३२ बलिपीठप्रतिष्ठापनविधिः

अथ द्वात्रिंशोऽध्यायः

श्रीभगवान् -

बलिपीठप्रतिष्ठा च वक्ष्यतेऽद्य महामुने ।
प्रासादं गर्भगेहं च प्रतिमापीठमेव च ॥ १ ॥

शरीरमेव देवस्य स्थितमेव चतुष्टयम् ।
द्वारावरणदेवानां बलिपीठान्तमेव हि ॥ २ ॥

शिलालोहादिभिः कॢप्तैः छायामूर्तिः प्रतिष्ठिता ।
तत्तन्मन्त्रेण मन्त्रज्ञः प्रतिष्ठायां विशेषतः ॥ ३ ॥

देवस्याङ्गानुरूपस्य परिवारगणस्य च ।
शयनासनयानानि स्थानादीनि विशेषतः ॥ ४ ॥

सर्वसामान्यसंयुक्तं प्रतिष्ठायां विधीयते ।
प्रासादेष्वनुरूपेण अग्रतश्च विभोस्तथा ॥ ५ ॥

यथावकाशं वामे वा दक्षिणे वाथ पश्चिमे ।
मण्डपं कल्पयित्वा तु षोडशस्तम्भसंयुतम् ॥ ६ ॥

चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ।
द्वारकुम्भोपसंयुक्तं दर्भमालापरिष्कृतम् ॥ ७ ॥

मध्ये नवपदं वेदि मेकहस्तोच्छ्रिताननम् ।
परितश्च चतुर्दिक्षु चतुष्कुण्डं प्रकल्पयेत् ॥ ८ ॥

प्। २००)

अश्रं चापं तथा वृत्तं पद्मं पूर्वादितः क्रमात् ।
एककुण्डमथो वापि चतुरश्रं तु पूर्वके ॥ ९ ॥

मण्डपं कारयित्वा तु प्रतिष्ठोक्तविधानतः ।
प्रतिष्ठादिवसात्पूर्वं अङ्कुरार्पण माचरेत् ॥ १० ॥

तृतीयेऽहनि वा कुर्यात् कर्मारम्भदिनं प्रति ।
सद्यश्चेत्तण्डुलैः पुष्पैः बीजैर्वा साङ्कुरैस्तथा ॥ १९ ॥

प्रतिष्ठादिवसात्पूर्वं जलवासं प्रकल्पयेत् ।
दर्पणे कूर्चसंयुक्तं कुम्भेष्ववाह्य आचरेत् ॥ १२ ॥

जलद्रोण्यां कटाहे वा समुद्धृत्य माहाजलम् ।
एकरात्रमथो वापि अहोरात्र मथापि वा ॥ १३ ॥

घटिकात्रयसंयुक्तं जलमध्येऽधिवासयेत् ।
जलवासविधिञ्चैव प्रतिष्ठाशास्त्रचोदितम् ॥ १४ ॥

स्नपनं कल्पयित्वा तु एकाशीतिक्रमेण तु ।
नयनोन्मीलनं कृत्वा मृदालेपं ततः क्रमात् ॥ १५ ॥

शयनं कल्पयित्वा तु कूर्चे देवेन संस्मरेत् ।
वेदिमध्ये विनिक्षिप्य शालिं तत्र विनिक्षिपेत् ॥ १६ ॥

भारद्वयसमायुक्तं तदर्धं तण्डुलं तिलम् ।
तन्मध्ये स्थापयेत् कुम्भं करकं परिकुम्भकम् ॥ १७ ॥

प्। २०१)

अष्टमङ्गलसंयुक्तं पालिकाभिरलङ्कृतम् ।
बलिपीठं समासाद्य प्रपां चैव प्रकल्पयेत् ॥ १८ ॥

शिल्पिभिर्निर्मितं पीठं शास्त्रदृष्टेन वर्त्मना ।
शोधिते बलिपीठे तु क्षालयेत् शुद्धवारिणा ॥ १९ ॥

प्रज्वालितेर्दर्भपुञ्जैः पर्यग्निकरणे कृते ।
पञ्चगव्येन सम्प्रोक्ष्य स्नापयेन्नवकेन तु ॥ २० ॥

वाससा परिवेष्ट्याथ अर्चयेत्तु यथाक्रमम् ।
द्वारयागं ततःकुर्यात् मण्डलं परितःक्रमात् ॥ २१ ॥

