१४ जलाधिवासः

अथ चतुर्दशोऽध्यायः

श्रीभगवान् -

जलवासमथो वक्ष्ये समासान्मुनिपुङ्गव ।
कर्मारम्भदिनात्पूर्वे तृतीये पञ्चमेऽपि वा ॥ १ ॥

एकाहमथवा कुर्यात् एकरात्रमथापि वा ।
यामं यामार्धकं वापि जलावासं समाचरेत् ॥ २ ॥

कौतुकं पूर्वतः कुर्यात् बेरस्य सकलस्य च ।
आचार्यस्य विशेषेण ऋत्विजानां तथैव च ॥ ३ ॥

चित्रयोगे विशेषेण महाबेरैस्तथैव च ।
छायाधिवासनं कुर्यात् बिम्बाभावे तु दर्पणम् ॥ ४ ॥

तदभावे तु कूर्चं स्यात् अलङ्कृत्य यथाविधि ।
गमयेत्परिकरैस्सार्धं तीरदेशे विशेषतः ॥ ५ ॥

प्। ६८)

नद्यां वापितटाके वा निर्झरोपान्त एव च ।
तदभावे विशेषेण कटाहे मणिकेऽपि वा ॥ ६ ॥

जलमध्ये प्रपां कृत्वा तीरदेशे तु मण्डपम् ।
अलङ्कृत्य वितानाद्यैः कुम्भमण्डलकुण्डकैः ॥ ७ ॥

मण्डलं स्वस्तिकं प्रोक्तं कुण्डं पङ्कजमेव च ।
द्वारादियजनं कृत्वा कुम्भमण्डलकं यजेत् ॥ ८ ॥

कुम्भैराराधनं प्रोक्तं मण्डले वासुदेवकम् ।
अग्नौ वै विष्णुमन्त्रेण पद्मभूवर्तयेत्ततः ॥ ९ ॥

एवमभ्यर्चनं कृत्वा जलमध्ये निवेशयेत् ।
शयनं कल्पयित्वैवं ब्रह्मकुम्भादिकान् न्यसेत् ॥ १० ॥

न्यासपूर्वं ततः कृत्वा मालान्नेन बलिं क्षिपेत् ।
पुण्याहवाचनं पूर्वं रक्षां कुर्यात्समन्ततः ॥ ११ ॥

नृत्तगीतादिवाद्यैश्च वेदघोषैः प्रणादयेत् ।
पुराणैःशान्तिमन्त्रैश्च जागरेण नयेन्निशाम् ॥ १२ ॥

गृहार्चास्थापने काले सद्योवासं समाचरेत् ।
ततः प्रभाते विमले तीरमण्डपमानयेत् ॥ १३ ॥

स्वस्थाने सन्निवेश्याथ चतुःस्थानं क्रमाद्यजेत् ।
ब्रह्मकुम्भादिकान् सर्वान् ब्रह्ममूर्धनि सेचयेत् ॥ १४ ॥

प्। ६९)

कलशैः स्नपनं कुर्यात् पञ्चविंशतिभिः क्रमात् ।
तत मन्त्रेण मन्त्रज्ञो मूर्तिमन्त्रेण वाहयेत् ॥ १५ ॥

शुद्धस्नानं ततः कृत्वा पुरुषेनाभिषेचयेत् ।
नीराजनं ततः कृत्वा निवेद्यान्नबलिं क्षिपेत् ॥ १६ ॥

गमयेदालये देवं पूर्ववत्परिकल्पयेत् ।
मण्डपं समलङ्कृत्य पश्चिमाभिमुखं न्यसेत् ॥ १७ ॥

चक्राब्जमण्डलं कृत्वा दर्शनार्थं सकुम्भकम् ।
नयनोन्मीलनार्थाय सर्वमापादयेद्बुधः ॥ १८ ॥

देवस्य पुरतःस्थाने व्रीहितण्डुलपीठके ।
घृतपात्रं मधु न्यस्य अष्टधान्यं च निक्षिपेत् ॥ १९ ॥

गाञ्चैव कन्यकाञ्चैव विनिवेश्य तदन्तिके ।
स्वर्णसूचीञ्चतट्टिञ्च ? रजतेन तथैव च ॥ २० ॥

परिस्तीर्य चतुर्दिक्षु वासुदेवादिकान् यजेत् ।
कुम्भमण्डलकं पूज्य पुण्याहमपि वाचयेत् ॥ २१ ॥

अर्घ्यादैर्देवमभ्यर्च्य घृतपात्रादिकान् न्यसेत् ।
उन्मील्य दक्षिणं नेत्रं घृतसिक्तशलाकया ॥ २२ ॥

चित्रन्देवेति मन्त्रेण तच्चक्षुरिति मन्त्रतः ।
दर्शयेन्मण्डलं कुम्भं गां च कन्यां तथैव च ॥ २३ ॥

प्। ७०)

अष्टधान्यानि सर्वाणि सुवर्णपलमेव च ।
नानाविधानि पुष्पाणि फलानि विविधानि च ॥ २४ ॥

एतद्द्रव्याणि सर्वाणि आचार्याय प्रदापयेत् ।
आच्छादनपटञ्चैव क्षौमवस्त्रं तथैव च ॥ २५ ॥

