अथ ऊनत्रिंशोऽध्यायः
श्रीभगवान् -
विशेषयजनं वक्ष्ये समासादवधारय ।
दुर्निमित्ते तु सञ्जाते तथा दुःस्वप्नदर्शने ॥ १ ॥
अनावृष्टिभवे चैव अतिवृष्टिभवे तथा ।
ग्रहयुद्धे च सञ्जाते कुहूदोषसमायुते ॥ २ ॥
ग्रहदोषे समुत्पन्ने तथा राजभये बुधः ।
परचक्रप्रवेशे तु व्याधीनां पीडने तथा ॥ ३ ॥
एवं दोषस्य शान्त्यर्थं केशवाराधनं चरेत् ।
सङ्कल्पं पूर्ववत्कृत्वा कौतुकं बन्धयेद्बुधः ॥ ४ ॥
शुक्रवारे शुभदिने स्नपनं सम्यगाचरेत् ।
घटैस्सप्तदशैर्वापि द्वादशैर्वा तथा नवैः ॥ ५ ॥
एकाङ्गं वा त्र्यङ्गं वाथ पञ्चाङ्गं वापि कारयेत् ।
एकाङ्गञ्चैव क्षीरं स्याद्धृतं वा गन्धमेव वा ॥ ६ ॥
पत्रं पुष्पं फलञ्चैव त्र्यङ्गं तत्परिकीर्तितम् ।
पञ्चाङ्गं पञ्चगव्यं च पञ्चामृत मथापि वा ॥ ७ ॥
दधिक्षीरं मधुचैव शर्करासर्पिरेव च ? ।
पञ्चामृतमिति प्रोक्तं तन्त्रेऽस्मिन् परमेष्ठिना ॥ ८ ॥
प्। १८८)
एतैस्स्नानं ततः कुर्यात् पूजायां सम्पुटीभवेत् ।
चूर्णस्नानं ततः कृत्वा मन्त्रस्नानं समाचरेत् ॥ ९ ॥
अनुवाकत्रयञ्चैव भूसूक्त्या सुक्तमेव च ।
द्वादशं वारमावृत्य स्नपनं सम्यगाचरेत् ॥ १० ॥
एकं त्रयं तथावापि पञ्चसप्तनवाथवा ।
यथाविधि समभ्यर्च्य महाहविर्निवेदयेत् ॥ ११ ॥
श्रीभगवान् -
सम्प्रोक्षणविधिं वक्ष्ये तथाचैवावधारय ।
अदीक्षितस्पर्शने च अस्पृश्यस्पर्शने तथा ॥ १२ ॥
जनने मरणे चैव उदक्या चैव दूषिते ।
चण्डालाद्यैश्च विप्रेन्द्र श्वसृगालखरादिभिः ॥ १३ ॥
स्पर्शने मन्दिरे चैव देवबिम्बे तथा भवेत् ।
पूजने चिरलुप्ते च खननेचाग्निदाहने ॥ १४ ॥
अन्तस्स्रवे विशेषेण गर्भगेहे समन्ततः ।
दूषिते चैव जनिते युद्धे च जनसङ्कुले ? ॥ १५ ॥
चोरादिभिस्समायुक्ते चलने पतनेऽपि वा ।
तन्त्राणां सङ्करे चैव तथा शास्त्रस्य सङ्करे ॥ १६ ॥
अमन्त्रपूजने चैव तथा त्वस्थानपूजने ।
अनाचारार्चने चैव तथा विधुरपूजने ॥ १७ ॥
प्। १८९)
काणार्चने विशेषेण कुष्ठापस्मारगर्हितैः ।
स्पर्शने देवबिम्बे तु मन्दिरे दूषिते तथा ॥ १८ ॥
सम्प्रोक्षणनिमित्ते तु प्रोक्षणं सम्यगाचरेत् ।
अङ्कुरं कौतुकं चैव स्नपनं कुम्भपूजनम् ॥ १९ ॥
चतुस्स्थानार्चनञ्चैव तथावै शयनक्रिया ।
निवेदनं बलिञ्चैव कुम्भप्रोक्षणमेव च ॥ २० ॥
सद्यश्च सकलं कुर्यात् शास्त्रदृष्टेन वर्त्मना ।
दिने बहुविशेषेण पूर्वेद्युश्चाङ्कुरं भवेत् ॥ २१ ॥
कौतुकं च तथा प्रोक्तं तथा वै शयनक्रिया ।
दक्षिणासम्प्रदानं च उत्सवं तदनन्तरम् ॥ २२ ॥
द्विजानां भोजनं चैव धान्यदानं तथैव च ।
इति सङ्क्षेपतः प्रोक्तः सम्प्रोक्षणविधिः परम् ॥ २३ ॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां सम्प्रोक्षणविधिर्नाम
ऊनत्रिंशोऽध्यायः ॥
प्। १९०)