२२ दमनारोपणविधिः

अथ द्वाविंशोऽध्यायः

श्रीभगवान् -

मासोत्सवविधिं वक्ष्ये समासाच्छृणु साम्प्रतम् ।
मासि मासि विशेषेण द्वादश्यां विषुवद्वये ॥ १ ॥

नक्षत्रेषु च सर्वेषु श्रवणं चोत्तमं भवेत् ।
तिथीनां द्वादशी श्रेष्ठा वाराणां शुक्रवासरम् ॥ २ ॥

योगानान्तु व्यतीपातं करणानान्तु विष्टिकम् ।
मासि मासि विशेषेण द्वादश्यान्तु समर्चयेत् ॥ ३ ॥

अमावास्यां पौर्णमास्यां मासार्धे वा समर्चयेत् ।
द्वादश्यान्तु विशेषेण मण्डलाराधनं चरेत् ॥ ४ ॥

अमावास्यां विशेषेण कलशैस्स्नपनं चरेत् ।
घृतं वा क्षीरमेव स्यान्नालिकेरजलं तु वा ॥ ५ ॥

उक्तद्रव्यमथो वापि यजमानेच्छया गुरुः ।
श्रवणे तु विशेषेण चतुस्स्थानार्चनं चरेत् ॥ ६ ॥

मानसक्षेत्रके ब्रह्मन् पत्रपुष्पादिकं न्यसेत् ।
माघमासे तु माघर्क्षे दमनारोपणं चरेत् ॥ ७ ॥

फल्गुने मासि ऋक्षे च तुलस्यारोपणं चरेत् ।
चैत्रे तु मासे ऋक्षे तु चम्पकाराधनं चरेत् ॥ ८ ॥

प्। १४२)

वैशाखमासे ऋक्षे च शतपत्रेण पूजयेत् ।
ज्येष्ठमासे विशेषेण फलोत्सवविधिं चरेत् ॥ ९ ॥

अनूराधे तु विप्रेन्द्रामावास्यां श्रवणेऽपि वा ।
स्नापयेत्सहस्रकलशैः तदर्धैर्वा तदर्धकैः ॥ १० ॥

अष्टोत्तरशतैर्वापि तन्न्यूनं न समाचरेत् ।
उक्तद्रव्ययुतैर्वापि केवलं क्षीरमेव वा ॥ ११ ॥

घृतं वा केवलं विप्र नालिकेरजलं तु वा ।
आषाढे मासि मासर्क्षे सहकारफलैर्यजेत् ॥ १२ ॥

शयनं कारयेद्विप्र चातुर्मास्ये तु पूर्वतः ।
श्रवणे मासि मासर्क्षे पूजयेत्कदलीफलैः ॥ १३ ॥

तन्मासे तु द्वादश्यां पवित्रारोहणं चरेत् ।
जयन्त्युत्सवमष्टम्यां श्रावणे कृष्णपक्षके ॥ १४ ॥

भादपदे मासि ऋक्षे पङ्कजाराधनं चरेत् ।
आश्वयुजे मासि ऋक्षे श्वेतपद्मैस्समर्चयेत् ॥ १५ ॥

तन्मासे तु विशेषेण शयनोत्थापनं चरेत् ।
कार्तिके मासि मासर्क्षे दीपारोहणमाचरेत् ॥ १६ ॥

तन्मासे सकले विप्र वृश्चिकाराधनं चरेत् ।
मार्गशीर्षे मासि ऋक्षे गन्धालेपनमाचरेत् ॥ १७ ॥

प्। १४३)

तन्मासे पूर्वपक्षे तु वेदाध्ययन माचरेत् ।
अध्ययनोत्सवं कुर्याद्दश वा सप्तकं भवेत् ॥ १८ ॥

यद्वा पञ्च दिनं विप्र त्र्यहं वाथ समाचरेत् ।
विंशद्दिनमथोवापि देवान् सर्वांश्च श्रावयेत् ॥ १९ ॥

ब्राह्मणैर्मूर्तिमन्त्रैश्च वेदपारगतैरपि ।
उत्सवं कारयेन्नित्यं वाहनं निजपूर्वकम् ॥ २० ॥

कुम्भमण्डलहोमं च वर्जयेत्तत्र कर्मणि ।
पुष्ये मासि च मासर्क्षे हरिद्रालेपनं चरेत् ॥ २१ ॥

तन्मासे तु विशेषेण वनभोजन माचरेत् ।
तिलदानं माघमासे पितॄणां पिण्डमाचरेत् ॥ २२ ॥

मासकर्म इति प्रोक्तं तद्विधानं प्रचक्षते ।
पत्रपुष्पविधौ ब्रह्मन् पवित्रारोपणं चरेत् ॥ २३ ॥

फलपूजादिकं विप्र पूरणं सम्यगाचरेत् ।
गन्धपूजाविधौ ब्रह्मन् लेपनं सम्यगाचरेत् ॥ २४ ॥

