अथ षष्ठोऽध्यायः
श्रीभगवान् -
मण्डलानां विधिं वक्ष्ये समासादवधारय ।
चतुरश्रीकृतं क्षेत्रं त्रिंशधा विभजेच्च तत् ॥ १ ॥
अंशकानां भवेदत्र नवानां शतकम्भवेत् ।
तन्मध्ये दशपङ्क्त्यातु पद्मक्षेत्रं प्रजायते ॥ २ ॥
क्षेत्रद्वादशभागैकं व्यवधानं प्रकल्पयेत् ।
व्यवधानं त्रिधा कृत्वा व्योमवृत्तं तथाभवेत् ॥ ३ ॥
चतुर्धा विभजेत् शेषं प्रथमं कर्णिकापदम् ।
द्वितीयं केसरं प्रोक्तं तृतीयञ्च चतुर्थकम् ॥ ४ ॥
प्। २३)
चतुर्थैकांऽसमानेन दलाग्रं सम्प्रकल्पयेत् ।
शिष्टेनांशगणेनैव पत्रमेकं प्रकल्पयेत् ॥ ५ ॥
पत्रान्तरालकं सर्वं कनिष्ठाङ्गुलिमानकम् ।
पत्रमध्ये त्रिरेखाञ्च पञ्चरेखां तथैव च ॥ ६ ॥
यवमात्रोन्नतं कुर्यात् पत्रमूलं तदानयेत् ।
पत्राग्रं पृथुतां याति अथवा केसरांशकम् ॥ ७ ॥
कर्णिकाग्रांशमानं वा इच्छया परिकल्पयेत् ।
यन्त्रकोच्चं पत्रमानं केसरं पत्रकांशकम् ॥ ८ ॥
एवन्तु पङ्कजं कृत्वा व्योमवृत्तं बहिर्भ्रमेत् ।
व्योमवृत्ताद्बहिर्वृत्तं चतुरश्रं प्रकल्पयेत् ॥ ९ ॥
शेषं पङ्क्तिपदेनैव पीठादि परिशोधयेत् ।
एवं पङ्क्त्या भवेत्पीठं चतुर्दिक्षु द्विकं व्रजेत् ॥ १० ॥
विदिक्षुचैव त्रिपदं द्विपदं त्वन्तरन्नयेत् ।
उपपीठं चतुःपङ्क्त्या कल्पयेत्पीठमुत्तमम् ॥ ११ ॥
मध्ये द्वादशकेनैव गात्रकं परिकल्पयेत् ।
तत्पूर्वापरवृत्तिभ्यां द्वितयं द्वितयं भवेत् ॥ १२ ॥
मध्यपङ्क्तिद्वयेनैव अष्टकं परिमार्जयेत् ।
एकीकृत्य ततस्सर्वानष्टकं तस्य पार्श्वयोः ॥ १३ ॥
प्। २४)
त्रीणि त्रीणि तथाद्यन्ते मध्ये पङ्क्तिद्वये द्वयम् ।
तत्पदेचाष्टकं मृज्य मध्येचैव त्रयन्त्रयम् ॥ १४ ॥
एवमाद्यन्तपङ्क्तिभ्या मेकीकृत्य परामृजेत् ।
पद्मक्षेत्रस्य बाह्ये तु पञ्चकं परिमार्जयेत् ॥ १५ ॥
शेषन्तु कोष्ठकं प्रोक्तं द्विपदेनैव वीथिकाम् ।
गात्रकाख्यप्रदेशेतु शङ्खादीन् परिकल्पयेत् ॥ १६ ॥
शङ्खं चक्रं गदां पद्मं दिक्क्रमेण समालिखेत् ।
मुसलं नदकञ्चैव शार्ङ्गं च वनमालिकाम् ॥ १७ ॥
आग्नेयादीशकोणान्तं विन्यसेत्परितःक्रमात् ।
शिष्टं पङ्क्तिक्रमेणैव द्वारादि परिकल्पयेत् ॥ १८ ॥
द्विचतुष्कक्रमेणैव द्वारन्तु परिशोधयेत् ।
शोभं नवपदेनैव उपद्वारन्तु द्वारवत् ॥ १९ ॥
षट्पदैः सूक्ष्मशोभञ्च शिष्टकोणकम् ? ।
बहिः पङ्क्त्यंशमानेन रेखात्रयमथाचरेत् ॥ २० ॥
उपद्वारे विशेषेण मङ्गलाष्टकमालिखेत् ।
रजसा पूरयेत्पश्चात् शुद्धेन विविधेन च ॥ २१ ॥
कर्णिकां कनकाभेन केसरं शोणितप्रभम् ।
दलजालं सितं प्रोक्तं कृष्णं चैवान्तरं परम् ॥ २२ ॥
प्। २५)
व्योअमवृत्तं तथा कुर्यात् बाह्यं चारुणप्रभम् ।
