३३ विष्वक्सेनप्रतिष्ठाविधिः

अथ त्रयस्त्रिंशोध्यायः

भृगुः -

विष्वक्सेनस्य देवस्य प्रतिष्ठा विहिता पुरा ।
तद्विधानं विशेषेण वदानुग्रहकाम्यया ॥ १ ॥

श्रीभगवान् -

विष्वक्सेनप्रतिष्ठायाः लक्षणं वक्ष्यतेऽधुना ।
देवाग्रे मण्डपं कृत्वा यथापूर्वमशेषतः ॥ २ ॥

दिग्विदिग्गर्भिते वापि देशे मण्डपकल्पनम् ।
तृतीयेऽहनि वा कुर्यात् अङ्कुरार्पणपूर्वकम् ॥ ३ ॥

प्रतिष्ठादिवसात् पूर्वं जलवासं प्रकल्पयेत् ।
जलवासक्रियास्सर्वाः प्रतिष्ठाशास्त्रचोदिताः ॥ ४ ॥

नयनोन्मीलनं कृत्वा स्नपनादि समाचरेत् ।
शयनं कल्पयित्वा तु द्वारयागं समाचरेत् ॥ ५ ॥

वेदिमध्ये तु संस्थाप्य महाकुम्भं तु विन्यसेत् ।
विष्वक्सेनं समासाद्य कुम्भमध्ये विशेषतः ॥ ६ ॥

परिकुम्भैस्तथा दिक्षु इन्द्रादीनि यथाक्रमम् ।
अष्टमङ्गलसंयुक्तं पालिकाभिस्समर्चयेत् ॥ ७ ॥

इन्द्रादीनि चतुर्दिक्षु अग्निकुण्डं यथाक्रमम् ।
एककुण्डमथो वापि चतुरश्रं तु कल्पयेत् ॥ ८ ॥

प्। २०५)

उल्लेखनादि संस्कार मग्निबीजं समर्चयेत् ।
अष्टोत्तरशतं हुत्वा समिदाज्यचरू क्रमात् ॥ ९ ॥

विष्वक्सेनस्य मन्त्रेण आज्याहुतिं यथाक्रमम् ।
शान्तिहोमं ततः कृत्वा पूर्वोक्तेन विधानतः ॥ १० ॥

प्रायश्चित्ताहुतिं चैव पञ्चोपनिषदैश्शतम् ।
तिलशालियवोन्मिश्र माज्यमिश्रं च होमयेत् ॥ ११ ॥

विष्वक्सेनस्य मन्त्रेण अष्टोत्तरशताहुतीः ।
तत्र होमं प्रकुर्वीत तत्वन्यासं समाचरेत् ॥ १२ ॥

हविर्निवेदयेत् पश्चात् बलिदानपुरस्सरम् ।
मण्डपेशानभागे तु दर्भेषु परिशाययेत् ॥ १३ ॥

प्रभाते विमले शुद्धे नित्यपूजां समाचरेत् ।
कुम्भे सम्पूजयेद्देवान् निवेदनपुरस्सरम् ॥ १४ ॥

कुण्डपार्श्वे समासाद्य होमकर्म समाचरेत् ।
समिदाज्यचरूणां तु प्रत्येकं षोडशाहूतीः ॥ १५ ॥

प्रायश्चित्ताहुतीश्चैव तिलं शालिं शताष्टकम् ।
पूर्णाहुतिं ततो हुत्वा शास्त्रदृष्टेन वर्त्मना ॥ १६ ॥

मुहूर्ते समनुप्राप्ते ब्राह्मणानामनुज्ञया ।
स्थापितं कुम्भमादाय प्रोक्षयेद्देवमूर्धनि ॥ १७ ॥

प्। २०६)

विष्वक्सेनस्य मन्त्रस्य प्रणवादि नमोन्तकम् ।
न्यासं कृत्वा यथान्यायं षडङ्गन्यासमाचरेत् ॥ १८ ॥

हविर्निवेदयेत् पश्चात् देवभोज्यं निवेदयेत् ।
आचार्यं पूजयेत् पश्चात् यथावित्तानुसारतः ॥ १९ ॥

इति सङ्क्षेपतः प्रोक्तं विष्वक्सेनप्रतिष्ठितम् ॥

इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां विष्वक्सेनप्रतिष्ठा नाम
त्रयस्त्रिंशोऽध्यायः ॥