अथ तृतीयोऽध्यायः
भगवान् -
आचार्यलक्षणं वक्ष्ये समासान्मुनिपुङ्गव ।
ब्राह्मणं योनिजं शुद्धं नियतब्रह्मवादिनम् ॥ १ ॥
पञ्चरात्रविदं दान्तं सदाचारसमन्वितम् ।
युवानं कोमलं शान्तं सर्वावयवशोभितम् ॥ २ ॥
वेदवेदाङ्गतत्वज्ञं श्रौतस्मार्तक्रियापरम् ।
मच्चित्तं मद्गतप्राणं मदाराधनतत्परम् ॥ ३ ॥
मन्नामकीर्तनपरं मत्कथालोलुपम्मनः ।
गुणवन्तं शुचिं दक्षं सत्यवादिजितेन्द्रियम् ॥ ४ ॥
शास्त्रज्ञ कर्मकुशलं पञ्चरात्रार्थवेदिनम् ।
पवित्रपाणिनिरतं प्राणायामपरायणम् ॥ ५ ॥
पञ्चकालक्रियायुक्तं पञ्चयज्ञसमन्वितम् ।
मुद्रामण्डलकुण्डज्ञं मण्डलार्चनतत्परम् ॥ ६ ॥
व्रतोपवासनिरतं दयाशीलगुणान्वितम् ।
सर्वपापविनिर्मुक्तं सर्वदोषविवर्जितम् ॥ ७ ॥
कर्षणादिक्रियादक्षं नित्यस्नानक्रियापरम् ।
पवित्रकर्मकुशलं प्रतिष्ठाकर्मलम्पटम् ॥ ८ ॥
प्। १०)
उत्सवादिक्रियादक्षं सहस्रकलशे क्षमम् ।
द्वादश्याराधनपरं द्वादशाक्षरचिन्तकम् ॥ ९ ॥
स्वतन्त्रकर्मकुशलं योगाग्निनिरतं शुचिम् ।
शङ्कचक्राङ्कितभुजं धृतपञ्चाङ्गभूषणम् ॥ १० ॥
चिदचिदीश्वरतत्त्वज्ञं मन्त्रयन्त्रक्रियापरम् ।
शिल्पशास्त्रविचारज्ञं शिल्पनिर्माणकोविदम् ॥ ११ ॥
स्मितपूर्वाभिभाषं च गुरुपूजापरान्वितम् ।
स्वदारनिरतं भोगसुखिनं पुत्रसंयुतम् ॥ १२ ॥
क्षयकुष्ठादिरहितमनाचारविवर्जितम् ।
समयाचारसंयुक्तं जितक्रोधं जितेन्द्रियम् ॥ १३ ॥
सर्वभूतदयायुक्तं कल्याणावयवान्वितम् ।
कल्याणकर्मसंयुक्तं काममोहविवर्जितम् ॥ १४ ॥
सालग्रामार्चनपरं गीतनृत्तविशारदम् ।
वाद्यवादनवर्गज्ञं तालवर्गविशारदम् ॥ १५ ॥
एभिर्गुणैस्समायुक्तमाचार्यं वरयेत्सुधीः ।
शिष्यस्सर्वगुणोपेतस्सत्यवादी दयापरः ॥ १६ ॥
विनयादिगुणैर्युक्तः धर्मश्रुतिपरायणः ।
ब्राह्मणः क्षत्रियश्चैव वैश्यशूद्रौ तथापरौ ॥ १७ ॥
प्। ११)
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ।
एतच्छास्त्रोक्तमार्गेण दीक्षयेत्प्रथमं द्विजः ॥ १८ ॥
इति श्रीपाञ्चरात्रे अनिरुद्धसंहितायां आचार्यलक्षणं नाम तृतीयोऽध्यायः॥