पुनरभ्यर्चयेद्देवं श्रावयेद्वेदघोषणम् ।
गीतं नृत्तं च वाद्यं च पुराणं द्राविडं तथा ॥ २६ ॥

पुष्पवृष्टिमुषस्सर्वे तुष्टिस्तु पुरुषोत्तमः ? ।
स्नानपीठे विशेषेण मोदयेद्देशिकोत्तमः ॥ २७ ॥

कलशस्थापनं कृत्वा अष्टोत्तरशतं परम् ।
एकाशीतिघटं वापि चत्वारिंशन्नवोत्तरम् ॥ २८ ॥

घृतमुष्णोदकञ्चैव रत्नं चैव फलोदकम् ।
लोहजम्मार्जनञ्चैव गन्धञ्चैवाक्षतोदकम् ॥ २९ ॥

यवोदकं तथाचार्घ्यं पाद्यमाचमनीयकम् ।
पञ्चगव्यं दधिक्षीरं मधु चैव कषायकम् ॥ ३० ॥

त्रिविधे कलशे ब्रह्मन् एतद्द्रव्यं विधीयते ।
पूर्वादिब्रह्मपर्यन्तमुद्धारक्रम इष्यते ॥ ३१ ॥

सूत्रवस्त्रादिभिर्वेष्ट्य कूर्चच * * षान्वितम् ।
ततश्चूर्णपटैरक्तं मृदालेपं समाचरेत् ॥ ३२ ॥

प्। ७१)

पञ्चभूतार्चने चैव सन्निधत्ते हरिःस्वयम् ।
प्रतिष्ठायां विशेषेण पञ्चभूतार्चनं चरेत् ॥ ३३ ॥

मृदालेपं जले स्नानं दीपं नीराजनं तथा ।
गन्धालेपञ्च सेचादि वाद्यवादनमेव च ॥ ३४ ॥

मृदालेपक्रमं वक्ष्ये समासादवधारय ।
नदीतटाकवल्मीकपर्वतक्षेत्रमृत्तिकाः ॥ ३५ ॥

गजसूकरगण्डस्थं गोवृषशृङ्गसंस्थितम् ।
तीर्थसिन्धुमृदं चैव एतद्द्वादशकं स्मृतम् ॥ ३६ ॥

ताम्रपात्रे तथाग्राह्यं प्ठक्पात्रे विनिक्षिपेत् ।
शरावं कलशं वापि किञ्चिदुक्तमृदाश्रितम् ॥ ३७ ॥ ?

धान्यराशौ प्रतिष्ठाप्य कोष्ठद्वादशकं भवेत् ।
पुण्याहं वाचयित्वा तु मृदानभ्यर्च्य साधकः ॥ ३८ ॥

द्वादशाक्षरमन्त्रेण मृदालेपं समाचरेत् ।
पूजयेत्सम्पुटीकृत्य उपस्नानसमन्वितम् ॥ ३९ ॥

कलशस्नपन कुर्यात् द्वादशाक्षरमन्त्रतः ।
विष्णुसूक्तेन वा विप्र पुरुषसूक्तमथापि वा ॥ ४० ॥

अन्तरान्तरयोगेन उपस्नानादिनार्चयेत् ।
चूर्णस्नानं ततः कुर्यात् शुद्धस्नानं तथैव च ॥ ४१ ॥

प्। ७२)

सहस्रधारया स्नानं कुर्यान्नीराजनं तथा ।
घटदीपद्वादशकैः प्रतिष्ठाप्य पुरःस्थले ॥ ४२ ॥

सूत्रमल्लकसंयुक्तं वन्दिवादसमन्वितम् ।
नीराजयेद्घटं विप्र पूजयेत्पूजयान्वितम् ॥ ४३ ॥

नीराजनविधानेन अग्निपूजनमिष्यते ।
अग्निपूजाविहीने तु प्रतिष्ठा निष्फला भवेत् ॥ ४४ ॥

मारुतप्रीणनार्थाय गन्धस्नानं समाचरेत् ।
चन्दनं कुङ्कुमञ्चैव कर्पूरमगरुं तथा ॥ ४५ ॥

उशीरं कोष्ठकञ्चैव कचोरं रजनी तथा ।
एलालवङ्गकञ्चैव तक्कोलं मुरमेव च ॥ ४६ ॥

एतानि द्वादशोक्तानि मन्त्रेऽस्मिन् परमेष्ठिना ।
पृथक् पात्रे निवेश्यार्च्य स्नापयेद्द्वादशार्णकैः ॥ ४७ ॥

पूजया सम्पुटं कुर्यात् साधकस्तन्त्रपारगः ।
आकाशप्रीणनार्थाय वेदवाद्यादिना चरेत् ॥ ४८ ॥

चतुर्वेदादिघोषञ्च पुराणं गीतमङ्गलम् ।
गाथापद्यं तथा मिश्रं प्रत्यङ्गागमनं तथा ॥ ४९ ॥

श्रावयेत्सन्निधौ विप्र देवदेवस्याशार्ङ्गिणः ।
अर्घ्याद्यैः पूजयेद्देवं प्रीतिशब्दमनन्तरम् ॥ ५० ॥

प्। ७३)

अलङ्कृत्य यथान्यायं शयनं परिकल्पयेत् ॥

इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां जलाधिवासो नाम
चतुर्दशोऽध्यायः ॥