३० प्रायश्चित्तविधिः

अथ विंशोऽध्यायः

श्रीभगवान् -

प्रायश्चित्तमथो वक्ष्ये अवधारय साम्प्रतम् ।
शुद्धं त्रिविधमाख्यातं वा"मनःकायकर्मणाम् ॥ १ ॥

वाक्च्छुद्धिश्च ऋतं प्रोक्तं मानसं विष्णुचिन्तनम् ।
कायिकं कर्म देवस्य त्रिविधं शुद्धमुच्यते ॥ २ ॥

साधके स्नानहीने तु सर्वं निष्फलतां भवेत् ।
मन्त्रस्नानमशक्तश्चेत् तीर्थतोयं तु वा पिबेत् ॥ ३ ॥

सन्ध्योपासनहीने तु प्राणायामशतं जपेत् ।
नित्यपावकहीने तु द्विजभोजनमाचरेत् ॥ ४ ॥

शास्त्रमन्त्रक्रियाहीने सर्वकार्यमनर्थकम् ।
तस्मात् सर्वप्रयत्नेन कारयेत् शास्त्रवर्त्मना ॥ ५ ॥

मन्त्रहीने तु विप्रेन्द्र साधकस्तु विनश्यति ।
द्रव्यहीने विशेषेण तत्कर्ता नाशयेद्ध्रुवम् ॥ ६ ॥

क्रियाहीने द्विजश्रेष्ठ तद्ग्रामो निधनो भवेत् ।
द्रव्यमन्त्रक्रियायुक्तं तत्कार्यं सफलं भवेत् ॥ ७ ॥

द्रव्याणामप्यलाभे तु मन्त्रैरेव समर्चयेत् ।
द्रव्यालाभे तु पुष्पं स्यात् पूष्पालाभे तु चेतसा ॥ ८ ॥

प्। १९१)

श्रद्धाभक्तिविहीने तु सर्वं वै निष्फलं भवेत् ।
मन्डपे गर्भगेहे तु वल्मीकादिसमुद्भवे ॥ ९ ॥

तद्देशं खातयित्वा तु मृद्भिरन्यैः प्रपूरयेत् ।
शान्तिहोमं ततः कृत्वा तिलैराज्यैर्विशेषतः ॥ १० ॥

अग्निदाहे विशेषेण पुनस्सन्धानमेव च ।
बिम्बे दोषसमायुक्ते पुनरुत्पादयेत् सुधीः ॥ ११ ॥

प्रतिष्ठां पूर्ववत् कृत्वा ततः पूजां समाचरेत् ।
चोराद्युपहते तत्र तथैव सम्यगाचरेत् ॥ १२ ॥

नद्यादिजलवेगेन चलनं सम्भवेद्यदि ।
स्थापयेद्देवदेवेशं बिम्बञ्चान्यत्र देशिकः ॥ १३ ॥

वत्सरत्रितयादूर्ध्वं ग्रामादी * * चालयेत् ? ।
चालयेद्यदि सम्मोहात् राजराष्ट्रधनक्षयः ॥ १४ ॥

तस्मात् सर्वप्रयत्नेन चलनं न तु कारयेत् ।
आवरणाच्चलनाच्च राजा चैव विनश्यति ॥ १५ ॥

प्रासादगोपुरादीनां पतने चलने सति ।
स्नपनं शान्तिहोमं च चतुःस्थानार्चनं तथा ॥ १६ ॥

एकाहञ्च त्र्यहञ्चैव पञ्चसप्तनवाहकम् ।
गुरुलाघवयोगेत्वा सर्वे चैव समाचरेत् ? ॥ १७ ॥

प्। १९२)

आदित्यस्पर्शने वापि प्रोक्षणेन विनश्यति ।
उदक्या स्पर्शने चापि स्नपनं सम्यगाचरेत् ॥ १८ ॥

दूषिते श्वसृगालाद्यैश्शान्तिहोमं समाचरेत् ।
क्षयकुष्ठाद्यपस्मारस्पर्शिते देवबिम्बके ॥ १९ ॥

एकाशीतिक्रमेणैव स्नपनं द्विजमोजनम् ।
दीपपूजाविहीने तु रात्रौ द्विगुणमर्चनम् ॥ २० ॥

एकरात्रविहीने तु परे द्विगुणमाचरेत् ।
द्वितीयदिवसान्ते तु प्रायश्चित्तं विधीयते ॥ २१ ॥

स्नपनं द्वादशघटैश्शान्तिहोमं समाचरेत् ।
वत्सरादूर्ध्वतो विप्र प्रतिष्ठां सम्यगाचरेत् ॥ २२ ॥

चतुर्थाहात्समारभ्य यावन्मासावधि द्विज ।
पूजाहीने तु विप्रेन्द एवमादिक्रमात् चरेत् ॥ २३ ॥

पुण्याहं शान्तिहोमं च स्नपनं द्विजभोजनम् ।
पुनःपूजाविधिं चैव ततः प्रभृति नित्यशः ॥ २४ ॥

मासद्वयविहीने तु सम्प्रोक्षणविधिं चरेत् ।
तदूर्ध्वं तु च विप्रेन्द्र चतुःस्थानार्चनं चरेत् ॥ २५ ॥

सप्ताष्टमासादूर्ध्वे तु तिलहोमं समाचरेत् ।
वत्सरादूर्ध्वतो विप्र प्रतिष्ठां सम्यगाचरेत् ॥ २६ ॥

प्। १९३)

