अथ अष्टमोऽध्यायः
भगवान् -
कुण्डानां लक्षणं वक्ष्ये शृणु गुह्यं महामुने ।
वृत्तात्सञ्जायते सर्वं वृत्तं मध्यात्प्रजायते ॥ १ ॥
मण्डलस्येशकोणे तु कुम्भवेदिं प्रकल्पयेत् ।
तस्य पावकदिग्भागे कुण्डवेदिं प्रकल्पयेत् ॥ २ ॥
दण्डके तु विशेषेण कुम्भवेदिं तु पूर्वके ।
मण्डलं मध्यमे भागे पश्चिमे कुम्भसञ्ज्ञकम् ॥ ३ ॥
सौम्यालाभे तदा विप्र दक्षिणादि प्रकल्पयेत् ।
बिम्बन्तु पश्चिमे भागे सर्वत्रैव निवेशयेत् ॥ ४ ॥
दक्षिणायान्तके विप्र उत्तरे बिम्बसंस्थितं ।
योनिनाभिसमायुक्तमब्जमेखलकैर्युतम् ॥ ५ ॥
षण्णवत्यङ्गुलं मानं सर्वकुण्डमकण्टकम् ।
अश्रं चापं तथा वृत्तं शङ्कं चक्रं च पङ्कजम् ॥ ६ ॥
त्र्यश्रं पञ्चाश्रमुदितं षडश्रं सप्तकोणकम् ।
अष्टाश्रं च नवाश्रं च गदा योनिमतःपरम् ॥ ७ ॥
एवं चतुर्दशं कुण्डं तन्त्रेऽस्मिन् परमेष्ठिना ।
कुण्डमण्डलवेद्यार्धमानं मुष्ठ्यङ्गलं भवेत् ॥ ८ ॥
प्। ३६)
त्रिमुष्टिमात्रं तालं वा तद्वयं हस्तमिष्यते ।
तद्वयं दण्डमित्युक्तं तद्वयं धनुरुच्यते ॥ ९ ॥
युग गोचर्मकञ्चैव तन्मानं सम्प्रकीर्तितम् ।
चतुरश्रस्य वृत्तस्य मानं मध्येन जायते ॥ १० ॥
तालमानेन सूत्रेण भ्रामयेन्मध्यसूत्रतः ।
तद्वृत्तपरिधेः पार्श्वे सूत्रमास्फालयेच्च तत् ॥ ११ ॥
चतुःसूत्रप्रयोगेण चतुरश्रं प्रजायते ।
अर्धमानेन सूत्रेण मध्यकण्ठेन पातयेत् ॥ १२ ॥
चतुर्दिक्क्रमयोगेन चतुरश्रं प्रजायते ।
चतुरश्रवशेनैव यद्वा वृत्तबशेन तु ॥ १३ ॥
अन्यानि सर्वकुण्डानि तन्मानेन तु कारयेत् ।
चतुरश्रं खनेद्भूमौ हस्तमानप्रमाणतः ॥ १४ ॥
तालमानमथैवापि द्व्यङ्गुलं नाभिमानकम् ।
तद्बहिस्तालमानेन मेखलात्रितयं भवेत् ॥ १५ ॥
चतुरङ्गुलविस्तारमुन्नतं तावदेव तु ।
योनिं प्रकल्पयेदूर्ध्वे पश्चिमे कुण्डमध्यमे ॥ १६ ॥
चरतुश्रवशेनैव यद्वा वृत्तवशेन तु ।
दशाङ्गुलप्रमाणेन आयतं परिकीर्तितम् ॥ १७ ॥
प्। ३७)
विस्तारन्तु विशेषेण दशभिः खण्डचन्द्रकम् ।
पृष्ठपार्श्वे लिखेद्विप्र षट्चतुर्द्वङ्गुलैर्युतम् ॥ १८ ॥
अश्वत्थपत्रवत्कुर्यात् तन्नालं चतुरङ्गुलम् ।
त्रियङ्गुलं तु नहनं मुखे चैव षडङ्गुलम् ॥ १९ ॥
मध्यमेखलमानं स्यात् सुषिरं परिधेर्द्विज ।
कुण्डमध्ये लिखेत् पद्ममष्टपत्रं सकर्णिकम् ॥ २० ॥
मेखलस्योर्ध्वकोणेषु चक्र शङ्खादिकान् लिखेत् ।
अङ्गुलोन्नतमानेन मृद्भिरेव प्रकल्पयेत् ॥ २१ ॥
मृदा संलेपयेत्पश्चात् गोमयेन विचक्षणः ।
सुधाचूर्णैरलङ्कृत्य तालमानेन पीठकम् ॥ २२ ॥
