अथ एकोनविंशोऽध्यायः
भृगुः -
स्नपनं श्रोतुमिच्छामि देवदेवस्य शार्ङ्गिणः ।
कालं ब्रूहि मम ब्रह्मन् द्रव्याणां विस्तृतिं क्रमात् ॥ १ ॥
श्रीभगवान् -
स्नपनं ते प्रवक्ष्यामि विस्तरेण तवानघ ।
स्नपनं द्विविधं प्रोक्तं परापरविभेदतः ॥ २ ॥
प्। १००)
परं तु त्रिविधं प्रोक्तमपरं द्वादशं भवेत् ।
सहस्रं तदर्धकञ्च तदर्धन्तु तदर्धकम् ॥ ३ ॥
त्रिप्रकारं मया प्रोक्तं परञ्चैव विशेषतः ।
एकं त्रयं तथा पञ्च नवकं द्वादशं तथा ॥ ४ ॥
सप्तदशं पञ्चविंशं षट्त्रिंशच्च नवोत्तरम् ।
चत्वारिंशद्विशेषेण अशीत्येकादशं क्रमात् ॥ ५ ॥
अष्टोत्तरशतं चैव एवं द्वादशकं भवेत् ।
अयने विषुवे चैव पौर्णमास्यद्वयेऽपि च ॥ ६ ॥
द्वादश्यां तु विशेषेण श्रवणे जन्म-ऋक्षके ।
अभिषेकदिनेवापि दमनारोहणादिके ॥ ७ ॥
उत्सवाद्यन्तकाले तु पुष्पयागे विशेषतः ।
पवित्रारोहणे चैव तावत् पुष्पफलोत्सवे ॥ ८ ॥
चतुःस्थानार्चने चैव अनावृष्टिविधौ तथा ।
दुर्निमित्ते च सञ्जाते दुर्भिक्षे व्याधिपीडने ॥ ९ ॥
विशेषयजने चैव द्रव्याणां पूरणेऽपि च ।
स्नपनं कारयेद्विद्वानन्यथा दोषकृद्भवेत् ॥ १० ॥
सुवर्णं रजतं वापि ताम्रं मृण्मयमेव वा ।
पक्वबिम्बफलाकारं मृण्मयं दोषवर्जितम् ॥ ११ ॥
प्। १०१)
आढकञ्चोत्तमं प्रोक्तं तदर्धं मध्यमं भवेत् ।
तदर्धमधमं प्रोक्तं विविधं कारयेद्बुधः ॥ १२ ॥
तद्व्यं करकं प्रोक्तं तद्वयं कुम्भमुच्यते ।
तद्वयं तु महाकुम्भमेतन्मानं प्रकीर्तितम् ॥ १३ ॥
मानेन निश्चितं सर्वं तस्मान्मानं हि पूरकम् ।
मृत्कुम्भे सूत्रवेष्टं स्याल्लोहे तु परिवर्जयेत् ॥ १४ ॥
वस्त्रं कूर्चं शरावं च द्रव्यं सामान्यकं भवेत् ।
स्नपनं द्विविधं प्रोक्तं कर्माङ्गं केवलं भवेत् ॥ १५ ॥
कर्माङ्गे तु विशेषेण नाङ्कुरं कौतुकं भवेत् ।
केवले तु विशेषेण अङ्कुरं कौतुकं भवेत् ॥ १६ ॥
कर्माङ्गमुत्सवाद्येषु विषुवाद्येषु केवलम् ।
मण्डपालङ्कृतिं कुर्यात् प्रतिष्ठाकर्मवद्द्विजः ॥ १७ ॥
केवले तु हि विप्रेन्द्र चतुस्थानार्चनं चरेत् ।
मण्डलं कारयेद्धीमान् यजमानेच्छया ततः ॥ १८ ॥
मण्डपस्योत्तरे पङ्क्तौ कुम्भमण्डलकुण्डलम् ।
पूर्वादि पश्चिमान्ते तु क्रमेणैव प्रकल्पयेत् ॥ १९ ॥
मण्डपस्य तु मध्ये तु कलशस्थापनं चरेत् ।
बिम्बसंस्थापनं पूर्वं सूत्रपातं समाचरेत् ॥ २० ॥
प्। १०२)
कलशस्यानुरूपेण एकद्वित्रितयेऽपि वा ।
