अहिर्बुध्न्यसंहितापरिशिष्टं सुदर्शन सहस्रनामस्तोत्रम्
(१) सुदर्शनसहस्रनामस्तोत्रम्
विश्वास-प्रस्तुतिः - १
प्रणम्य शिरसा देवं नारायणमशेषगम् ।
रमावक्षोजकस्तूरीपङ्कमुद्रितवक्षसम् ॥ १ ॥
मूलम् - १
प्रणम्य शिरसा देवं नारायणमशेषगम् ।
रमावक्षोजकस्तूरीपङ्कमुद्रितवक्षसम् ॥ १ ॥
विश्वास-प्रस्तुतिः - २
सर्वशास्त्रार्थतत्त्वज्ञः पाराशर्यस्तपोधनः ।
हिताय सर्वजगतां नारदं मुनिमब्रवीत् ॥ २ ॥
मूलम् - २
सर्वशास्त्रार्थतत्त्वज्ञः पाराशर्यस्तपोधनः ।
हिताय सर्वजगतां नारदं मुनिमब्रवीत् ॥ २ ॥
विश्वास-प्रस्तुतिः - ३
ज्ञानविद्याविशेषज्ञं कर्पूरधवलाकृतिम् ।
वीणावादनसन्तुष्टमानसं मरुतां परम् ॥ ३ ॥
मूलम् - ३
ज्ञानविद्याविशेषज्ञं कर्पूरधवलाकृतिम् ।
वीणावादनसन्तुष्टमानसं मरुतां परम् ॥ ३ ॥
विश्वास-प्रस्तुतिः - ४
हिरण्यगर्भसम्भूतं हिरण्याक्षादिसेवितम् ।
पुण्यराशिं पुराणज्ञं पावनीकृतदिक्तटम् ॥ ४ ॥
मूलम् - ४
हिरण्यगर्भसम्भूतं हिरण्याक्षादिसेवितम् ।
पुण्यराशिं पुराणज्ञं पावनीकृतदिक्तटम् ॥ ४ ॥
व्यास उवाच –
देवर्षे नारद श्रीमन् साक्षाद् ब्रह्माङ्गसम्भव ।
१ यद्यपीदं स्तोत्रं षष्ट्यध्यायात्मिकायामस्यामहिर्बुध्न्य-
संहितायां नान्तर्भावयितुं शक्यम्, विनाप्यनेन
षष्ट्यध्यायानां पूर्णत्वात्; अथापि प्रथमाध्यायोपदर्शितरीत्या
विंशत्युत्तरशताध्यायात्मकतया
चत्वारिंशदुत्तरशतद्वयाध्यायात्मकतया चावगम्यमानयोः
अहिर्बुध्न्यसंहितयोरन्यतरत्र शक्यमन्तर्भावयितुम्, स्तोत्रस्यास्या-
हिर्बुध्न्यसंहितान्तर्भावस्यैवोपदेशपरम्परयावगतत्वात्, अन्ते
तथैव लेखदर्शनाच्च ।
यद्यपीदं परमरहस्यभूतं स्तोत्रम्, तथापि विक्रीते करिणि
किमङ्कुशे विवादः इति न्यायेन संहितायामेव तन्त्ररहस्यभूतायां
कार्त्स्न्येन प्रकाशितायां किमनेनाप्रकाशितेनेति समीक्षिकया
कुलपरम्परया समागतमेकमेव तालपत्रमयं
पुस्तकमादर्शीकृत्य समारब्धं मुद्रणम् । अत्रान्तरे
अडयार्पुस्तकालयस्थं देवनागराक्षरलिखितं पुस्तकान्तरमप्यत्र
सहायोऽभूदिति युक्तमस्याहिर्बुध्न्यसंहितापरिशिष्टत्वेन मुद्रणमिति
कृत्वात्र प्रकाश्यते ।
[[६१६]]
भवानशेषविद्यानां पारगस्तपसां निधिः ॥ ५ ॥
विश्वास-प्रस्तुतिः - ६
वेदान्तपारगः सर्वशास्त्रार्थप्रतिभोज्ज्वलः ।
परब्रह्मणि निष्णातः सच्चिदानन्दविग्रहः ॥ ६ ॥
मूलम् - ६
वेदान्तपारगः सर्वशास्त्रार्थप्रतिभोज्ज्वलः ।
परब्रह्मणि निष्णातः सच्चिदानन्दविग्रहः ॥ ६ ॥
विश्वास-प्रस्तुतिः - ७
जगद्धिताय जनितः साक्षादेव चतुर्मुखात् ।
हन्यन्ते भवता दैत्या दैत्यारिभुजविक्रमैः ॥ ७ ॥
मूलम् - ७
जगद्धिताय जनितः साक्षादेव चतुर्मुखात् ।
हन्यन्ते भवता दैत्या दैत्यारिभुजविक्रमैः ॥ ७ ॥
विश्वास-प्रस्तुतिः - ८
कालोऽनुग्रहकर्ता त्वं त्रैलोक्यं त्वद्वशेऽनघ ।
मनुष्या ऋषयो देवास्त्वया जीवन्ति सत्तम ॥ ८ ॥
मूलम् - ८
कालोऽनुग्रहकर्ता त्वं त्रैलोक्यं त्वद्वशेऽनघ ।
मनुष्या ऋषयो देवास्त्वया जीवन्ति सत्तम ॥ ८ ॥
विश्वास-प्रस्तुतिः - ९
कर्तृत्वे लोककार्याणां वरत्वे परिनिष्ठित ।
पृच्छामि त्वामशेषज्ञं निदानं सर्वसम्पदाम् ॥ ९ ॥
मूलम् - ९
कर्तृत्वे लोककार्याणां वरत्वे परिनिष्ठित ।
पृच्छामि त्वामशेषज्ञं निदानं सर्वसम्पदाम् ॥ ९ ॥
विश्वास-प्रस्तुतिः - १०
सर्वसंसारनिर्मुक्तं चिद्घनं शान्तमानसम् ।
यः सर्वलोकहितकृद्यं प्रशंसन्ति योगिनः ॥ १० ॥
मूलम् - १०
सर्वसंसारनिर्मुक्तं चिद्घनं शान्तमानसम् ।
यः सर्वलोकहितकृद्यं प्रशंसन्ति योगिनः ॥ १० ॥
विश्वास-प्रस्तुतिः - ११
इदं चराचरं विश्वं धृतं येन महामुने ।
स्पृहयन्ति च यत्प्रीत्या यस्मै ब्रह्मादिदेवताः ॥ ११ ॥
मूलम् - ११
इदं चराचरं विश्वं धृतं येन महामुने ।
स्पृहयन्ति च यत्प्रीत्या यस्मै ब्रह्मादिदेवताः ॥ ११ ॥
विश्वास-प्रस्तुतिः - १२
निर्माणस्थितिसंहारा यतो विश्वस्य सत्तम ।
यस्य प्रसादाद् ब्रह्माद्या लभन्ते वाञ्छितं फलम् ॥ १२ ॥
मूलम् - १२
निर्माणस्थितिसंहारा यतो विश्वस्य सत्तम ।
यस्य प्रसादाद् ब्रह्माद्या लभन्ते वाञ्छितं फलम् ॥ १२ ॥
विश्वास-प्रस्तुतिः - १३
दारिद्र्यनाशो जायेत यस्मिन् श्रुतिपथं गते ।
विवक्षितार्थनिर्वाहा मुखान्निःसरतीह गीः ॥ १३ ॥
मूलम् - १३
