०२ पञ्चरात्रस्वरूपनिरूपणम्

द्वितीयः पटलः

(पञ्चरात्रस्वरूपनिरूपणम्)

श्रीबगवानुवाचं -

यत्त्वया पृष्टमखिलं तत् सर्वं कथयामि ते ।
प्रोक्तानि पञ्चरात्राणि कल्पे कल्पे पुरा मया ॥ १ ॥

व्यस्तानि मुनिभिर्लोके पञ्चविंशतिसङ्ख्यया ।
आद्यं समस्ततन्त्राणां हयशीर्षं प्रकीर्त्तितम् ॥ २ ॥

त्रैलोक्यमोहनं तन्त्रं वैभवं पौष्करन्तथा ।
नारदीयं तथा तन्त्रं प्राह्रादं [प्राह्रादं क्, ग्, प्राह्लादं ख्]
गार्ग्यगालवम् ॥ ३ ॥

श्रीप्रश्नं शाण्डिलं तन्त्रं तन्त्रमीश्वरसंहिता ।
सत्योक्तमुत्तमं [सत्योक्तमुत्तमं क्, सत्योक्तयुक्तमत् (?) ख्, ग्] तन्त्रं
वाशिष्ठं शौनकं तथा ॥ ४ ॥

नारायणीयमन्यच्च तन्त्रं ज्ञानार्णवं तथा [ज्ञानार्णवं तथा क्,
ज्ञानस्य कारणम् ख्, ग्] ।
स्वायम्भुवं कापिलञ्च विहगेन्द्रं तहापरम् ॥ ५ ॥

आत्रेयं नारसिंहाख्यमानन्दाख्यं तथारुणम् ।
बौधायनं तथा तन्त्रं तन्त्रं वैश्वावतारितम् [वैश्वावतारितम् क्,
विश्वाभिभाषितम् ख्, ग्] ॥ ६ ॥



१ । प्रोक्तानीति एतेन पञ्चरात्राणां प्रवाहरूपतयानादित्वाभिधानादमीषां
सादित्ववादिनो निरस्ताः ।

२ । आद्यमिति - आदौ भवमित्यर्थः सृष्टेः प्राक् प्रथममेव भगवताभिहितत्वात्

प्। ८)

अष्टाक्षरविधानन्तु महातन्त्रं तदुच्यते ।
समासैर्विस्तरैरेते भूतलं व्याप्य संस्थिताः ॥ ७ ॥

तन्त्रं भागवतत्त्रैव शिवोक्तं विष्णुभाषितम् ।
पद्मोद्भवं पुराणञ्च वाराहञ्च तथापरम् ॥ ८ ॥

इमे भागवतानान्तु [तु क्, ग्, च ख्] तथा सामान्यसंहिता ।
व्यासोक्ता संहिता चान्या [अन्या क्, एव ख्, ग्] तथा परमसंहिता ॥ ९ ॥

यदन्यन्मुनिभिर्गीतमेतेष्वेवाश्रितं हि तत् ।
प्रतिष्ठाद्येकदेशञ्च तत् सर्वं विष्णुभाषितम् ॥ १० ॥

कर्त्तुमिच्छति यः [यः क् यत् (?) ख्, ग्] पुण्यं मम मूर्तिप्रतिष्ठया ।
अन्वेषणीयस्त्वाचार्यस्तेन लक्षणसंयुतः ॥ ११ ॥

संशुद्धब्रह्मयोनिस्तु प्रलयोत्पत्तिसंस्थितिम् [संस्थितिं क् संस्थितः ख्, ग्] ।
यो वेत्ति कुलजो धीमानाचार्यत्वन्तु [तु क् च ख्, ग्] सोऽर्हति ॥ १२ ॥

ब्राह्मणः सर्ववर्णानां पञ्चरात्रविशारदः ।
क्रोधलोभविनिर्मुक्तो दोषमात्सर्यवर्जितः ॥ १३ ॥



१० । यदन्यदिति - एतेन प्रागुक्तानि पञ्चविंशतिसङ्ख्यकानि मुख्यतया
पञ्चरात्नशब्दप्रतिपाद्यानि अन्यानि तु भगवदुपासनपराणि तन्त्रपुराणादीनि
पञ्चरात्रशास्त्रेष्वेवान्तर्भूतानीत्यवधेयम् । ततश्च भगवदुपासनपरं यत्
शास्त्रं तदेव पञ्चरात्रमिति प्रतिभाति ।

११ । कर्त्तुमिति - पाञ्चरात्रस्वरूपं निरूप्य प्रतिष्ठानुगुणाचार्यलक्षणमाह
कर्त्तुमिच्छतीत्यादिना ।

प्। ९)