नवकादिषु विप्रेन्द्र सूत्रपातं समाचरेत् ॥ २१ ॥
कोष्ठकोणे विशेषेण व्रीहिप्रस्थं प्रपूरयेत् ।
कलशाधिवासनं कुर्यात् पश्चिमे कलशास्पदे ॥ २२ ॥
मार्गत्रयं तथा कृत्वा व्रीहीनास्तीर्य तण्डुलैः ।
दर्भैः परिस्तरेत्तत्र प्राङ्मुखः परमेष्ठिना ॥ २३ ॥
तस्योपरि न्यसेत्कुभान् पुरुषेणैव देशिकः ।
शोषणादिक्रियां कृत्वा अर्घ्याद्यैः परिपूजयेत् ॥ २४ ॥
अधोमुखान् न्यसेत्कुम्भान् विश्वेनैव तु देशिकः ।
अक्षतान्विकिरेत्पश्चात् निवृत्तिमन्त्रेण ? मन्त्रवित् ॥ २५ ॥
दर्भानुपरि संस्तीर्य सर्पमन्त्रेण मन्त्रवित् ।
वाससाच्छादयेत्पश्चात् बलिं दद्यात् समन्ततः ॥ २६ ॥
द्रव्याधिवासनं कुर्यात् तत्काले देशिकोत्तमः ।
द्रव्याधिवासने विप्र सम्पाताज्येन सेचयेत् ॥ २७ ॥
एतत्कर्म विशेषेण सर्वसामान्यकं भवेत् ।
अङ्कुरं कौतुकं चैव तथा कुम्भाधिवासनम् ॥ २८ ॥
कर्मारम्भदिनात्पूर्वं सद्यो वा सकलं चरेत् ।
द्वारपूजाविधिं चैव पुण्याहं चैव कारयेत् ॥ २९ ॥
प्। १०३)
कुम्भमण्डलबिम्बाग्निपूजनं तदनन्तरम् ।
कलशस्नपनं चैव चूर्णस्नान मनन्तरम् ॥ ३० ॥
शुद्धस्नानं ततः कुर्यात् रजनीस्नानमेव च ।
सहस्रधारया स्नानं नीराजनमनन्तरम् ॥ ३१ ॥
मण्डपासनकार्यञ्च भोज्यासनमतःपरम् ।
पूर्णाहुतिं ततः कुर्यात् बलिं दद्यात् समन्ततः ॥ ३२ ॥
एतत्कर्म क्रमात्प्रोक्तमस्मिन् भद्रमये प्रभो ! ।
एकबेरविधानेतु तत्रैव स्नपनं भवेत् ॥ ३३ ॥
बहुबेरविधाने तु स्नपने स्नपनं भवेत् ।
उत्सवे तु तथाभावे तथाभावे तु कौतुके ॥ ३४ ॥
लेपभित्तिपटस्थे तु कर्मार्चायां समाचरेत् ।
दर्पणे तदभावे तु तदभावे तु कूर्चके ॥ ३५ ॥
कर्माङ्गस्नपने विप्र उत्सवे सर्वमाचरेत् ।
अथ द्रव्यनाम-
द्रव्यन्यासमथो वक्ष्ये समासादवधारय ॥ ३६ ॥
उदक्कुम्भे घृतं प्रोक्तं पञ्चगव्यमथापि वा ।
केवलं गन्धपुष्पं वा निक्षिपेत्तन्त्रवित्तमः ॥ ३७ ॥
तृतीये तु विशेषेण पत्रं पुष्पं फलं भवेत् ।
पञ्चकुम्भे तु विप्रेन्द्र पञ्चगव्यमथो भवेत् ॥ ३८ ॥
प्। १०४)
गन्धपुष्पफलं चैव पत्रं धान्यं तथैव च ।
पञ्चगव्यमथोवापि नवके वक्ष्यतेऽधुना ॥ ३९ ॥
घृतादिकमथो वापि नवरत्नोदकं तु वा ।
नवगन्धादिकं वापि द्वादशे वक्ष्यतेऽधुना ॥ ४० ॥
द्विधा वाथ त्रिधावापि चतुरादिघृतादिकम् ।
धात्रीफलोदकञ्चैव लोध्रतोयमनन्तरम् ॥ ४१ ॥
रक्तचन्दनतोयं च रजनीनीरमुत्तमम् ।