दारिद्र्यनाशो जायेत यस्मिन् श्रुतिपथं गते ।
विवक्षितार्थनिर्वाहा मुखान्निःसरतीह गीः ॥ १३ ॥
विश्वास-प्रस्तुतिः - १४
नृपाणां राज्यहीनानां येन राज्यं भविष्यति ।
अपुत्रः पुत्रवान् येन वन्ध्या पुत्रवती भवेत् ॥ १४ ॥
मूलम् - १४
नृपाणां राज्यहीनानां येन राज्यं भविष्यति ।
अपुत्रः पुत्रवान् येन वन्ध्या पुत्रवती भवेत् ॥ १४ ॥
विश्वास-प्रस्तुतिः - १५
शत्रूणामचिरान्नाशो ज्ञानं ज्ञानैषिणामपि ।
चातुर्वर्गफलं यस्य क्षणाद् भवति सुव्रत ॥ १५ ॥
मूलम् - १५
शत्रूणामचिरान्नाशो ज्ञानं ज्ञानैषिणामपि ।
चातुर्वर्गफलं यस्य क्षणाद् भवति सुव्रत ॥ १५ ॥
[[६१७]]
विश्वास-प्रस्तुतिः - १६
भूतप्रेतपिशाचाद्या यक्षराक्षसपन्नगाः ।
भूतज्वरादिरोगाश्च यस्य स्मरणमात्रतः ॥ १६ ॥
मूलम् - १६
भूतप्रेतपिशाचाद्या यक्षराक्षसपन्नगाः ।
भूतज्वरादिरोगाश्च यस्य स्मरणमात्रतः ॥ १६ ॥
विश्वास-प्रस्तुतिः - १७
मुच्यन्ते मुनिशार्दूल येनाखिलजगद्धृतम् ।
तदेतदिति निश्चित्य सर्वशास्त्रविशारद ॥ १७ ॥
मूलम् - १७
मुच्यन्ते मुनिशार्दूल येनाखिलजगद्धृतम् ।
तदेतदिति निश्चित्य सर्वशास्त्रविशारद ॥ १७ ॥
विश्वास-प्रस्तुतिः - १८
सर्वलोकहितार्थाय ब्रूहि मे सकलं गुरो ।
इत्युक्तस्तेन मुनिना व्यासेनामिततेजसा ॥ १८ ॥
मूलम् - १८
सर्वलोकहितार्थाय ब्रूहि मे सकलं गुरो ।
इत्युक्तस्तेन मुनिना व्यासेनामिततेजसा ॥ १८ ॥
विश्वास-प्रस्तुतिः - १९
बद्धाञ्जलिपुटो भूत्वा सादरं नारदो मुनिः ।
नमस्कृत्य जगन्मूलं लक्ष्मीकान्तं परात् परम् ॥ १९ ॥
मूलम् - १९
बद्धाञ्जलिपुटो भूत्वा सादरं नारदो मुनिः ।
नमस्कृत्य जगन्मूलं लक्ष्मीकान्तं परात् परम् ॥ १९ ॥
विश्वास-प्रस्तुतिः - २०
उवाच परमप्रीतः करुणामृतधारया ।
आप्याययन् मुनीन् सर्वान् व्यासादीन् ब्रह्मतत्परान् ॥ २० ॥
मूलम् - २०
उवाच परमप्रीतः करुणामृतधारया ।
आप्याययन् मुनीन् सर्वान् व्यासादीन् ब्रह्मतत्परान् ॥ २० ॥
नारदः –
विश्वास-प्रस्तुतिः - २१
बहिरन्तस्तमश्छेदि ज्योतिर्वन्दे सुदर्शनम् ।
येनाव्याहतसङ्कल्पं वस्तु लक्ष्मीधरं विदुः ॥ २१ ॥
मूलम् - २१
बहिरन्तस्तमश्छेदि ज्योतिर्वन्दे सुदर्शनम् ।
येनाव्याहतसङ्कल्पं वस्तु लक्ष्मीधरं विदुः ॥ २१ ॥
ॐ अस्य श्रीसुदर्शनसहस्रनामस्तोत्रमहामन्त्रस्य अहिर्बुध्न्यो
भगवानृषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनमहाविष्णुर्देवता, रं
बीजम्, हुं शक्तिः, फट् कीलकम्, रां रीं रूं रैं रौं रः इति
मन्त्रः, श्रीसुदर्शनप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ रां
अङ्गुष्ठाभ्यां नमः, ॐ रीं तर्जनीभ्यां नमः, ॐ रूं
मध्यमाभ्यां नमः, ॐ रैं अनामिकाभ्यां नमः, ॐ रौं
कनिष्ठिकाभ्याम्, ॐ रः करतलकरपृष्ठाभ्यां नमः ।
[[६१८]]
एवं हृदयादिन्यासः – ॐ रां ज्ञानाय हृदयाय नमः, ओ
रीं ऐश्वर्याय शिरसे स्वाहा, ॐ रूं शक्त्यै शिखायै वषट्, ॐ
रैं बलाय कवचाय हुम्, ॐ रौं वीर्यायास्त्राय फट्, ॐ रः तेजसे
नेत्राभ्यां वौषट् ।
अथ दिग्बन्धः – ॐ ठं ठं पूर्वां दिशं चक्रेण
बध्नामि नमश्चक्राय हुं फट् स्वाहा, ॐ ठं ठं आग्नेयीं
दिशं ०, ॐ ठं ठं याम्यां दिशं ०, ॐ ठं ठं नैर्-ऋतीं
दिशं ०, ॐ ठं ठं वारुणीं दिशं ०, ॐ ठं ठं वायवीं
दिशं ०, ॐ ठं ठं कौबेरीं दिशं ०, ॐ ठं ठं ऐशानीं
दिशं ०, ॐ ठं ठं ऊर्ध्वां दिशं ०, ॐ ठं ठं अधरां
दिशं ०, ॐ ठं ठं सर्वां दिशं चक्रेण बध्नामि
नमश्चक्राय हुं फट् स्वाहा । इति दिग्बन्धः ।
ध्यानम् –
कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं
रक्ताक्षं पिङ्गकेशं रिपुकुलभयदं भीमदंष्ट्राट्टहासम् ।
शङ्खं चक्रं गदाब्जं पृथुतरमुसलं चापपाशाङ्कुशादीन्
बिभ्राणं दोर्भिराद्यं मनसि मुररिपोर्भावये चक्रराजम् ॥
शङ्खं चक्रं गदाब्जं शरमसिमिषुधिं चापपाशाङ्कुशादीन्
बिभ्राणं वज्रखेटं हलमुसललसत्कुन्तमत्युग्रदंष्ट्रम् ।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं
ध्यायेत् षट्कोणसंस्थं सकलरिपुजनप्राणसंहारचक्रम् ॥
ककारादीनि षोडश नामानि
[[६१९]]
विश्वास-प्रस्तुतिः - १
कल्याणगुणसम्पन्नः कल्याणवसनोज्ज्वलः ।
कल्याणाचलगम्भीरः कल्याणजनरञ्जकः ॥ १ ॥
मूलम् - १
कल्याणगुणसम्पन्नः कल्याणवसनोज्ज्वलः ।
कल्याणाचलगम्भीरः कल्याणजनरञ्जकः ॥ १ ॥
