२१ महोत्सवविधिः

अथ एकविंशोऽध्यायः

श्रीभगवान्-

महोत्सवं प्रवक्ष्यामि विस्तरेण तवानघ ।
अङ्कुरावापनं पूर्वं पताकारोपणं तथा ॥ १ ॥

कौतुकस्योत्सवं पश्चात् उत्सवारम्भणं भवेत् ।
स्नपनं देवदेवस्य यागदीक्षाह्यनन्तरम् ॥ २ ॥

चतुस्स्थानार्चनञ्चैव होमकर्माण्यनन्तरम् ।
तीर्थाङ्कुरार्पणञ्चैव ग्रामस्य च बलिं तथा ॥ ३ ॥

यात्राचोत्सवबिम्बस्य तथा तीर्थाधिवासनम् ।
तीर्थस्नानं ततः कुर्यात्पुष्पयागमनन्तरम् ॥ ४ ॥

ध्वजावरोहणकञ्चैव उद्वासनबलिं तथा ।
विषक्सेनार्चनञ्चैव कर्मक्रममिमं विदुः ॥ ५ ॥

उत्सवारम्भदिवसात् सप्तमे पञ्चमेऽहनि ।
अङ्कुरस्यार्पणं कुर्यात्पूर्ववच्चोक्तवर्त्मना ॥ ६ ॥

प्। १२९)

उत्सवारम्भदिवसात् पूर्वेद्युश्च निशामुखे ।
कौतुकं बन्धयेद्धीमान् तत्क्रमस्ते प्रवक्ष्यते ॥ ७ ॥

मण्डपं समलङ्कृत्य ध्वजतोरणकुम्भकैः ।
क्रमुकैः कदलीकाण्डैर्दर्भमाल्यादिकैस्तथा ॥ ८ ॥

तन्मध्ये वेदिकां कुर्यात् विष्णुयन्त्रं प्रकल्पयेत् ।
मण्टपस्येशदिग्भागे कुम्भं संस्थापयेत्सुधीः ॥ ९ ॥

पूर्ववदग्निपार्श्वे तु कुण्डं कुर्याद्विचक्षणः ।
मण्डलात्पश्चिमे बिम्बं स्थापयेत्तु यथाविधि ॥ १० ॥

द्वारादियजनं कृत्वा चतुःस्थानार्चनं यजेत् ।
कौतुकं कारयेद्विद्वान् सौवर्णेनैव देशिकः ॥ ११ ॥

तन्तुसूत्रयुतञ्चैव उत्सवस्य विशेषतः ।
देवीभ्यान्तु विशेषेण बलिस्नपनबेरयोः ॥ १२ ॥

आचार्यस्य विशेषेण ऋत्विजानां तथैव च ।
पृथक् तण्डुलपात्रेषु ताम्बूलसहितं न्यसेत् ॥ १३ ॥

शिष्यस्य शिरसि स्थाप्य प्रादक्षिण्येन मन्दिरम् ।
वेदघोषसमायुक्तं गीतवाद्यसमन्वितम् ॥ १४ ॥

धान्यराशिं विनिक्षिप्य आधारोपरि विन्यसेत् ।
पुण्याहं वाचयेत् पश्चात् ब्राह्मणैस्सह देशिकः ॥ १५ ॥

प्। १३०)

बिम्बं सम्पूजयेत् पश्चात् पूजयेत् प्रतिसरीयकम् ।
सूत्रमादाय हस्ताभ्यां धारयित्वा विचक्षणः ॥ १६ ॥

बन्धयेद्दक्षिणे हस्ते देवदेवस्य शार्ङ्गिणः ।
श्रियोर्वामकरे कुर्यात् आचार्यस्य स्वहस्तके ॥ १७ ॥

पूजयित्वा यथापुर्वमपूपादि निवेदयेत् ।
मुद्गान्नं तु निवेद्याथ बलिं दद्यात् समन्ततः ॥ १८ ॥

