अथ एकादशोऽध्यायः
श्रीभगवान् -
ग्रामविन्यासकं वक्ष्ये अवधारय साम्प्रतम् ।
पुण्यक्षेत्रे नदीतीरे पर्वताग्रे त्रिकेपि वा ॥ १ ॥
देवालयार्थं वा कुर्यात् ग्रामार्थं देवतालयम् ।
ग्रामात्पूर्वं स्वतन्त्रं स्यात् परतन्त्रं तु पश्चिमम् ॥ २ ॥
एकविंशायनां वीथीं क्रोशमात्रं तु विस्तृतम् ।
ओतं प्रोतं तथा कुर्यात् ग्रामश्चैवोत्तमो भवेत् ॥ ३ ॥
तदर्धं मध्यमं प्रोक्तं तदर्धमधमं भवेत् ।
अयुग्मवीथिकायुक्तं वीथिद्वयमथापि वा ॥ ४ ॥
सप्तपञ्चत्रयं वापि ओतप्लोत क्रमेण तु ।
कृत्वा एतत्क्रमेणैव कारयेद्ग्रामवर्धनम् ॥ ५ ॥
ब्राह्मन्तु मध्यमं भागं दैविकं तदनन्तरम् ।
मानुषं तु तृतीयं स्यात् पैशाचं वै चतुर्थकम् ॥ ६ ॥
पैशाचे देवतावासं ब्राह्मे वै विष्णुमन्दिरम् ।
बहिः प्रदक्षिणे विप्र वीथिकां सम्प्रकारयेत् ॥ ७ ॥
एकपीठमथो वापि द्वितयं त्रितयन्तु वा ।
ग्रामपूर्वापरे विप्र विष्णुमन्दिरमाचरेत् ॥ ८ ॥
प्। ५६)
आसनं शयनं वापि यानारूढमथापि वा ।
वाराहं पूर्वदिग्भागे आग्नेय्यां वै नृसिंहकम् ॥ ९ ॥
याम्ये हयाननं प्रोक्तं नै-ऋते श्रीधरं भवेत् ।
वारुणे वासुदेवं तु मारुते वामनं तथा ॥ १० ॥
सौम्ये तु राघवं प्रोक्तं माधवमीशके बुधः ।
तद्वहिर्वीथिकां प्राप्य रविसोमं च पूर्वके ॥ ११ ॥
आग्नेये भैरवं स्थानं याम्ये वै मकरध्वजम् ।
षण्मुखं नै-ऋते प्रोक्तं वारुणे चैव कन्यकाम् ॥ १२ ॥
वायव्ये मदनं प्रोक्तं मातृस्थानं तथोत्तरे ।
ईशाने शङ्करं न्यस्य केवले विष्णुमन्दिरम् ? ॥ १३ ॥
तटाकं सर्वदिग्देशे गर्तं कूपं तथैव च ।
नगरे मध्यदेशे तु राजप्रासादमाचरेत् ॥ १४ ॥
प्रासादस्य तु बाह्ये तु गृहिणीवासमाचरेत् ।
प्राकारं परितःकुर्यात् द्वारगोपुरशोभितम् ॥ १५ ॥
तद्बहिर्वा न स्यादश्वावासं प्रकल्पयेत् ।
गजावासं च कूर्पं स्यात् भोजनागारमेव च ॥ १६ ॥
बही रक्षाजनावासं स्ववाहकजनैर्युतम् ।
रथकारजनैश्चैव गन्धपाकजनैस्तथा ॥ १७ ॥
प्। १७)
आपणान्वीथिकां चैव वहिर्वीथीं प्रकल्पयेत् ।
दानदेशनिवासं ? च यथाभिमतिदेशिकः ॥ १८ ॥
पुरदुर्गं बहिःकुर्यात् जलागारं बहिस्ततः ।
शिलासालं भूमिसालं यन्त्रतालसमन्वितम् ॥ १९ ॥
उद्यानं सर्वतः कुर्यात् कूपं सर्वत्र कारयेत् ।
प्रासादग्रामनिर्माणं निमित्तात् परिकल्पयेत् ॥ २० ॥
उपश्रुतिमुपश्रुत्य मङ्गलावाक्यगृह्यताम् ? ।
अमङ्गलं परित्यज्य गौलिर्दक्षिणतश्शुभम् ? ॥ २१ ॥
वामे वाजि विनाशं स्याद्दोषस्याभिप्रकल्पयेत् ? ।
उद्योगगमने काले नारीपूर्णघटं शुभम् ॥ २२ ॥
भेरीशङ्खनिनादं च तालघोषं तथैव च ।
क्षीरकुम्भं सुराकुम्भं दर्शयेत्शुभसंसदि ॥ २३ ॥
दुर्न्निमित्ते सति ब्राह्ममष्टोत्तरशतं हुवेत् ।
प्राणायामदशं वापि बिलादग्रेथवाप्यलम् ? ॥ २४ ॥
