अथ पञ्चमोऽध्यायः
भगवान्-
विष्णुयन्त्रमथो वक्ष्ये शृणुष्व मुनिपुङ्गव ।
पुण्यक्षेत्रे विशेषेण देवतायतनेषु च ॥ १ ॥
पर्वताग्रे नदीतीरे गोष्ठे शुद्धगृहेपि वा ।
मण्डपं कारयेद्धीमान् षोडशस्तम्भसंयुतम् ॥ २ ॥
ऌप्तमण्डपमध्ये वा वेदिं कृत्वा प्रमाणतः ।
गोमयालेपनं कृत्वा तन्मध्ये यन्त्रमालिखेत् ॥ ३ ॥
तालमानप्रमाणेन प्रणवं पूर्वमालिखेत् ।
षट्कोणं तद्बहिःकल्प्य ब्रहिर्वृत्तसमन्वितम् ॥ ४ ॥
प्। १६)
अर्धाङ्गुलप्रमाणेन वृत्तमालिख्य पूर्ववत् ।
चतुरङ्गुलमानेन वृत्तमुल्लिख्य साधकः ॥ ५ ॥
तस्मिन्नेव विशेषेण अष्टपत्रं समालिखेत् ।
तन्मानेन बहिःकुर्यादष्टकोणं समालिखेत् ॥ ६ ॥
अन्तःकोणेषु षड्वर्णं बहिःकोणेष्टवर्णकम् ।
तद्वहिः केसरं प्रोक्तं तद्बहिष्षोडशच्छदम् ॥ ७ ॥
द्वादशाश्रं बहिःकुर्यात् द्वादशाक्षरमालिखेत् ।
केसरं च तथा कुर्याद्वात्रिंशच्छदमालिखेत् ॥ ८ ॥
पत्राच्छतगुणं विप्र केसरं सम्प्रकीर्तितम् ।
चक्रं तु तद्बहिः कुर्यान्नाभ्यरन्नेमि संयुतम् ॥ ९ ॥
एकाङ्गुलप्रमाणेन नाभिनेमिं समालिखेत् ।
चतुरङ्गुलमानेन अरक्षेत्रं परिकीर्तितम् ॥ १० ॥
चतुर्विंशत्यरं कुर्यात्तदेकाङ्गुलमानतः ।
बहिःपीठादिकान् कल्प्य केवलाश्र मथापि वा ॥ ११ ॥
षोडशाब्जे स्वरान् लिख्य वर्णं वक्ष्ये समासतः ।
नृसिंहानुष्ठुभञ्चैव द्वात्रिंशत्पत्रकं लिखेत् ॥ १२ ॥
रेखास्सर्वाः सिताः प्रोक्ताः पीतवर्णेनचान्तरम् ।
षट्कोणं रक्तवर्णेन वर्णकं सितकं भवेत् ॥ १३ ॥
प्। १७)
कोणान्तरालमसितं केसरं पाण्डुरक्तकम् ।
अष्टपत्रं सितं कुर्यात् कृष्णं चैवान्तरालकम् ॥ १४ ॥
बहिःकोणाष्टकं पीतं मध्यमं श्यामलं भवेत् ।
तद्बहिः केसरं विद्यात् रक्तवर्णेन पूरितम् ॥ १५ ॥
पाण्डुरक्तनिभेनैव षोडशाब्जं प्रपूरयेत् ।
अन्तरं नीलवर्णेन बहिःकोणं तु पीतकम् ॥ १६ ॥
अन्तरं श्यामवर्णेन बहिःकेसरकं सितम् ।
असितं चान्तरं कुर्यात् तत्पत्रं रक्तसन्निभम् ॥ १७ ॥
हेमाभं नाभिभूभागमरं वै कृष्णवर्णकम् ।
अन्तरालं तु पीतं स्यात् तन्नेमित्वसितं भवेत् ॥ १८ ॥
पीठान्तरन्तु रक्तं स्यात्पीठादित्युत्तरं शृणु ।
यन्त्रबाह्ये विशेषेण त्रिंशद्विंशतिरेव वा ॥ १९ ॥
सप्तकं पञ्चकं वापि विस्तारं सम्प्रकीर्तितम् ।
पीठं वीथीं च द्वारञ्च क्रमाद्बुध्या विलेपयेत् ॥ २० ॥
