०१ शास्त्रावतरणं

हिमाद्रिशिखरे क्षेत्रे सर्वसिद्धनिषेविते ।
सर्वविद्याधरैस्सर्व गन्धर्वैश्चैव सेविते ॥ १ ॥

सर्वसिद्धमुनिश्रेष्ठैः सर्वदेवैस्समाकुले ।
नानामृगसमाकीर्णे नानापद्मसमाकुले ॥ २ ॥

नानावृक्षसमाकीर्णे नानापुष्पसमाकुले ।
नानापक्षिसमाकीर्णे सुवर्णद्रुममण्डिते ॥ ३ ॥

मृगनाभिसमायुक्ते काञ्चनस्थलशोभिते ।
क्रमुकैर्नालिकेरैश्च केतकैरुपशोभिते ॥ ४ ॥

अप्सरोभिः समाकीर्णे मातङ्गैरुपशोभिते ।
मुनिमुख्यैस्समाकीर्णैराश्रमैरुपशोभिते ॥ ५ ॥

वापीकूपतटाकाद्यैः पद्मगैरुपशोभिते ।

प्। २)

चन्दनैर्वकुलैश्चैव पद्मषण्डैस्समाकुले ।
कुमुदोत्पलकह्लारैः निधिरत्नैः समाकुले ॥ ७ ॥

मातुलुङ्गसमायुक्ते पनसैरुपशोभिते ।
गोगजैश्च समाकीर्णे ब्राह्मणैश्च समवृते ॥ ८ ॥

तस्मिन्मध्ये समासीनमाश्रमे परमात्मने ।
भृगुं वेदविदां श्रेष्ठमात्मध्यानपरायणम् ॥ ९ ॥

वेदवेदाङ्गतत्त्वज्ञं सर्वशास्त्रार्थकोविदम् ।
उन्द्यदादित्यसङ्काशं चन्द्रबिम्बनिभाननम् ॥ १० ॥

पवित्रपाणिसंयुक्तं कृष्णाजिनधरं परम् ।
प्रशान्तमनसं सौम्यं वीरासनसमन्वितम् ॥ ११ ॥

पार्श्वस्था मुनयः सर्वे प्रणिपत्य जगद्गुरुम् ।
ऊचुस्तं मुनयस्सर्वे एतद्वाक्यमतन्द्रिताः ॥ १२ ॥

वेदास्सर्वे समासेन साङ्गोपाङ्गाः सविस्तराः ।
त्वत्तः कमलपत्राक्ष श्रुताः पूर्वं दयापर ॥ १३ ॥

श्रेयो मार्गे न पश्यामः तद्वदस्व महामुने ।
एतच्छ्रुत्वा महाप्राज्ञः प्रोवाच स महामुनिः ॥ १४ ॥

भृगुः -

पुरा तपः प्रभावेन श्वेतद्वीपमुपागमम् ।

प्। ३)

गोपुरैश्च समायुक्तमनेकावरणैर्युतम् ।
बहुमण्डपसंयुक्तं बहुपादसमन्वितम् ॥ १६ ॥

उद्यानादि समायुक्तं पादविप्रैः ? प्रतिष्ठितम् ।
प्रस्तरैश्च समायुक्तमनेकतलसंयुतम् ॥ १७ ॥

तोरणैः पञ्जरैर्युक्तं पताकाभिरलङ्कृतम् ।
गरुडैश्च समायुक्तं कोणसिंहसमन्वितम् ॥ १८ ॥

प्रासादं सम्प्रविश्याहं हेमाद्रिसदृशाकृतिम् ।
तत्प्रणम्य महाप्राज्ञं अन्तरं सम्प्रविश्य च ॥ १९ ॥

प्रदक्षिणं क्रमात्कृत्वा आदिमूर्तिं सम्प्रणम्य च ।
विमानोत्तरपार्श्वे तु अनिरुद्धं प्रणम्य च ॥ २० ॥

तस्यान्तिकं समासाद्य पूजयामि जगत्पतिम् ।
पूर्वोक्तक्रमयोगेन चतुःस्थानार्चनैर्युतम् ॥ २१ ॥

आसनाद्युपचारैश्च अर्घ्यादिद्रव्यसङ्गतैः ।
निवेदनैरपूपाद्यैर्मधुपर्कपुरस्सरम् ॥ २२ ॥