शयनं कल्पयित्वा च शयने सन्निवेशयेत् ।
उषःकालोत्सवं कुर्यात् सर्वैः परिकरैस्सह ॥ १९ ॥

अनेकदीपसंयुक्तं गीतवाद्यादिसंयुतम् ।
स्वस्तिवाचनसंयुक्तं सर्वमङ्गलसंयुतम् ॥ २० ॥

वीथ्यावरणपूर्वं तु अन्तरावरणपश्चिमम् ।
एवं सम्भ्रामयित्वा तु मण्टपे सन्निवेशयेत् ॥ २१ ॥

नृत्तगीतादिसकलं दर्शयित्वा विचक्षणः ।
उत्सवारम्भणे स्नानमारभेन्मन्त्रवित्तमः ॥ २२ ॥

अष्टोत्तरशतैर्वापि एकाशीतिघटैस्तु वा ।
कलशैः स्नापयेत्पश्चात् चूर्णस्नानं समाचरेत् ॥ २३ ॥

अलकारासने नीत्वा अलङ्कृत्य यथाविधि ।
यागमण्डपभूमौ तु पश्चिए सन्निवेशयेत् ॥ २४ ॥

प्। १३१)

श्रीभूमिसहितं विप्र बलिबिम्बसमन्वितम् ।
यागदीक्षाविधिं वक्ष्ये समासादवधारय ॥ २५ ॥

मण्डपं चाग्रतः कुर्यात् अग्रालाभे यथारुचि ।
मण्टपं समलङ्कृत्य वितानाद्यैरलङ्कृतम् ॥ २६ ॥

ध्वजतोरणकुम्भाद्यैरम्भापूगसमन्वितः ।
भित्तिचित्रविचित्रंस्यान्मण्डलं कारयेद्बुधः ॥ २७ ॥

मण्डलस्योत्तरे पार्श्वे कुम्भं संस्थापयेद्बुधः ।
कुम्भमण्डलयोर्बाह्ये परितः कुण्डमाचरेत् ॥ २८ ॥

पूर्वादीशानपर्यन्तं कुण्डकॢप्तिमथ शृणु ।
त्र्यश्रं वृत्तं षडश्रं वा वस्वश्रं विदिशःक्रमात् ॥ २९ ॥

अष्टकुण्डविधौ विप्र चतुष्कुण्डविधिं शृणु ।
अश्रं चाप मथो वृत्तं पद्मं पूर्वादितःक्रमात् ॥ ३० ॥

मुख्यकल्पे तु विप्रेन्द्र अष्टकुण्डं प्रकल्पयेत् ।
ऋत्विजो वरयेत्पूर्वं कुण्डे कुण्डे पृथक् पृथक् ॥ ३१ ॥

मण्डलस्य तु पूर्वे तु गरुडं सन्निवेशयेत् ।
दक्षिणे चक्रराजं च पश्चिमे बलिबेरकम् ॥ ४० ॥

सेनेशमुत्तरे पार्श्वे अलङ्कृत्य निवेशयेत् ।
मण्डलं चक्रपद्मं वा इष्टसिद्धिप्रदं तु वा ॥ ३३ ॥

प्। १३२)

वासुदेवाख्य यन्त्रं वा कारयेत्तु यथारुचि ।
कुम्भमण्डलकुण्डन्तु परिकुम्भसमन्वितम् ॥ ३४ ॥

महाकुम्भस्य पार्श्वे तु वर्धनीं सन्निवेशयेत् ।
उपकुम्भसमायुक्तमष्टमङ्गलकैर्युतम् ॥ ३५ ॥

पालिकाभिः समायुक्तं फलैर्नानाविधैर्युतम् ।
दीर्घस्तबकसंयुक्तं क्रमुकैर्नालिकेरकैः ॥ ३६ ॥

वस्त्रयुग्मं महाकुम्भे एकमन्यत्र योजयेत् ।
कूर्चपल्लवसंयुक्तं शरावे सूत्रसंयुतम् ॥ ३७ ॥

