२८ तिलदानविधिः

अथ अष्टाविंशोऽध्यायः

श्रीभगवान् -

पुष्ये मासि च मासर्क्षे रजनीस्नानमाचरेत् ।
अङ्कुरं कौतुकं कृत्वा मण्डपालङ्कृतिं तथा ॥ १ ॥

द्वारपूजाविधिं चैव चतुस्स्थानार्चनं तथा ।
स्नपनं शयनं चैव अधिवासं तथा भवेत् ॥ २ ॥

सकलं पूर्ववत्कृत्वा पूर्वकर्मवदाचरेत् ।
रजनीसारमादाय पेषयेद्गन्धसंयुतम् ॥ ३ ॥

पात्रे पात्रे विनिक्षिप्य पूर्ववच्चाधिवासयेत् ।
अधिवासनवेलायामाकण्ठाच्चरणावधि ॥ ४ ॥

कुम्भमण्डलकुण्डेषु मुष्टिमात्रेण लेपयेत् ।
ततः प्रभाते विमले गन्धवत् परिलेपयेत् ॥ ५ ॥

पूजया सम्पुटीकुर्यात् लेपनं सम्यगाचरेत् ।
प्रथमं नाभिमानं तु द्वितीयं कटिमानकम् ॥ ६ ॥

प्। १८६)

तृतीयं जानुमानं तु चतुर्थं पादमानकम् ।
देवीभ्यां नाभिमानं तु प्रभापीठं विलेपयेत् ॥ ७ ॥

कुम्भमण्डलकुण्डेषु प्रथमं मुष्टिमानकम् ।
द्वितीयं द्विगुणं चैव तृतीयं त्रिगुणं भवेत् ॥ ८ ॥

तुर्यं चतुर्गुणं प्रोक्तं मूलबिम्बे तु पूर्ववत् ।
अन्येषु सर्वकार्येषु तथा शेषेषु पूर्ववत् ॥ ९ ॥

अन्ते महोत्सवं कुर्यात् संस्थाने सन्निवेशयेत् ।
मासार्धे न तु पश्चार्धे तिलदानं समाचरेत् ॥ १० ॥

अङ्कुरादिक्रियास्सर्वाः पूर्ववत् सकलं भवेत् ।
तिलदानं ततःकृत्वा ब्राह्मणेभ्यो विशेषतः ॥ ११ ॥

तिलमिश्रितपिण्डेन पितृदानं समाचरेत् ।
माघमासे तु मासर्क्षे पितृपूजां समाचरेत् ॥ १२ ॥

पात्रालाभे विशेषेण पाटलैः परिपूजयेत् ।
पत्रं पुष्पं फलं तोयं गन्धालेपं तु पूर्ववत् ॥ १३ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां तिलदानविधिर्नाम
अष्टाविंशोऽध्यायः ॥
प्। १८७)