अथ नवमोऽध्यायः
श्रीभगवान् -
अभिषेकमथो वक्ष्ये आचार्याणां विशेषतः ।
क्षत्रियाणां विशेषेण साधकानां विशेषतः ॥ १ ॥
विष्ण्वालये विशेषेण मण्डपं कारयेद्बुधः ।
मण्डपं समलङ्कृत्य तोरणाद्यैरलङ्कृतम् ॥ २ ॥
वितानाद्यैरलङ्कृत्य दर्भमाल्यैश्च शोभयेत् ।
अङ्कुरानर्पयित्वा तु पूर्वेद्युः कर्मवासरे ॥ ३ ॥
सप्तमे पञ्चमे वापि तृतीयेऽहनि वा भवेत् ।
पूर्वे द्वारान्विते पश्चात् सद्यो वा सकलं चरेत् ॥ ४ ॥
कौतुकं बन्धयेद्धीमान् पूर्वेद्युश्च निशामुखे ।
चतुःस्थानार्चनं विप्र कारयेद्विधिचोदितम् ॥ ५ ॥
प्। ४३)
अभिषेकविधिं ब्रह्मन् इष्टसिद्धिप्रदं यजेत् ।
चक्राब्जमण्डलं वापि कारयेच्छास्त्रवित्तमः ॥ ६ ॥
कुम्भाधिवासनं रात्रौ शयने सन्निवासयेत् ।
पञ्जरस्थस्य देवस्य पश्चिमे शयनं चरेत् ॥ ७ ॥
पञ्चभारप्रमाणेन धान्येन परिपूजयेत् ।
तदर्धन्तण्डुलञ्चैव तदर्धं तिलमेव च ॥ ८ ॥
नववस्त्रे विनिक्षिप्य व्याघ्रचर्म तथोपरि ।
तदूर्ध्वे कम्बलं न्यस्य पीठस्योपरि साधकः ॥ ९ ॥
तदूर्ध्वेऽङ्गुलिकां न्यस्य चित्रवस्त्रं तथैव च ।
पञ्चोपधानसंयुक्तं प्रच्छादनपटं तथा ॥ १० ॥
मृद्वास्तरणसंयुक्तं शयनं परिकल्पयेत् ।
क्षीरोदार्णवसंस्थितं अनन्तं परिपूजयेत् ॥ ११ ॥
कुम्भमण्डलवह्नौ तु पूजनं पूर्ववच्चरेत् ।
बलिं च सर्वतो दद्यात् पुराणं श्रावयेत्सुधीः ॥ १२ ॥
प्रभातकाले चोत्थाय स्नानं पूर्ववदाचरेत् ।
द्वारादीनि समभ्यर्च्य कुम्भादीन् परिपूजयेत् ॥ १३ ॥
कुम्भानुद्धृत्य तान् सर्वान् द्वादशान् चतुरोऽपि वा ।
चतुष्कुम्भं तु तन्मध्ये अष्टदिक्ष्वष्टकं न्यसेत् ॥ १४ ॥
प्। ४४)
व्रीहिकोपरि संस्थाप्य सूत्रवस्त्रादिवेष्टितम् ।
शरावं कूर्चसंयुक्तं शुद्धद्रव्यसमन्वितम् ॥ १५ ॥
पूर्वे पुष्पं प्रदद्यात्तु आग्नेये पत्रसञ्चयम् ।
याम्ये फलोदकञ्चैव नै-ऋते पञ्चगव्यकम् ॥ १६ ॥
वारुणे तीर्थतोयञ्च वायव्ये गन्धतोयकम् ।
सौम्ये चाक्षततोयं तु ईशान्ये भूतिसञ्ज्ञकम् ॥ १७ ॥
मध्ये चतुष्टये विप्र आग्नेये रत्नतोयकम् ।
नै-ऋते लोहतोयं च वायव्ये व्रीहितोयकम् ॥ १८ ॥
ईशान्ये सर्ववस्तूनि क्रमाद्द्रव्यं निवेशयेत् ।
उत्पलत्रितयञ्चैव केतकीद्वितयं तथा ॥ १९ ॥
शतपत्रं जातियुग्मं नन्द्यावर्तद्वयं तथा ।
एतानि दश पुष्पाणि निक्षिपेत् कुम्भमध्यतः ॥ २० ॥
पुष्पालाभे तु जातिस्यात्पत्रपूरमथोच्यते ।
तुलसीद्वितयञ्चैव दमनिद्वितयं तथा ॥ २१ ॥
सटाभद्रा च दूर्वा च सहदेवी तथैव च ।
बिल्वपत्रञ्च इत्येते निक्षिपेत् पावकोदके ॥ २२ ॥
पत्राणामप्यभावे तु तुलसीदलमुत्तमम् ।
कदली पनसञ्चाम्रं बिल्वमामलकं तथा ॥ २३ ॥
प्। ४५)
नालिकेरञ्च हव्यञ्च लिकुचं दाडिमं भवेत् ।
एतानि निक्षिपेद्याम्ये फलाभावे तु दाडिमम् ॥ २४ ॥
गोमूत्रं गोमयं क्षीरं दधिसर्पिश्च पञ्चमम् ।
गव्यानामप्यलाभे तु घृतमेकं प्रशस्यते ॥ २५ ॥
नादेयं नैर्झरं ह्रादं सामुद्रं पौष्करं तथा ।
