अथ चतुर्थोऽध्यायः
श्रीभगवान्
दीक्षाविधिमथो वक्ष्ये समासान्मुनिपुङ्गव ।
उत्तरायणकाले तु दीक्षाकर्म समाचरेत् ॥ १ ॥
शुभवारे शुभदिने शिष्यस्याथगुणान्विते ।
यदा शिष्यमनः प्रीतं तदा कालमुदाहृतम् ॥ २ ॥
शुक्लपक्षे विशेषेण द्वादश्यामपि दीक्षयेत् ।
दीयते ज्ञानमेवेह क्षीयते पापसञ्चयः ॥ ३ ॥
दीयते क्षीयते चैव ततो दीक्षाऽभिधीयते ।
दीक्षा च द्विविधा प्रोक्ता शास्त्रं मन्त्रमिति द्विधा ॥ ४ ॥
प्रथमं शास्त्रदीक्षां च शृणु ब्रह्मन् महामुने ।
शास्त्रपारङ्गतं विप्रं पूर्वोक्तगुणसंयुतम् ॥ ५ ॥
प्। १२)
गुरुमभ्यर्चयेच्छिष्यः शास्त्रविन्निरतं मुनिम् ।
आचार्यवरणं पूर्वं द्रव्योपादानमेव च ॥ ६ ॥
अङ्कुरार्पणकञ्चैवमधिवासमनन्तरम् ।
नेत्रकौतुकबन्धञ्च शास्त्रपीठाधिवासनम् ॥ ७ ॥
कुम्भमण्डलवह्निस्थदेवपूजापुरस्सरम् ।
द्वारार्चनं पुरा कृत्वा प्रातस्नानमनन्तरम् ॥ ८ ॥
ऊर्ध्वपुण्ड्रविधानं च ज्ञापयेत् तन्त्रपारगः ।
शङ्खचक्राङ्कितं कृत्वा द्वारादियजनं परम् ॥ ९ ॥
त्रिस्थानाभ्यर्चनञ्चैव नेत्रबन्धमनन्तरम् ।
शास्त्रपीठार्चनं कृत्वा शास्त्रं सञ्ज्ञापयेत्सुधीः ॥ १० ॥
नेत्रवस्त्रं विमुच्याथ आचार्यवरपूजनम् ।
एतत्कर्म मया प्रोक्तं तन्त्रेऽस्मिन् मुनिपुङ्गव ॥ ११ ॥
दीक्षाङ्कुरार्पणं वक्ष्ये अवधारय साम्प्रतम् ।
सप्तमे पञ्चमे वापि तृतीयेऽहनि वापयेत् ॥ १२ ॥
कर्मारम्भदिनात्पूर्वं प्रवृत्ते तु निशामुखे ।
मृद्ग्रहं पूर्वतः कृत्वा मण्डपालङ्कृतिं चरेत् ॥ १३ ॥
पालिका द्वादशवराः मृदा सम्पूर्य देशिकः ।
व्रीहीनास्तीर्यचैतासु तन्मध्ये पालिकां न्यसेत् ॥ १४ ॥
प्। १३)
तत्पूर्वे बीजपात्रं तु पश्चिमे कुम्भकं न्यसेत् ।
द्वारपूजां ततः कृत्वा पुण्याहमपि वाचयेत् ॥ १५ ॥
कुम्भे सम्पूजयेत्पश्चात् सोममन्त्रेण मन्त्रवित् ।
पात्राण्यभ्यर्चयेत्पश्चात् ब्रह्माविष्णुशिवात्मकान् ॥ १६ ॥
बीजपात्रे तथा सोमं होममन्त्रेण होमयेत् ।
तिलं मुद्गं यवं माषं सर्षपं शालिमेव च ॥ १७ ॥
निष्पावं च प्रियङ्गुं वा बीजाष्टकमुदाहृतम् ।
बीजपात्रं ततः कुर्यात् तत्तन्मन्त्रेण साधकः ॥ १८ ॥
बलिं कृत्वा तु परितो रक्षां कुर्यादतन्द्रितः ।
यावत्कर्मदिनान्तं च पूजनं सम्यगाचरेत् ॥ १९ ॥
चतुस्थानमर्चनं कुर्यात् द्वारपूजापुरस्सरम् ।
प्राशयेत्पञ्चगव्यं च विष्णुपादोदकं तथा ॥ २० ॥
पुण्याहं वाचयित्वा तु कौतुकं बन्धयेत्सुधीः ।
यन्त्रमण्डलगं वापि नारायणकसञ्ज्ञकम् ॥ २१ ॥
वासुदेवाख्य यन्त्रं वा विष्णुयन्त्रमथापि वा ।
केवलं मण्डलं वापि तन्त्रकान्तारशोभितम् ॥ २२ ॥
दिव्यमन्त्रोदितं वापि मण्डलं कारयेद्बुधः ।
नेत्रम्बन्धं ततः कृत्वा प्राणायामत्रयं चरेत् ॥ २३ ॥
प्। १४)
तत्त्वन्यासं ततः कृत्वा मातृकान्यासमाचरेत् ।
मूलमन्त्रान्तरन्यासं मायासूत्रं च बन्धयेत् ॥ २४ ॥
शास्त्रपीठं समभ्यर्च्य शयने सन्निवेशयेत् ।
स्थापयेद्वाससा पश्चात् बलिं दत्वा समन्ततः ॥ २५ ॥
जागरेण नयेद्रात्रिं प्रातः स्तुत्वा जनार्दनम् ।
मायासूत्रं ततश्छित्वा शरावेषु विनिक्षिपेत् ॥ २६ ॥
नेत्रबन्धं विसृज्याथ स्नापयेद्वा सशिष्यकम् ।
अलङ्कृत्य यथा न्यायं मण्डपे सन्निवेशयेत् ॥ २७ ॥
स्वस्थाने तु समासीनो द्वारादियजनं चरेत् ।
कुम्भमभ्यर्चयेद्विद्वान् मण्डलं तदनन्तरम् ॥ २८ ॥
होमकार्यं ततः कृत्वा शास्त्रपीठार्चन चरेत् ।
प्राणायामादिकं कृत्वा मन्त्रन्यासपुरस्सरम् ॥ २९ ॥
शिष्यमानीय पार्श्वे तु समासीनं तदन्तिके ।
शास्त्रपीठं समानीस बोधयामास देशिकः ॥ ३० ॥
संहितानामशेषानामाद्यन्तं वापि बोधयेत् ।
एतत्तन्त्रमथोवापि यथाकार्यानुरूपतः ॥ ३१ ॥
आचार्यं पूजयेत् पश्चाद्वस्त्रहोमाङ्गुलीयकैः ।
गोभूहिरण्यरत्नाद्यैर्यथा वित्तानुरूपतः ॥ ३२ ॥
प्। १५)
शास्त्रदीक्षा मया प्रोक्ता तन्त्रदीक्षा तथैव च ।
ब्राह्मणस्य विशेषेण विधिरेषा प्रकीर्तिता ॥ ३३ ॥
क्षत्रियस्यादिशूद्रान्तं शास्त्रदीक्षा न विद्यते ।
केवलं यन्त्र मन्त्रेण बोधयेद्देशिकोत्तमः ॥ ३४ ॥
मुद्रामात्रमथोवापि मन्त्रयन्त्रमथापि वा ॥
इति श्रीपाञ्चरात्रे महोपनिषादि अनिरुद्धसंहितायां शास्त्रदीक्षाविधिर्नाम
चतुर्थोऽध्यायः ॥