शरावे तु शरावे तु नालिकेरफलं न्यसेत् ।
एवङ्कृत्वा विशेषेण द्वारपूजां समाचरेत् ॥ ३८ ॥

कुम्भे सम्पूजयेद्देवं वासुदेवमनामयम् ।
उपकुम्भे यजेद्देवान्वासुदेवादिकान् क्रमात् ॥ ३९ ॥

अनेकैरुपचारिअश्च चतुष्षष्टिगणैस्तु वा ।
कुम्भे च मण्डले चैव प्रोक्षणस्नानमाचरेत् ॥ ४० ॥

अग्नौ चैव विशेषेण उपचारैः पृथग्घुवेत् ।
मण्डले पूजयेत्पश्चात् बिम्बं सम्पूजयेत्परम् ॥ ४१ ॥

होमकार्यं ततः कृत्वा वासुदेवादि मन्त्रतः ।
प्रभवाव्यययोगेन अष्टकुण्डेषु होमयेत् ॥ ४२ ॥

प्। १३३)

तीर्थाङ्कुरार्पणं कुर्यात् पूर्वोक्तक्रमयोगतः ।
बलिं कृत्वा तथा वीथ्यां बलिबेरसमन्वितम् ॥ ४३ ॥

कुमुदादिगणैर्युक्तं गीतवाद्यसमन्वितम् ।
उत्सवं यानमारोप्य कुञ्जरं वा रथं तु वा ॥ ४४ ॥

शिबिकांवा विशेषेण यथालब्धाउरूपतः ।
नैकैः परिकरैर्युक्तं बहुदीपसमन्वितम् ॥ ४५ ॥

अन्तरावरणपूर्वं वीथ्यावरणपश्चिमम् ।
बलिस्थाने तु सम्प्राप्ते ताम्बूलं चन्दनं ददेत् ॥ ४६ ॥

मध्यदेशे तु सम्प्राप्ते गणक्रीडां समाचरेत् ।
एवं कृत्वा विशेषेण महामण्डपमानयेत् ॥ ४७ ॥

सिंहासने निवेश्याथ अर्घ्याद्यैः परिपूजयेत् ।
अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पञ्च धूपकम् ॥ ४८ ॥

दीपं नीराजनं चैव बहुनृत्तं प्रदर्शयेत् ।
वस्त्रमाल्यान्यपोह्याथ स्नानकर्म समाचरेत् ॥ ४९ ॥

स्नानान्ते देवदेवेशं मण्डपे सन्निवेशयेत् ।
पूजनन्त्वथ विप्रेन्द्र निवेद्यान्तं समाचरेत् ॥ ५० ॥

प्रथमे स्यन्दनं प्रोक्तं द्वितीये शिबिका भवेत् ।
तृतीये गरुडं प्रोक्तं चतुर्थे रथमेव च ॥ ५१ ॥

प्। १३४)

पञ्चमे दोलिकायानं षष्ठे वै कुञ्जरं तथा ।
सप्तमे पुष्पयानं स्यादष्टमे चाश्ववाहनम् ॥ ५२ ॥

नवमे कुञ्जरप्राभा दशमे कुञ्जरं भवेत् ? ।
तीर्थाधिवासनात्पूर्वं मृतयादिवसं भवेत् ॥ ५३ ॥

मृगयादिवसात्पूर्वं जलक्रीडावगाहनम् ।
जलक्रीडादिनात्पूर्वमुद्यानगमनं भवेत् ॥ ५४ ॥

उद्यनगमनात्पूर्वं नदीयात्रां समाचरेत् ।
नदीयात्रादिनात्पूर्वं व्रीहिमानमथोच्यते ॥ ५५ ॥

व्रीहिमानदिनात्पूर्वं वनवासमथाचरेत् ।
यात्राचोत्वबिम्बस्य द्विकाले चोत्तमा भवेत् ॥ ५६ ॥