सितरक्तादिपीतेन निक्षिपे द्व्यत्ययेन तु ।
परभागविभागेन यथाशोभानुरूपतः ॥ २१ ॥
पीठादिरहितं वापि पञ्चरेखां बहिर्लिखेत् ।
पञ्चवर्णक्रमाद्विप्र रेखायाः त्रित्रिवर्णकम् ॥ २२ ॥
प्। १८)
प्रणवाद्धि विशेषेण विष्णुमभ्यर्चयेत्सुधीः ।
अक्षराणि च सर्वाणि स्वस्थाने तु समर्चयेत् ॥ २३ ॥
पाशाङ्कुशेन संयुक्तं नेमिमभ्यर्चयेत्सुधीः ।
पीठगात्रककोणे तु धर्मादीन् परिपूजयेत् ॥ २४ ॥
अनन्तं वीथिभागे तु द्वारे चण्डादिकान् न्यसेत् ।
इति सम्यक् समाख्यातं विष्णुयन्त्रं महामुने ॥ २५ ॥
भृगुः -
नारायणाख्ययन्त्रस्य विधिं ब्रूहि जगत्प्रभो ॥
श्रीभगवान् -
प्रणवं पूर्ववत्कृत्वा लिख्यमष्टदलान्तरम् ।
पूर्वादि सर्वकोणेषु अष्टाक्षरकमालिखेत् ॥ २६ ॥
तद्बहिः केसरं वृत्तं बहिर्वृत्तं तु पङ्कजम् ।
अष्टपत्रं लिखेत्सम्यक् बहिश्चक्रं प्रकल्पयेत् ॥ २७ ॥
अष्टपत्रस्य मध्ये तु नृसिंहाष्टाक्षरं लिखेत् ।
नाभि नेमिसमायुक्तं पूर्ववच्चक्रमालिखेत् ॥ २८ ॥
अष्टाक्षरं पूर्ववच्चक्रं बहिर्द्वादशकोणकम् ।
द्वादशाश्रं च तत्कोणे बहिःकेसरपङ्कजम् ॥ २९ ॥
तत्पत्रं द्वादशं प्रोक्तं द्वादशाक्षरकं न्यसेत् ।
तद्बहिष्षोडशाश्रं स्याद्बहिश्चक्रं प्रकल्पयेत् ॥ ३० ॥
प्। १९)
अरैष्षोडशभिर्युक्तं नेमिनाभिसमन्वितम् ।
पूर्ववत्पङ्कजं कुर्यात् चतुर्विंशद्दलैर्युतम् ॥ ३१ ॥
चतुर्विंशदरैर्युक्तं बहिश्चक्रं समालिखेत् ।
द्वात्रिंशज्ज्वालया युक्तं चतुरश्रं बहिर्भवेत् ॥ ३२ ॥
पीठादि पूर्ववत्कल्प्य मरक्षेत्रं समाचरेत् ।
सर्वान्तरालमसितं सर्वारेखासिता भवेत् ॥ ३३ ॥
कर्णिकापीतवर्णेन अन्तरालं सितप्रभम् ।
केसरं पीतवर्णेन पद्मं वै पाण्डरारुणम् ॥ ३४ ॥
नाभिनेमिद्वयं पीतमरक्षेत्रं तु रक्तकम् ।
पद्मपत्रसमाकारं कृष्णवर्णेन शोभितम् ॥ ३५ ॥
केसरं क्षेत्रमखिलं पाण्डुरक्तेन पूरितम् ।
पाण्डुरक्तेन तत्पत्रं बहिःकोणं तु पीतलम् ॥ ३६ ॥
बहिश्च मातुलङ्गाभं पीत कुङ्कुमसन्निभम् ।
तद्बहिःपत्रसङ्घन्तु पीतरक्तेन मिश्रितम् ॥ ३७ ॥
पत्रान्तरालं श्यामं च बहिश्चक्रं तु पूर्ववत् ।
इन्दीवरदलाकारं नीलवर्णेन रञ्जितम् ॥ ३८ ॥
अन्तरालं तु रक्तं स्याच्चक्रं पूर्ववदालिखेत् ।
ज्वालामालां विशेषेण रक्तवर्णेन भूषयेत् ॥ ३९ ॥
प्। २०)
बहिःपीठादिकाः सर्वाः पूर्वमण्डलवद्भवेत् ।