ग्रन्थीफलवचाश्वत्थ तोयं ततः तृणोदकम् ॥ ४२ ॥
प्रियङ्गुवारि तदनु मौञ्जीजलमतःपरम् ।
सिद्धार्थं यवतोयं च सर्वौषधिजलं तथा ॥ ४३ ॥
पत्रपुष्पोदकं चैव द्वादशैते प्रकीर्तिताः ।
अथ सप्तदशे कुम्भे द्रव्यं वक्ष्ये यथाक्रमम् ॥ ४४ ॥
घृतमुष्णोदकं चैव रत्नवारि फलोदकम् ।
लोहम्मार्जनगन्धं च अक्षतं च यवोदकम् ॥ ४५ ॥
पाद्यमर्घ्यं तथाचामं पञ्चगव्यं तथा दधि ।
पयो मधु कषायं च क्रमात्सप्तदशं भवेत् ॥ ४६ ॥
पञ्चविंशति कुम्भेषु द्रव्यन्यासमथोच्यते ।
तन्मध्ये नवके विप्र घृतादीन् परिनिक्षिपेत् ॥ ४७ ॥
प्। १०५)
घृतं पाद्यं दधि चैव अर्घ्यं क्षीर मतः परम् ।
आचामं गन्धतोयं च पञ्चगव्यं कषायकम् ॥ ४८ ॥
धात्रीफलोदकञ्चैव क्रमाद्द्रव्यं विनिक्षिपेत् ।
षट्त्रिंशत्कलशे ब्रह्मन् द्रव्यन्यासं प्रचक्षते ॥ ४९ ॥
द्रव्याणां नवकं प्रोक्तं षट्त्रिंशत्कलशे परम् ।
घृतादि नवकं वापि गन्धादि नवकं तु वा ॥ ५० ॥
चन्दनं कुङ्कुमञ्चैव कर्पूरमगरुं तथा ।
एलालवङ्गतक्कोलमुशीरं कोष्ठमेव च ॥ ५१ ॥
एकोनपञ्चाशत्कलशे द्रव्यन्यासं ब्रवीमि ते ।
प्रधानसप्तदशकं द्रव्ययोगं क्रमेण च ॥ ५२ ॥
मध्यकुम्भे नवं चैव केवलं क्षीरमेव वा ।
महादि कुम्भषट्के च घृतमेकं प्रपूरयेत् ॥ ५३ ॥
विदिक्कोणचतुष्केषु दधि चैव प्रपूरयेत् ।
एकाशीतिघटे ब्रह्मन् द्रव्यन्यासक्रमं शृणु ॥ ५४ ॥
अत्रसप्तदशं श्रेष्ठं द्रव्यन्यासं क्रमेण तु ।
घृतादिद्रव्यसङ्घं वा केवलं क्षीरमेव वा ॥ ५५ ॥
घृतं वा केवलं विप्र अष्टोत्तरशतं शृणु ।
द्वात्रिंशकद्रव्यं तेषु मध्ये चैव चतुष्टये ॥ ५६ ॥
प्। १०६)
गन्धं पुष्पं फलं चैव मूलं पत्रं तथाङ्कुरम् ।
ह्रस्वमण्डलकञ्चैव दीर्घस्तम्बकमेव च ॥ ५७ ॥
अथ दीर्घं च तच्चक्रनवकं परिकीर्तितम् ।
चन्दनं कुङ्कुमं चैव कर्पूरं हिमतोयकम् ॥ ५८ ॥
चतुर्मध्यमकुम्भेषु आग्नेयादिषु विन्यसेत् ।
शतपत्रं तथा जातिर्मल्लिकाबकुलं भवेत् ॥ ५९ ॥
पूर्वद्वादशके विप्र मध्ये वै दर्पणे न्यसेत् ।
कदलीपनसं चैव लिकुचं चैव दाडिमम् ॥ ६० ॥
आग्नेयद्वादशे कुम्भे न्यसेन्मध्ये तु पूर्ववत् ।
कर्पूरं चैव ह्रीबेरमुशीरं च हरिद्रका ॥ ६१ ॥
याम्ये द्वादशके विप्र मध्ये कुम्भचतुष्टये ।
तुलसीबिल्वपत्रञ्च तथावै दन्तिकाद्वयम् ॥ ६२ ॥
नैर्-ऋते विन्यसेत्पात्रे वारुणे चाङ्कुरं भवेत् ।