वेदिकापश्चिमे भागे आसने तु समाविशेत् ।
प्राणायामं ततः कृत्वा मन्त्रन्यासं समाचरेत् ॥ २२ ॥

अर्घ्यादिकल्पनं कुर्यात् प्रोक्षयेद्वेदिकां तथा ।
मूलबेरे समावाह्य विष्णुपार्षददेवतान् ॥ २३ ॥

कुम्भमध्ये समावाह्य सकलीकृत्य भावयेत् ।
विष्णुपार्षदमन्त्रस्य न्यासं कृत्वा विशेषतः ॥ २४ ॥

अर्चयित्वा यथान्यायं इन्द्रादीन् परितो न्यसेत् ।
कुण्डपार्श्व समासाद्य होमकर्म समाचरेत् ॥ २५ ॥

उल्लेखनादि संस्कारं पूर्ववत्क्रमयोगतः ।
समिदाज्यचरूणां तु विष्णुपार्षदमन्त्रतः ॥ २६ ॥

प्। २०२)

प्रत्येकं शतमष्टौ च प्रायश्चित्ताहुतिं चरेत् ।
घृतेन मधुना दध्ना पायसेन यथाक्रमम् ॥ २७ ॥

चतुर्दिक्षु ततो हुत्वा समिदादि यथाक्रमम् ।
अश्वत्थोदुम्बरप्लक्षन्यग्रोधांश्च यथाक्रमम् ॥ २८ ॥

उक्ताभावे च सर्वत्र पालाशसमिधस्तथा ।
विष्णुपार्षदमन्त्रेण चतुष्कुण्डे यथाक्रमम् ॥ २९ ॥

प्राच्यां कुण्डे तु जुहुयात् तत्वहोमं समाचरेत् ।
हविर्निवेदयेत् पश्चात् बलिदानं समाचरेत् ॥ ३० ॥

मण्डपादिबहिर्वासात् बलिपीठान्तमेव च ।
भोजयेत् ब्राह्मणानां च द्वादशाष्टौ यथाबलम् ॥ ३१ ॥

मण्डपे शाययित्वा तु नृत्तवाद्यसमन्वितम् ।
प्रभाते सम्यगुत्थाय स्नात्वा जप्त्वा यथाविधि ॥ ३२ ॥

नित्यपूजां समारभ्य मण्डपे कुम्भमर्चयेत् ।
हविर्निवेदयेत् पश्चात् होमकर्म समाचरेत् ॥ ३३ ॥

समिदाज्यचरूणां तु प्रत्येकं षोडशाहुतीः ।

बलिं च सर्वतो दद्यात् तोरणोद्वासनं चरेत् ।
द्वारकुम्भं समादाय परिकुम्भे नियोजयेत् ॥ ३५ ॥

प्। २०३)

मुहूर्ते शोभने प्राप्ते आचार्यो ब्राह्मणैस्सह ।
स्थापितं कुम्भमादाय प्रादक्षिण्येन मन्दिरम् ॥ ३६ ॥

नृत्तगीतादिसकलवाद्यघोषेण घोषयेत् ।
पीठपार्श्वं समासाद्य पुण्याहं तत्र कारयेत् ॥ ३७ ॥

अर्चयेत् गन्धपुष्पाद्यैः बलिपीठे यथाक्रमम् ।
कूर्चेन तोयमादाय प्रोक्षयेत् पीठमूर्धनि ॥ ३८ ॥

विष्णुपारिषदीशस्य भावयेद्बलिपीठके ।
परिकुम्भेन सम्प्रोक्ष्य अष्टमङ्गलदर्शनम् ? ॥ ३९ ॥

हविर्निवेदयेत् पश्चात् षडङ्गन्यासमाचरेत् ।
बलिं च सर्वतो दद्यात् बलिपीठे निवेशयेत् ॥ ४० ॥

विष्णुपारिषदीशस्य बलिपीठे विभावयेत् ।
देवेशस्येशभूतस्य विष्णुपारिषदीशकम् ॥ ४१ ॥

आचार्यं पूजयेत् पश्चात् ऋत्विजामपि दक्षिणाम् ? ।
इति सङ्क्षेपतः प्रोक्ता प्रतिष्ठा बलिपीठके ॥ ४२ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
बलिपीठप्रतिष्ठापनविधिर्नाम द्वात्रिंशोऽध्यायः ॥
प्। २०४)