नारायणं यजेन्मध्ये स्वस्थाने मण्डलं न्यसेत् ॥ ४० ॥
अरैके तु विशेषेण मूर्तिनभ्यर्चयेत् बुधः ।
नारायणाख्यकं यन्त्रं दीक्षाकाले विनिक्षिपेत् ॥ ४१ ॥
व्याधीनामुद्भवे विप्र प्रायश्चित्तादिके पुनः ।
परचक्रप्रवेशे च कुहूदोषसमुद्भवे ॥ ४२ ॥
ग्रहदोषे च सम्पन्ने रक्षाकार्ये विशेषतः ।
अनावृष्टिविधौ विप्र तथा स्नपनकर्मणि ॥ ४४ ॥
श्रीभगवान् -
वासुदेवाख्यकं यन्त्रं प्रवक्ष्यामि महामुने ।
प्रणवं पूर्ववत् कृत्वा द्वादशाश्रं बहिःक्षिपेत् ॥ ४५ ॥
केसराब्जं तथालिख्य कोणे मन्त्राक्षरं लिखेत् ।
पत्रे द्वादशमूर्तिं च बहिश्चक्रं समालिखेत् ॥ ४६ ॥
नाभ्यरानेमिसंयुक्तं चतुर्वारं समालिखेत् ।
चतुर्विंशाश्रकं बाह्ये गायत्रीं च समालिखेत् ॥ ४७ ॥
पूर्ववत्पङ्कजं कुर्याच्चतुर्विंशद्दलं लिखेत् ।
चक्रन्तु पूर्ववत्कुर्यात् चतुर्विंशारकैर्युतम् ॥ ४८ ॥
प्। २१)
द्वात्रिंशत्कोणकं बाह्ये नृसिंहानुष्ठुभं लिखेत् ।
तद्बाह्ये पङ्कजं कुर्यात् द्वात्रिंशत्पत्रसंयुतम् ॥ ४९ ॥
बहिश्चक्रं तथा कुर्याद्व्यात्रिंशदरकैर्युतम् ।
पाशाङ्कुशौ नेमिभागे बहिर्ज्वालां समालिखेत् ॥ ५० ॥
चतुष्षष्टिक्रमेणैव तदर्धं वापि कल्पयेत् ।
चतुरश्रं तु तद्बाह्ये पीठादीन् पूर्ववल्लिखेत् ॥ ५१ ॥
पद्मपत्रारकं पूर्वे मध्यमे मातुलुङ्गवत् ।
अपरे तु विशेषेण परश्चारश्चसम्परम् ? ॥ ५२ ॥
रेखागणं तथा पूर्वमन्तरालं तथा भवेत् ।
कर्णिका पीतवर्णेन कोणं वै शुक्रवर्णकम् ॥ ५३ ॥
नाभिनेमिद्वयं श्याममरक्षेत्रं सितं भवेत् ।
अरं वै पीतवर्णेन बहिः कोणं तु रक्तकम् ॥ ५४ ॥
केसरक्षेत्रकं सर्वं रक्तपीतेन पूरितम् ।
पत्रन्तु पाण्डुरक्तेन नेमि नाभि सितं भवेत् ॥ ५५ ॥
अरन्तु कृष्णवर्णं स्यादन्तरालं तु पीतकम् ।
बहिःकोणं तु पीतं स्यादन्तरालं तु कृष्णकम् ॥ ५६ ॥
बहिःपत्रं तथारक्तं नाभि नेमि सितं भवेत् ।
अरन्तु कर्बुरं विद्यात् ज्वालासङ्घन्तु रक्तकम् ॥ ५७ ॥
प्। २२)
पीठादि पूर्ववत्प्रोक्तमक्षरन्तु सितं भवेत् ।
इति सम्यक् समाख्यातं महायन्त्रं महामुने ॥ ५८ ॥
यः पूजयेन्महायन्त्रं स याति परमं पदम् ।
सोऽतुलां श्रियमाप्नोति कोटियज्ञफलं भवेत् ॥ ५९ ॥
सर्वपापविनिर्मुक्तः सर्वदानफलं लभेत् ॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां यन्त्रविधानं नाम
पञ्चमोऽध्यायः ॥