एवमादिक्रियाहीने सर्वकर्मासुरं भवेत् ।
जलवासाक्षिमोक्षं च वर्जयित्वा समाचरेत् ॥ २७ ॥

कर्षणादि क्रियाहीने सर्वकर्मासुरं भवेत् ।
प्रवेशबलिहीने तु तत्कर्म विफलं भवेत् ॥ २८ ॥

शङ्कुस्थापनहीने तु स्थाननाशो भवेद्ध्रुवम् ।
बीजावापनहीने तु बीजनाशो भवेद्भुवि ॥ २९ ॥

गर्भन्यासविहीने तु तत्क्षेत्रं शून्यतां वहेत् ।
अङ्कुरार्पणहीने तु अनर्थमाशुभावहम् ॥ ३० ॥

जलवासविहीने तु कर्तृनाशो भवेद्ध्रुवम् ।
अक्षिमोक्षविहीने तु अक्षिनाशो भवेद्ध्रुवम् ॥ ३१ ॥

स्नपनस्य विहीने तु वास्तुहानिर्भविष्यति ।
होमकर्मविहीने तु सर्वकार्यं विनश्यति ॥ ३३ ॥

मण्डलाराधने हीने तत्कर्म विफलं भवेत् ।
स्थापनस्य विहीने तु पुनःस्थापनमाचरेत् ॥ ३४ ॥

कर्माण्यादौ प्रतिष्ठार्थं यः कुर्यात् देशिकोत्तमः ।
स एव सकलं कर्म कुर्यात् प्राज्ञोऽपि नेतरः ॥ ३४ ॥

आचार्यस्य च साङ्कर्ये राजा राष्ट्रं विनश्यति ।
नद्यादिजलवेगेन चालनं यदि सम्भवेत् ॥ ३५ ॥

प्। १९४)

नगरग्रामधामादि निर्बाधेऽन्यत्र कल्पयेत् ।
कल्पनं पूर्ववत्कुर्यात् मानादि द्विजसत्तम ॥ ३६ ॥

बिम्बं च तादृशं कुर्यात् ग्रामादीनपि तादृशः ।
निमित्तं पूर्वमालोक्य सुनिमित्ते तु कारयेत् ॥ ३७ ॥

दुर्निमित्ते तु सम्प्राप्ते शान्तिहोमं समाचरेत् ।
सौदर्शनेन मन्त्रेण नारसिंहेन वा भवेत् ॥ ३८ ॥

वास्तुपूजां ततः कृत्वा पायसान्नबलिं क्षिपेत् ।
द्विजानां भोजनं कुर्यात् शङ्कुस्थापन माचरेत् ॥ ३९ ॥

शङ्को पूर्वापराभागे छायया बिन्दुमालिखेत् ।
छायाग्रवशेनैव दिक्परिच्छेदमाचरेत् ॥ ४० ॥

खननञ्च ततः कृत्वा सिकतैः परिपूरयेत् ।
हस्तपादैर्दृढीकृत्य तोयैस्सिञ्चेच्छिलोपरि ॥ ४१ ॥

मानाङ्गुलि प्रमाणेन धामादि परिकल्पयेत् ।
उपपीठयुतं वापि अधिष्ठाअं तु कल्पयेत् ॥ ४२ ॥

पट्टिकोर्ध्वे विशेषेण गर्भन्यास मथाचरेत् ।
ग्रामस्य ग्राममध्ये ? वा नगरे च तथैव च ॥ ४३ ॥

एतत्कर्मविहीने तु तत्कर्म विफलं भवेत् ।
तस्मात् सर्वप्रयत्नेन तत्तत्कर्म समाचरेत् ॥ ४४ ॥

प्। १९५)

द्विजानां भोजनेनैव सर्वं सम्पूर्णतां नयेत् ।
पाञ्चरात्रोक्तमार्गेण ग्रामादि परिकल्पयेत् ॥ ४५ ॥

पाञ्चरात्रप्रभावेण सर्वदोषो विनश्यति ।
कर्षणादिक्रियास्सर्वाः पाञ्चरात्रेण कारयेत् ॥ ४६ ॥

नित्यक्रियाविहीने तु पवित्रारोपणं चरेत् ।
पवित्रारोपणे हीने मासपूजा विनश्यति ॥ ४७ ॥

मासपूजाविहीने तु नित्यपूजा विनश्यति ।
नित्यपूजाविहीने तु ग्रामनाशो भविष्यति ॥ ४८ ॥

नित्यपूजाविहीने तु सर्वशान्तिं समाचरेत् ।
पञ्चाहञ्चत्र्यहञ्चैव सप्ताहञ्च नवाहकम् ॥ ४९ ॥

आदौ सङ्कल्प्य विप्रेन्द्र चतुःस्थानार्चनं चरेत् ।
स्नपनं प्रत्यहं कुर्यात् द्विजभोजनमेव च ॥ ५० ॥

दक्षिणा सम्प्रदाने तु सर्वदोषो विनश्यति ।
दानेन दह्यते सर्वं तस्माद्दानं विशिष्यते ॥ ५१ ॥

धर्मेण लभ्यते सर्वं तस्माद्धर्मं विशिष्यते ।
दानधर्मद्वयाच्चैव विष्णोराराधनेन च ॥ ५२ ॥

लभ्यते हि विशे।एण नात्र कार्या विचारणा ॥

इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां प्रायश्चित्तविधिर्नाम
त्रिंशोऽध्यायः ॥
प्। १९६)