हैमञ्च वार्षिकञ्चैव कर्पूरागरुकं तथा ॥ २६ ॥
एलालवङ्गतक्कोलवचाकर्पूरमेव च ।
एतानि गन्धतोये तु निक्षिपेत्तन्त्रपारगः ॥ २७ ॥
एलादीनामलाभेतु कर्पूरं सम्प्रचक्षते ।
व्रीहितण्डुलकञ्चैव प्रियङ्गुं कम्बुसञ्ज्ञकम् ॥ २८ ॥
कलमां रक्तशालिञ्च वेणुं चैव यवं तथा ।
अक्षतानामभावे तु कलमापरिचक्षते ॥ २९ ॥
त्रेताग्निभूतिकं चैव नित्यहोमाग्निभूतिकम् ।
यागाग्निभूतिकं चैव उत्सवाग्नि विभूतिकम् ॥ ३० ॥
भूतीनामप्यलाभे तु नित्यकुण्डविभूतिकम् ।
मणिं मरकतञ्चैव वैडूर्यं पुष्परागकम् ॥ ३१ ॥
गोमेधञ्चेन्द्रनीलञ्च वज्रं मौक्तिकमेव च ।
प्रवालं स्फटिकञ्चैव पुष्पगं ब्रह्मरागकम् ॥ ३२ ॥
प्। ४६)
रत्नानामप्यलाभे तु मौक्तमेकं प्रशस्यते ।
सुवर्णं रजतं ताम्रमायसं त्रपुकं तथा ॥ ३३ ॥
रजीन्द्र ? मारकूटञ्च लोहान्येतानि निक्षिपेत् ।
शालिं व्रीहिं तथाचैव षष्टिकं यववेणुकम् ॥ ३४ ॥
गोधूमतिलमुद्गं च शिम्बमाषकुलत्थकम् ।
एतानि मारुते कुम्भे निक्षिपेन्मुनिसत्तम ॥ ३५ ॥
ईशाने सर्ववस्तूनि निक्षिपेत्तन्त्रपारगः ।
यन्त्रन्यासक्रमेणैव उद्धारक्रम इष्यते ॥ ३६ ॥
केशवाद्यैश्च मन्त्रैश्च स्थापयेद्विधिपूर्वकम् ।
स्नानं पुरुषसूक्तेन विष्णुसूक्तेन वा भवेत् ॥ ३७ ॥
अन्तरान्तरयोगेन स्नानानां च महामते ।
अर्घ्यं गन्धं च पुष्पं च धूपं चैव निवेदयेत् ॥ ३८ ॥
आसने तु समारोप्य अभिषेकं समाचरेत् ।
शुद्धस्नानं ततः कृत्वा नीराजनमथाचरेत् ॥ ३९ ॥
अलङ्कृत्य यथा न्यायं यागभूमिं समाविशेत् ।
आसने सन्निवेश्याथ पट्टबन्धमथाचरेत् ॥ ४० ॥
भट्टमाचार्यभूयञ्च तदग्रेण जगद्गुरुम् ।
आचार्यं दृष्टमात्रेण देववत्प्रतिभावयेत् ॥ ४१ ॥
प्। ४७)
आसनं पादुकेचैव छत्रं चामरमेव च ।
वाहनं केतुदण्डञ्च चिह्नं काहलमेव च ॥ ४२ ॥
शङ्खभेरीनिनादञ्च द्वारपालञ्च भूषणम् ।
कांस्यतालं च चिह्नं च प्रदद्याद्विष्णुसन्निधौ ॥ ४३ ॥
कालचिह्नं कलञ्चैव प्रदद्यात् विष्णुसन्निधौ ।
राजा चात्र विशेषेण अभिषेकं समाचरेत् ॥ ४४ ॥
अष्टोत्तरशते निष्के अभिषेकं प्रकल्पयेत् ।
नवरत्नसमायुक्तं त्रपुकाञ्चन संयुतम् ॥ ४५ ॥
इतिपूर्वक्रियासर्वं द्विजवत्सर्वमाचरेत् ।
मुहूर्ते शोभने प्राप्ते अभिषेकं समाचरेत् ॥ ४६ ॥
ब्राह्मणः क्षत्रियश्चैव वैश्यशूद्रैवमादिकैः ? ।
नृत्तगीतसमायुक्तं जयशब्दसमन्वितम् ॥ ४७ ॥
वेदघोषसमायुक्तं शङ्खनादसमन्वितम् ।
अभिषेकं ततः कृत्वा दद्यादाचमनं तथा ॥ ४८ ॥
नेत्रबन्धं ततः कृत्वा आयुधानि च संस्पृशेत् ।
उदस्थानानि भाण्डानि मङ्गलानि च दर्शयेत् ॥ ४९ ॥
राजचिह्नानि सर्वाणि उत्तमासनपूर्वकम् ।
प्रणमेद्दण्डवद्भूमौ जनैस्सर्वैरतन्द्रितः ॥ ५० ॥
प्। ४८)
वैश्यश्चेत्तु विशेषेण अभिषेकादिकं विना ।
पालशब्दं वदेद्विप्र शूद्रश्चेत् दास्यकं वदेत् ॥ ५१ ॥
ब्राह्मणः सर्ववर्णानां राजा राष्ट्रस्य कारणम् ॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां अभिषेकविधिर्नाम
नवमोऽध्यायः ॥