एककालमथोवापि कर्तुरिच्छानुरूपतः ।
अपूर्वाभरणैर्माल्यैरपूर्वैश्चाम्बरैस्तथा ॥ ५७ ॥

अपूर्वोद्यानयानाद्यैर्यथाकौतूहलं भवेत् ।
तथा विशिष्य कर्तव्यं यावत्तिर्थदिनावधि ॥ ५८ ॥

तीर्थस्नानदिनात्पूर्वं रात्रौ तीर्थाधिवासनम् ।
मण्डपं समलङ्कृत्य तीर्थबेरं समानयेत् ॥ ५९ ॥

धान्यपीठं प्रतिष्ठाप्य तीर्थबेरं समानयेत् ।
अर्घ्याद्यैरर्चयित्वाथ कुम्भं संस्थापयेत्सुधीः ॥ ६० ॥

प्। १३५)

कुम्भे तीर्थं समावाह्य पूजयित्वा विचक्षणः ।
हविर्निवेदयेत्पश्चात् बलिं दद्यात् समन्ततः ॥ ६१ ॥

रजनीचूर्णमादायोलखले तु विनिक्षिपेत् ।
उलूखलं मुसलं चैव प्रक्षाल्याभ्यर्च्य देशिकः ॥ ६२ ॥

आचार्यावगाहनं पूर्वं गणिकाभिरनन्तरम् ।
चूर्णेन घट्टनं वापि पञ्चकं त्रितयन्तु वा ॥ ६३ ॥

स्थण्डिले सम्प्रतिष्ठाप्य कूर्चञ्चैव विनिक्षिपेत् ।
अभ्यर्च्य पुंसिमन्त्रेण ? पुण्याहं चैव कारयेत् ॥ ६४ ॥

पुनरभ्यर्च्य देवेशं चूर्णस्नानं समाचरेत् ।
वासुदेवतनुस्पृष्टं चूर्णं परमपावनम् ॥ ६५ ॥

पादस्पृष्टजलं विप्र गङ्गातोयसमं भवेत् ।
तुलसी चन्दनं पुष्पं सर्वपापहरं नृणाम् ॥ ६६ ॥

तस्मात्सर्वप्रयत्नेन भक्तानां च प्रदापयेत् ।
ये वहन्ति पिबन्त्यैतत् ते च यान्ति पराङ्गतिम् ॥ ६७ ॥

अवभृथस्नानम् -

ततः प्रभाते विमले वासरोत्सवमाचरेत् ।
पुरशोधनपूर्वन्तु यथापूर्वं बलिं क्षिपेत् ॥ ६८ ॥

यात्रावसाने देवेशं मूलबेरपुरस्सरम् ।
महाकुम्भस्थकूर्चेन प्रोक्षयेन्मूलमन्त्रतः ॥ ६९ ॥

प्। १३६)

पूजया सम्पुटीकुर्यान्मण्डले तु नियोजयेत् ।
वह्निस्थं तु विशेषेण पूर्णाहुतिपुरस्सरम् ॥ ७० ॥

प्रायश्चित्ताहुतिञ्चैव कुम्भमण्डलपूजनम् ।
यथापूर्वं पुरा कृत्वा पश्चात्प्रोक्षणमाचरेत् ॥ ७१ ॥

तीर्थबेरं समारोप्य यानं विप्रवरैर्द्विज ।
उत्सवान्ते समादाय केवलं तीर्थबेरकम् ॥ ७२ ॥

आनयेत्तीर्थदेशे तु प्रभां तत्रैव कारयेत् ।
तीर्थदेशं समासाद्य प्रभामध्ये निवेशयेत् ॥ ७३ ॥

तीर्थकुम्भं समादाय योजयेत्तज्जलैः पुनः ।
तत्तिर्थन्तु समभ्यर्च्य कलशैःस्नापयेत्प्रभुम् ॥ ७४ ॥