भूपईक्षाविधिं कुर्याच्छास्त्रदृष्टेन वर्त्मना ।
अधिकेचोत्तमाभूमिस्समञ्चेन्मध्यमा भवेत् ॥ २५ ॥
न्यूनं चेदधमाभूमिरधमं परिवर्जयेत् ।
ततः प्रवेशबलिं कुर्यात् व्रीहिबीजेन देशिकः ॥ २६ ॥
प्। ५८)
शङ्खवाद्यसमायुक्तं स्वस्तिसूक्तेन संयुतम् ।
इन्द्रादि ब्रह्मपर्यन्तं पञ्चरात्रेण वर्त्मना ॥ २७ ॥
शङ्खोपस्थापनं कुर्यात् दिक्षुवाथ विदिक्षु च ।
वीथीं प्रकल्पयेद्विद्वान् देवागारं तथैव च ॥ २८ ॥
शङ्खस्थापनकाले तु रत्नलोहादिकान् न्यसेत् ।
देवागारे विशेषेण कर्षणं सम्यगाचरेत् ॥ २९ ॥
सप्तधा कर्षयेद्भूमिमालवाल प्रकल्पयेत् ।
बीजावापं ततः कृत्वा जलसेचनमाचरेत् ॥ ३० ॥
फलपाकावसानञ्च रक्षां कुर्यात्समन्ततः ।
फलपाकावसाने तु गवान्तृप्तिञ्च कारयेत् ॥ ३१ ॥
चतुरशं ततः कृत्वा खननं सम्यगाचरेत् ।
वसुधां पूरयेत्पश्चात् गण्डशैलैः प्रपूरयेत् ॥ ३२ ॥
सिकतैः पूरयेत्पश्चात् जलपूरणमाचरेत् ।
हस्तपादैर्द्रढीकृत्य मादुकोपलकं न्यसेत् ॥ ३३ ॥
आधारोपरि विन्यस्य प्रासादं परिकल्पयेत् ।
उपपीठोपरि वापि केवलं वापि कारयेत् ॥ ३४ ॥
नगरं द्राविडं वापि केसरं च प्रकारयेत् ।
वृत्तं वृत्तायतं वापि चतुरश्रायतन्तु वा ॥ ३५ ॥
प्। ५९)
कूटद्वारमथोवापि शालागारमथापि वा ।
उपानदादि संयुक्तं पादप्रस्तरशोभितम् ॥ ३६ ॥
विमानैर्विविधैर्युक्तं शालापञ्जरभूषितम् ।
तोरणैश्च समायुक्तं मण्डपैश्च समायुतम् ॥ ३७ ॥
प्राकारगोपुरैर्युक्त मन्तर्वीथिकया युतम् ।
आग्नेये मानसस्थानं याम्ये गन्धालयं परम् ॥ ३८ ॥
श्रीस्थानं नैर्-ऋते प्रोक्तं पानीयं वारुणे परम् ।
वायव्ये नागराजानां भक्तानां सौम्यगे परम् ॥ ३९ ॥
सौम्येशानकयोर्मध्ये विष्वक्सेनं प्रकल्पयेत् ।
भगवत्प्रमुखं पश्चात् गरुत्मन्तं नियोजयेत् ॥ ४० ॥
चण्डञ्चैव प्रचण्डञ्च द्वारपार्श्वे निवेशयेत् ।
दुर्गां गणपतिं चैव ईशाने पावके न्यसेत् ॥ ४१ ॥
गोपुरस्य पुरो विप्र बलिपीठं प्रकल्पयेत् ।
पचनालयपूर्वे तु कूपं कुर्याद्विचक्षणः ॥ ४२ ॥
दक्षिणे चक्रराजन्तु ईशान्ये कोशसङ्ग्रहम् ।
विमानपार्श्वे विप्रेन्द्र दिङ्मूर्तिं परिकल्पयेत् ॥ ४३ ॥
वासुदेवादिकं वापि वाराहादिकमेव वा ।
स्तूपिकात्रितयं वापि पञ्चकं सप्तकन्तु वा ॥ ४४ ॥
प्। ६०)
एकं वापि द्विजश्रेष्ठ धामायामवशेन तु ? ।
एवं कृत्वा विधानेन प्रतिष्ठां सम्यगाचरेत् ॥ ४५ ॥
गर्भन्यासं ततः कृत्वा इष्टकाद्वितयं चरेत् ।
विमानस्थापनं कुर्यात् पञ्चरात्रेण वर्त्मना ॥ ४६ ॥
तरुणालयपूर्वन्तु वेश्म कुर्याद्विचक्षणः ।
तरुणालयं विना मूलेनाचरेत्तन्त्रवित्तमः ॥ ४७ ॥
इति श्रीपञ्चारात्रे महोपनिषदि अनिरुद्धसंहितायां ग्रामनिर्माणं नाम
एकादशोध्यायः ॥