा कृता यदि पराङ्मुखाः ।
तदा शास्त्रादिभिर्विद्वानुपायमिममाचरेत् ॥ ११ ॥
तद्वर्णभूषणोपेतं तदेवायुधवाहनम् [वाहनम् ख्, ग् भूषणं क्] ।
पुरस्याभिमुखं भित्तौ तं देवं तत्र संलिखेत् ॥ १२ ॥
१० । एवं प्रतिष्ठायां देवताभेदेन दिग्भेदनियमे सत्यपि नगराभिमुख्यं
सर्वत्र विधेयमित्याह नगराभिमुखा इति ।
११ । दैवात् तद्वैमुख्ये जातेए प्रतिकारमाह अज्ञानादित्यादिद्वाभ्याम् ।
प्। २०)
पूर्वं देवकुलं पीड्य प्रासादं स्वल्पकं त्वथ [त्वथ क्, तथा ख्, ग्] ।
समं वाप्यधिकं वापि न कर्तव्यं विजानता ॥ १३ ॥
उभयोर्द्विगुणां सीमां त्यक्त्वा चोच्छ्रयसम्मिताम् ।
प्रासादं कारयेदन्यं नोभयं पीडयेद् बुधः ॥ १४ ॥
दिग्विशेषेण मे स्थानं शृणु त्वं [त्वं ख्, ग् मे क्] सुरसत्तम [सुरसत्तम क्,
सुसमाहितः ख्, ग्] ।
ग्राममध्येऽथवारण्ये [ग्राममध्यऽथवारण्ये क्, कान्तारे
पर्वतेऽरण्य ख्, ग्] नदीनां सङ्गमे तथा ॥ १५ ॥
नगरस्य समन्ताच्चा सर्वत्राहं प्रतिष्ठितः ।
भुक्तिमुक्तिप्रदः पुंसां विशेषं शृणु चापरम् ॥ १६ ॥
ऐन्द्र्यां विभूतये शस्तमाग्नेय्यां [विभूतये शस्तं ख्, ग् प्रशस्तं
विज्ञेयं क्] परिवर्जयेत् [परिवर्जयेत् ख्, ग्, परिवर्जितम् क्] ।
याम्यां प्रशान्तये शस्तं नैरृत्यां भयदं भवेत् ॥ १७ ॥
१३ । पूर्वमिति - अनभिमतं पूर्वकृतं देवालयं भङ्क्त्वा तत्र
तन्न्यूनपरिमाणं वा तत्समपरिमाणं वा तदधिकपरिमाणं वा
स्वाभिमतं प्रासादान्तरं न विधेयमित्यर्थः ।
१४ । तर्हि तत्रैव बलवति नवप्रासादनिर्माणाभिलाषे जाते किं विधेयमित्यत्राह
उभयोरिति । पूर्वस्थितप्रासादोभयपार्श्वयोः उच्छ्रयसम्मितां सीमां
द्विगुणितां तत्प्रासादोच्छ्रयपरिमाणद्विगुणपरिमाणमित्यर्थः त्यक्त्वा
प्रासादान्तरं कुर्यात् न तु तन्मध्ये इत्याह नोभयमिति ।
१५ । तत्र कामनाभेदेन दिग्विशेषमाह दिगित्यादिना तृणामित्यन्तेन ।
प्। २१)
द्रव्यादीनां [द्रव्यादीनां क्, क्रव्यादीनां ख्, ग्] प्रसिद्ध्यर्थं
वारुण्यां राज्यसिद्धये ।
वायव्यां वर्जयेद् यत्नात् कौवर्या पुष्टिवर्द्धनम् ॥ १८ ॥
ऐशान्यां यजनं श्रेष्ठं सर्वसम्पत्करं नृणाम् ।
एवं ज्ञात्वा [ज्ञात्वा क्, ग्, कृत्वा ख्] विशेषेण ततो भूमिं परीक्षयेत् ॥ १९ ॥
लक्षणैर्द्देशिकश्रेष्ठो यथा तदधुनोच्यते ।
सरभीणां रतिर्यत्र सवत्सानां वृषैः [सवत्सानां वृषैः क्, वत्सानां
वृषभैः ख्, ग्] सह ॥ २० ॥
सुन्दरीणां रतिर्यत्र पुरुषैः सह सत्तम ।
राज्ञां पूर्वं गृहं यस्यामग्नीनां यज्वनान्तथा [यज्वनां ख्,
यज्ञिनां क्] ॥ २१ ॥
काश्मीरचन्दनामोदा [मोदा क्, मोद ख्, ग्] कर्पूरागुरुगन्धिनी ।
कमलोत्पलगन्धा च जातीचम्पकगन्धिनी ॥ २२ ॥
पाटलामल्लिकागन्धा नागकेशरगन्धिनी ।
दधिक्षीराज्यगन्धा च मदिरासवन्धिनी ॥ २३ ॥
सुगन्धिव्रीहिगन्धा च शुभद्रव्यस्वना च या ।
सर्वेषां वर्णिनां भूमिः सर्वसाधारणा मता ॥ २४ ॥
२० । इदानीं प्रतिष्ठोपयोगिभूमिपरीक्षा निरूप्यते । तत्र प्रथमं
प्रशस्तभूमिलक्षणमाह सुरभीणामित्यादिना ।
प्। २२)
दुर्गन्धा दुःखना या च नानावर्णा च दुःपुरा ।
वृत्तार्द्धचन्द्रसदृशा विस्ताराद्द्विगुणायता [आयता क्, यदा ख्, ग्] ॥ २५ ॥
विकर्णा कर्णहीना च वक्रा सूचीमुखी तथा ।
द्विकर्णा सूर्पसदृशी गोमुखी च त्रिकोणिका ॥ २६ ॥
षडस्रा शूलसदृशी दन्तिपृष्ठोपमा च या ।
सरीसृपसमा या च दिङ्मूढा शकटाकृतिः [दिङ्मूढा शकढाकृतिः क्,
दिङ्मुखा शकढोपमा ख्, ग्] ॥ २७ ॥
एवम्प्रकारा या भूमिर्वर्ज्या यत्नेन देशिकैः ॥ २८ ॥
इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे
(पञ्चमः)
भूतलक्षणपटलः ॥ ५ ॥
आदितः श्लोकसङ्ख्या - २०४
२५ । तत्र निन्दितभूमिलक्षणमाह दुर्गन्धेत्यत आपटलान्तम् । इह दुःपुरेत्यत्र
दुर्भगेति शब्दकल्पद्रुमे मन्दिरशब्दे हयशीर्षीयभूमिलक्षणे पाठो दृश्यते
प्। २३)