पश्चात्तिर्थं तु सम्प्राप्य निमज्य च त्रिधा पुनः ।
ये स्नापयन्ति सम्प्राप्य गङ्गास्नानफलं लभेत् ॥ ७५ ॥

सर्वदानफलञ्चैव सर्वतीर्थफलं लभेत् ।
स्वस्थाने सन्निवेश्याथ शुद्धस्नानं समाचरेत् ॥ ७६ ॥

मन्त्रस्नानं ततः कृत्वा नीराजनमथाचरेत् ।
अलङ्कारासनं नीत्वा हविरन्तं समर्चयेत् ॥ ७७ ॥

मन्दिरं प्रापयेद्देवं सर्वैः परिकरैः सह ।
ब्राह्मणैर्वेदघोषैश्चालयावरणपश्चिमम् ॥ ७८ ॥

प्। १३७)

उत्सवेन सह वीथ्यां तीर्थबेरं समानयेत् ।
स्वस्थाने सन्निवेश्याथ द्वारे शङ्खं निनादयेत् ॥ ७९ ॥

उत्सवं मण्डपे स्थाप्य स्नपनं कारयेद्बुधः ।
अलङ्कारासने नीत्वा प्रभूतान्नं निवेदयेत् ॥ ८० ॥

दशमेऽहनि सम्प्राप्ते पुष्पयागं समाचरेत् ।
सन्निधौ देवदेवस्य वेदपारायणं चरेत् ॥ ८१ ॥

संहिताञ्चैव शाखाञ्च आरणं तदनन्तरम् ।
ऋग्यजुस्सामवेदांश्च तथाथर्वणमेव च ॥ ८२ ॥

सम्भावयेत्ततो देवान् वस्त्रताम्बूलभोजनैः ।
स्नपनं पुष्पयागार्थं कारयेदुक्तवर्त्मना ॥ ८३ ॥

कौतुकं बन्धयेत्पूर्वं देवदेवस्य शार्ङ्गिणः ।
अग्निमण्डलमासाद्य पुष्पमण्डलमाचरेत् ॥ ८४ ॥

चक्राब्जयन्त्रकं वापि आचार्यस्य वशात्तु वा ।
मण्डलस्य तु पाश्चात्ये बिम्बं सिंहासने न्यसेत् ॥ ८५ ॥

मण्डलस्योत्तरे पार्श्वे कुम्भं संस्थापयेद्बुधः ।
देवस्येशानभागे तु विष्वक्सेनं निवेशयेत् ॥ ८६ ॥

दक्षिणे हेतिराजानं ब्राह्मणान्परितो न्यसेत् ।
द्वारार्चनं ततः कुर्यात् कुम्भमण्डलपूजनम् ॥ ८७ ॥

प्। १३८)

बिम्बे सम्पूजयेत्पश्चात् अष्टौ द्वादशधापि वा ।
षट्कं चतुष्टयं कालं प्रत्येकन्तु विशेषतः ॥ ८८ ॥

अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पं च दीपकम् ।
धूपञ्चैव नैवेद्यं ताम्बूलं तिलदानकम् ॥ ८९ ॥

वेदं श्लोकं तथा गीतं नृत्तं वाद्यं पुनः पुनः ।
गीतन्तु मङ्गलं प्रोक्तं नृत्तं वै मार्गनृत्तकम् ॥ ९० ॥

पूष्पपूरं समाहृत्य पृथक् पात्रे निवेशयेत् ।
सन्निधौ स्थापयित्वा च पुष्पपत्रैस्समर्चयेत् ॥ ९१ ॥

शोषणादि क्रियां कृत्वा अर्घ्याद्यैः सम्प्रपूजयेत् ।
अर्घ्यं गन्धं तथा पुष्पं धूपञ्चैव चतुष्टयम् ॥ ९२ ॥

स्थापयेदम्बरेणैव विकिरेद्देवपादयोः ।
शिल्पदासगणान् सर्वान् सम्भावनमथाचरेत् ॥ ९३ ॥