क्षयापस्माररहितः कुष्ठरोगविवर्जितः ।
अन्यूनानतिरिक्ताङ्गो युवा लक्षणलक्षितः ॥ १४ ॥

अनन्यदेवताभक्तः शूद्रान्नपरिवर्जितः ।
ब्राह्मणानामलाभे [अलाभे क्, अभावे ख्, ग्] तु क्षत्रियो वैश्यशूद्रयोः ॥ १५

क्षत्रियाणामलाभे तु वैश्यः शूद्रस्य कल्पितः ।
कदाचिदपि शूद्रस्तु न चाचार्यत्वमर्हति ॥ १६ ॥

गृहस्थं ब्रह्मचर्यस्थं ककाराष्टकवर्जितम् ।
गुरुं कुर्वीत सततमुपवासव्रते रतम् ॥ १७ ॥



१३ । ब्राह्मण इति - त्रैवर्णिकानां यथायोगमाचार्यत्वं शूद्राणां
तदनर्हत्वञ्चाह । तत्र गुणान् ब्राह्मणस्तदादिवर्णचतुष्टयानां
ब्राह्मणालाभे क्षत्रियो वैश्य-शूद्रयोः क्षत्रियालाभे वैश्यः
शूद्रस्याचार्यत्वेऽधिकारी परं शूद्रस्य न क्वापि तत्राधिकार इति
वक्तुमुपक्रमते ब्राह्मण इत्यादिना अर्हतीत्यन्तेन । वक्ष्यमाणगुणसम्पन्नः
पञ्चरात्रविशारदो ब्राह्मणः सर्ववर्णानामाचार्य इत्यर्थः ।

१५ । अनन्येति । अनन्यदेवताभक्तः प्रतिष्ठाप्यदेवतोपासनानिरतः तन्त्रसारे
वैष्णवे वैष्णवो ग्राह्यः शैवे शैवश्च शक्तिके । इत्यादिना
तत्तद्देवोपासकानामेव तत्र तत्राचार्यत्वप्रशस्तेः । न तु देवान्तरद्वेषी तस्य
द्विजातिगुरुदेवानां निन्दकः इत्यादि - तृतीयपटलवचनेन गुरुत्वे निषेधात् ।

१७ । गृहस्थमित्यादि - ब्रह्मचर्यस्थं गृहस्थमित्यर्थः । गृहिणो ब्रह्मचर्यन्तु
तासामाद्याश्चतस्रस्तु निन्दितैकादशी तथेत्यादिमनुवचनप्रतिषिद्ध-
तत्तद्रात्रिवर्जनपुरःसरम् ऋतौ भार्यामुपेयात् ऋतुकालाभिगामी
स्यादित्यादिवचनपरिप्राप्तर्त्तुकालाभिगमनमित्यवधेयं निन्द्यास्वष्टासु
चान्यासु स्त्रियो रात्रिषु वर्जयन् । ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन् । इति
मनुवचनसंवादात् । न च गृहस्थं ब्रह्मचर्यस्थञ्चेति
वैयधिकरण्याभिप्रायकमिदमिति वाच्यं सर्वशास्त्रार्थवेत्ता च

प्। १०)

ऋजुस्वभावं मधुरस्मितपूर्वाभिभाषिणम् [मधुर-ख्, ग्, मधुरं क् ;
भाषिणं क्, भाषितं ख्, ग्] ।
एवंविधेन गुरुणा स्थापिते पुरुषोत्तमे ॥ १८ ॥

तद्देशाधिपतिर्यष्टा शिल्पिनः स्थापकादयः ।
प्रतिनन्दन्ति मुचिरं [सुचिरं ख्, ग्, स्थविरं (?) क्] सर्वे ते नात्र संशयः ॥ १९

इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे
(पञ्चरात्रस्वरूपनिरूपणं नाम्)

द्वितीयः पटलः ॥ २ ॥

आदितः श्लोकसङ्ख्या - ४८



गृहस्थो देशिको भवेत् । दैवे पित्रे च मिश्रे च गृहस्थो देशिको
भवेदित्यागमतत्त्वविलासधृतकुलार्णव-यामलवचनाभ्यां
गृहस्थानामेवाचार्यत्वेऽधिकारश्रवणात् शैवः सौरो
नैष्ठिकश्चेत्यादिवक्ष्यमाण-तृतीयपटलवचनेन स्वयमेव
नैष्ठिकानामत्रानधिकारप्रतिपादनाच्चेति ध्येयम् ।

१८ । भाषिणमिति ताच्छील्ये णिनिः स्मितपूर्वाभिभाषणस्वभावमित्यर्थः ।
भाषितमिति पाठे तु सोऽर्थो न घटते ।
प्। ११)