विश्वास-प्रस्तुतिः - २
कल्याणदोषनाशश्च कल्याणरुचिराङ्गकः ।
कल्याणाङ्गदसम्पन्नः कल्याणाकारसन्निभः ॥ २ ॥
मूलम् - २
कल्याणदोषनाशश्च कल्याणरुचिराङ्गकः ।
कल्याणाङ्गदसम्पन्नः कल्याणाकारसन्निभः ॥ २ ॥
विश्वास-प्रस्तुतिः - ३
करालवदनोऽत्रासी करालाङ्गोऽभयङ्करः ।
करालतनुजोद्दामः करालतनुभेदकः ॥ ३ ॥
मूलम् - ३
करालवदनोऽत्रासी करालाङ्गोऽभयङ्करः ।
करालतनुजोद्दामः करालतनुभेदकः ॥ ३ ॥
विश्वास-प्रस्तुतिः - ४
करञ्जवनमध्यस्थः करञ्जदधिभोजनः ।
करञ्जासुरसंहर्ता करञ्जमधुराङ्गकः ॥ ४ ॥
मूलम् - ४
करञ्जवनमध्यस्थः करञ्जदधिभोजनः ।
करञ्जासुरसंहर्ता करञ्जमधुराङ्गकः ॥ ४ ॥
खकारादीनि दश
विश्वास-प्रस्तुतिः - ५
खञ्जनानन्दजनकः खञ्जनाहारजूषितः ।
खञ्जनायुधभृद् दिव्यखञ्जनाखण्डगर्वहृत् ॥ ५ ॥
मूलम् - ५
खञ्जनानन्दजनकः खञ्जनाहारजूषितः ।
खञ्जनायुधभृद् दिव्यखञ्जनाखण्डगर्वहृत् ॥ ५ ॥
विश्वास-प्रस्तुतिः - ६
खरान्तकः खररुचिः खरदुःखैरसेवितः ।
खरान्तकः खरोदारः खरासुरविभञ्जनः ॥ ६ ॥
मूलम् - ६
खरान्तकः खररुचिः खरदुःखैरसेवितः ।
खरान्तकः खरोदारः खरासुरविभञ्जनः ॥ ६ ॥
गकारादीनि द्वादश
विश्वास-प्रस्तुतिः - ७
गोपालो गोपतिर्गोप्ता गोपस्त्रीनाथरञ्जकः ।
गोजारुणतनुर्गोजो गोजारतिकृतोत्सवः ॥ ७ ॥
मूलम् - ७
गोपालो गोपतिर्गोप्ता गोपस्त्रीनाथरञ्जकः ।
गोजारुणतनुर्गोजो गोजारतिकृतोत्सवः ॥ ७ ॥
विश्वास-प्रस्तुतिः - ८
गम्भीरनाभिर्गम्भीरो गम्भीरार्थसमन्वितः ।
गम्भीरवैद्यमरुतो गम्भीरगुणभूषितः ॥ ८ ॥
मूलम् - ८
गम्भीरनाभिर्गम्भीरो गम्भीरार्थसमन्वितः ।
गम्भीरवैद्यमरुतो गम्भीरगुणभूषितः ॥ ८ ॥
घकारादीन्येकादश
घनरावो घनरुचिर्घनगम्भीरनिस्वनः ।
[[६२०]]
घनाघनौघनाशी च घनसन्तानदायकः ॥ ९ ॥
विश्वास-प्रस्तुतिः - १०
घनरोचिर्घनचरो घनचन्दनचर्चितः ।
घनहेतिर्घनभुजो घनोऽखिलसुरार्चितः ॥ १० ॥
मूलम् - १०
घनरोचिर्घनचरो घनचन्दनचर्चितः ।
घनहेतिर्घनभुजो घनोऽखिलसुरार्चितः ॥ १० ॥
ङकारादीनि चत्वारि
विश्वास-प्रस्तुतिः - ११
ङकारावधिविभवो ङकारो मुनिसम्मतः ।
ङकारवीतसहितो ङकाराकारभूषितः ॥ ११ ॥
मूलम् - ११
ङकारावधिविभवो ङकारो मुनिसम्मतः ।
ङकारवीतसहितो ङकाराकारभूषितः ॥ ११ ॥
चकारादीनि षट्पञ्चाशत्
विश्वास-प्रस्तुतिः - १२
चक्रराजश्चक्रपतिश्चक्राधीशः सुचक्रभूः ।
चक्रसेव्यश्चक्रधरश्चक्रभूषणभूषितः ॥ १२ ॥
मूलम् - १२
चक्रराजश्चक्रपतिश्चक्राधीशः सुचक्रभूः ।
चक्रसेव्यश्चक्रधरश्चक्रभूषणभूषितः ॥ १२ ॥
विश्वास-प्रस्तुतिः - १३
चक्रराजरुचिश्चक्रश्चक्रपालनतत्परः ।
चक्रधृच्चक्रवरदश्चक्रभूषणभूषितः ॥ १३ ॥
मूलम् - १३
चक्रराजरुचिश्चक्रश्चक्रपालनतत्परः ।
चक्रधृच्चक्रवरदश्चक्रभूषणभूषितः ॥ १३ ॥
विश्वास-प्रस्तुतिः - १४
सुचक्रधीः सुचक्राख्यः सुचक्रगुणभुषितः ।
विचक्रश्चक्रनिरतश्चक्रसम्पन्नवैभवः ॥ १४ ॥
मूलम् - १४
सुचक्रधीः सुचक्राख्यः सुचक्रगुणभुषितः ।
विचक्रश्चक्रनिरतश्चक्रसम्पन्नवैभवः ॥ १४ ॥
विश्वास-प्रस्तुतिः - १५
चक्रदोश्चक्रदश्चक्रश्चक्रराजपराक्रमः ।
चक्रनादश्चक्रचरश्चक्रगश्चक्रपाशकृत् ॥ १५ ॥
मूलम् - १५
चक्रदोश्चक्रदश्चक्रश्चक्रराजपराक्रमः ।
चक्रनादश्चक्रचरश्चक्रगश्चक्रपाशकृत् ॥ १५ ॥
विश्वास-प्रस्तुतिः - १६
चक्रव्यापी चक्रगुरुश्चक्रहारी विचक्रभृत् ।
चक्राङ्गश्चक्रमहितश्चक्रवाकगुणाकरः ॥ १६ ॥
मूलम् - १६
चक्रव्यापी चक्रगुरुश्चक्रहारी विचक्रभृत् ।
चक्राङ्गश्चक्रमहितश्चक्रवाकगुणाकरः ॥ १६ ॥
विश्वास-प्रस्तुतिः - १७
आचक्रश्चक्रधर्मज्ञश्चक्रकश्चक्रमर्दनः ।
आचक्रनियमश्चक्रः सर्वपापविधूननः ॥ १७ ॥
मूलम् - १७
आचक्रश्चक्रधर्मज्ञश्चक्रकश्चक्रमर्दनः ।
आचक्रनियमश्चक्रः सर्वपापविधूननः ॥ १७ ॥
चक्रज्वालश्चक्रधरश्चक्रपालितविग्रहः ।
[[६२१]]
चक्रवर्ती चक्रदायी चक्रकारी मदापहः ॥ १८ ॥
विश्वास-प्रस्तुतिः - १९
चक्रकोटिमहानादश्चक्रकोटिसमप्रभः ।
चक्रराजावनचरश्चक्रराजान्तरोज्ज्वलः ॥ १९ ॥
मूलम् - १९
चक्रकोटिमहानादश्चक्रकोटिसमप्रभः ।
चक्रराजावनचरश्चक्रराजान्तरोज्ज्वलः ॥ १९ ॥
विश्वास-प्रस्तुतिः - २०
चञ्चलारातिदमनश्चञ्चलस्वान्तरोमकृत् ।
चञ्चलो मानसोल्लासी चञ्चलाचलभासुरः ॥ २० ॥
मूलम् - २०
चञ्चलारातिदमनश्चञ्चलस्वान्तरोमकृत् ।
