१६ सदाचारविधिः

अथ षोडशोऽध्यायः

श्रीभगवान् -

सदाचारमथो वक्ष्ये सावधानेन तच्छृणु ।
तस्य विशेषेण सदाचारं ब्रवीमिते ॥ १ ॥

ब्राह्मे मुहूर्ते चोत्थाय भगवन्नामकीर्तनम् ।
स्तोत्रेण तोषयेद्विद्वान् गुरुं संस्मृर्त्य साधकः ॥ २ ॥

वासुदेवाय देवाय समग्रगुणमूर्तये ।
सङ्कर्षण नमस्तेऽस्तु विश्वपावनमूर्तये ॥ ३ ॥

प्। ७९)

अनिरुद्ध नमस्तेऽस्तु जगत्कारणमूर्तये ।
केशवाय नमस्तेऽस्तु ततो नारायणाय ते ॥ ४ ॥

माधवाय नमस्तुभ्यं गोविन्दाय नमो नमः ।
विश्वात्मने नमस्तुभ्यं नमोस्तु मधुसूदन ॥ ५ ॥

त्रिविक्रम नमस्तेऽस्तु वामनाय नमो नमः ।
श्रीधराय नमस्तेऽस्तु हृषिकेशाय ते नमः ॥ ६ ॥

नमस्ते पद्मनाभाय नमो दामोदराय च ।
नमस्ते मत्स्यरूपाय नमस्ते कूर्ममूर्तये ॥ ७ ॥

वाराहाय नमस्तेऽस्तु नारसिंहाय ते नमः ॥ ८ ॥

वामनाय नमस्तेऽस्तु नमो रामत्रयाय च ।
गोविन्दाय नमस्तेऽस्तु हयग्रीवाय ते नमः ॥ ९ ॥

एवं स्तुत्वा विधानेन तीरदेशं समाश्रयेत् ।
दर्भवस्त्रं निधायाथ जलाद्दूराद्बहिश्चरेत् ॥ १० ॥

कर्णस्थब्रह्मसूत्रं च दिवा चोदङ्मुखश्चरेत् ।
रात्रौ चेद्दक्षिणावक्त्रं तृणं भूमौ विनिक्षिपेत् ॥ ११ ॥

लेपयेद्दक्षिणं हस्तं काष्ठपर्णतृणादिभिः ।
गृहीत्वा वामहस्तेन शेफाग्रं बाह्यतश्चरेत् ॥ १२ ॥

प्। ८०)

तीर्थं गत्वा शुचौ देशे मृदमादाय मन्त्रतः ।
उद्धृताभिर्विशेषेण मृद्भिः प्रक्षालनं चरेत् ॥ १२ ॥

सप्तभिर्गुददेशञ्च शिश्नञ्च त्रिभिराचरेत् ।
अन्तरान्तरयोगेन हस्तप्रक्षालनं चरेत् ॥ १३ ॥

पञ्चभिः पादशुद्धिं च आचामं तु समाचरेत् ।
त्रिःपिबेत् द्विर्मृजेच्चैवं दशाङ्गानि च संस्पृशेत् ॥ १४ ॥

अङ्गुलिभिर्विशेषेण चक्षुराद्यैस्तु संस्पृशेत् ।
मृदालेपं ततः कृत्वा मृदा दिग्बन्धमाचरेत् ॥ १५ ॥

विष्णुगायत्रिया चैव अवगाहनमाचरेत् ।
आचामं तु ततः कृत्वा तीरदेशं समाविशेत् ॥ १६ ॥

आपोहिष्ठादिभिर्मन्त्रैः प्रोक्षयेत्स्वशिरोपरि ।
उदकाञ्जलिं ततः कृत्वा प्रादक्षिण्यं समाचरेत् ॥ १७ ॥

तर्पयित्वा विशेषेण आचामं तु समाचरेत् ।
वस्त्रन्निष्पीडयेत्पश्चात् सावित्रीन्तु ततो जपेत् ॥ १८ ॥

उपस्थानं ततः कृत्वास्वगृहं सम्प्रवेशयेत् ।
पादप्रक्षालनं कृत्वा आचामेत्पूर्ववद्बुधः ॥ १९ ॥

