अथ सप्तमोऽध्यायः
भृगुः -
चक्राब्जमण्डल कीदृक् वदस्व परमेश्वर ।
भगवान् -
चक्राब्जमण्डलं वक्ष्ये विस्तरेणावधारय ॥ १ ॥
सूत्रपातविधिं चैव मानवृद्धिं तथैव च ।
रजसा पूरणं चैव चक्रपूजाफलं तथा ॥ २ ॥
मण्डपं पूर्ववत्कृत्वा अलङ्कृत्य विधानतः ।
तन्मध्ये वेदिकं कृत्वा पञ्चहस्तप्रमाणतः ॥ ३ ॥
दृढासमन्तथाकारं प्रागुत्तरत * * * ।
४ ॥
चतुरङ्गुलकां कृत्वा आधारद्व्यङ्गुलं भवेत् ।
कुभवेदिं विशेषेण हस्तमानसमुच्छ्रिताम् ॥ ५ ॥
विस्तारं तु विशेषेण चतुर्हस्तं त्रिहस्तकम् ।
पञ्चहस्तमथैवापि आधारं तु त्रियङ्गुलं ॥ ६ ॥
विस्तारायामसदृशा होमवेदिस्तथा भवेत् ।
अथवा तालविस्तार मुन्नतं तु त्रियङ्गुलम् ॥ ७ ॥
प्। ३१)
वेदिमध्ये लिखेद्विद्वान् मण्डलं चक्रसञ्ज्ञकम् ।
चक्रं त्रिविधमुद्दिष्टमुत्तमाधममध्यमम् ॥ ८ ॥
वक्ष्यामि चोत्तमं प्रोक्तं समासादवधारय ।
अक्षक्षेत्रे लिखेत् पद्मं पूर्ववत्तालमानतः ॥ ९ ॥
वृत्तात्सञ्जायते सर्वं वृत्तमध्यात्प्रजायते ।
पद्मबाह्ये नाभिनेमि एकधा वा द्विधा त्रिधा ॥ १० ॥
अरक्षेत्रं तु तद्वाह्ये बहिर्नेमिस्तु पूर्ववत् ।
चतुरङ्गुलमानेन नाभिनेमिः प्रकीर्तितः ॥ ११ ॥
षडङ्गुलप्रमाणेन अरक्षेत्रं प्रकीर्तितम् ।
अरत्रिभागकं सूत्रं स्थापयेत् द्वयपार्श्वयोः ॥ १२ ॥
द्व्यंशमानेन सूत्रेण भ्रामयेन्मन्त्रवित्तमः ।
अपरे तु तथाधः कुर्यान्मातुलुङ्गाकृतिर्भवेत् ॥ १३ ॥
नेमिक्षेत्राद्बहिर्वीथ्यां पत्रवल्लीं लिखेद्बुधः ।
त्र्यङ्गुलं वल्लिमानं स्यात् बाह्यनेमि त्रियङ्गुलम् ॥ १४ ॥
अरक्षेत्रं बहिःकार्यं षोडशाङ्गुलमानतः ।
अरस्थाने लिखेत् चक्रं द्वादशं षोडशं तु वा ॥ १५ ॥
चतुर्दशाङ्गुलं चक्रं चतुरङ्गेन भूषितम् ।
अक्षं नाभिररं नेमिश्चतुरङ्गमिति स्मृतम् ॥ १६ ॥
प्। ३२)
अक्षमङ्गुलकं प्रोक्तं नाभिनेमी तथैव च ।
चतुरङ्गुलमानं तु अरक्षेत्रं प्रजायते ॥ १७ ॥
तदरं वृत्तसङ्काशमश्राकारमथापि वा ।
अब्जपत्रसमाकारमिन्दीवरदलच्छदम् ॥ १८ ॥
अर्धचन्द्रसमाकारं द्विजाण्डसदृशं तु वा ।
एवं द्वादशचक्रस्य अरक्षेत्रे विशेषतः ॥ १९ ॥
तद्बहिर्नेमिभूभागं वल्लिक्षेत्रन्तु पूर्ववत् ।
बहिर्नाभि तथा कुर्यात् अरक्षेत्रं तथा भवेत् ॥ २० ॥
तदरं पूर्ववत्कुर्यान्मानं पूर्ववदिष्यते ।
नेमिक्षेत्रं बहिः कुर्यात् प्रधयश्चबहिस्तथा ॥ २१ ॥
द्विधावृत्तं वीथिसङ्घं व्योमवृत्तं बहिर्भवेत् ।
