अथ अष्टादशोऽध्यायः
श्रीभगवान् -
अग्निकार्यमथो वक्ष्ये सङ्ग्रहान्मुनिसत्तम ।
पचनालयमासाद्य द्वारमभ्यर्च्य साधकः ॥ १ ॥
चुल्ल्यां दक्षिणतो विप्र होमकुण्डं समाचरेत् ।
चतुरशं समञ्चैव योनिनाभिसमन्वितम् ॥ २ ॥
मेखलात्रयसंयुक्तं पीठकादिसमन्वितम् ।
कुण्डस्य दक्षिणे पार्श्वे आसने तु समाविशेत् ॥ ३ ॥
श्रीकरं विस्तरे पार्श्वे उल्लेखनमथाचरेत् ।
पूर्वाग्रे त्रिभिरैखैश्च उत्तराग्रे तथैव च ॥ ४ ॥
पूर्वाग्रं याम्यसौम्यं स्यादुत्तराग्रं तु पश्चिमम् ।
अग्निं समिन्धयेत्पश्चात् प्राणायाममथाचरेत् ॥ ५ ॥
दर्भैः परिस्तरेत्तत्र वासुदेवादिमन्त्रतः ।
कुण्डस्योत्तरपार्श्वे तु दर्भैस्तत्र परिस्तरेत् ॥ ६ ॥
पात्राणां सादनं कुर्याद्वितयुग्मेन साधकः ।
आज्यपात्रं तहा दर्वीं प्रोक्षणीं प्रणीतामपि ॥ ७ ॥
इध्मं दर्वीं विशेषेण साधयेन्मन्त्रवित्तमः ।
प्रोक्षणीं पुरतो न्यस्य पवित्रं तत्र निक्षिपेत् ॥ ८ ॥
प्। ९५)
पूरयेज्जलपात्रेण तत्रोत्प्लावनमाचरेत् ।
तज्जलैः प्रोक्षयेत्पात्राण्युत्तानं सम्यगाचरेत् ॥ ९ ॥
पुनश्च प्रोक्षणं कुर्यात् प्रणीतां पुरतो न्यसेत् ।
उत्प्लावनं पूर्ववत्कृत्वा दर्भेण च विधानतः ॥ १० ॥
ललाटसममुद्धृत्य स्थापयेन्मेखलोपरि ।
अग्नेरुत्तरपार्श्वे तु ब्रह्मकूर्चं विनिक्षिपेत् ॥ ११ ॥
ब्रह्माणमर्चयेद्विद्वान् अर्घ्यगन्धादिभिः क्रमात् ।
आज्यपात्रं समादाय आज्यं निक्षिप्य साधकः ॥ १३ ॥
अग्नेरुत्तरपार्श्वे तु अङ्गारान्विभजेत्ततः ।
विभज्योर्ध्वे प्रतिष्ठाप्य दर्भानादीपयेत्ततः ॥ १३ ॥
दर्भाग्रौ तत्र निक्षिप्य पुनरादीप्य दर्शयेत् ।
आज्यपात्रं समुद्धृत्य अङ्गारान् सहयोजयेत् ॥ १४ ॥
आदाय पुरतो न्यस्य उत्प्लावनं सम्यगाचरेत् ।
कूर्चमग्रे विनिक्षिप्य सौरभेयीं प्रदर्शयेत् ॥ १५ ॥
दर्वीमादाय सव्येन अपसव्येन दर्भकम् ।
त्रिधा सन्तापयेद्विद्वान् दर्भानग्नौ विनिक्षिपेत् ॥ १६ ॥
परिधिं विन्यसेद्विप्र आज्यं दक्षिणमुत्तरे ।
प्। ९६)
अनुयाजन्न्यसेद्विद्वान् प्रणीतां मुखमध्यमे ।
इध्महोमं ततः कृत्वा आधारं जुहुयात्ततः ॥ १८ ॥
अनिलाद्यग्निपर्यन्तमाधारं प्रथमं हुनेत् ।
नैर्-ऋतादीश पर्यन्तमाधारं तु द्वितीयकम् ॥ १९ ॥
अग्नेस्सव्यापसव्ये तु अग्नेस्सोमेन हूयते ।
देवीं देवं ततो दद्यादृतुसङ्गमनं परम् ॥ २० ॥
उभाभ्यामपि सञ्जातमग्निं च परिचिन्तयेत् ।
होमान्तादिक्रियाम्? कृत्वा आज्येन द्विजसत्तम ॥ २१ ॥
समिदाज्येन चरुणा प्रत्येकं षोडशाहुतीः ।
जिह्वाहोमं ततः कृत्वा ज्ञात्वा शक्तिं च होमयेत् ॥ २२ ॥
नित्यहोमं विशेषेण क्रमाद्वक्ष्ये विशेषतः ।
अग्निं समिन्धयेत्पश्चात् प्राणायामं च कारयेत् ॥ २३ ॥
परिषेचनं क्र्मात्कृत्वा अग्निं ध्यात्वा समर्चयेत् ।
समिदाज्येन चरुणा यद्वा आज्येन वा भवेत् ॥ २४ ॥
मूलमन्त्रत्रयेणैव त्रिर्द्रव्यैः परिहोमयेत् ।
द्वादशाष्टाहुतीर्वापि बलिं दद्यात्समन्ततः ॥ २५ ॥