चञ्चलो मानसोल्लासी चञ्चलाचलभासुरः ॥ २० ॥
चञ्चलारातिनिरतश्चञ्चलाधिकचञ्चलः ।
छकारादीनि नव
छाययाखिलतापघ्नश्छायामदविभञ्जनः ॥ २१ ॥
विश्वास-प्रस्तुतिः - २२
छायाप्रियोऽधिकरुचिश्छायावृक्षसमाश्रयः ।
छायान्वितश्छाययार्च्यश्छायाधिकसुखप्रदः ॥ २२ ॥
मूलम् - २२
छायाप्रियोऽधिकरुचिश्छायावृक्षसमाश्रयः ।
छायान्वितश्छाययार्च्यश्छायाधिकसुखप्रदः ॥ २२ ॥
छायाम्बरपरीधानश्छायात्मजनमुञ्चितः ।
जकारादीनि षोडश
जलजाक्षीप्रियकरो जलजानन्ददायकः ॥ २३ ॥
विश्वास-प्रस्तुतिः - २४
जलजासिद्धिरुचिरो जलजालसमो भरः ।
जलजालापसंस्तुत्यो जलजाताय मोदकृत् ॥ २४ ॥
मूलम् - २४
जलजासिद्धिरुचिरो जलजालसमो भरः ।
जलजालापसंस्तुत्यो जलजाताय मोदकृत् ॥ २४ ॥
विश्वास-प्रस्तुतिः - २५
जलजाहारचतुरो जलजाराधनोत्सुकः ।
जनकस्तुतिसन्तुष्टो जनकाराधिताधिकः ॥ २५ ॥
मूलम् - २५
जलजाहारचतुरो जलजाराधनोत्सुकः ।
जनकस्तुतिसन्तुष्टो जनकाराधिताधिकः ॥ २५ ॥
विश्वास-प्रस्तुतिः - २६
जनकामोदनपरो जनकानन्ददायकः ।
जनकाध्यानसन्तुष्टहृदयो जनकार्चितः ॥ २६ ॥
मूलम् - २६
जनकामोदनपरो जनकानन्ददायकः ।
जनकाध्यानसन्तुष्टहृदयो जनकार्चितः ॥ २६ ॥
जनकानन्दजननो जनकृद्धृदयाम्बुजः ।
[[६२२]]
झकारादीनि चत्वारि
झञ्झामारुतवेगाढ्यो झञ्झामारुतसङ्गरः ॥ २७ ॥
झञ्झामारुतसंरावो झञ्झामारुतविक्रमः ।
ञकारादिनी द्वे
ञकाराम्बुजमध्यस्थो ञकारकृतसन्निधिः ॥ २८ ॥
टकारादीनि नव
विश्वास-प्रस्तुतिः - २९
टङ्कधारी टङ्कवपुष्टङ्कसंहारकारकः ।
टङ्कच्छिन्नसुवर्णाभष्टङ्कारधनुरुज्ज्वलः ॥ २९ ॥
मूलम् - २९
टङ्कधारी टङ्कवपुष्टङ्कसंहारकारकः ।
टङ्कच्छिन्नसुवर्णाभष्टङ्कारधनुरुज्ज्वलः ॥ २९ ॥
विश्वास-प्रस्तुतिः - ३०
टङ्काराग्निसमाकारष्टङ्काररवमेदुरः ।
टङ्कारकीर्तिभरितष्टङ्कारानन्दवर्धनः ॥ ३० ॥
मूलम् - ३०
टङ्काराग्निसमाकारष्टङ्काररवमेदुरः ।
टङ्कारकीर्तिभरितष्टङ्कारानन्दवर्धनः ॥ ३० ॥
डकारादीन्येकोनविंशतिः
विश्वास-प्रस्तुतिः - ३१
डम्भसंहतिसंहर्ता डम्भसन्ततिवर्धनः ।
डम्भधृग् डम्भहृदयो डम्भदण्डनतत्परः ॥ ३१ ॥
मूलम् - ३१
डम्भसंहतिसंहर्ता डम्भसन्ततिवर्धनः ।
डम्भधृग् डम्भहृदयो डम्भदण्डनतत्परः ॥ ३१ ॥
विश्वास-प्रस्तुतिः - ३२
डिम्भधृग् डिम्भकृड्डिम्भो डिम्भसूदनतत्परः ।
डिम्भपापहरो डिम्भसम्भावितपदाम्बुजः ॥ ३२ ॥
मूलम् - ३२
डिम्भधृग् डिम्भकृड्डिम्भो डिम्भसूदनतत्परः ।
डिम्भपापहरो डिम्भसम्भावितपदाम्बुजः ॥ ३२ ॥
विश्वास-प्रस्तुतिः - ३३
डिम्भरोद्यत्कटम्बाजो डमरुध्यानतत्परः ।
डमरूद्भवसंहर्ता डमरूद्भवनन्दनः ॥ ३३ ॥
मूलम् - ३३
डिम्भरोद्यत्कटम्बाजो डमरुध्यानतत्परः ।
डमरूद्भवसंहर्ता डमरूद्भवनन्दनः ॥ ३३ ॥
विश्वास-प्रस्तुतिः - ३४
डाडिमीवनमध्यस्थो डाडिमीकुसुमप्रियः ।
डाडिमीफलसन्तुष्टो डाडिमीफलवर्जितः ॥ ३४ ॥
मूलम् - ३४
डाडिमीवनमध्यस्थो डाडिमीकुसुमप्रियः ।
डाडिमीफलसन्तुष्टो डाडिमीफलवर्जितः ॥ ३४ ॥
[[६२३]]
ढकारादीन्यष्टौ
विश्वास-प्रस्तुतिः - ३५
ढक्कामनोहरवपुर्ढक्कारवविराजितः ।
ढक्कावाद्येषु निरतो ढक्काधारणतत्परः ॥ ३५ ॥
मूलम् - ३५
ढक्कामनोहरवपुर्ढक्कारवविराजितः ।
ढक्कावाद्येषु निरतो ढक्काधारणतत्परः ॥ ३५ ॥
विश्वास-प्रस्तुतिः - ३६
ढकारबीजसम्पन्नो ढकाराक्षरमेदुरः ।
ढकारमध्यसदनो ढकारविहितान्त्रकः ॥ ३६ ॥
मूलम् - ३६
ढकारबीजसम्पन्नो ढकाराक्षरमेदुरः ।
ढकारमध्यसदनो ढकारविहितान्त्रकः ॥ ३६ ॥
णकारादीनि चत्वारि
विश्वास-प्रस्तुतिः - ३७
णकारबीजवसतिर्णकारवसनोज्ज्वलः ।
णकारातिगभीराङ्गो णकाराराधनप्रियः ॥ ३७ ॥
मूलम् - ३७
णकारबीजवसतिर्णकारवसनोज्ज्वलः ।
णकारातिगभीराङ्गो णकाराराधनप्रियः ॥ ३७ ॥
तकारादीनि चतुर्दश
विश्वास-प्रस्तुतिः - ३८
तरलाक्षीमहाहर्ता तारकासुरहृत्तरिः ।
तरलोज्ज्वलहाराढ्यस्तरलस्वान्तरञ्जकः ॥ ३८ ॥
मूलम् - ३८
तरलाक्षीमहाहर्ता तारकासुरहृत्तरिः ।
तरलोज्ज्वलहाराढ्यस्तरलस्वान्तरञ्जकः ॥ ३८ ॥
विश्वास-प्रस्तुतिः - ३९
तारकासुरसंसेव्यस्तारकासुरमानितः ।
तुरङ्गवदनस्तोत्रसन्तुष्टहृदयाम्बुजः ॥ ३९ ॥
मूलम् - ३९
तारकासुरसंसेव्यस्तारकासुरमानितः ।
तुरङ्गवदनस्तोत्रसन्तुष्टहृदयाम्बुजः ॥ ३९ ॥
विश्वास-प्रस्तुतिः - ४०
तुरङ्गवदनः श्रीमांस्तुरङ्गवदनस्तुतः ।
