३४ भक्तप्रतिष्ठाविधिः

अथ चतुस्त्रिंशोऽध्यायः

श्रीभगवान् -

भक्तप्रतिष्ठां वक्ष्येऽहं विस्तरेण महामुने ।
दारुलोहशिलादीनि निर्मितानि यथाक्रमम् ॥ १ ॥

प्रतिष्ठायां विशेषेण भक्तानां च यथाक्रमम् ।
मण्डपं कल्पयित्वा तु देवाग्रे तु विशेषतः ॥ २ ॥

यथाभिमतदेशेषु मण्डपं कल्पयेत्पुरा ।
अङ्कुरार्पणपूर्वं तु तृतीयेऽहनि वा भवेत् ॥ ३ ॥

जलवासं तु सङ्कल्प्य प्रतिष्ठाशास्त्रचोदितम् ।
प्रदोषे अधिवास्यैव मलङ्कृत्य विशेषतः ॥ ४ ॥

प्। २०७)

लेपमृण्मयभित्तिस्तु * पटस्येवा च दर्पणे ? ।
स्नपनं कल्पयित्वा तु द्वारयागं समाचरेत् ॥ ५ ॥

कुम्भपूजासमायुक्तं प्रतिष्ठाशास्त्रचोदितम् ।
भक्तबिम्बस्य नामानि प्रणवादि नमोन्तकैः ॥ ६ ॥

मन्त्रमेतत्प्रकुर्वीत तत्तद्भावं च भावयेत् ।
अर्चयित्वा यथान्यायं प्रतिष्ठाशास्त्रचोदितम् ॥ ७ ॥

हविर्निवेदयेत् पश्चात् होमकर्म समाचरेत् ।
चतुष्कुण्डेषु वै कुर्यात् एककुण्डे तु पूर्ववत् ॥ ८ ॥

समिदाज्यचरूणां तु प्रत्येकं शतसङ्ख्यया ।
भक्तनाम्ना च मन्त्रेण स्वाहान्तेन च होमयेत् ॥ ९ ॥

तत्वहोमं प्रकुर्वीत तत्वन्यासं समाचरेत् ।
शान्तिहोमं ततः कृत्वा मधुरादि यथाक्रमम् ॥ १० ॥

हविर्निवेदयेत् पश्चात् कुम्भादीनि यथाक्रमम् ।
बलिं च सर्वतो दद्यात् चरुशेषं तु भक्षयेत् ॥ ११ ॥

मण्डपे शाययित्वा तु जठरं तु विशेषतः ।
प्रभाते विमले शुद्धे नित्यपूजां समाचरेत् ॥ १२ ॥

हविर्निवेदयेत् पश्चात् होमकर्म समाचरेत् ।
समिदाज्यचरूणां तु प्रत्येकं षोडशाहुतीः ॥ १३ ॥

प्। २०८)

पूर्णाहुतिं च जुहुयाच्छास्त्रदृष्टेन वर्त्मना ।
मुहूर्ते समनुप्राप्ते ब्राह्मणानामनुज्ञया ॥ १४ ॥

स्थापितं कुम्भमादाय प्रोक्षयेत् स्वस्वविद्यया ।
भक्तनामानि मन्त्राणि प्रणवादिनमोन्तकैः ॥ १५ ॥

स्थापयित्वा यथान्यायं षडङ्गन्यासमाचरेत् ।
शठकोपादिभक्तानां स्थापनं समुदाहृतम् ॥ १६ ॥

आचार्यं पूजयेत् पश्चात् यथावित्तानुसारतः ।
इति सम्यक् समाख्यातं भक्तमूर्तिप्रतिष्ठितम् ॥ १७ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां भक्तप्रतिष्ठानाम्
चतुस्त्रिंशोऽध्यायः ॥

अनिरुद्धसंहिता समाप्ता ॥