पीठकोणं सितं कुर्यात् गात्रं श्यामनिभं भवेत् ॥ २३ ॥
गात्रकोणान्तरं रक्तं बहिर्गात्रं तु शोणितम् ।
सितं कृष्णं च पीतं च क्रमाच्छेषत्रयं भवेत् ॥ २४ ॥
शङ्खादीन् शुक्लवर्णेन विलिखेत्तस्य मध्यमे ।
वीथीं मरकताभेन द्वारं शुक्लेन पूरयेत् ॥ २५ ॥
पीतं रक्तं च कृष्णं च श्यामं शोभादिकान् क्रमात् ।
सितं रक्तं तथा कृष्णं रेखात्रयमनुत्तमम् ॥ २६ ॥
श्रीभगवान् -
इष्टसिद्धिप्रदन्नाम मण्डलञ्चावधारय ।
इष्टसिद्ध्यर्चनाच्चैव इष्टसिद्धिमवाप्नुयात् ॥ २७ ॥
चतुरश्रं पुरा कृत्वा बाहुहस्तप्रमाणतः ।
चत्वारिंशत्पदं कृत्वा क्षेत्रमध्यं विशेषतः ॥ २८ ॥
अंशकानां भवेद्यत्र सहस्रं षट्शताधिकम् ।
इष्टसिद्ध्यर्चनाच्चैव सहस्रं षट्शताधिकम् ॥ २९ ॥
मध्ये दशपदं विप्र पङ्कजं पूर्ववल्लिखेत् ।
पीठन्तु पूर्ववत्कृत्वा बहिःपङ्क्त्या तु वीधिकां ॥ ३० ॥
तद्बहिः पञ्च पङ्क्त्या तु गात्रागारं तु शोधयेत् ।
मध्यपङ्क्तित्रयेणैव मध्ये कोणाष्टकं सृजेत् ॥ ३१ ॥
प्। २६)
पूर्वापरे चतुर्थं स्यात् मध्ये चैव चतुष्पदम् ।
एवमष्टकसंयुक्तमेकीकृत्य विलेपयेत् ॥ ३२ ॥
अष्टादशपदेनैव प्रादक्षिण्यं परामृजेत् ।
कोणमध्यप्रदेशे तु पञ्चकोष्ठं परामृजेत् ॥ ३३ ॥
बहिष्षोडशकोष्ठेन प्रादक्षिण्येन लेपयेत् ।
शेषकोष्ठगणं सर्वमेकीकृत्य विलेपयेत् ॥ ३४ ॥
एकपङ्क्त्या भवेद्वीथी शिष्टपङ्क्ति क्रमं शृणु ।
पङ्क्तित्रयेण विप्रेन्द्र अन्तर्द्वारादिकान् मृजेत् ॥ ३५ ॥
पूर्वपङ्क्ति द्वयेनैव नयेत् शोभोपशोभितम् ।
सूक्ष्मशोभकञ्च चतुःकोणपार्श्वे परामृजेत् ॥ ३६ ॥
कोणसार्धद्वितीये तु एकमेव पदं मृजेत् ।
एकपङ्क्त्या भवेद्वीथी प्रादक्षिण्येन शोधयेत् ॥ ३७ ॥
तद्बहिःपदपङ्क्त्या तु विधीकां परिकल्पयेत् ।
शिष्टं पङ्क्तित्रयेणैव पूर्ववत् द्वारवीथिकां ॥ ३८ ॥
द्वारशोभमुपद्वारमुपशोभं च सूक्ष्मकम् ।
पूर्ववत्कल्पयित्वा तु कोणदेशेषु पूर्ववत् ॥ ३९ ॥
शिष्टपङ्क्त्या बहिर्वीथीं पूर्ववत्परितो मृजेत् ।
बहीरेखात्रयं कुर्यात् पञ्चकं वापि केवलम् ॥ ४० ॥
प्। २७)
एवङ्कृत्वा विधानेन रजःपात्रविधिं शृणु ।
सपीठपङ्कजं विप्र पूर्ववत्परियोजयेत् ॥ ४१ ॥
वीधिकां षट्पदाभेन गात्रमध्यं तु पीतलम् ।
बहिः प्रदक्षिणं श्यामं कोणभूमिं तथैव च ॥ ४२ ॥
कोणगात्रान्तरालं तु रक्तवर्णेन पूरयेत् ।
बहिर्वीथीं सितेनैव अन्तर्वीथीं तु श्यामलाम् ॥ ४३ ॥
सितादिवर्णभेदेन क्रमात्कुर्याच्चतुष्टयम् ।
कोणान्तस्थ पदद्वन्द्वं रक्तं कृष्ण सितं क्रमात् ॥ ४४ ॥
बहिर्वीथीं तु पीतेन तद्बाह्यं रक्तमेव च ।
