२६ (नीराजनम्) अध्ययनोत्सवविधिः

अथ षड्विंशोऽध्यायः

श्रीभगवान् -

नीराजनविधिं वक्ष्ये देवदेवस्य शार्ङ्गिणः ।
कृत्तिकादिवसाद्ब्रह्मन् न परेद्युर्निशामुखे ॥ १ ॥

देवदासीगणान् सर्वान् सर्वालङ्कारशोभितान् ।
महानसद्वारमासाद्य दीपान्प्रज्वालयेद्बहून् ॥ २ ॥

सर्वे पात्रकरा विप्र गच्छेयुर्देवसन्निधौ ।
श्रेणिबद्धास्तथा सर्वे गीतवाद्यपुरस्सरम् ॥ ३ ॥

मण्डपं समलङ्कृत्य आनयेन्मण्डपान्तरे ।
औत्सवं बिम्ब मादाय विष्टरे सन्निवेशयेत् ॥ ४ ॥

श्रीभूमिसहितं देव मलङ्कारैरलङ्कृतम् ।
महानृत्तं दर्शयित्वा देवं नीराजनं चरेत् ॥ ५ ॥

सहस्रं वा तदर्धं वा तदर्धं वापि देशिकः ।
शतं वापि तदर्धं वा तदर्धं वापि कारयेत् ॥ ६ ॥

सर्वपात्रकराश्चैव तिष्ठेयुर्देवसन्निधौ ।
आचार्यस्समलङ्कृत्य उत्तरीयोष्णीपभूषणैः ॥ ७ ॥

देवस्य दक्षिणे पार्श्वे आसने तु समाविशेत् ।
अर्घ्यादि पात्राण्यभ्यर्च्य प्राणायामपुरस्सरम् ॥ ८ ॥

प्। १७९)

आत्मार्चनं ततः कृत्वा देवदेवं समर्चयेत् ।
दीपार्चनं ततः कृत्वा वेदान् संश्रावयेद्बुधः ॥ ९ ॥

दीपकुम्भं समादाय आधारोपरि विन्यसेत् ।
दीपकुम्भं समभ्यर्च्य देवमिष्ट्वा विशेषतः ॥ १० ॥

षडङ्गन्यासं कृत्वा तु भ्रामयेद्देवमूर्धनि ।
दक्षिणं पादमारभ्य वामपादं तु पश्चिमम् ॥ ११ ॥

वाद्यमङ्गलसंयुक्तं गीतमङ्गलसंयुतम् ।
योषित्करात्समादाय पात्रमादाय देशिकः ॥ १२ ॥

भ्रामयेद्देवदेवस्य मुखमध्ये विसर्जयेत् ।
पात्रे पात्रे विशेषेण अर्घ्यपुष्पैस्समर्चयेत् ॥ १३ ॥

पुनः पात्रं समादाय प्रादक्षिण्येन मन्दिरम् ।
गीतवाद्यादिसंयुक्तं बलिपीठाद्बहिः क्षिपेत् ॥ १४ ॥

नृत्तादि दर्शयन् दास्यः देवस्य पुरतःस्थितः ।
पूजयित्वा च देवेश मपूपादि निवेदयेत् ॥ १५ ॥

उत्सवं बिम्बमारोप्य याने नीत्वा प्रदक्षिणम् ।
अन्तरावरणमारभ्य वीथ्यावरणपश्चिमम् ॥ १६ ॥

शुद्धस्नानं ततः कृत्वा गर्भगेहे निवेशयेत् ।
नीराजनविहीने तु सर्वकर्मासुरं भवेत् ॥ १७ ॥

प्। १८०)

अध्ययनोत्सवः -

अध्ययनोत्सवं वक्षे सङ्क्षेपेण मया श्रुतम् ।
पूजनं त्रिविधं प्रोक्तं तन्त्रेऽस्मिन् परमेष्ठिना ॥ १८ ॥

मानसं कायिकञ्चैव वाचिकं त्रिविधं भवेत् ।
मानसं ध्यानमित्युक्तं कायिकं कर्म उच्यते ॥ १९ ॥

वाचिकं स्तोत्रमित्युक्तं तन्त्रेऽस्मिन् विष्णुना पुरा ।
वेदान्नास्त्यपरं स्तोत्रं तस्माद्वेदांस्तु श्रावयेत् ॥ २० ॥

अङ्कुरं पूर्वात्कृत्वा पश्चात्प्रतिसरं बुधः ।
मार्गशीर्षमासे तु एकादश्या मुपक्रमेत् ॥ २१ ॥

दशम्यां कौतुकं कुर्यात् तत्पूर्वे चाङ्कुरार्पणम् ।
सङ्कल्पं पूर्वतः कृत्वा पञ्चाहं दशाहं तु वा ॥ २२ ॥

मण्डपे देवमारोप्य भक्तिबिम्बं निवेशयेत् ।
तथा भक्तजनैर्युक्तं वेदान् संश्रावयेत्सुधीः ॥ २३ ॥

महाहविर्निवेद्याथ अपूपादि निवेदयेत् ।
यात्रापूर्वं ततः कुर्यात् वाहनानि तु पूर्ववत् ॥ २४ ॥

समाप्तिदिवसे प्राप्ते विष्वक्सेनं समर्चयेत् ॥

इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां (नीराजन)
अध्ययनोत्सवविधानं नाम षड्विंशोध्यायः ॥
प्। १८१)