तमः पटलसञ्छन्नस्तमः सन्ततिमर्दनः ॥ ४० ॥
मूलम् - ४०
तुरङ्गवदनः श्रीमांस्तुरङ्गवदनस्तुतः ।
तमः पटलसञ्छन्नस्तमः सन्ततिमर्दनः ॥ ४० ॥
तमोनुदो जलशयस्तमःसंवर्धनो हरः ।
थकारादीनि चत्वारि
थवर्णमध्यसंवासी थवर्णवरभूषितः ॥ ४१ ॥
थवर्णबीजसम्पन्नस्थवर्णरुचिरालयः ।
[[६२४]]
दकारादीनि दश
दरभृद् दरसाराक्षो दरहृद् दरवञ्चकः ॥ ४२ ॥
विश्वास-प्रस्तुतिः - ४३
दरफुल्लाम्बुजरुचिर्दरचक्रविराजितः ।
दधिसङ्ग्रहणव्यग्रो दधिपाण्डरकीर्तिभृत् ॥ ४३ ॥
मूलम् - ४३
दरफुल्लाम्बुजरुचिर्दरचक्रविराजितः ।
दधिसङ्ग्रहणव्यग्रो दधिपाण्डरकीर्तिभृत् ॥ ४३ ॥
दध्यन्नपूजनरतो दधिवामनमोदकृत् ।
धकारादीनि चतुर्विंशतिः
धन्वी धनप्रियो धन्यो धनाधिपसमञ्चितः ॥ ४४ ॥
विश्वास-प्रस्तुतिः - ४५
धरो धरावनरतो धनधान्यसमृद्धिदः ।
धनञ्जयो धानाध्यक्षो धनदो धनवर्जितः ॥ ४५ ॥
मूलम् - ४५
धरो धरावनरतो धनधान्यसमृद्धिदः ।
धनञ्जयो धानाध्यक्षो धनदो धनवर्जितः ॥ ४५ ॥
विश्वास-प्रस्तुतिः - ४६
धनग्रहणसम्पन्नो धनसम्मतमानसः ।
धनराजवनासक्तो धनराजयशोभरः ॥ ४६ ॥
मूलम् - ४६
धनग्रहणसम्पन्नो धनसम्मतमानसः ।
धनराजवनासक्तो धनराजयशोभरः ॥ ४६ ॥
विश्वास-प्रस्तुतिः - ४७
धनराजमदाहर्ता धनराजसमीडितः ।
धर्मकृद्धर्मघृद्धर्मी धर्मनन्दनसन्नुतः ॥ ४७ ॥
मूलम् - ४७
धनराजमदाहर्ता धनराजसमीडितः ।
धर्मकृद्धर्मघृद्धर्मी धर्मनन्दनसन्नुतः ॥ ४७ ॥
धर्मराजो धनासक्तो धर्मज्ञाकल्पितस्तुतिः ।
नकारादीनि षोडश
नरराजवनायत्तो नरराजाय निर्भरः ॥ ४८ ॥
विश्वास-प्रस्तुतिः - ४९
नरराजस्तुतगुणो नरराजसमुज्ज्वलः ।
नवतामरसोदारो नवतामरसेक्षणः ॥ ४९ ॥
मूलम् - ४९
नरराजस्तुतगुणो नरराजसमुज्ज्वलः ।
नवतामरसोदारो नवतामरसेक्षणः ॥ ४९ ॥
विश्वास-प्रस्तुतिः - ५०
नवतामरसाहारो नवतामरसारुणः ।
नवसौवर्णवसनो नवनाथदयापरः ॥ ५० ॥
मूलम् - ५०
नवतामरसाहारो नवतामरसारुणः ।
नवसौवर्णवसनो नवनाथदयापरः ॥ ५० ॥
[[६२५]]
विश्वास-प्रस्तुतिः - ५१
नवनाथस्तुतनदो नवनाथसमाकृतिः ।
नालिकानेत्रमहितो नालिकावलिराजितः ॥ ५१ ॥
मूलम् - ५१
नवनाथस्तुतनदो नवनाथसमाकृतिः ।
नालिकानेत्रमहितो नालिकावलिराजितः ॥ ५१ ॥
नालिकागतिमध्यस्थो नालिकासनसेवितः ।
पकारादीनिन्यष्टादश
पुण्डरीकाक्षरुचितः पुण्डरीकमदापहः ॥ ५२ ॥
विश्वास-प्रस्तुतिः - ५३
पुण्डरीकमुनिस्तुत्यः पुण्डरीकसुहृद्द्युतिः ।
पुण्डरीकप्रभारम्यः पुण्डरीकनिभाननः ॥ ५३ ॥
मूलम् - ५३
पुण्डरीकमुनिस्तुत्यः पुण्डरीकसुहृद्द्युतिः ।
पुण्डरीकप्रभारम्यः पुण्डरीकनिभाननः ॥ ५३ ॥
विश्वास-प्रस्तुतिः - ५४
पुण्डरीकाक्षसन्मानः पुण्डरीकदयापरः ।
परः परागतिवपुः परानन्दः परात् परः ॥ ५४ ॥
मूलम् - ५४
पुण्डरीकाक्षसन्मानः पुण्डरीकदयापरः ।
परः परागतिवपुः परानन्दः परात् परः ॥ ५४ ॥
विश्वास-प्रस्तुतिः - ५५
परमानन्दजनकः परमान्नाधिकप्रियः ।
पुष्कराक्षकरोदारः पुष्कराक्षः शिवङ्करः ॥ ५५ ॥
मूलम् - ५५
परमानन्दजनकः परमान्नाधिकप्रियः ।
पुष्कराक्षकरोदारः पुष्कराक्षः शिवङ्करः ॥ ५५ ॥
पुष्करव्रातसहितः पुष्करारवसंयुतः ।
अथ फकारादीनि नव
फट्कारतः स्तूयमानः फट्काराक्षरमध्यगः ॥ ५६ ॥
विश्वास-प्रस्तुतिः - ५७
फट्कारध्वस्तदनुजः फट्कारासनसङ्गतः ।
फलहारः स्तुतफलः फलपूजाकृतोत्सवः ॥ ५७ ॥
मूलम् - ५७
फट्कारध्वस्तदनुजः फट्कारासनसङ्गतः ।
फलहारः स्तुतफलः फलपूजाकृतोत्सवः ॥ ५७ ॥
फलदानरतोऽत्यन्तफलसम्पूर्णमानसः ।
बकारादीनि षोडश
बलस्तुतिर्बलाधारो बलभद्रप्रियङ्करः ॥ ५८ ॥
विश्वास-प्रस्तुतिः - ५९
बलवान् बलहारी च बलयुग्वैरिभञ्जनः ।
बलदाता बलधरो बलराजितविग्रहः ॥ ५९ ॥
मूलम् - ५९
बलवान् बलहारी च बलयुग्वैरिभञ्जनः ।
बलदाता बलधरो बलराजितविग्रहः ॥ ५९ ॥
विश्वास-प्रस्तुतिः - ६०
बलाद्बलो बलकरो बलासुरनिषूदनः ।
बलरक्षणनिष्णातो बलसम्मोददायकः ॥ ६० ॥
मूलम् - ६०
बलाद्बलो बलकरो बलासुरनिषूदनः ।
बलरक्षणनिष्णातो बलसम्मोददायकः ॥ ६० ॥
बलसम्पूर्णहृदयो बलसंहारदीक्षितः ।
भकारादीनि चतुर्विंशतिः
बह्वस्तुतो भवपतिर्भवसन्तानदायकः ॥ ६१ ॥
विश्वास-प्रस्तुतिः - ६२
भवध्वंसी भवहरो भवस्तम्भनतत्परः ।
भवरक्षणनिष्णातो भवसन्तोषकारकः ॥ ६२ ॥
मूलम् - ६२
भवध्वंसी भवहरो भवस्तम्भनतत्परः ।
भवरक्षणनिष्णातो भवसन्तोषकारकः ॥ ६२ ॥
विश्वास-प्रस्तुतिः - ६३
