अथ त्रयोदशोऽध्यायः
श्रीभगवान् -
स्थापनं सम्प्रवक्ष्यामि बिम्बानां मुनिसत्तम ।
स्थावरं जङ्गमञ्चैव द्विविधं बेरमुच्यते ॥ १ ॥
अयने चोत्तरं मुख्यं जघन्यं दक्षिणायनम् ।
जङ्गमन्तु जघन्ये वा मुख्ये वापि समाचरेत् ॥ २ ॥
माघे भाद्रपदे मासि प्रतिष्ठां परिवर्जयेत् ।
गुरुशुक्रास्तमे चैव ग्रहणस्यान्तिके तथा ॥ ३ ॥
दुष्टवारे विलग्ने च अशुभर्क्षे तथा तिथौ ।
वर्जयेद्देवदेवेशस्थापनं देशिकोत्तमः ॥ ४ ॥
प्। ६४)
दैवज्ञेनसमायुक्तं स्थापनं सम्यगाचरेत् ।
शिल्पशास्त्रानुसारेण शिल्पिना देशिकोत्तमः ॥ ५ ॥
यजमानेन सहितः सर्वैः परिकरैः सह ।
सर्वद्रव्यं समासाद्य पश्चात्कर्म समाचरेत् ॥ ६ ॥
कर्मारम्भदिनात्पूर्वं सप्तमे पञ्चमेऽहनि ।
तृतीयेऽहनि वा कुर्यात् अङ्कुरानर्पयेद्बुधः ॥ ७ ॥
ततः प्रदोषे सम्प्राप्ते मृत्सङ्ग्रहणमाचरेत् ।
दिशं प्राचीमुदीचीं वा व्रजेत् परिकरैस्सह ॥ ८ ॥
उद्यानं वा नदीतीरं प्राकारं तन्मयन्तु वा ? ।
तद्देशं प्रोक्षयेद्विप्र मन्त्रपूतेन वारिणा ॥ ९ ॥
आसने तु समाविश्य प्राणायामं समाचरेत् ।
न्यासं कृत्वा विशेषेण पुण्याहं वाचयेद्बुधः ॥ १० ॥
महीमभ्यर्च्य मन्त्रेण बलिं दद्यात्समन्ततः ।
खनित्रं क्षालयेत्तत्र अस्त्रमन्त्रेण देशिकः ॥ ११ ॥
वस्त्रदर्भैस्समाच्छाद्य भूसूक्तेन महीं स्पृशेत् ।
खनित्रेण खनेद्भूमिं प्राङ्मुखः क्रोडविद्यया ॥ १२ ॥
वेदैर्विहितमन्त्रेण वास्तुपूर्षं विलिख्य च ।
पुनरभ्यर्चयेद्धीमान् प्रात्राण्यादय देशिकः ॥ १३ ॥
प्। ६५)
गच्छेत्परिकरैस्सार्धं शङ्खकाहलनिस्वनैः ।
मण्डपं कारयेद्धीमान् प्रपामात्रमथापि वा ॥ १४ ॥
वितानाद्यैरलङ्कृत्य ध्वजतोरणकुम्भकैः ।
पूर्वपश्चिमदीर्घञ्च दक्षिणोत्तरदीर्घकम् ॥ १५ ॥
चतुरश्रं समं वापि तन्मध्ये मण्डलं लिखेत् ।
इष्टसिद्धिप्रदं वापि चक्राब्जं वापि कारयेत् ॥ १६ ॥
पूर्ववत्स्थापयेत्कुम्भं मण्डलस्य तु पश्चिमे ।
मण्डलेशस्य पूर्वे तु पालिकाक्षेत्रमुच्यते ॥ १७ ॥
पश्चिमेचोत्तरे वापि अग्न्यागारं प्रकल्पयेत् ।
दक्षिणोत्तरे तथा कुर्यात् पालिकां ग्राह्य देशिकः ॥ १८ ॥
पालिकां घटिकां चैव शरावान्द्वादशान्प्रति ? ।
बिलान् सम्पूरयेत्पश्चात् पालाशैः कुशदर्भकैः ॥ १९ ॥
चतुर्विंशाङ्गुलोत्सेधं क्षालयेद्देशिकोत्तमः ।
बन्धयेत्कण्ठदेशे तु दूर्वां बिल्वं च देशिकः ॥ २० ॥
मृदा सम्पूरयेत्पश्चात् सूत्रपातं समाचरेत् ।
पालिकास्यानुरूपेण कोष्ठे व्रीहीन्प्रपूरयेत् ॥ २१ ॥
तस्योपरि न्यसेत्पत्रं तत्पूर्वे बीजभाजनम् ।
सोमकुभन्तु वा पश्चात् न्यसेत्तन्त्रविचक्षणः ॥ २२ ॥
प्। ६६)
द्वारं कृत्वा विधानेन द्वारपूजां समाचरेत् ।
कुम्भे च मण्डले चैव अग्नौ सम्पूजयेत्क्रमात् ॥ २३ ॥
पालिकादक्षिणे पार्श्वे उत्तराभिमुखः स्थितः ।
पुण्याहं वाचयेत्पश्चात् ब्राह्मणैः सह देशिकः ॥ २४ ॥
पालिका स्वर्चयेद्देवान् ब्रह्माविष्णुशिवात्मकान् ।
सोमकुम्भं समभ्यर्च्य सोममन्त्रेण होमयेत् ॥ २५ ॥
तिलमुद्गयवान्चैव व्रीहिमाषप्रियङ्गुकान् ।
शिम्बसर्षपगोधूम कुलत्थान् कङ्गुश्यामकान् ॥ २६ ॥
बीजानामप्यभावे तु मुद्गमेकं प्रशस्यते ।
एतत्सङ्गृह्य निक्षिप्य पात्रे क्षीरं विनिक्षिपेत् ॥ २७ ॥
स्थापयेदम्बरेणैव पालिकाः परिवेष्टयेत् ।
सोमकुम्भगतां शाक्तिं बीजपात्रे विनिक्षिपेत् ॥ २८ ॥
पश्चादोषधिमन्त्रेण अभिमन्त्रणमाचरेत् ।
पुनस्सम्पूरयेत्पश्चात् घृतारोपणमाचरेत् ॥ २९ ॥
पुनस्सम्पूजयेत् बीजं बीजावापनमाचरेत् ।
शङ्खदुन्दुमिनादैश्च गीतमङ्गलवाद्यकैः ॥ ३० ॥
पुनः पूजां प्रकुर्वीत पूर्णाहुत्यवसानकम् ।
बलि दद्याद्विशेषेण मण्डपस्य समन्ततः ॥ ३१ ॥
प्। ६७)
सदस्सम्भावयेद्विद्वान् दक्षिणां दापयेद्बुधः ।
कुम्भमण्डलमभ्यर्च्य पूर्णाहुतिमथाचरेत् ॥ ३२ ॥
रक्षां कृत्वा विशेषेण सुगुप्ते स्थापयेद्बुधः ।
दिने दिने मुनिश्रेष्ठ बलिपूजां समाचरेत् ॥ ३३ ॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां अङ्कुरार्पणं नाम
त्रयोदशोऽध्यायः ॥