चन्दनैश्चैव ताम्बूलैः देववस्त्रं प्रदापयेत् ।
आचार्यैस्साधकैश्चैव बिभवेद्देव मूर्धनि ॥ ९४ ॥

यात्रां च कारयेद्धीमान् प्रादक्षिण्येन मन्दिरम् ।
एकधा वा द्विधा वापि स्थित्वा द्वारप्रदेशतः ॥ ९४ ॥

स्तोत्रेण तोषयेद्देवं जनानाहूय देशिकः ।
सेवार्थमागतान् सर्वान् देवानृषिगणानपि ॥ ९६ ॥

प्। १३९)

विलोक्य देवदेवेशं स्वस्थाने तु विसर्जयेत् ।
देवं गर्भगृहे नीत्वा स्वस्थाने सन्निवेशयेत् ॥ ९७ ॥

तत्कुम्भन्तु समादाय आधारोपरि विन्यसेत् ।
मूलबेरं समभ्यर्च्य प्रोक्षयेन्मूलमन्त्रतः ॥ ९८ ॥

पुनःपूजां ततः कुर्यान्मङ्गलादि प्रदर्शयेत् ।
पायसन्तु निवेद्याथ यजमानं प्रपूजयेत् ॥ ९९ ॥

देशिकं यानमारोप्य स्वगृहं सम्प्रवेशयेत् ।
देववद्दासदासीभिर्वाद्यशङ्खरवाकुलैः ॥ १०० ॥

जनान् सम्पूजयेत्सर्वान् ताम्बूलाद्यैरकृत्रिमैः ।
देवालयं प्रविश्याथ स्नापयेदौत्सवं पुनः ॥ १०१ ॥

एकाशीतिघटे ब्रह्मन् अथवा पञ्चविंशके ।
स्नपनान्ते विशेषेण यागमण्डपमाविशेत् ॥ १०२ ॥

कर्मशेषं समासाद्य प्रायश्चित्ताहुतिं हुनेत् ।
तिलेनैव विशेषेण पूर्णाहुतिमथाचरेत् ॥ १०३ ॥

तत्रस्थदेवतास्सर्वा गमयेत्स्वस्वमालयम् ।
गर्भगेहे यथापूर्वं सन्निवेश्य महोत्सवम् ॥ १०४ ॥

उद्वासनबलिं कृत्वा ध्वजं चैवावरोहयेत् ।
समभ्यर्च्य यथापूर्वं मुद्गान्नं तु निवेदयेत् ॥ १०५ ॥

प्। १४०)

कुम्भे गरुडमावाह्य अवरोहण माचरेत् ।
तद्यष्टिं तत्पटञ्चैव तद्दण्डं तत्प्रभां तथा ॥ १०६ ॥

आचार्यस्स्वयमाहृत्य अन्यथा दोषकृद्भवेत् ।
दक्षिणां दापयेद्विद्वान् वस्त्रहेमादिरत्नकैः ॥ १०७ ॥

पञ्चाङ्गभूषणं चैव कन्यागोभूमिसद्धनैः ।
ऋत्विजां तु तदर्धं स्यात् गायकानां यथाबलम् ॥ १०८ ॥

देशान्तरागतानां तु मानाद्यैस्तुष्टिमावहेत् ।
एवं यः कुरुते भक्त्या उत्सवं शास्त्रचोदितम् ॥ १०९ ॥

सोऽतुलां श्रियमाप्नोति कोटिधर्मफलं लभेत् ।
अश्वमेधसहस्रं च वाजपेयशतं तथा ॥ ११० ॥

सर्वतीर्थफलञ्चैव बहुगोदानजं फलम् ।
बहुधर्मफलं चैव लभते नात्रसंशयः ॥ १११ ॥

सर्वपापक्षयं यति नात्र कार्या विचारणा ।
द्विकालस्नपनं कुर्यात्स्नानविद्धे विशेषतः ॥ ११२ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां महोत्सवविधिर्नाम
एकविंशोऽध्यायः ॥