इत्येवं चिरकाले तु याते प्रत्यक्षमादिशत् ।
देवदेवो जगन्नाथोऽनिरुद्धः परमःपुमान् ॥ २३ ॥

नीलमेघनिभश्शान्तश्चन्द्रबिम्बनिभाननः ।
हारकेयूरसंयुक्तो मुकुटेन विराजितः ॥ २४ ॥

प्। ४)

श्रीवत्सकौस्तुभोरस्को वनमालाविराजितः ।
पीताम्बरधरःस्रग्वी शङ्खचक्रगदाधरः ॥ २५ ॥

आविरासीज्जगन्नाथः कृपया परया विभुः ।
तं दृष्ट्वा विस्मयाविष्टाः स्तोत्रैः स्तुत्वा जगत्पतिम् ॥ २६ ॥

नमस्ते पुण्डरीकाक्ष नमस्ते गरुडध्वज ।
नमस्ते भुवनाधार नमस्ते चतुरात्मक ॥ २७ ॥

नमस्ते कमलाकान्त नमस्ते करुणाकर ।
नमस्ते सर्वलोकेश नमस्ते श्रीधराय च ॥ २८ ॥

नमस्ते देवदेवेश नमस्ते लोकपावन ।
स्तोत्रेणानेन विप्रेन्द्र प्रसन्नोभूज्जनार्दनः ॥ २९ ॥

श्रीभगवान्

वरं वृणीष्व भद्रं ते प्रसन्नोऽहं तवानघ ।

भृगुः -

विदितस्सर्वशास्त्रार्थो वेदवेदाङ्गकं परम् ॥ ३० ॥

त्वत्प्रसादेन देवेश श्रुतं पूर्वं मया विभो ।
मुक्तिमार्गं न पश्यामि इदानीं तद्वदस्व मे ॥ ३१ ॥

श्रीभगवान् -

पञ्चरात्रोक्तमार्गेण भुक्तिर्मुक्तिश्च जायते ।
पञ्चरात्रादृते विप्र मुक्तिमार्गो न विद्यते ॥ ३२ ॥

प्। ५)

भृगुः -

पञ्चरात्रं च किं देव केन प्रोक्तं जगत्पते ।
श्रुतं केन हृषीकेश मुक्तिः केन प्रलभ्यते ॥ ३३ ॥

पञ्चरात्रस्य शब्दस्य कश्चार्थो ब्रूहि तत्त्वतः ।

श्री भगवान्

पञ्चरात्रं मया प्रोक्तं लोकानां हितकाम्यया ॥ ३४ ॥

ब्रह्मेन्द्ररुद्रदेवांश्च श्रावयामास भूतले ।
साङ्ख्ययोगादिशास्त्राणि रात्रीयन्ते महान्त्यपि ॥ ३५ ॥

तत्सन्निधौ समाख्यासौ तेन लोके प्रवर्तते ।
चन्द्रतारागणं यद्वच्छोभते नैव वासरे ॥ ३६ ॥

तथेतराणि शोभन्ते पञ्च नैवास्य सन्निधौ ।
पञ्चत्वमथा यद्वद्दीप्यमाने दिवाकरे ॥ ३७ ॥

ऋच्छन्ति रात्रयस्तद्वदितराणि तदन्तिके ।
तस्मात्पञ्चरात्राख्यं ब्रह्मा लोकपितामहः ॥ ३८ ॥

प्रणवं पञ्चसम्भूतं पञ्चरात्रमिति स्मृतम् ।
पञ्चत्वाज्जायते जन्तोः पञ्चरात्रमितिस्मृतम् ॥ ३९ ॥

पञ्चरात्रप्रकारेण येऽर्चयिष्यन्ति मानवाः ।

प्। ६)

पञ्चरात्रमिदं शास्त्रं भुक्तिमुक्तिप्रदायकम् ।
मच्छासनमिदं शास्त्र मिदं गृह्णिष्व सादरम् ॥ ४१ ॥

मत्प्रसादाद्विशेषेण शास्त्रपारङ्गतो भव ।
इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत ॥ ४२ ॥

अहं शास्त्रं समादाय गमिष्यामि ममाश्रमम् ।
एतच्छास्त्रमुपाश्रित्य मुक्तिमार्गः प्रसिध्यति ॥ ४३ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां शास्त्रावतरणं नाम
प्रथमोऽध्यायः ॥