अग्निं समिन्धयेत्पश्चात् नित्यहोममथाचरेत् ।
दिवाकरोदयात्पूर्वं नित्यकर्म समाप्य च ॥ २० ॥

देवालयं प्रविश्याथ प्रादक्षिण्यद्वयं चरेत् ।
पूर्ववच्छुद्धिराचामं कृत्वा पूजां समाचरेत् ॥ २१ ॥

द्वारदेशे तु सम्प्राप्ते षडङ्गन्यासमाचरेत् ।
तालत्रयं ततः कृत्वा प्रविशेद्दक्षिणाङ्घ्रिणा ॥ २२ ॥

देवस्य दक्षिणे पार्श्वे आसने तु समाविशेत् ।
उदक्पूर्ववलने दक्षिणाभिमुखश्चरेत् ॥ २३ ॥

पश्चिमद्वारके विप्र तथा कुर्याद्विचक्षणः ।
अङ्गन्यासं ततः कृत्वा छोटिकादर्शनं चरेत् ॥ २४ ॥

प्राणायामत्रयं कृत्वा रेचकादित्रयेण च ।
पञ्चोपनिषदैर्मन्त्रै संहृतिन्यासमाचरेत् ॥ २५ ॥

जीवात्मानं समारोप्य परस्मिन् ब्रह्मणि ध्रुवे ।
शोषणादित्रयं कृत्वा अन्तरस्थो विचक्षणः ॥ २६ ॥

दिव्यस्थानं यथा स्थाप्य सृष्टिन्यासं समाचरेत् ।
मातृकान्यसनं कृत्वा तत्त्वन्यासं समाचरेत् ॥ २७ ॥

महाभूतादीनां पञ्चतन्मात्राणां तथैव च ।
न्यासक्रमे विजानीयात् मनोबुद्ध्यादिपञ्चकम् ॥ २८ ॥

मूलमन्त्राक्षरन्यासं षडङ्गं द्वादशन्तु वा ।
मूर्धादिपादपर्यन्तं सृष्टिन्यासं प्रकीर्तितम् ॥ २९ ॥

प्। ८२)

नाभ्यादि हृदयान्तन्तु स्थितिन्यासं प्रकीर्तितम् ।
पादादि च शिरोन्तन्तु संहृतिन्यासमुच्यते ॥ ३० ॥

ब्रह्मचारी गृहस्थश्च यतिश्चैव यथाक्रमम् ? ।
मूर्धा चक्षुर्मुखञ्चैव नाभि गुह्यं च पादुकम् ॥ ३१ ॥

पृथिव्यादीनां भूतानां स्थानं पादं शिरोऽपि वा ।
पद्मस्थानन्तु चान्येषां स्थानमेतदुदाहृतम् ॥ ३२ ॥

करन्यासं ततः कृत्वा सृष्टिसंहारपालनैः ।
दक्षिणादि तु वामान्तं सृष्टिन्यासं प्रकीर्तितम् ॥ ३३ ॥

विपरीतेन योगेन विपरीतमुदाहृतम् ।
तर्जन्यादि कनिष्ठान्तं सृष्टिन्यासं प्रकीर्तितम् ॥ ३४ ॥

करन्यासं तु पूर्वं स्यात् देहन्यासं तु पश्चिमम् ।
एवं न्यासं क्रमात्कृत्वा मानसाराधनं चरेत् ॥ ३५ ॥

ध्यानार्घ्यगन्धपुष्पाद्यै रुपचारैस्समर्चयेत् ।
मानसाराधनं श्रेष्ठं बाह्यपूजाऽवरा विदुः ॥ ३६ ॥

बाह्यन्तु नाशमायाति तस्मान्मानसिकं परम् ।
आत्मार्थे तु तथा कुर्यात् परार्थे सम्प्रपूजयेत् ॥ ३७ ॥

साधकः सर्वशास्त्रज्ञः नाविष्णुर्विष्णुमर्चयेत् ।
देवोऽहं भावयेद्विद्वान् पञ्चरात्रविशारदः ॥ ३८ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां सदाचारविधिर्नाम
षोडशोऽध्यायः ॥