दूर्वाङ्कुरं सटा भद्रा विष्णुक्रान्तिर्मही गजम् ॥ ६३ ॥
मारुते स्तबकं वक्ष्ये शैवालमगरुं तथा ।
पूर्वमाथर्विकञ्चैव सौम्ये चैव प्रचक्षते ॥ ६४ ॥
पुन्नागं पाटलं चैव चूतमारग्वधं तथा ।
ईशान्ये वक्ष्यते ब्रह्मन् क्रमुकं नालिकेरकम् ॥ ६५ ॥
प्। १०७)
तालं वै रोलक्रमुकम्मध्यमेषु पदेषु च ।
अपरैकादशं प्रोक्तं परे त्रिविधमुच्यते ॥ ६६ ॥
सहस्रञ्च् अ तदर्धं च तदर्धं च त्रयं भवेत् ।
एकादशघटे ? वक्ष्ये विस्तरेण तवानघ ॥ ६७ ॥
एकञ्च मध्यमे स्थाप्य यमे च तु चतुष्टयम् ।
पञ्चमं दिक्चतुष्के च मध्ये चैकं प्रशस्यते ॥ ६८ ॥
नवके दिगष्टके प्रोक्तं मध्यमे द्वादशं शृणु ।
अष्टदिगष्टकं प्रोक्तं मध्ये चैव चतुष्टयम् ॥ ६९ ॥
सप्तदशक्रमे विप्र मध्यमं नवकं भवेत् ।
तद्बहिश्चाष्टदेशेषु अष्टकुम्भञ्च विन्यसेत् ॥ ७० ॥
पञ्चविंशघटे विप्र मध्यमे नवके न्यसेत् ।
बहिष्षोडशकुम्भं स्यात् षट्त्रिंशत्कलशं शृणु ॥ ७१ ॥
चतुष्टयं चतुर्दिक्षु नवकोष्ठेषु विन्यसेत् ।
शृणु गुह्यमना विप्र चत्वारिंशन्नवोत्तरम् ॥ ७२ ॥
नवकं मध्यमे स्थाप्य अष्टदिक्पञ्चकं भवेत् ।
एकाशीतिघटे विप्र तत्क्रमं सम्प्रचक्षते ॥ ७३ ॥
नवकं नवकं ब्रह्मन् नवपङ्क्तिषु विन्यसेत् ।
अष्टोत्तरशते ब्रह्मन् स्थापनक्रम उच्यते ॥ ७४ ॥
प्। १०८)
द्वादश द्वादश ब्रह्मन् नव पङ्क्तिषु विन्यसेत् ।
सहस्रकलशे ब्रह्मन् स्थापनक्रम उच्यते ॥ ७५ ॥
क्षेत्रमध्यमदेशेषु अष्टादश घटान् न्यसेत् ।
नवकोष्ठेषु विप्रेन्द्र द्वितयं द्वितयं न्यसेत् ॥ ७६ ॥
तद्बहिस्त्वष्टदेशेषु पञ्चकं पञ्चकं न्यसेत् ।
अष्टोत्तरशते कुम्भे तद्बहिश्च दिगन्तरे ॥ ७७ ॥
द्वादश द्वादश ब्रह्मन् नवपङ्क्तिषु विन्यसेत् ।
अष्टोत्तरशतेनैव परितोदिक्षु विन्यसेत् ॥ ७८ ॥
एवमष्टादशैःकुम्भैः चतुष्षष्ठ्याधिके द्विज ।
अष्टोत्तरशते कुम्भे प्रत्येकं नवपङ्क्तिषु ॥ ७९ ॥
ब्रह्मादीशानपर्यन्तं पङ्क्तौ पङ्क्तौ च विन्यसेत् ।
शेषं षट्त्रिंशकं कुम्भं निशाचूर्णैश्च पूरयेत् ॥ ८० ॥
द्विप्रकारं मया प्रोक्तं सहस्रघटवेशने ।
पञ्चाशच्च घटे विप्र स्थापनं कथ्यतेऽधुना ॥ ८१ ॥
अष्टोत्तरशत मध्ये परितश्चाष्टदिक्षु च ।
एकोनपञ्चाशद्विप्र तत्तद्दिक्षु च विन्यसेत् ॥ ८२ ॥
पञ्चाशद्विशतानां च कुम्भानां स्थापनं शृणु ॥ ८३ ॥
प्। १०९)
क्षेत्रेषु च चतुर्मध्ये चत्वारिंशन्नवओत्तरम् ।