चतुरश्रमिदं प्रोक्तं चापकुण्डमथोच्यते ।
पूर्ववृत्तप्रमाणेन तदर्धं देशिकोत्तमः ॥ २३ ॥
तन्मानं भ्रामयेच्चापं सज्यं तद्वयमानकम् ।
यादृग्विधं भवेत् कुण्डं तादृगेव तु मेखला ॥ २४ ॥
योनिं कुण्डेषु सर्वेषु कल्पयेच्च द्विजोत्तम ।
योनिकुण्डेन योनिः स्यात् पद्मकुण्डेन पङ्कजम् ॥ २५ ॥
चापं षडङ्गुलं प्रोक्तं सज्यं षट्त्रिंशकं मुने ।
यद्वाङ्गुलवशेनैव सर्वकुण्डं प्रकल्पयेत् ॥ २६ ॥
प्। ३८)
चतुर्विंशात्यङ्गुलञ्चाग्रं चापं षष्ट्यङ्गुलं भवेत् ।
सज्यं षट्त्रिंशकं प्रोक्तं वृत्तार्धं षोडशाङ्गुलम् ॥ २७ ॥
पद्मकुण्डं तदेव स्यात् चक्रकुण्डं तथैव च ।
त्र्यश्रकुण्डं विशेषेण द्वात्रिंशदङ्गुलं मुने ॥ २८ ॥
द्वात्रिंशदङ्गुलं मानं पट्टायामं प्रकीर्तितम् ।
दक्षिणोत्तरपार्श्वे तु सूत्रमास्फालयेच्च तत् ॥ २९ ॥
योनिकुण्डमथो वक्ष्ये चतुरश्र प्रजायते ।
दशाङ्गुलप्रमाणेन वायुनै-ऋतकोणयोः ॥ ३० ॥
कोणाग्रे स्थापयेत्सूत्रं भ्रामयेदर्धचन्द्रकम् ।
अर्धचन्द्रशशिशृङ्गात् पूर्वमध्याच्च पातयेत् ॥ ३१ ॥
दक्षिणोत्तरपार्श्वे तु अग्रमश्वत्थपत्रवत् ।
योनिवत् सन्निवेशस्स्यान्न योनिं परिकल्पयेत् ॥ ३२ ॥
अब्जकुण्डमथो वक्ष्ये पूर्वद्वृत्तमालिखेत् ।
ऊर्ध्वमेखलयामध्यमर्धाञ्चाप्यथमेखलां ? ॥ ३३ ॥
एवमष्टाङ्गुलेनैव पद्मपत्रं प्रकल्पयेत् ।
क्रमेण प्रणवं कुर्यात् बलिपीठाब्जपत्रवत् ॥ ३४ ॥
अष्टपत्रमथो वापि द्वादशं वापि कारयेत् ।
शङ्खकुण्डमथो वक्ष्ये पूर्वपश्चिमदीर्घकम् ॥ ३५ ॥
प्। ३९)
पूर्ववद्वृत्तमालिख्य द्वादशाङ्गुलमानतः ।
तद्वृत्तपरिधेःपूर्वं अर्धचन्द्रं समालिखेत् ॥ ३६ ॥
चतुरङ्गुलमानेन भ्रूपद्मं परिकल्पयेत् ।
अथ पश्चिमभागे तु शङ्खस्याग्रं प्रकल्पयेत् ॥ ३७ ॥
अग्रं तु योनिवत्कुर्यात् तत् षडङ्गुलमानतः ।
उत्तरे मेखलापार्श्वे किञ्चिन्नाभि प्रकल्पयेत् ॥ ३८ ॥
मेखलात्रितयं कुर्यात् तद्वदेव च दक्षिणम् ।
चतुर्दिक्षु विशेषेण ज्वालां काञ्चित्प्रकल्पयेत् ॥ ३९ ॥
चक्रकुण्डमथो वक्ष्ये वृत्तं पूर्ववदालिखेत् ।
नीचोर्ध्वमेखलां सम्यक् द्व्यङ्गुलेन प्रकल्पयेत् ॥ ४० ॥
अष्टाङ्गुलेन तन्मध्ये अरक्षेत्रं प्रकल्पयेत् ।
द्वादशाष्टादशं वापि द्विजाण्डसदृशं भवेत् ॥ ४१ ॥
अक्षन्तु कुण्डमध्यं स्यान्नाभिर्नेमिर्द्विमेखला ।
चतुर्ज्वालां प्रकल्प्यैव शिखावन्मुनिसत्तम ॥ ४२ ॥
पञ्चाश्रकमथो वक्ष्ये अवधारय साम्प्रतम् ।
वृत्तं तु पूर्ववत्कृत्वा पञ्चधा परिरञ्जयेत् ॥ ४३ ॥
कर्णसूत्रं बहिःकृत्वा वह्नेर्वह्नेर्विशेषतः ।