भवसागरसञ्छेत्ता भवसिन्धुसुखप्रदः ।
भद्रदो भद्रहृदयो भद्रकार्यसमाश्रितः ॥ ६३ ॥
मूलम् - ६३
भवसागरसञ्छेत्ता भवसिन्धुसुखप्रदः ।
भद्रदो भद्रहृदयो भद्रकार्यसमाश्रितः ॥ ६३ ॥
विश्वास-प्रस्तुतिः - ६४
भद्रश्रीचर्चिततनुर्भद्रश्रीदानदीक्षितः ।
भद्रपादप्रियो भद्रो ह्यभद्रवनभञ्जनः ॥ ६४ ॥
मूलम् - ६४
भद्रश्रीचर्चिततनुर्भद्रश्रीदानदीक्षितः ।
भद्रपादप्रियो भद्रो ह्यभद्रवनभञ्जनः ॥ ६४ ॥
विश्वास-प्रस्तुतिः - ६५
भद्रश्रीगानसरसो भद्रमण्डलमण्डितः ।
भरद्वाजस्तुतपदो भरद्वाजसमाश्रितः ॥ ६५ ॥
मूलम् - ६५
भद्रश्रीगानसरसो भद्रमण्डलमण्डितः ।
भरद्वाजस्तुतपदो भरद्वाजसमाश्रितः ॥ ६५ ॥
भरद्वाजाश्रमरतो भरद्वाजदयाकरः ।
मकारादीनि त्रिपञ्चाशत्
मसारनीलरुचिरो मसारचरणोज्ज्वलः ॥ ६६ ॥
विश्वास-प्रस्तुतिः - ६७
मसारसारसत्कार्यो मसारांशुकभूषितः ।
माकन्दवनसञ्चारी माकन्दजनरञ्जकः ॥ ६७ ॥
मूलम् - ६७
मसारसारसत्कार्यो मसारांशुकभूषितः ।
माकन्दवनसञ्चारी माकन्दजनरञ्जकः ॥ ६७ ॥
माकन्दानन्दमन्दारो माकन्दानन्दबन्धुरः ।
[[६२७]]
मण्डलो मण्डलाधीशो मण्डलात्मा सुमण्डलः ॥ ६८ ॥
विश्वास-प्रस्तुतिः - ६९
मण्डेशो मण्डलान्तमण्डलार्चितमण्डलः ।
मण्डलावनन्ष्णातो मण्डलावरणी घनः ॥ ६९ ॥
मूलम् - ६९
मण्डेशो मण्डलान्तमण्डलार्चितमण्डलः ।
मण्डलावनन्ष्णातो मण्डलावरणी घनः ॥ ६९ ॥
विश्वास-प्रस्तुतिः - ७०
मण्डलस्थो मण्डललाग्र्यो मण्डलाभरणाङ्कितः ।
मधुदानवसंहर्ता मधुमञ्जुलवाग्भरः ॥ ७० ॥
मूलम् - ७०
मण्डलस्थो मण्डललाग्र्यो मण्डलाभरणाङ्कितः ।
मधुदानवसंहर्ता मधुमञ्जुलवाग्भरः ॥ ७० ॥
विश्वास-प्रस्तुतिः - ७१
मधुदानाधिकरतो मधुमङ्गलवैभवः ।
मधुजेता मधुकरो मधुरो मधुराधिपः ॥ ७१ ॥
मूलम् - ७१
मधुदानाधिकरतो मधुमङ्गलवैभवः ।
मधुजेता मधुकरो मधुरो मधुराधिपः ॥ ७१ ॥
विश्वास-प्रस्तुतिः - ७२
मधुवारणसंहर्ता मधुसन्तानकारकः ।
मधुमासातिरुचिरो मधुमासविराजितः ॥ ७२ ॥
मूलम् - ७२
मधुवारणसंहर्ता मधुसन्तानकारकः ।
मधुमासातिरुचिरो मधुमासविराजितः ॥ ७२ ॥
विश्वास-प्रस्तुतिः - ७३
मधुपुष्टो मधुतनुर्मधुगो मधुसंवरः ।
मधुरो मधुराकारो मधुराम्बरभूषितः ॥ ७३ ॥
मूलम् - ७३
मधुपुष्टो मधुतनुर्मधुगो मधुसंवरः ।
मधुरो मधुराकारो मधुराम्बरभूषितः ॥ ७३ ॥
विश्वास-प्रस्तुतिः - ७४
मधुरानगरीनाथो मधुरासुरभञ्जनः ।
मधुराहारनिरतो मधुराह्लाददक्षिणः ॥ ७४ ॥
मूलम् - ७४
मधुरानगरीनाथो मधुरासुरभञ्जनः ।
मधुराहारनिरतो मधुराह्लाददक्षिणः ॥ ७४ ॥
विश्वास-प्रस्तुतिः - ७५
मधुराम्भोजनयनो मधुरधिपसङ्गतः ।
मधुरानन्दचतुरो मधुरारातिसङ्गतः ॥ ७५ ॥
मूलम् - ७५
मधुराम्भोजनयनो मधुरधिपसङ्गतः ।
मधुरानन्दचतुरो मधुरारातिसङ्गतः ॥ ७५ ॥
विश्वास-प्रस्तुतिः - ७६
मधुराभरणोल्लासी मधुराङ्गदभूषितः ।
मृगराजवनीसक्तो मृगमण्डलमण्डितः ॥ ७६ ॥
मूलम् - ७६
मधुराभरणोल्लासी मधुराङ्गदभूषितः ।
मृगराजवनीसक्तो मृगमण्डलमण्डितः ॥ ७६ ॥
मृगादरो मृगपतिर्मृगारातिविदारणः ।
यकारादीनि दश
यज्ञप्रियो यज्ञवपुर्यज्ञसम्प्रीतमानसः ॥ ७७ ॥
[[६२८]]
विश्वास-प्रस्तुतिः - ७८
यज्ञसन्ताननिरतो यज्ञसम्भारसम्भ्रमः ।
यज्ञयज्ञो यज्ञपदो यज्ञसम्पादनोत्सुकः ॥ ७८ ॥
मूलम् - ७८
यज्ञसन्ताननिरतो यज्ञसम्भारसम्भ्रमः ।
यज्ञयज्ञो यज्ञपदो यज्ञसम्पादनोत्सुकः ॥ ७८ ॥
यज्ञशालाकृतावासो यज्ञसम्भावितान्नकः ।
रेफादीनि विंशतिः
रसेन्द्रो रससम्पन्नो रस राजो रसोत्सुकः ॥ ७९ ॥
विश्वास-प्रस्तुतिः - ८०
रसान्वितो रसधरो रसचेलो रसाकरः ।
रसजेता रसश्रेष्ठो रसराजाभिरञ्जितः ॥ ८० ॥
मूलम् - ८०
रसान्वितो रसधरो रसचेलो रसाकरः ।
रसजेता रसश्रेष्ठो रसराजाभिरञ्जितः ॥ ८० ॥
विश्वास-प्रस्तुतिः - ८१
रसतत्त्वसमासक्तो रसदारपराक्रमः ।
रसराजो रसधरो रसेशो रसवल्लभः ॥ ८१ ॥
मूलम् - ८१
रसतत्त्वसमासक्तो रसदारपराक्रमः ।
रसराजो रसधरो रसेशो रसवल्लभः ॥ ८१ ॥
रसनेता रसावासो रसोत्करविराजितः ।
लकारादीन्यष्टौ
लवङ्गपुष्पसन्तुष्टो लवङ्गकुसुमोचितः ॥ ८२ ॥
विश्वास-प्रस्तुतिः - ८३
लवङ्गवनमध्यस्थो लवङ्गकुसुमोत्सुकः ।
लतावलिसमायुक्तो लतारसमर्चितः ॥ ८३ ॥
मूलम् - ८३
लवङ्गवनमध्यस्थो लवङ्गकुसुमोत्सुकः ।
लतावलिसमायुक्तो लतारसमर्चितः ॥ ८३ ॥
लताभिरामतनुभृल्लतातिलकभूषितः ।