तद्बहिश्चाष्टकुम्भेषु पञ्चविंशतिकं न्यसेत् ॥ ८४ ॥
शतद्वयञ्च परितश्चैकचूर्णघटं ? भवेत् ।
द्रव्यन्यास मथो वक्ष्ये सहस्रकलशेषु च ॥ ८५ ॥
मध्य अष्टादशे कुम्भे नवरत्नं विनिक्षिपेत् ।
द्वन्द्वद्वन्द्वप्रयोगेन विन्यसेच्च घटद्वये ॥ ८६ ॥
चत्वारिंशद्घटे बाह्ये चैकैकं मौक्तिकं न्यसेत् ।
अष्टोत्तरशते चैन्द्रे मूलेन परिपूरयेत् ॥ ८७ ॥
ह्रीबेरञ्चैव कर्चूरमुशीरं रजनीं तथा ।
मध्ये कुम्भचतुष्केषु विन्यसेत्पावकान्वितम् ? ॥ ८८ ॥
बहिरष्टघटे विप्र ह्रीबेरं परितो न्यसेत् ।
तद्बहिश्चाष्टदेशेषु द्रव्यन्यासं वदामि ते ॥ ८९ ॥
रजनीद्वितयञ्चैव शृङ्गिवेरमुशीरकम् ।
उत्पलत्रितयङ्कान्तं कर्चूरं चाष्टकं भवेत् ॥ ९० ॥
अष्टद्वादश कुम्भे तु प्रीतिद्रव्यन्तु विन्यसेत् ।
पात्रकेष्टशते(?) मध्ये चतुष्कं पत्रके न्यसेत् ॥ ९१ ॥
तुलसीद्वितयञ्चैव तथा दमनिकाद्वयम् ।
पावकादि विनिक्षिप्य शेषं वै तुलसीदलम् ॥ ९२ ॥
प्। ११०)
बहिरष्टपदे विप्र पत्रवृन्दं वदामि ते ? ।
अश्वत्थोदुम्बरवटप्लक्षन्यग्रोधमेव च ॥ ९३ ॥
चूतं बिल्वञ्च वकुलं क्रमात्तत्रैव निक्षिपेत् ।
याम्याष्टके शते विप्र द्रव्यन्यासं प्रचक्ष्यते ॥ ९४ ॥
मध्यमे तु चतुष्कुम्भे चम्पकं वकुलं तथा ।
मालती शतपत्रञ्च आग्नेयादिषु विन्यसेत् ॥ ९५ ॥
बहिरष्टघटे विप्र विन्यसेच्छतपत्रिकाम् ।
तद्बहिश्चाष्टदेशेषु पुष्पपूरं विधीयते ॥ ९६ ॥
नन्द्यावर्तञ्च पुन्नागं मालती माधवं तथा ।
उत्पलत्रितयञ्चैव केतकीचारकं भवेत् ॥ ९७ ॥
एकैकं पूरयेत् सर्वान् कुम्भे कुम्भे पृथक् पृथक् ।
नैर्-ऋते चाष्टके ब्रह्मन् फलवृन्दं वदामि ते ॥ ९८ ॥
कदलीपनसञ्चैव मातृचूतं ? तथैव च ।
मध्यमे तु चतुष्कुम्भे पूर्वकं विन्यसेत् क्रमात् ॥ ९९ ॥
तद्बहिश्चाष्टकुम्भेषु विन्यसेत् कदलीफलम् ।
बहिरैन्द्रादियोगेन फलपूरं वदामि ते ॥ १०० ॥
लिकुचं वकुलं चैव दाडिमं मातुलुङ्गकम् ।
पारावतं चामलकं नवाङ्गं विश्वमेव च ॥ १०१ ॥
प्। १११)
एतद्द्रव्यं क्रमेणैव पूरयेत् पूर्ववत् क्रमात् ।
वारुणे केवलं क्षीरं केवलं घृतमेव च ॥ १०२ ॥
वायव्ये सम्प्रवक्ष्यामि चन्दनं कुङ्कुमं तथा ।
कर्पूरमगरुञ्चैव चतुष्कं विन्यसेत्क्रमात् ॥ १०३ ॥
परितश्शिष्टकुम्भेषु केवलं चन्दनोदकम् ।
बहिःपूर्वादिके विप्र क्रमाद्द्रव्यमथोच्यते ॥ १०४ ॥
मुरमाञ्जिष्ठकर्चूरं कोष्ठं वा चम्पकं तथा ? ।