चतुरश्रं ततः कुर्यात् पीठादीन् पूर्ववल्लिखेत् ॥ २२ ॥
रजसा पूरयेत् पश्चात् द्विविधेनोज्वलेन च ।
पद्मं तु पूर्ववद्विप्र नाभि नेमि तु पीतलम् ॥ २३ ॥
अरक्षेत्रं तु रक्तं स्यादरं वै कृष्णसन्निभम् ।
पत्रवल्लीन्तु शुक्लेन नाभिनेमि तु श्यामलम् ॥ २४ ॥
एकद्वारकृतञ्चैव अरान्ते च प्रकल्पयेत् ।
इन्दीवरमातुलुङ्ग पद्मपत्र यवोदरम् ॥ २५ ॥
प्। ३३)
पिप्पलोदरकञ्चैव परशुं वज्रसन्निभम् ।
चतुरश्रं च वृत्तं च अर्धचन्द्रं च कूर्परम् ॥ २६ ॥
शङ्ख चक्रं द्वादशैते पूर्वादीनन्तु देशिकः ।
अक्षन्तु पीतलं प्रोक्तं सर्वचक्रेषु सम्मतम् ॥ २७ ॥
नाभिनेमिररक्षेत्रं वर्णभेदैः प्रपूरयेत् ।
यथाशोभानुरूपेण पूरयेच्च यथारुचि ॥ २८ ॥
पूर्ववत्पत्रवल्लीन्तु नाभिनेमिसितं भवेत् ।
अरसङ्घं तु कृष्णेन अन्तरालं तु पीतलम् ॥ २९ ॥
प्रधिसङ्घं विशेषेण नानावर्णैः प्रपूरयेत् ।
व्योमवृत्तं तथा कृष्णं पीठादीन् पूर्ववच्चरेत् ॥ ३० ॥
रेखात्रयं विशेषेण सितं रक्तं च कृष्णकम् ।
अन्तःपीठं विशेषेण पाण्डुरक्तेन पूरयेत् ॥ ३१ ॥
चक्रत्रयसमायुक्त मुत्तमं परिकीर्तितम् ।
चक्रद्वयसमायुक्तं मध्यमं परिचक्षते ॥ ३२ ॥
एकमप्यधमं प्रोक्तमित्येतत् त्रिविधं भवेत् ।
चक्रमध्ये यजेद्देवं नारायणमनामयम् ॥ ३३ ॥
दलेषु वासुदेवादीन् सोमं व्योम्नि प्रपूजयेत् ।
नाभिक्षेत्रे यजेच्छ्रीञ्च नेमिक्षेत्रे सरस्वतीम् ॥ ३४ ॥
प्। ३४)
अरक्षेत्रे जयाञ्चैव अरे मूर्तिं समायजेत् ।
अरक्षेत्रे तथाङ्गेषु द्वादशादित्यकान् यजेत् ॥ ३५ ॥
बाह्यारे तु विशेषेण केशवादीन्प्रपूजयेत् ।
प्रधिक्षेत्रे विशेषेण समुद्रादींश्च पूजयेत् ॥ ३६ ॥
पीठादिके यथापूर्वं पूजयेदिन्द्रपावकौ ।
अनेकोपचारकैर्वापि द्वात्रिंशद्भिरथापि वा ॥ ३७ ॥
षोडशैर्वा विशेषेण प्रोक्षणं स्नानमाचरेत् ।
यश्चक्रे पूजयेद्विद्वान् सोऽपि तत्पदमाप्नुयात् ॥ ३८ ॥
अर्थार्थी चार्थमाप्नोति जयार्थी जयमाप्नुयात् ।
कामार्थी काममाप्नोति पुत्रार्थी पुत्रमाप्नुयात् ॥ ३९ ॥
अश्वमेधाष्टकं पुण्यं प्राप्नुयाच्चक्रपूजनात् ।
प्राजापत्यशतं चैव गोसहस्रफलं तथा ॥ ४० ॥
पवित्रारोपणे चैव तथा स्नपन कर्मणि ।
प्रायश्चित्तेषु सर्वेषु दुर्निमित्तादिकेषु च ॥ ४१ ॥
नृपरोगादिगे प्राप्ते शत्रुभिः परिपीडने ।
अनावृष्ट्यादिके प्राप्ते चक्राब्जे संयजेद्विभुम् ॥ ५० ॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां चक्राब्जमण्डलं नाम
सप्तमोऽध्यायः ॥