प्रथमञ्चाङ्कुरं वापि मण्डपालङ्कृतिं तथा ।
शुद्धस्नानं तृतीयञ्च चतुर्थे द्वारपूजनम् ॥ २५ ॥

चतुस्स्थानार्चनञ्चैव पञ्चमं समुदाहतम् ।
षष्ठं कौतुकबिम्बं स्यात्ततश्शयनकल्पनम् ॥ २६ ॥

प्। १४४)

शयनाधिवासने चैव रक्षा कार्या ततः परम् ।
प्रातस्स्नानं ततः कुर्यात् कलशैस्स्नपनं भवेत् ॥ २७ ॥

द्वारपूजाविधानञ्च चतुस्स्थानार्चनं तथा ।
निवेदनं बलिञ्चैव भूषणारोपणं तथा ॥

भूषणारोपणं विप्र पूजायास्सम्पुटं भवेत् ।
वेदघोषं ततः श्लोकदानं नीराजनं तथा ॥ २८ ॥

गीतं वाद्यं तथा नृत्तं होमद्रव्यबलिर्भवेत् ।
यात्रोत्सवं ततः कुर्यात् तत्प्रसादप्रदापनम् ॥ २९ ॥

पूजावरोहणं चैव पुनः पूजां समाचरेत् ।
शुद्धस्नानं ततः कृत्वा तथास्थाननिवेशनम् ॥ ३० ॥

दक्षिणां सुप्रदानञ्च इति कर्मक्रमं विदुः ।
एतत्कर्मक्रमेणैव सर्वकर्माणि कारयेत् ॥ ३१ ॥

प्रथमं नाभिमानञ्च द्वितीयञ्चोरुमध्यगम् ।
तृतीयं जानुमानन्तु चतुर्थं पादमानकम् ॥ ३२ ॥

पुष्पपत्रपवित्रेषु प्रमाणं परिकीर्तितम् ।
कुम्भमण्डलकुण्डेषु एतान्मानमुदाहृतम् ॥ ३३ ॥

स्थूलमानं तथाप्रोक्तं देवीभ्यां नाभिमानकम् ।
स्थूलया सङ्गबिम्बानां नाभिमानं प्रशस्यते ॥ ३४ ॥

प्। १४५)

भूषणायुधशक्तीनां तालमानं प्रशस्यते ।
पूरणेन विशेषेण मानं वक्ष्यामि सुव्रत ॥ ३५ ॥

प्रथमं पीठमानन्तु द्वितीयं जानुमानकम् ।
तृतीयमूरुमध्यस्थं चतुर्थं कटिमानकम् ॥ ३६ ॥

कुम्भमण्डलकुण्डेषु शिवमानेन कल्पयेत् ।
शिवं शिवद्वयञ्चैव बिशिवञ्च चतुश्शिवम् ॥ ३७ ॥

केवलं प्रस्थमानेन उपकुम्भे प्रपूरयेत् ।
मूलबिम्बे विशेषेण पूर्ववन्मानमीरितम् ॥ ३८ ॥

वासुदेवादिभिर्मन्त्रैः पूजयेद्देशिकः स्वयम् ।
बलिकर्मणि विप्रेन्द्र मुष्टिमानं प्रचक्षते ॥ ३९ ॥

लेपने तु विशेषेण मानं वक्ष्यामि सुव्रत ।
आकण्ठस्थानपर्यन्तं प्रथमं परिलेपयेत् ॥ ४० ॥

स्थानान्नाभ्यवधि ब्रह्मन् द्वितीयं परिलेपयेत् ।
नाभ्या कट्यवधि ब्रह्मन् तृतीयं परिचक्षते ॥ ४१ ॥

अक्षात्पादावधि यावत् चतुर्थं परिलेपयेत् ।
आकण्ठान्नाभिपर्यन्तं देवीभ्यां मानमीरितम् ॥ ४२ ॥

पूरणे पादमानं स्यात् अन्येषां पादमानकम् ? ।
दमनारोपणात्पूर्वमङ्कुरानर्पयेत् सुधीः ॥ ४३ ॥

प्। १४६)

मण्डपं समलङ्कृत्य पूर्वेद्युश्च निशामुखे ।
कुम्भमण्डलकुण्डञ्च कारयेद्विधिचोदितम् ॥ ४४ ॥

चक्राब्जमण्डलं कृत्वा भद्रकाख्यमथापि वा ।
यन्त्रमण्डलकं वापि यजमानेच्छया गुरुः ॥ ४५ ॥

द्वारादियजनं कुर्यात् पुण्याहं वाचयेत्सुधीः ।
स्नपनं कारयेद्धीमान् क्षीरादिद्वादशे घटे ॥ ४६ ॥