आत्मनः पुरतश्चैव पितॄणां पिण्डमाचरेत् ।
दर्भैः परिस्तरेत्पश्चात् कबलत्रयमाचरेत् ॥ २६ ॥
प्। ९७)
पितृमातृगणाभ्यां वै विश्वेदेवा अनन्तरम् ।
कबलत्रितयं दद्याद्वामहस्तेन देशिकः ॥ २७ ॥
जलपूर्वं प्रदद्यात्तु पश्चाद्वै परिषेचनम् ।
पितॄणां संविभागेन देवदेवः प्रसीदति ॥ २८ ॥
देवदेवप्रसादेन सर्वसिद्धिकरं भवेत् ।
बलिकार्यं प्रवक्ष्यामि समासादवधारय ॥ २९ ॥
बलिञ्च पूर्वतः कृत्वा पश्चादुत्सवमाचरेत् ।
चरुपात्रं च पुष्पञ्च घण्टां वै धूपपात्रकम् ॥ ३० ॥
बलिदाने विशेषेण शङ्खभेरीरवाकुलैः ।
गर्भद्वारादि पीठान्तं बलिं दद्याद्विचक्षणः ॥ ३१ ॥
कुमुदादि गणानां च इन्द्रादीनां पृथक् पृथक् ।
मुष्ट्या परिमितैर्द्रव्यैः त्रिर्दद्यात् बलिकर्मणि ॥ ३२ ॥
पूर्वमभ्यर्च्य चार्घ्याद्यैर्जलपूर्वं विनिक्षिपेत् ।
घण्टाशब्देन संयुक्तं बलिवाद्येन संयुतम् ॥ ३३ ॥
चण्डं चैव प्रचण्डं च शङ्खपद्मनिधींस्तथा ।
भद्रं चैव सुभद्रं च तथा धातृविधातृकौ ॥ ३४ ॥
जयं च विजयं चैव तत्तद्द्वारेषु पूजयेत् ।
शङ्खं चक्रं गदां पद्मं मुसलं खड्गमेव च ॥ ३५ ॥
प्। ९८)
शार्ङ्गं च वनमालां च अन्तरावरणे स्थितान् ।
कुमुदं कुमुदाक्षञ्च पुण्डरीकं च वामनम् ॥ ३६ ॥
शङ्कुकर्णं सर्वनेत्रं सुमुखं सुप्रतिष्ठितम् ।
इन्द्रमग्निं यमं चैव निर्-ऋतिं वरुणं तथा ॥ ३७ ॥
वायुं सोमं तथैशानं तृतीयावरणे स्थितम् ।
विश्वेश्वरं च दिग्भागे क्षेत्रपालबलिं ददेत् ॥ ३८ ॥
पीठोपरि विशेषेण सर्वभूतबलिं क्षिपेत् ।
एवं दत्वा विधानेन नित्योत्सवमथाचरेत् ॥ ३९ ॥
बलिबिम्बं समादाय यानमारोप्य देशिकः ।
छत्रचामरसंयुक्तं बहूदीपसमन्वितम् ॥ ४० ॥
अनेकैः परिकरैर्युक्तं गीतवाद्यसमन्वितम् ।
आनयेद्देवदेवेशं प्रादक्षिण्येन मन्दिरम् ॥ ४१ ॥
एकधा वा द्विधा वापि त्रिधा वापि परिभ्रमेत् ।
बलिपीठं परिभ्राम्य पूर्वपार्श्वे स्थितिं चरेत् ॥ ४२ ॥
गीतं नृत्तं च वाद्यं च श्रावयेद्देवदेवकम् ।
गमयेन्मन्दिरं प्राज्ञो मण्डपे सन्निवेशयेत् ॥ ४३ ॥
पूजयेच्च निवेद्यान्तमर्घ्यगन्धादिना तथा ।
अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पं च धूपकम् ॥ ४४ ॥
प्। ९९)
दीपं निवेदनञ्चैव ताम्बूलं गीतवाद्यकम् ।
स्वस्थाने सन्निवेश्याथ विष्वक्सेनं प्रसादयेत् ॥ ४५ ॥
अर्घ्यादिदीपपर्यन्तं पूजयित्वा विचक्षणः ।
निवेद्यस्यैकपात्रं तु विष्वक्सेनाय दापयेत् ॥ ४६ ॥
तच्छेषं देवतावृन्दैर्मुक्तमन्यो न संस्पृशेत् ।
प्रदक्षिणं ततः कृत्वा प्रणिपत्य जनार्दनम् ॥ ४७ ॥
स्वगृहे सम्प्रविश्याथ अनुयागं समाचरेत् ।
आचार्ये भोजनाद्धीने देवपूजा च निष्फला ॥ ४८ ॥
यथाचाग्निमुखे भुङ्क्ते देवकारिमुखे हरिः ।
आचार्ये सुप्रसन्ने तु देवदेवः प्रसीदति ॥ ४९ ॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
अग्निकार्यबलिप्रदानविधिर्नाम अष्टादशोऽध्यायः ॥