अथ द्वितीयोऽध्यायः
भृगुः -
पञ्चरात्रं समादाय दीक्षा तेनैव मार्गतः ।
अनिरुद्धप्रशस्तेन पञ्चरात्रेण मीयते ॥ १ ॥
ऋषयः -
पञ्चरात्रमिदं कीदृक् तद्वदस्व महामुने ।
भृगुः -
पञ्चरात्रं महाज्ञानं नारायणसमीरितम् ॥ २ ॥
प्। ७)
पञ्चरात्रात्परं शास्त्रं न भूतं न भविष्यति ।
ब्राह्मणः सर्ववर्णेषु यतिश्चाश्रमिषूतमः ॥ ३ ॥
यद्वद्गङ्गा च तीर्थेषु देवतेष्वपि चाच्युतः ।
अश्वत्थः सर्ववृक्षेषु नक्षत्रेषु च चन्द्रमाः ॥ ४ ॥
आदित्यानां यथा विष्णू रुद्राणां शङ्करो यथा ।
वेदानां सामवेदस्तु नराणां च नराधिपः ॥ ५ ॥
शास्त्रेष्वपि च सर्वेषु पञ्चरात्रं तथा भवेत् ।
यथा हि सर्वदेवानां वरिष्ठो विष्णुरव्ययः ॥ ६ ॥
तथा सर्वेषु शास्त्रेषु पञ्चरात्रं वरिष्ठकम् ।
श्रुतिमूलमिदं तन्त्रं प्रमाणं कल्पसूत्रवत् ॥ ७ ॥
पञ्चरात्रं विशेषेण विष्णुना भाषितं यथा ।
अतः प्रमाणं लोकेऽस्मिन् धर्मशास्त्रेषु सर्वशः ॥ ८ ॥
धर्मशास्त्रेषु सर्वेषु आगमेषु विशेषतः ।
पुराणेष्वपि सर्वेषु पञ्चरात्रं प्रमाणकं ॥ ९ ॥
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।
श्रोतारो मूर्तिभेदाश्च ऋषयश्च पितामहाः ॥ १० ॥
वैष्णवं शासनं शुभ्रमच्छिद्रं पापनाशनम् ।
हितार्थं सर्वभूतानामादिदेवेन चोदितम् ॥ ११ ॥
प्। ८)
चतुष्पादसमायुक्तं चतुर्वर्गफलप्रदम् ।
पञ्चमं वेदमाख्यातं पञ्चरात्रं तु पावनम् ॥ १२ ॥
पुण्यानां हि महत्पुण्यं पावनानां हि पावनम् ।
पुराणानां पुराणं हि धर्माणामपि धर्मकम् ॥ १३ ॥
भगवद्भक्तजैश्चैव भगवच्छास्त्रमुच्यते ।
पुराणपुरुषेणोक्तं पुराणं पञ्चरात्रकम् ॥ १४ ॥
पुराणं वैष्णवं प्रोक्तं पञ्चरात्रं च पावनम् ।
नारायणमुखोद्भूतं ब्राह्मणेनैव सेवितम् ॥ १५ ॥
ब्राह्मणं पञ्चरात्रं च वेदं विष्णुमुखोद्गतम् ।
पञ्चरात्रविदं विप्रं देववत्प्रतिभावयेत् ॥ १६ ॥
प्रणमेद्दण्डवद्भूमौ दृष्टमात्रं तु वैष्णवम् ।
अनादृत्य तु सम्मोहाद्दूरयात्रा भवेद्यदि ॥ १७ ॥
नरकाय भवन्त्येते नात्र कार्या विचारणा ।
पञ्चरात्रमिदं विप्र नारायणमुखोद्गतम् ॥ १८ ॥
निन्देद्यदि तु सम्मोहान्नरकाय भवेत् ध्रुवम् ।
पञ्चरात्रविदो दानं कोटिगोदानजं फलम् ॥ १९ ॥
कन्यादानशताच्छ्रेष्ठं स्वर्णनिष्कशतादपि ।
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां शास्त्रप्रशंसा नाम
द्वितीयोऽध्यायः ॥