वकारादीनि सप्तदश
वीरस्तुतपदाम्भोजो विराजगमनोत्सुकः ॥ ८४ ॥
विश्वास-प्रस्तुतिः - ८५
विराजपत्रमध्यस्थो विराजरससेवितः ।
वरदो वरसम्पन्नो वरसमुन्नतः ॥ ८५ ॥
मूलम् - ८५
विराजपत्रमध्यस्थो विराजरससेवितः ।
वरदो वरसम्पन्नो वरसमुन्नतः ॥ ८५ ॥
वरस्तुतिर्वर्धमानो वरधृद् वरसम्भवः ।
[[६२९]]
वरदानरतो वर्यो वरदानसमुत्सुकः ॥ ८६ ॥
वरदानार्द्रहृदयो वरवारणसंयुतः ।
शकारादीनि पञ्चविंशतिः
शारदास्तुतपादाब्जः शारदाम्भोजकीर्तिभृत् ॥ ८७ ॥
विश्वास-प्रस्तुतिः - ८८
शारदाम्भोजनयनः शारदाध्यक्षसेवितः ।
शारदापीठवसतिः शारदाधिपसन्नुतः ॥ ८८ ॥
मूलम् - ८८
शारदाम्भोजनयनः शारदाध्यक्षसेवितः ।
शारदापीठवसतिः शारदाधिपसन्नुतः ॥ ८८ ॥
विश्वास-प्रस्तुतिः - ८९
शारदावासदमनः शारदावासभासुरः ।
शतक्रतुस्तूयमानः शतक्रतुपराक्रमः ॥ ८९ ॥
मूलम् - ८९
शारदावासदमनः शारदावासभासुरः ।
शतक्रतुस्तूयमानः शतक्रतुपराक्रमः ॥ ८९ ॥
विश्वास-प्रस्तुतिः - ९०
शतक्रतुसमैश्वर्यः शतक्रतुमदापहः ।
शरचापधरः श्रीमान् शरसम्भववैभवः ॥ ९० ॥
मूलम् - ९०
शतक्रतुसमैश्वर्यः शतक्रतुमदापहः ।
शरचापधरः श्रीमान् शरसम्भववैभवः ॥ ९० ॥
विश्वास-प्रस्तुतिः - ९१
शरपाण्डरकीर्तिश्रीः शरत्सारसलोचनः ।
शरसङ्गमसम्पन्नः शरमण्डलमण्डितः ॥ ९१ ॥
मूलम् - ९१
शरपाण्डरकीर्तिश्रीः शरत्सारसलोचनः ।
शरसङ्गमसम्पन्नः शरमण्डलमण्डितः ॥ ९१ ॥
विश्वास-प्रस्तुतिः - ९२
शरातिगः शरधरः शरलालनलालसः ।
शरोद्भवसमाकारः शरयुद्धविशारद ॥ ९२ ॥
मूलम् - ९२
शरातिगः शरधरः शरलालनलालसः ।
शरोद्भवसमाकारः शरयुद्धविशारद ॥ ९२ ॥
शरबृन्दावनरतिः शरसम्मतविक्रमः ।
षकारादीनि षोडश
षट्पदः षट्पदाकारः षट्पदावलिसेवितः ॥ ९३ ॥
विश्वास-प्रस्तुतिः - ९४
षट्पदाकारमधुरः षट्पदी षट्पदोद्धतः ।
षडङ्गवेदविनुतः षडङ्गपदमेदुरः ॥ ९४ ॥
मूलम् - ९४
षट्पदाकारमधुरः षट्पदी षट्पदोद्धतः ।
षडङ्गवेदविनुतः षडङ्गपदमेदुरः ॥ ९४ ॥
विश्वास-प्रस्तुतिः - ९५
षट्पद्मकवितावासः षड्बिन्दुरचितद्युतिः ।
षड्बिन्दुमध्यवसतिः षड्बिन्दुविशदीकृतः ॥ ९५ ॥
मूलम् - ९५
षट्पद्मकवितावासः षड्बिन्दुरचितद्युतिः ।
षड्बिन्दुमध्यवसतिः षड्बिन्दुविशदीकृतः ॥ ९५ ॥
[[६३०]]
विश्वास-प्रस्तुतिः - ९६
षडाम्नायस्तृयमानः षडाम्नायान्तरस्थितः ।
षट्छक्तिमङ्गलवृतः षट्चक्रकृतशेखरः ॥ ९६ ॥
मूलम् - ९६
षडाम्नायस्तृयमानः षडाम्नायान्तरस्थितः ।
षट्छक्तिमङ्गलवृतः षट्चक्रकृतशेखरः ॥ ९६ ॥
सकारादीनि विंशतिः
विश्वास-प्रस्तुतिः - ९७
सारसारसरक्ताङ्गः सारसारसलोचनः ।
सारदीप्तिः सारतनुः सारसाक्षकरप्रियः ॥ ९७ ॥
मूलम् - ९७
सारसारसरक्ताङ्गः सारसारसलोचनः ।
सारदीप्तिः सारतनुः सारसाक्षकरप्रियः ॥ ९७ ॥
विश्वास-प्रस्तुतिः - ९८
सारदीपी सारकृपः सारसावनकृज्ज्वलः ।
सारङ्गसारदमनः सारकल्पितकुण्डलः ॥ ९८ ॥
मूलम् - ९८
सारदीपी सारकृपः सारसावनकृज्ज्वलः ।
सारङ्गसारदमनः सारकल्पितकुण्डलः ॥ ९८ ॥
विश्वास-प्रस्तुतिः - ९९
सारसारण्यवसतिः सारसारवमेदुरः ।
सारगानप्रियः सारः सारसारसुपण्डितः ॥ ९९ ॥
मूलम् - ९९
सारसारण्यवसतिः सारसारवमेदुरः ।
सारगानप्रियः सारः सारसारसुपण्डितः ॥ ९९ ॥
विश्वास-प्रस्तुतिः - १००
सद्रक्षकः सदामोदी सदानन्दनदेशिकः ।
सद्वैद्यवन्द्यचरणः सद्वैद्योज्ज्वलमानसः ॥ १०० ॥
मूलम् - १००
सद्रक्षकः सदामोदी सदानन्दनदेशिकः ।
सद्वैद्यवन्द्यचरणः सद्वैद्योज्ज्वलमानसः ॥ १०० ॥
हकारादीनि चतुःषष्टिः
विश्वास-प्रस्तुतिः - १०१
हरिजेता हरिरथो हरिसेवापरायणः ।
हरिवर्णो हरिचरो हरिगो हरिवत्सलः ॥ १०१ ॥
मूलम् - १०१
हरिजेता हरिरथो हरिसेवापरायणः ।
हरिवर्णो हरिचरो हरिगो हरिवत्सलः ॥ १०१ ॥
विश्वास-प्रस्तुतिः - १०२
हरिद्रो हरिसंस्तोता हरिध्यानपरायणः ।
हरिकल्पान्तसंहर्ता हरिसारसमुज्ज्वलः ॥ १०२ ॥
मूलम् - १०२
हरिद्रो हरिसंस्तोता हरिध्यानपरायणः ।
हरिकल्पान्तसंहर्ता हरिसारसमुज्ज्वलः ॥ १०२ ॥
विश्वास-प्रस्तुतिः - १०३
हरिचन्दनलिप्ताङ्गो हरिमानससम्मतः ।
हरिकारुण्यनिरतो हंसमोचनलालसः ॥ १०३ ॥
मूलम् - १०३
हरिचन्दनलिप्ताङ्गो हरिमानससम्मतः ।
हरिकारुण्यनिरतो हंसमोचनलालसः ॥ १०३ ॥
विश्वास-प्रस्तुतिः - १०४
हरिपुत्राभयकरो हरिपुत्रसमञ्चितः ।
हरिधारणसान्निध्यो हरिसम्मोददायकः ॥ १०४ ॥