पट्टसूत्रं बहिः कुर्यात् सूत्रैरष्टादशार्धकैः ॥ ४४ ॥
प्। ४०)
पट्टसूत्रस्य मध्यं स्यात् किञ्चित् प्रह्वं समाचरेत् ।
तद्वशान्मेखलां कुर्यात् षडश्रमधुनोच्यते ॥ ४५ ॥
वृत्तञ्च पूर्ववत्कुर्यात् त्रिःपञ्चाङ्गुलमानतः ।
त्रिःपञ्चाङ्गुलमानेन सूत्रस्योपरि कल्पयेत् ॥ ४६ ॥
वृत्तन्तु पूर्ववत्कुर्यादर्धमानेन चाङ्कयेत् ।
षट्चिह्नं जायते विप्र षट्सूत्रं पट्टयेद्बहिः ॥ ४७ ॥
पट्टायामं ततः कृत्वा चिह्नसूत्रं बहिः क्षिपेत् ।
तद्वच्च मेखलां कुर्यात् सप्ताश्रञ्चावधारय ॥ ४८ ॥
सप्तधा चाङ्कयेत्वृत्तं कोणसूत्रं बहिःक्षिपेत् ।
कोणात्कोणान्तरं कुर्यात् पट्टायामं प्रकीर्तितम् ॥ ४९ ॥
अष्टकोणविधिस्तद्वत् नावकोणविधिस्तथा ।
गदाकारमथो वक्ष्ये पूर्वपश्चिमदीर्घकम् ॥ ५० ॥
पूर्ववद्वृत्तसंयुक्तं द्व्यङ्गुलं तु विहीनकम् ।
भूतात् भूते तु कर्तव्यं षट्चतुर्द्व्यङ्गुलैककम् ॥ ५१ ॥
तत्कुण्डपश्चिमे भागे अष्टाङ्गुलसमायुतम् ।
किञ्चित्प्रणवसंयुक्तं दण्डाकारं विशेषतः ॥ ५२ ॥
एवं चतुर्दशं कुण्डं तन्त्रेऽस्मिन् मुनिपुङ्गव ।
उत्सवे तु नवाश्रं स्यादष्टाश्रं वापि कारयेत् ॥ ५३ ॥
प्। ४१)
चतुरश्रमथैवापि एकाश्रं वापि कारयेत् ।
पवित्रारोहणे विप्र अष्टकुण्डं प्रकल्पयेत् ॥ ५४ ॥
चतुष्कुण्डमथैवापि एककुण्डं तु कल्पयेत् ।
प्रतिष्ठायां विशेषेण तथैव परिकल्पयेत् ॥ ५५ ॥
पत्रपुष्पोत्सवे चैव तथान्तकलशे द्विज ।
कुण्डकर्मविधिः प्रोक्तः कुम्भसंस्थापनं शृणु ॥ ५६ ॥
खारिद्वयेन सम्पूर्णं महाकुम्भं प्रकीर्तितम् ।
तदर्धमुपकुम्भं च परिकुम्भं तदर्धकम् ॥ ५७ ॥
तन्मानं वर्धनीचैव वस्त्रेण परिवेष्टयेत् ।
अङ्गुलान्तरकं वापि अक्षमात्रा तु वा भवेत् ॥ ५८ ॥
व्रीहिकोपरिसंस्थाप्य सौवर्णं राजतं तु वा ।
ताम्रं वा मृण्मयं वापि यथा वित्तानुसारतः ॥ ५९ ॥
वस्त्रे संवेष्टयेत्पश्चात् शरावैरपिधाय च ।
स्तम्बकैर्नालिकेरैश्च क्रमुकैः फलवृत्तकैः ॥ ६० ॥
फलैर्नानाविधैश्चैव नारिकेलफलैरपि ।
रत्नहेमसमायुक्तमष्टमङ्गुलसंयुतम् ॥ ६१ ॥
पालिकैश्च समायुक्तं दीपकुम्भसमन्वितम् ।
स्वर्णपट्टसमायुक्तं क्षौमवस्त्रसमायुतम् ॥ ६२ ॥
प्। ४२)
कुम्भमण्डलकुण्डेषु परिकुम्भं तु विन्यसेत् ।
ध्वजैश्चतोरणैर्युक्तं द्वारकुम्भोपशोभितम् ॥ ६३ ॥
एवं दीक्षाविधाने तु प्रतिष्ठाद्युत्सवेषु च ।
अन्यथा दोषमाप्नोति नात्र कार्या विचारणा ॥ ६४ ॥
इति श्रीपाञ्चरात्रं महोपनिषदि अनिरुद्धसंहितायां कुण्डविधिर्नाम
अष्टमोऽध्यायः ॥