एलालवङ्गतक्कोलं क्रमाद्द्रव्यं प्रकीर्तितम् ॥ १०५ ॥
सौम्ये द्वादशकुम्भेषु क्षीरमेकं प्रपूरयेत् ।
तद्वच्चाष्ठमदशेषु क्रमाद्द्रव्यं प्रचक्ष्यते ॥ १०६ ॥
गोमूत्रं गोमयञ्चैव दधि तक्रं तथैव च ।
तैलं सर्षपतैलं च नालिकेरं घृतं गुलम् ॥ १०७ ॥
ईशानकस्थ कुम्भेषु क्रमाद्द्रव्यं निबोध मे ।
गुलतोयं चेक्षुतोयं शर्करोदकमेव च ॥ १०८ ॥
पुण्येषु साधकं चैव चतुष्कुम्भेषु विन्यसेत् ।
तद्बीजाष्टककुम्भेषु इक्षुसारं प्रपूरयेत् ॥ १०९ ॥
बहिः पूर्वादिकुम्भेषु क्रमाद्द्रव्यं निबोध मे ।
तिलं लाजं च मुद्गं च व्रीहिमाषवचान्तथा ॥ ११० ॥
प्। ११२)
गोधूमं च प्रियङ्गुं च क्रमात्कुम्भेषु निक्षिपेत् ।
सहस्रमूर्तिमन्त्रेण स्नापयेत्पुरुषोत्तमम् ॥ १११ ॥
ऋग्यजुस्सामाथर्वाद्यैः स्नापयेत्कलशं परम् ।
अष्टाक्षरेण वा सर्वं द्वादशाक्ष्रतोपि वा ॥ ११२ ॥
पूर्वादिसोमपर्यन्तमुद्धारक्रम इष्यते ।
आग्नेयादीशपर्यन्तमुद्धारन्तु द्वितीयकम् ॥ ११३ ॥
पूर्वादिमध्यपर्यन्तं सर्वस्योद्ग्रहणं भवेत् ।
केवलं क्षीरमेकाङ्गं घृतं वा सम्भवम्भवेत् ॥ ११४ ॥
नालिकेरजलैर्वापि केवलन्तु सहस्रकम् ।
सहस्रार्धघटे वक्ष्ये द्रव्यन्यासं क्रमेण तु ॥ ११५ ॥
घृतं गन्धं तथा पुष्पं पत्रं मूलं फलं तथा ।
पञ्चगव्यं तथा क्षीरं ब्रह्माद्यैशानपश्चिमम् ? ॥ ११६ ॥
ईशाने दधि विन्यस्य स्नापयेत्पुरुषोत्तमम् ।
अधमं स्नपनं वक्ष्ये द्रव्यन्यासक्रमेण तु ॥ ११७ ॥
मध्यकुम्भेषु सर्वेषु क्षीरमेकं प्रपूरयेत् ।
बहिश्चाष्टपदे विप्र पञ्चविंशतिसङ्ख्यके ॥ ११८ ॥
अर्घ्यं पाद्यं तथाचामं तक्रं दधि घृतं मधु ।
कषायञ्च क्रमात्प्रोक्तं मृद्धनं पूर्ववद्भवेत् ॥ ११९ ॥
प्। ११३)
द्रव्याणामप्यलाभे तु तद्भागैकं प्रशस्यते ।
द्रव्याणां विष्णुदैवत्यं चक्रिकाणां तु गारुडम् ॥ १२० ॥
सूत्राणां शेषदैवत्यं पात्राणां फणिराजकम् ? ।
कूर्चेषु ब्रह्मदैवत्यमाधारे धर्मदैवतम् ॥ १२१ ॥
वाससां वासवो दैवं सर्वेषां विष्णुदैवतम् ।
यस्स्नापयति देवेशं द्रव्ययुक्तघटैर्नर ॥ १२२ ॥
सर्वपापविनिर्मुक्तस्स याति ब्रह्मणः पदम् ।
सोऽतुलां श्रिय माप्नोति सर्वतीर्थफलं लभेत् ॥ १२३ ॥
सर्वयज्ञफलञ्चैव सर्वदानफलं भवेत् ।
संसारेण प्रतीयाति नात्रकार्या विचारणा ॥ १२४ ॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां स्नपनविधिर्नाम
एकोनविंशोऽध्यायः ॥