तद्बेरं समलङ्कृत्य विष्टरे सन्निवेशयेत् ।
मण्डपस्य तु पाश्चात्ये कुम्भे सम्पूजयेद्धरिम् ॥ ४७ ॥

मण्डले पूजयेद्देवं नारायणमनामयम् ।
बिम्बमभ्यर्चयेद्धीमान् होमकर्म समाचरेत् ॥ ४८ ॥

निवेदनं ततः कृत्वा तत्तत्स्थाने बलिं क्षिपेत् ।
कौतुकं तण्डुले न्यस्य नीत्वा धामप्रदक्षिणम् ॥ ४९ ॥

भेरीनाद समायुक्तमाधाओपरि विन्यसेत् ।
देवमभ्यर्च्य चार्घ्याद्यैः बन्धयेद्दक्षिणे करे ॥ ५० ॥

पुनः पूजां ततः कृत्वा अपूपादि निवेदयेत् ।
दमनाङ्कुरमाहृत्य क्षालयेच्छुद्धतोयकैः ॥ ५१ ॥

कदलीत्वविशेषेण दीर्घपत्रे पुरन्ध्रगैः ।
वरङ्कारयेद्धीमान् पूर्वोक्तेनैव वर्त्मना ॥ ५२ ॥

प्। १४७)

पृथक् पात्रे निवेश्याथ अधिवासनमाचरेत् ।
देवमण्डपयोर्मध्ये व्रीहिपीठं समाचरेत् ॥ ५३ ॥

तस्योपरि न्यसेत्पात्रं दहनाप्यायनं चरेत् ।
सौरभेयीं प्रदर्श्याथ पूजयेद्गन्धपुष्पकैः ॥ ५४ ॥

किराटाद्यैश्च? मन्त्रैश्च पातयेदपरेण तु ।
अधिवासजमादाय योजयेत्कुम्भमूर्धनि ॥ ५५ ॥

पूजया सम्पुटीकुर्यात् गीतवाद्यादिकं चरेत् ।
अधिवासस्रजं ? विप्र नाभिमानं प्रचक्षते ॥ ५६ ॥

शयने सन्निवेश्याथ रक्षां कुर्यात्समन्ततः ।
ततः प्रभाते विमले स्नपनं सम्यगाचरेत् ॥ ५७ ॥

अष्टोत्तरशतैर्वापि एकाशीतिघटैस्तु वा ।
स्नपनार्थे तु देवेशमानयेत्सिंहविष्टरे ॥ ५८ ॥

अलङ्कृत्य यथान्यायं चतुस्स्थानार्चनं चरेत् ।
कुम्भेन सम्पूजयेत्पश्चात् किरीटादि चतुष्टयम् ॥ ५९ ॥

वर्धन्याञ्च ततो दद्यात् पूजया सम्पुटीकृतः ।
गीतनृत्तादिकान् सर्वान् दर्शयेद्देवसन्निधौ ॥ ६० ॥

नमस्कृत्य यथान्यायं स्तुत्वा देवं प्रणम्य च ।
मण्डले योजयेत् पश्चात् कुम्भवद्देशिकोत्तमः ॥ ६१ ॥

प्। १४८)

मण्डलस्थं विशेषेण तत्काले सम्प्रवेशयेत् ।
अङ्गानामप्युपाङ्गानां लाजान्तानामपि द्विज ॥ ६२ ॥

भूषणानां च शक्तीनां तथा च विहगेशितुः ।
अर्व्यादीनान्तु पात्राणां धूपदीपप्रकाण्डकैः ॥ ६३ ॥

मूलबेरे यथा कुर्यात् होमकुण्डे तथा भवेत् ।
एवं कृत्वा विधानेन द्वारस्थानादीनां चरेत् ॥ ६४ ॥

आलयाङ्गस्थबिम्बानां चण्डादीनां विशेषतः ।
एवंविधानसंयुक्तं तत्तद्द्रव्यैर्बलिं क्षिपेत् ॥ ६५ ॥

अपराह्णे तु सम्प्राप्ते यानमारोप्य देशिकः ।
धामप्रदक्षिणं कृत्वा वीथ्यावरणपश्चिमम् ॥ ६६ ॥

मण्डपे सन्निवेश्याथ सन्न्यासं चैव कारयेत् ।
शुद्धस्नानं ततः कृत्वा दक्षिणां सम्प्रदापयेत् ॥ ६७ ॥

यतीनां ब्राह्मणादीनां प्रसादं परिदापयेत् ।
यः करोति नरो भक्त्या स याति ब्रह्मणः पदम् ॥ ६८ ॥

अश्वमेधाष्टकं पुण्यं वाजपेयत्रयं तथा ।
सर्वपापक्षयं चैव सर्वोपद्रवनाशनम् ॥ ६९ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां दमनारोपणं नाम
द्वाविंशोऽध्यायः ॥
प्। १४९)