सितादिपञ्चवर्णेन पञ्चकं परिपूरयेत् ॥ ४५ ॥
तथा कोणद्वयं विप्र सितं श्यामं प्रकीर्तितम् ।
रेखात्रयं तथा कुर्यात् पञ्चकं पञ्चवर्णकम् ॥ ४६ ॥
देवतानामथो वक्ष्ये स्थानं तु मुनिपुङ्गव ।
कर्णिकाग्रे तु सम्पूज्य अङ्गोपाङ्गं च पत्रके ॥ ४७ ॥
गुणत्रयं केसरेषु मण्डलं तु त्रयं तथा ।
पीठदिक्ष्वष्टके विप्र दिक्पतीन् परिपूजयेत् ॥ ४८ ॥
गात्रमध्ये विशेषेण शङ्खादीन् परिपूजयेत् ।
अन्तराले ऋगादींश्च वेदादीन् कोणमध्यमे ॥ ४९ ॥
प्। २८)
वीथिकासु च सर्वासु अनन्तादीन प्रपूजयेत् ।
अनन्तो वासुकिश्चैव शङ्खपालस्तथैव च ॥ ५० ॥
उर्ध्वद्वारादिके सर्वे आदित्यादीन् प्रपूजयेत् ।
त्वष्टा विष्णुश्च पूषा च गरुडश्च तथैव च ॥ ५१ ॥
कोणेषु वैघ्नं सम्पूज्य कुमुदादीन् तथान्तरे ।
बहिर्द्वारेषु विप्रेन्द्र सत्यादीन् परिपूजयेत् ॥ ५२ ॥
सत्यः सुपर्णस्तार्क्ष्यश्च गरुडश्च तथैव च ।
शोभोपशोभद्वारेषु पद्मचक्रगदादिकान् ॥ ५३ ॥
कोणेष्वपि च सर्वेषु अग्न्यादि परिपूजयेत् ।
अग्निश्च पावकाश्चैव चित्रभानुर्विभावसुः ॥ ५४ ॥
रेखात्रयेषु विप्रेन्द्र सुदर्शनादिपूजितम् ।
परिस्तरेषु दर्भेषु चण्डादीन् परिपूजयेत् ॥ ५५ ॥
भृगुः -
मण्डलार्चनकालं किं वदस्व वदतां वर ।
श्रीभगवान् -
दीक्षायामुत्सवे चैव स्नपने च फलोत्सवे ॥ ५६ ॥
दमनारोपणे चैव तथा पुष्पमहोत्सवे ॥
पवित्रोत्सवे विशेषे जयन्त्यां च तथैव च ।
कृत्तिकोत्सवकाले तु ग्रहणे सोमसूर्ययोः ॥ ५७ ॥
प्। २९)
विषुवे चायने चैव द्वादश्यां तु विशेषतः ।
प्रायश्चित्तेषु सर्वेषु वसन्तोत्सव एव च ॥ ५८ ॥
मण्डलाराधनं कुर्यादन्यथा दोषकृद्भवेत् ।
मण्डलाराधनं श्रेष्ठं जघन्यं बिम्बपूजनम् ॥ ५९ ॥
कुम्भमण्डलबिम्बाग्नौ पूजनं चोत्तमं भवेत् ।
उत्तमाराधनेनैव सर्वदोषक्षयं गतम् ॥ ६० ॥
सर्वपापहरं पुंसां राजराष्ट्रविवर्धनम् ।
चतुःस्थानार्चनाहीनं कर्म निष्फलतां नयेत् ॥ ६१ ॥
तस्मात्सर्वप्रयत्नेन चतुःस्थानार्चनं यजेत् ।
चतुःस्थानमुत्तमं च त्रिस्थानं मध्यमं भवेत् ॥ ६२ ॥
द्विस्थानमधमं चैव एकमाभासकं परम् ।
एकं तु बिम्बकं प्रोक्तं द्विस्थानं बिम्बपावकम् ॥ ६३ ॥
त्रिस्थानं कुम्भसंयुक्तं चतुःस्थानं तु मण्डलम् ।
कुम्भमण्डलवह्निस्थं पश्चिमाभिमुखं यजेत् ॥ ६४ ॥
देवं नारायणं विप्र अन्यथादोषकृद्भवेत् ।
तत्रस्था देवताः सर्वाः पश्चिमाभिमुखं यजेत् ॥ ६५ ॥
वरुणादिनि-ऋत्यन्तं पूजयेत् सर्वदेवतान् ।
देवतान्विना विप्र द्वार्स्थदेवान्विना भवेत् ॥ ६६ ॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां यन्त्रविधानं नाम
षष्ठोऽध्यायः ॥