मूलम् - १०४
हरिपुत्राभयकरो हरिपुत्रसमञ्चितः ।
हरिधारणसान्निध्यो हरिसम्मोददायकः ॥ १०४ ॥
हेतिराजो हेतिधरो हेतिनायकसंस्तुतः ।
[[६३१]]
हेतिर्हरिर्हेतिवपुर्हेतिहा हेतिवर्धनः ॥ १०५ ॥
विश्वास-प्रस्तुतिः - १०६
हेतिहन्ता हेतियुद्धकरो हेतिविभूषणः ।
हेतिदाता हेतिपरो हेतिमार्गप्रवर्तकः ॥ १०६ ॥
मूलम् - १०६
हेतिहन्ता हेतियुद्धकरो हेतिविभूषणः ।
हेतिदाता हेतिपरो हेतिमार्गप्रवर्तकः ॥ १०६ ॥
विश्वास-प्रस्तुतिः - १०७
हेतिसन्ततिसम्पूर्णो हेतिमण्डलमण्डितः ।
हेतिदानपरः सर्वहेत्युग्रपरिभूषितः ॥ १०७ ॥
मूलम् - १०७
हेतिसन्ततिसम्पूर्णो हेतिमण्डलमण्डितः ।
हेतिदानपरः सर्वहेत्युग्रपरिभूषितः ॥ १०७ ॥
विश्वास-प्रस्तुतिः - १०८
हंसरूपी हंसगतिर्हंससन्नुतवैभवः ।
हंसमार्गरतो हंसरक्षको हंसनायकः ॥ १०८ ॥
मूलम् - १०८
हंसरूपी हंसगतिर्हंससन्नुतवैभवः ।
हंसमार्गरतो हंसरक्षको हंसनायकः ॥ १०८ ॥
विश्वास-प्रस्तुतिः - १०९
हंसदृग्गोचरतनुर्हंससङ्गीततोषितः ।
हंसजेता हंसपतिर्हंसगो हंसवाहनः ॥ १०९ ॥
मूलम् - १०९
हंसदृग्गोचरतनुर्हंससङ्गीततोषितः ।
हंसजेता हंसपतिर्हंसगो हंसवाहनः ॥ १०९ ॥
विश्वास-प्रस्तुतिः - ११०
हंसजो हंसगमनो हंसराजसुपूजितः ।
हंसवेगो हंसधरो हंससुन्दरविग्रहः ॥ ११० ॥
मूलम् - ११०
हंसजो हंसगमनो हंसराजसुपूजितः ।
हंसवेगो हंसधरो हंससुन्दरविग्रहः ॥ ११० ॥
विश्वास-प्रस्तुतिः - १११
हंसवत् सुन्दरतनुर्हंससङ्गतमानसः ।
हंसस्वरूपसारज्ञो हंससन्नतमानसः ॥ १११ ॥
मूलम् - १११
हंसवत् सुन्दरतनुर्हंससङ्गतमानसः ।
हंसस्वरूपसारज्ञो हंससन्नतमानसः ॥ १११ ॥
विश्वास-प्रस्तुतिः - ११२
हंससंस्तुतसामर्थ्यो हरिरक्षणतत्परः ।
हंससंस्तुतमाहात्म्यो हरपुत्रपराक्रमः ॥ ११२ ॥
मूलम् - ११२
हंससंस्तुतसामर्थ्यो हरिरक्षणतत्परः ।
हंससंस्तुतमाहात्म्यो हरपुत्रपराक्रमः ॥ ११२ ॥
क्षकारादीनि द्वादश नामानि
विश्वास-प्रस्तुतिः - ११३
क्षीरार्णवसमुद्भूतः क्षीरसम्भवभावितः ।
क्षीराब्धिनाथसंयुक्तः क्षीरकीर्तिविभासुरः ॥ ११३ ॥
मूलम् - ११३
क्षीरार्णवसमुद्भूतः क्षीरसम्भवभावितः ।
क्षीराब्धिनाथसंयुक्तः क्षीरकीर्तिविभासुरः ॥ ११३ ॥
विश्वास-प्रस्तुतिः - ११४
क्षणदारवसंहर्ता क्षणदारवसम्मतः ।
क्षणदाधीशसंयुक्तः क्षणदानकृतोत्सवः ॥ ११४ ॥
मूलम् - ११४
क्षणदारवसंहर्ता क्षणदारवसम्मतः ।
क्षणदाधीशसंयुक्तः क्षणदानकृतोत्सवः ॥ ११४ ॥
क्षीराभिषेकसन्तुष्ट क्षीरपानाभिलाषुकः ।
[[६३२]]
क्षीराज्यभोजनासक्तः क्षीरसम्भववर्णकः ॥ ११५ ॥
फलश्रुतिः
विश्वास-प्रस्तुतिः - ११६
इत्येतत् कथितं दिव्यं सर्वपापप्रणाशनम् ।
सर्वशत्रुक्षयकरं सर्वसम्पत्प्रदायकम् ॥ ११६ ॥
मूलम् - ११६
इत्येतत् कथितं दिव्यं सर्वपापप्रणाशनम् ।
सर्वशत्रुक्षयकरं सर्वसम्पत्प्रदायकम् ॥ ११६ ॥
विश्वास-प्रस्तुतिः - ११७
सर्वसौभाग्यजनकं सर्वमङ्गलकारकम् ।
सर्वादारिद्र्यशमनं सर्वोपद्रवनाशनम् ॥ ११७ ॥
मूलम् - ११७
सर्वसौभाग्यजनकं सर्वमङ्गलकारकम् ।
सर्वादारिद्र्यशमनं सर्वोपद्रवनाशनम् ॥ ११७ ॥
विश्वास-प्रस्तुतिः - ११८
सर्वशान्तिकरण् गुह्यं सर्वरोगनिवारणम् ।
अतिबन्धग्रहहरं सर्वदुःखनिवारकम् ॥ ११८ ॥
मूलम् - ११८
सर्वशान्तिकरण् गुह्यं सर्वरोगनिवारणम् ।
अतिबन्धग्रहहरं सर्वदुःखनिवारकम् ॥ ११८ ॥
नाम्नां सहस्रं दिव्यानां चक्रराजस्य तत्पतेः ।
विश्वास-प्रस्तुतिः - ११९
नामानि हेतिराजस्य ये पठन्तीह मानवाः ।
तेषां भवन्ति सकलाः सम्पदो नात्र संशयः ॥ ११९ ॥
मूलम् - ११९
नामानि हेतिराजस्य ये पठन्तीह मानवाः ।
तेषां भवन्ति सकलाः सम्पदो नात्र संशयः ॥ ११९ ॥
इत्यहिर्बुध्न्यसंहितायां तन्त्ररहस्ये व्यासनारदसंवादे
श्रीसुदर्शनसहस्रनामस्तोत्रं सम्पूर्णम् (१)
१ यथोक्तानां नाम्नां परिगणने, तेषां सङ्ख्या षष्ट्युत्तराणि
पञ्चशतानि नातिक्रामति । तत्र किमेतावत्स्वेव नामसु
सहस्रनामशब्द औपचारिकः प्रयुक्तः, उत मध्ये मध्ये
ग्रन्थलोपान्नामसहस्रसङ्ख्याया अपूर्तिरिति । प्रबलतरेण प्रमाणेन
विना सहस्रनामशब्दस्यौपचारिकत्वकल्पनानौचित्यं
ग्रन्थलोपावश्यकतामुद्भावयति । आदर्शीकृतयोरज्ञातपरस्पर-
वृत्तान्तयोर्भिन्नदेशादानीतयोर्द्वयोर्मातृकाकोशयोर्दैवादापतित-
मैकरूप्यं तु ग्रन्थलोपसद्भावशङ्कां प्रतिरुणद्धि ।